महाभारतम्-06-भीष्मपर्व-117

← भीष्मपर्व-116 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-117
वेदव्यासः
भीष्मपर्व-118 →

संकुलयुद्धवर्णनम् ।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
सञ्जय उवाच। 6-117-1x
शिखण्डी तु रणे भीष्ममासाद्य पुरुषर्षभम् ।
दशभिर्निशितैर्भल्लैराजघान स्तनान्तरे ।।
6-117-1a
6-117-1b
शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा ।
संप्रेक्षत कटाक्षेण निर्दहन्निव भारत ।।
6-117-2a
6-117-2b
स्त्रीत्वं तस्य स्मरन्राजन्सर्वलोकस्य पश्यतः।
नाजघान रणे भीष्मः स च तन्नावबुद्धवान् ।।
6-117-3a
6-117-3b
अर्जुनस्तु महाराज शिखण्डिनमभाषत ।
अभित्वरस्वास्य वधे शिखण्डिन्रथसत्तम ।।
6-117-4a
6-117-4b
किं ते विवक्षया वीर जहि भीष्मं महारथम् ।
न ह्यन्यमनुपश्यामि कंचिद्यौधिष्ठिरे बले ।।
6-117-5a
6-117-5b
यः शक्तः समरे भीष्मं योधयेत पितामहम् ।
ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ।।
6-117-6a
6-117-6b
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।
शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ।।
6-117-7a
6-117-7b
अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव ।
अर्जुनं समरे क्रुद्धं वारयामास सायकैः ।।
6-117-8a
6-117-8b
तथैव च चमूं सर्वां पाण्डवानां महारथः ।
अप्रैषीत्स शरैस्तीक्ष्णैः परलोकाय मारिष ।।
6-117-9a
6-117-9b
तथैव पाण्डवा राजन्सैन्येन महता वृताः ।
भीष्मं संछादयामासुर्मेघा इव दिवाकरम् ।।
6-117-10a
6-117-10b
स समन्तात्परिवृतो भीष्मो हि भरतर्षभ ।
निर्ददाह रणे शूरान्वने वह्निरिव ज्वलन् ।।
6-117-11a
6-117-11b
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् ।
अयोधयच्च यत्पार्थं जुगोप च पितामहम् ।।
6-117-12a
6-117-12b
कर्मणा तेन समरे तव पुत्रस्य धन्विनः ।
दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ।।
6-117-13a
6-117-13b
यदेकः समरे पार्थान्सानुगान्समयोधयत् ।
न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम् ।।
6-117-14a
6-117-14b
दुःशासनेन समरे रथिनो विरथीकृताः ।
सादिनश्च महेष्वासा हस्तिनश्च महाबलाः ।।
6-117-15a
6-117-15b
विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्वसुधातले ।
शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ।।
6-117-16a
6-117-16b
यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणम् ।
तथा जज्वाल पुत्रस्ते पाण्डुसेनां विनिर्दहन् ।।
6-117-17a
6-117-17b
तं भारतमहामात्रं पाण्डवानां महारथः ।
जेतुं नोत्सहते कश्चिन्नाभ्युद्यातुं कथंचन ।।
6-117-18a
6-117-18b
ऋते महेन्द्रतनयाच्छ्वेताश्वात्कृष्णसारथेः ।
स हि तं समरे राजन्निर्जित्य विजयोऽर्जुनः ।।
6-117-19a
6-117-19b
भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ।
विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः ।।
6-117-20a
6-117-20b
पुनः पुनः समाश्वस्य प्रायुध्यत मदोत्कटः ।
अर्जुनस्तु रणे राजन्योधयन्संव्यराजत ।।
6-117-21a
6-117-21b
शिखण्डी तु रणे राजन्विव्याधैव पितामहम् ।
शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ।।
6-117-22a
6-117-22b
न च स्म ते रुजं चक्रुः पितुस्तव जनेश्वर ।
स्मय्रमानस्तु गाङ्गेयस्तान्बाणाञ्जगृहे तदा ।।
6-117-23a
6-117-23b
उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति ।
तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ।।
6-117-24a
6-117-24b
तं क्षत्रिया महाराज ददृशुर्घोरमाहवे।
भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनां ।।
6-117-25a
6-117-25b
ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष ।
अभिद्रवत संग्रामे फल्गुनं सर्वतो रणे ।।
6-117-26a
6-117-26b
भीष्मो वः समरे सर्वान्पायिष्यति धर्मवित्।
तद्भयं सुमहत्त्यक्त्वा पाण्डवान्प्रति युध्यत ।।
6-117-27a
6-117-27b
एष तालेन महता भीष्मस्तिष्ठति पालयन्।
सर्वेषां धार्तराष्ट्राणां समरे शर्म वर्म च ।।
6-117-28a
6-117-28b
देवा अपि समुद्युक्ता नालं भीष्मं समासितुम् ।
किमु पार्था महात्मानं मर्त्यभूता महाबलाः ।।
6-117-29a
6-117-29b
तस्माद्द्रवत मा योधाः फल्गुनं प्राप्य संयुगे ।
अहमद्य रणे यत्तो योधयिष्यामि पाण्डवम् ।।
6-117-30a
6-117-30b
सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपैः ।
तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः ।।
6-117-31a
6-117-31b
अर्जुनं प्रति संयत्ता बलवन्तो महाबलाः ।
ते विदेहाः कलिङ्गाश्च दासेरकगणाश्च ह ।।
6-117-32a
6-117-32b
अभिपेतुर्निषादाश्च सौवीराश्च महारणे ।
बाह्लीका दरदाश्चैव प्रतीच्योदीच्यमालवाः ।।
6-117-33a
6-117-33b
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।
साल्वः शकास्त्रिगर्ताश्च अम्बष्ठाः केकयौः सह ।।
6-117-34a
6-117-34b
अभिपेतू रणे पार्थं पतङ्गा इव पावकम् ।
स तान्सर्वान्सहानीकान्महाराज महारथान् ।।
6-117-35a
6-117-35b
दिव्यान्यस्त्राणि संचिन्त्य प्रसंधाय धनञ्जयः ।
स तैरस्त्रैर्महावेगैर्ददाह सुमहाबलः ।।
6-117-36a
6-117-36b
शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः ।
तस्य बाणसहस्राणि सृजतो दृढधन्विनः ।।
6-117-37a
6-117-37b
दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत।
ते शरार्ता महाराज विप्रकीर्णमहाध्वजाः ।।
6-117-38a
6-117-38b
नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् ।
सध्वजा रथिनः पेतुर्हयारोहा हयैः सह ।।
6-117-39a
6-117-39b
सगजाश्च गजारोहाः किरीटिशरताडिताः ।
ततोऽर्जुनभुजोत्सृष्टैरावृताऽऽसीद्वसुंधरा ।।
6-117-40a
6-117-40b
विद्रुतं दिक्षु सर्वासु शरैर्बलमदृश्यत ।
अथ पार्थो महाराज द्रावयित्वा वरूथिनीम् ।।
6-117-41a
6-117-41b
दुःशासनाय सुबहून्प्रेषयामास सायकान् ।
ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः ।।
6-117-42a
6-117-42b
धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः ।
हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ।।
6-117-43a
6-117-43b
विविंशतिं च विंशत्या विरथीकृतवान्प्रभुः ।
आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ।।
6-117-44a
6-117-44b
कृपं विकर्णं शल्यं च विद्ध्वा बहुभिरायसैः ।
चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ।।
6-117-45a
6-117-45b
एवं ते विरथाः सर्वे कृपः शल्यश्च मारिष ।
दुःशासनो विकर्णश्च तथैव च विविंशतिः ।।
6-117-46a
6-117-46b
संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना ।
पूर्वाह्णे भरतश्रेष्ठ पराजित्य महारथान् ।।
6-117-47a
6-117-47b
प्रजज्वाल रणे पार्थो विधूम इव पावकः ।
तथैव शरवर्षेण भास्करो रश्मिवानिव ।।
6-117-48a
6-117-48b
अन्यानपि महाराज तापयामास पार्थिवान् ।
पराङ्मुखीकृत्य तथा शरवर्षैर्महारथान् ।।
6-117-49a
6-117-49b
प्रावर्तयत संग्रामे शोणितोदां महानदीम् ।
मध्येन कुरुसैन्यानां पाण्डवानां च भारत ।।
6-117-50a
6-117-50b
तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये ।
भीष्मं प्रति पराक्रान्ताः पाण्डवाः सह सृञ्जयैः ।।
6-117-51a
6-117-51b
ते पराक्रान्तमालोक्य युधि राजन्पितामहम् ।
न न्यवर्तन्त ते पुत्रा ब्रह्मलोकपुरस्कृताः ।।
6-117-52a
6-117-52b
इच्छन्तो निधनं युद्धे स्वर्गलोकपरायणाः ।
पाण्डवानभ्यवर्तन्त तावका युद्धदुर्मदाः ।।
6-117-53a
6-117-53b
पाण्डवाश्च महाराज स्मरन्तो विविधान्बहून् ।
क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ।।
6-117-54a
6-117-54b
भयं त्यक्त्वा रणे शूराः स्वर्गलोकपुरस्कृताः।
तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् ।।
6-117-55a
6-117-55b
गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः ।
रथाश्च निहता नागैर्हयाश्चैव पदातिभिः ।।
6-117-56a
6-117-56b
अन्तरा च्छिद्यमानानि शरीराणि शिरांसि च ।
निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ।।
6-117-57a
6-117-57b
छन्नमायोधनं राजन्कुण्डलाङ्गदधारिभिः।
पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ।।
6-117-58a
6-117-58b
रथनेमिनिकृत्तैश्च गजैश्चैवावपोथितैः ।
पादातश्चाप्यधावन्त साश्वाश्च हययोधिनः ।।
6-117-59a
6-117-59b
गजाश्च रथयोधाश्च परिपेतुः समन्ततः ।
विकीर्णाश्च रथा भूमौ भग्रचक्रयुगध्वजाः ।।
6-117-60a
6-117-60b
तद्गजाश्वरथौघानां रुधिरेण समुक्षितम ।
छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ।।
6-117-61a
6-117-61b
श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह ।
प्रणेर्दुर्भक्ष्यमासाद्य विकृताश्च सगद्विजाः ।।
6-117-62a
6-117-62b
ववुर्बहुविधश्चैव दिक्षु सर्वासु मारुताः।
दृश्यमानेषु रक्षःसु भूतेषु च नदत्सु च ।।
6-117-63a
6-117-63b
काञ्चनानि च दामानि पताकाश्च महाधनाः ।
धूयमाना व्यदृश्यन्त सहसा मारुतेरिताः ।।
6-117-64a
6-117-64b
श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः ।
विकीर्णाः समदृश्यन्त शतशोऽथ सहस्रशः ।।
6-117-65a
6-117-65b
सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः।
क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः ।।
6-117-66a
6-117-66b
समन्ततश्च दृश्यन्ते पतिता धरणीतले ।
`इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः।'
पेतुरार्तस्वरं कृत्वा तत्रतत्र महागजाः ।।
6-117-67a
6-117-67b
6-117-67c
सेनापतिस्तु समरे प्राह सेनां महारथः ।
अभ्यद्रवत गाङ्गेयं सैनिकाः किं कृतेन वः ।।
6-117-68a
6-117-68b
सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः ।
अभ्यद्रवन्त गोङ्गेयं शस्त्रवृष्ट्या समन्ततः ।।
6-117-69a
6-117-69b
ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् ।
अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ।।
6-117-70a
6-117-70b
तं शिखण्डी रणे यान्तमभ्यद्रवत दंशितः ।
ततः समाहरद्भीष्मस्तदस्त्रं पावकोपमम् ।।
6-117-71a
6-117-71b
एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः।
निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ।।
6-117-72a
6-117-72b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
दशमदिवसयुद्धे सप्तदशाधिकशततमोऽध्यायः ।।

सम्पाद्यताम्

6-117-5 विवक्षया विचारेण संशयेन वा ।। 6-117-9 तीक्ष्णैस्तदा शरैः प्रैषीत् इति डo पाठः ।। 6-117-14 उल्बणमुग्रम् ।। 6-117-18 भारतमहामात्रं भरतवंशश्रेष्ठम् ।। 6-117-28 शर्म सुखहेतुत्वात्। वर्म रक्षाहेतुत्वात् ।। 6-117-29 समासितुं उपसर्पितुं नाशयितुं वा। मर्त्यभूताः मर्त्यस्वरूपाः ।। 6-117-30 तस्माद्द्रवत हे योधाः इति कo पाठः ।। 6-117-63 भूतेषु प्रेतेषु ।। 6-117-64 महाधनाः बहुमूल्याः ।।

भीष्मपर्व-116 पुटाग्रे अल्लिखितम्। भीष्मपर्व-118