महाभारतम्-06-भीष्मपर्व-011
← भीष्मपर्व-010 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-011 वेदव्यासः |
भीष्मपर्व-012 → |
शाकद्वीपवर्णनम् ।। 1 ।।
|
धृतराष्ट्र उवाच। | 6-11-1x |
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय। विष्कम्भमस्य प्रब्रूहि परिमाणं तु तत्त्वतः ।। | 6-11-1a 6-11-1b |
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम् । शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय ।। | 6-11-2a 6-11-2b |
शाल्मलिं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च। ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ।। | 6-11-3a 6-11-3b |
सञ्जय उवाच। | 6-11-4x |
राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत्। सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यौ ग्रहं तथा ।। | 6-11-4a 6-11-4b |
अष्टादश सहस्राणि योजनानि विशांपते। षट् शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ।। | 6-11-5a 6-11-5b |
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः । नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ।। | 6-11-6a 6-11-6b |
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः। सिद्धचारणसंकीर्णः सागरः परिमण्डलः ।। | 6-11-7a 6-11-7b |
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव । शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ।। | 6-11-8a 6-11-8b |
जम्बूद्वीपपरमाणेन द्विगुणः स नराधिप । विष्कम्भेण महाराज सागरोऽपि विभागशः ।। | 6-11-9a 6-11-9b |
क्षीरोदो भरतश्रेष्ठ येन संपरिवारिताः । तत्र पुण्या जनपदास्तत्र न म्रियते जनः। कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ।। | 6-11-10a 6-11-10b 6-11-10c |
शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ। उक्त एष महाराज किमन्यत्कथयामि ते ।। | 6-11-11a 6-11-11b |
धृतराष्ट्र उवाच। | 6-11-12x |
शाकद्वीपस्य संक्षेपो यथावदिह सञ्जय । उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः ।। | 6-11-12a 6-11-12b |
सञ्जय उवाच। | 6-11-13x |
तथैव पर्वता राजन्सप्तात्र मणिभूषिताः। रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ।। | 6-11-13a 6-11-13b |
अतीव गुणवत्सर्वं तत्र पुण्यं जनाधिप ।। | 6-11-14a |
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते। प्रागायतो महाराज मलयो नाम पर्वतः ।। | 6-11-15a 6-11-15b |
ततो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः । ततः परेण कौरव्य जलधारो महागिरिः ।। | 6-11-16a 6-11-16b |
ततो नित्युमुपादत्ते वासवः परमं जलम्। ततो वर्षं प्रभवति वर्षकाले जनेश्वर ।। | 6-11-17a 6-11-17b |
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठिता। रेवती दिवि नक्षत्रं पितामहकृतो विधिः ।। | 6-11-18a 6-11-18b |
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः । नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः । यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ।। | 6-11-19a 6-11-19b 6-11-19c |
धृतराष्ट्र उवाच। | 6-11-20x |
सुमहान्संशयो मेऽद्य प्रोक्तोऽयं सञ्जय त्वया। प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह ।। | 6-11-20a 6-11-20b |
सञ्जय उवाच। | 6-11-21x |
सर्वेष्वेव महाराज द्वीपेषु कुरुनन्दन। गौरः कृष्णश्च पतगस्तयोर्वर्णान्तरे नृप ।। | 6-11-21a 6-11-21b |
श्यामो यस्मात्प्रवृत्तो वै तस्माच्छ्यामो गिरिःस्मृतः | 6-11-22a |
ततः परं कौरवेन्द्र दुर्गशैलो महोदयः । केसरः केसरयुतो यतो वातः प्रवर्तते ।। | 6-11-23a 6-11-23b |
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः। वर्षाणि तेषु कौरव्य सप्तोक्तानि मनीषिभिः ।। | 6-11-24a 6-11-24b |
महामेरुर्महाकाशो जलदः कुमुदोत्तरः । जलधारो महाराज सुकुमार इति स्मृतः ।। | 6-11-25a 6-11-25b |
रेवतस्य तु कौमारः श्यामस्य मणिकाञ्चनः । केसरस्याथ मौदाकी परेण तु महापुमान् ।। | 6-11-26a 6-11-26b |
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च। जम्बूद्वीपेन संक्यातस्तस्य मध्ये महाद्रुमः ।। | 6-11-27a 6-11-27b |
शाको नाम महाराज प्रजा तस्य सदानुगा। तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः ।। | 6-11-28a 6-11-28b |
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च। धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ।। | 6-11-29a 6-11-29b |
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते । दीर्घायुषो महाराज जरामृत्युविवर्जिताः ।। | 6-11-30a 6-11-30b |
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः। नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता ।। | 6-11-31a 6-11-31b |
सुकुमारी कुमारी च शीताशी वेणिका तथा। महानदी च कौरव्य तथा मणिजला नदी ।। | 6-11-32a 6-11-32b |
चक्षुर्वर्धनिका चैव नदी भरतसत्तम । तत्र प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह ।। | 6-11-33a 6-11-33b |
सहस्राणां शतान्येव यतो वर्षति वासवः । न तासां नामधेयानि परिमाणं तथैव च ।। | 6-11-34a 6-11-34b |
शक्यन्ते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः । तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः ।। | 6-11-35a 6-11-35b |
मङ्गाश्च मशकाश्चैव मानसा मन्दगास्तथा । मङ्गा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप ।। | 6-11-36a 6-11-36b |
मशकेषु च राजन्या धार्मिकाः सर्वकामदाः । मानसाश्च महाराज वैश्यधर्मोपजीविनः ।। | 6-11-37a 6-11-37b |
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः । शूद्रास्तु मन्दगा नित्यं पुरुषा धर्मशीलिनः ।। | 6-11-38a 6-11-38b |
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः। स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ।। | 6-11-39a 6-11-39b |
एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम्। एतदेव च श्रोतव्यं शाकद्वीपे महौजसि ।। | 6-11-40a 6-11-40b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भूमिपर्वणि एकादशोऽध्यायः ।। |
6-11-4 ग्रहं राहुम् ।। 6-11-5 पर्वताकृतित्वाज्जम्बुपर्वत इत्युच्यते ।। 6-11-6 क्षेत्रफलतः पञ्चसहस्रायामत्वाज्जम्बूद्वीपस्य तदुभयतः पञ्चपञ्चभिः सहस्रैः समुद्रस्य विष्कम्भो विस्तारः तेन समुद्रस्य द्वीपस्य पञ्चदशसहस्रयोजनो व्यासः। द्विगुणः दशसहस्रयोजनः परिमण्डलश्चेदुभयतः समुद्रवेष्टनेन सह चत्वारिंशत्सहस्रः। एवं तृतीयोऽशीतिसहस्रः। चतुर्थः षष्टिसहस्राधिकं लक्षम्। पञ्चमो लक्षत्रयं विंशतिसहस्राणि । षष्ठो लक्षषङ्कं चत्वारिंशत्सहस्राणि। सप्तमो द्वादशलक्षाण्यशीतिसहस्राणि। एतेषां संकलने पञ्चविंशतिलक्षाणि पञ्चत्रिंशत्सहस्राणि योजनानि सप्तानां द्वीपानां समुद्राणं विस्तारः।। 6-11-18 रेवती ज्योतिर्मण्डलरूपेण दिवि विभ्रम्यमाणापि दिव्येन रूपेणात्रापि वर्तते एव । विधिर्मर्यादा पितामहेन कृता ।। 6-11-21 पतगवर्णं व्याचष्टे तमोरिति। मिश्रोवर्णः पतग इत्यर्थः ।। 6-11-22 यस्मात् श्यामो गिरिस्तस्मात्तत्स्थानां श्यामो वर्णः प्रवृत्त इत्यर्थः ।।
भीष्मपर्व-010 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-012 |