महाभारतम्-06-भीष्मपर्व-015
← भीष्मपर्व-014 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-015 वेदव्यासः |
भीष्मपर्व-016 → |
दुर्योधनेन दुःशासनंप्रति भीष्मरक्षणाज्ञापनम् ।। 1 ।।
|
सञ्जय उवाच। | 6-15-1x |
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि। न तु दुर्योधने दोषमिममासङ्क्तुमर्हसि ।। | 6-15-1a 6-15-1b |
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः। एनसा तेन नान्यं स उपाशङ्कितुमर्हति।। | 6-15-2a 6-15-2b |
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्। स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ।। | 6-15-3a 6-15-3b |
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया । अनुभूतः सहामात्यैः क्षान्तश्च सुचिरं वने ।। | 6-15-4a 6-15-4b |
हयानां च गजानां च राज्ञां चामिततेजसाम्। प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ।। | 6-15-5a 6-15-5b |
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः । दिष्टमेतत्पुरा नूनमिदमेव नराधिप ।। | 6-15-6a 6-15-6b |
नमस्कृत्वा प्रवक्ष्यामि पाराशर्याय धीमते। यस्य प्रसादाद्दिव्यं तत्प्राप्तं ज्ञानमनुत्तमम् ।। | 6-15-7a 6-15-7b |
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च । परचित्तस्य विज्ञानमतीतानागतस्य च ।। | 6-15-8a 6-15-8b |
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः शुभा । अस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ।। | 6-15-9a 6-15-9b |
श्रृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् । भरतानामभूद्युद्धं यथा तद्रोमहर्षणम् ।। | 6-15-10a 6-15-10b |
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः । दुर्योधनो महाराज दुःशासनमथाब्रवीत् ।। | 6-15-11a 6-15-11b |
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः। अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ।। | 6-15-12a 6-15-12b |
अयं स मामभिप्राप्तो वर्षपूगाभिचिन्तितः । पाण्डवानां ससैन्यानां कुरूणां च समागमः ।। | 6-15-13a 6-15-13b |
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात्। हन्युद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ।। | 6-15-14a 6-15-14b |
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनाम् । श्रूयते स्त्री ह्यसौ पूर्वं तस्मादूर्त्यो रणे मम ।। | 6-15-15a 6-15-15b |
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः। शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ।। | 6-15-16a 6-15-16b |
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः । सर्वथाऽस्त्रेषु कुशलास्ते रक्षन्तु पितामहम् ।। | 6-15-17a 6-15-17b |
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् । मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ।। | 6-15-18a 6-15-18b |
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्। गोप्तारौ फाल्गुनं प्राप्तौ फाल्गुनोपि शिखण्डिनः । | 6-15-19a 6-15-19b |
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः । यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ।। | 6-15-20a 6-15-20b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि पञ्चदशोऽध्यायः ।। |
6-15-1 आसङ्क्तं आसञ्जयितुम् ।। 6-15-2 एनसा पापेन ।। 6-15-9 व्युत्थितस्य उच्छास्त्रवर्तिन उत्पत्तिः कारणं तस्य विज्ञानम् ।। 6-15-11 व्यूढेषु व्यूहरचनया स्थितेषु ।।
भीष्मपर्व-014 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-016 |