महाभारतम्-06-भीष्मपर्व-090

← भीष्मपर्व-089 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-090
वेदव्यासः
भीष्मपर्व-091 →

अर्जुनात्मजेन इरावता शकुनेरनुजानां वधः ।। 1 ।। आर्श्चशृङ्गिनाम्ना राक्षसेन इरावतो वधः ।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
सञ्जय उवाच। 6-90-1x
वर्तमाने तथा रौद्रे राजन्वीरवरक्षये।
शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ।।
6-90-1a
6-90-1b
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा।
अभ्यद्रवत संग्रामे पाण्डवानां वरूथिनीम् ।।
6-90-2a
6-90-2b
ततः काम्भोजमुख्यानां नदीजानां च वाजिनाम् ।
आरट्टानां महीजानां सिन्धुजानां च सर्वशः ।।
6-90-3a
6-90-3b
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् ।
वाजिनां बहुभिः सङ्ख्ये समन्तात्परिवारयन् ।।
6-90-4a
6-90-4b
ये चापरे तित्तिरिजा जवना वातरंहसः ।
सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः ।।
6-90-5a
6-90-5b
हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली ।
अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपाः ।।
6-90-6a
6-90-6b
अर्जुनस्य सुतः श्रीमानिरावान्नाम वीर्यवान् ।
सुतायां नागराजस्य जातः पार्थेन धीमता ।।
6-90-7a
6-90-7b
ऐरावतेन सा दत्ता अनपत्या महात्मना ।
पत्यौ हते सुपर्णेन कृपणा दीनचेतना ।।
6-90-8a
6-90-8b
कार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् ।
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ।।
6-90-9a
6-90-9b
स नागलोके संवृद्धो मात्रा च परिरक्षितः ।
पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ।।
6-90-10a
6-90-10b
खमुत्पत्य महाराज नागराट् सत्यविक्रमः ।
इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ।।
6-90-11a
6-90-11b
सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः ।
अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ।।
6-90-12a
6-90-12b
न्यवेदयत चात्मानमर्जुनस्य महात्मनः ।
इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो ।।
6-90-13a
6-90-13b
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् ।
तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ।।
6-90-14a
6-90-14b
परिष्वज्य सुतं चापि आत्मनः सदृशं गुणैः ।
प्रीतिमाननयत्पार्थो देवराजनिवेशनम् ।।
6-90-15a
6-90-15b
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप ।
प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ।।
6-90-16a
6-90-16b
`स चापि नरशार्दूलः शार्दूलसमविक्रमः।'
अब्रवीच्च तदा पार्थमयमस्मि तवानघ ।।
6-90-17a
6-90-17b
स्थितः प्रेष्यश्च पुत्रश्च सर्वथा त्वं प्रशाधि माम् ।
कं करोमि च ते कामं कं च कामं त्वमिच्छसि ।।
6-90-18a
6-90-18b
परिष्वज्य सुतं प्रेम्णा वासविः प्रत्युवाच तम्।
प्रीतिपूर्वं च कार्यं च कार्या प्रीतिश्च मानदः ।।'
6-90-19a
6-90-19b
युद्धकाले तु साहाय्यं दातव्यं नो भवेदिति ।
बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः ।।
6-90-20a
6-90-20b
कामवर्णजवैरश्वैः सर्वतः शुशुभे वृतः ।
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः ।।
6-90-21a
6-90-21b
उत्पेतुः सहसा राजन्हंसा इव महोदधौ ।
ते त्वदीयान्समासाद्य हयसंघान्मनोजवान् ।।
6-90-22a
6-90-22b
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् ।
निपेतुः सहसा राजन्सुवेगाभिहता भुवि ।।
6-90-23a
6-90-23b
निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् ।
शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ।।
6-90-24a
6-90-24b
तथैव तावका राजन्समेत्यान्योन्यमाहवे ।
परस्परवधं घोरं चक्रुस्ते हयसादिनः ।।
6-90-25a
6-90-25b
तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् ।
उभयोरपि संशान्ता हयसङ्घाः समन्ततः ।।
6-90-26a
6-90-26b
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः ।
विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ।।
6-90-27a
6-90-27b
ततः क्षीणे हयानिके किंचिच्छेषे च भारत ।
सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि ।।
6-90-28a
6-90-28b
वायुवेगसमस्पर्शाञ्जवे वायुसमांश्च ते।
आरुह्य बलसंपन्नान्वयःस्थांस्तुरगोत्तमान् ।।
6-90-29a
6-90-29b
गजो गवाक्षो वृषकश्चर्मवानार्जयः शुकः।
षडेते बलसंपन्ना निर्ययुर्महतो बलात् ।।
6-90-30a
6-90-30b
वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः ।
सन्नद्धा युद्धकुशला रौद्ररूपा महाबलाः ।।
6-90-31a
6-90-31b
तदनीकं महाबहो भित्त्वा परमदुर्जयम् ।
बलेन महता युक्ताः स्वर्गाय विजयैषिणः ।।
6-90-32a
6-90-32b
विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ।
तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् ।।
6-90-33a
6-90-33b
अब्रवीत्समरे योधान्स्वान्विचित्रहयस्थितान् ।
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः ।।
6-90-34a
6-90-34b
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् ।
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः ।।
6-90-35a
6-90-35b
जघ्नुस्तेषां बलानीकं दुर्जयं समरे परैः ।
तदनीकमनीकेन समरे वीक्ष्य पातितम् ।।
6-90-36a
6-90-36b
अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे ।
इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ।।
6-90-37a
6-90-37b
ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम्।
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ।।
6-90-38a
6-90-38b
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः ।
स्रवता रुधिरेणाक्तस्तोत्रैर्विद्ध इव द्विपः ।।
6-90-39a
6-90-39b
उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः ।
एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ।।
6-90-40a
6-90-40b
इरावानपि संक्रुद्धः सर्वास्तान्निशितैः शरैः ।
मोहयामास समरे विद्ध्वा परपुरंजयः ।।
6-90-41a
6-90-41b
प्रासानुत्कृष्य तरसा स्वशरीरादरिन्दमः ।
तैरेव ताडयामास सुबलस्यात्मजान्रणे ।।
6-90-42a
6-90-42b
विकृष्य च शितं खङ्गं गृहीत्वा च शरावरम् ।
पदातिर्द्रुतमागच्छज्जिघांसुः सौबलान्युधि ।।
6-90-43a
6-90-43b
ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः ।
भूयः क्रोधसमाविष्टा इरावन्तमभिद्रुताः ।।
6-90-44a
6-90-44b
इरावानपि खङ्गेन दर्शयन्पाणिलाघवम् ।
अभ्यवर्तत देवांश्च मानुषांश्चैव संयुगे ।।
6-90-45a
6-90-45b
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः ।
अन्तरं नाभ्यगच्छन्त चरन्तः शीघ्रगैर्हयैः ।।
6-90-46a
6-90-46b
भूमिष्ठमथ तं सह्ख्ये ह्यन्तरिक्षादवप्लुतम् ।
परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ।।
6-90-47a
6-90-47b
अथाभ्याशगतानां तेषां गात्राण्यकृन्तत ।
असिहस्तोऽस्त्रहस्तानां तेषां गात्राण्यकृन्तत ।।
6-90-48a
6-90-48b
आयुधानि च सर्वेषां बाहूनपि विभूषितान्।
अपतन्त निकृत्ताङ्गा मृता भूमौ गतासवः ।।
6-90-49a
6-90-49b
वृषकस्तु महाराज बहुधा विपरिक्षतः।
अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ।।
6-90-50a
6-90-50b
तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः।
अभ्यधावत संक्रुद्धो राक्षसं घोरदर्शनम् ।।
6-90-51a
6-90-51b
आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम्।
वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ।।
6-90-52a
6-90-52b
पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली।
मायावी विप्रियं कर्तुमकार्षीन्मे बलक्षयम् ।।
6-90-53a
6-90-53b
त्वं च कामगमस्तात मायास्त्रे च विशारदः ।
कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ।।
6-90-54a
6-90-54b
बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः ।
प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ।।
6-90-55a
6-90-55b
स योधैर्युद्धकुशलैर्विमलप्रासयोधिभिः ।
वीरैः प्रहारिभिर्युक्तैः स्वैरनीकैः समावृतः ।।
6-90-56a
6-90-56b
[हतशेषैर्महाराज द्विसाहस्त्रैर्हयोत्तमैः]
निहन्तुकामः समरे इरावन्तं महाबलम् ।।
6-90-57a
6-90-57b
इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी
हन्तुकाममयित्रघ्नो राक्षसं प्रत्यवारयत् ।।
6-90-58a
6-90-58b
तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः।
त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ।।
6-90-59a
6-90-59b
तेन मायामयाः सृष्टा हयास्तावन्त एव हि।
स्वारूढा राक्षसैर्घोरैः शूलपट्टसधारिभिः ।।
6-90-60a
6-90-60b
ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः।
अचिराद्गमयामासुः प्रेतलोकं परस्परम् ।।
6-90-61a
6-90-61b
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ।
संग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ ।।
6-90-62a
6-90-62b
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् ।
इरावाथ संरब्धः प्रत्यधावन्महाबलः ।।
6-90-63a
6-90-63b
समभ्याशगतस्याजौ तस्य खङ्गेन दुर्मदः ।
चिच्छेद कार्मुकं दीप्तं शरवापं च कञ्चुकम् ।।
6-90-64a
6-90-64b
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत्।
इरावन्तमभिक्रुद्धं मोहयन्निव मायया ।।
6-90-65a
6-90-65b
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम्।
विमोहयित्वा मायाभिसत्स्य गात्रामि सायकैः ।।
6-90-66a
6-90-66b
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः ।
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः ।।
6-90-67a
6-90-67b
संबभूव महाराज समवाप च यौवनम् ।
माया हि सहराज समवाप च यौवनम् ।।
6-90-68a
6-90-68b
एवं तद्राक्षसस्याङ्गं छिन्नंछिन्नं व्यरोहत ।
इरावानपि संक्रुद्धो राक्षसं त महाबलम् ।।
6-90-69a
6-90-69b
परश्वथेन तीक्ष्णेन चिच्छेद च पुनः पुनः ।
स तेन बलिना वीरश्छिद्यमान इव द्रुमः ।।
6-90-70a
6-90-70b
राक्षसो व्यनदद्धोरं स शब्दस्तुमुलोऽभवत्।
परश्वथक्षतं रक्षः सुस्राव बहुशोणितम् ।।
6-90-71a
6-90-71b
ततश्रुक्रोध बलवांश्चक्रे वेगं च संयुगे।
आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्चितम् ।।
6-90-72a
6-90-72b
कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे ।
अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम् ।।
6-90-73a
6-90-73b
संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्।
तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः ।।
6-90-74a
6-90-74b
इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे।
तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः ।।
6-90-75a
6-90-75b
योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान्।
स नागैर्बहुभी राजन्निरावान्संवृतो रणे ।।
6-90-76a
6-90-76b
दधार सुमहद्रूपमनन्त इव भोगवान्।
ततो बहुविधैर्नागैश्छादयामास राक्षसम् ।।
6-90-77a
6-90-77b
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः।
सौपर्णं रूपमास्थाय भक्षयामास पन्नगम् ।।
6-90-78a
6-90-78b
मायया भक्षिते तस्मिन्नन्वये तस्य मातृके ।
विमोहितमिरावन्तं न्यहनद्राक्षसोऽसिना ।।
6-90-79a
6-90-79b
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् ।
इरावतः शिरो रक्षः पातयामास भूतले ।।
6-90-80a
6-90-80b
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे।
विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ।।
6-90-81a
6-90-81b
तस्मिन्महति संग्रामे तादृशे भैरवे पुनः।
महान्व्यतिकरो घोरः सेनयोः समपद्यत ।।
6-90-82a
6-90-82b
गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः ।
रथाश्वा दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ।।
6-90-83a
6-90-83b
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे।
रथिभिर्निहता राजंस्तव तेषां च संकुले ।।
6-90-84a
6-90-84b
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम्।
जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ।।
6-90-85a
6-90-85b
तथैव तावका राजन्सृञ्जयाश्च सहस्रशः।
जुह्वतः समरे प्राणान्निजघ्रुरितरेतरम् ।।
6-90-86a
6-90-86b
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।
बाहुभिः समयुध्यन्त समवेताः परस्परम् ।।
6-90-87a
6-90-87b
तथा मर्मातिगैर्भीष्मो निजघान महारथान्।
कम्पयन्समरे सेनां पाण्डवानां परंतपः ।।
6-90-88a
6-90-88b
तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः।
दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ।।
6-90-89a
6-90-89b
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् ।
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ।।
6-90-90a
6-90-90b
तथैव भीमसेनस्य पार्षतस्य च भारत।
रौद्रमासीद्रणे युद्धं सात्यकस्य च धन्विनः ।।
6-90-91a
6-90-91b
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् ।
एक एव रणे शक्तो निहन्तुं सर्वसैनिकान् ।।
6-90-92a
6-90-92b
किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः।
इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः।।
6-90-93a
6-90-93b
वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ ।
उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ।।
6-90-94a
6-90-94b
आविष्टा इव युध्यन्ते रक्षोभूतैर्महाबलैः ।
तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ।।
6-90-95a
6-90-95b
न स्म पश्यामहे कंचित्प्राणान्यः परिरक्षति।
दैवासुराभे समरे तस्मिन्योधा नराधिप ।।
6-90-96a
6-90-96b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
अष्टमदिवसयुद्धे नवतितमोऽध्यायः ।।

सम्पाद्यताम्

6-90-3 वाजिनां वेगवतां वाजिनामश्वानां बहुभिर्गणैः परिवारयन्निति गणशब्दाध्याहारेण द्वयोः संबन्धः ।। 6-90-6 पाण्डवस्यार्जुनस्य सुत इरावान् ।। 6-90-7 नागराजस्य ऐरावतस्य ।। 6-90-10 पितृव्येण अश्वसेनेन ।। 6-90-57 अयमर्धः श्लोको दाक्षिणात्यकोशेषु नास्ति खo झo पुस्तकयोरस्ति ।। 6-90-95 आविष्टाः ग्रहाद्याविष्टाः ।।

भीष्मपर्व-089 पुटाग्रे अल्लिखितम्। भीष्मपर्व-091