महाभारतम्-06-भीष्मपर्व-096

← भीष्मपर्व-095 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-096
वेदव्यासः
भीष्मपर्व-097 →

भीमेन दुर्योधनानुजानां कतिपयानां हननम् ।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
सञ्जय उवाच। 6-96-1x
पुत्रं विनिहतं श्रुत्वा इरावन्तं धन?ञ्जयः।
दुःखेन महताऽऽविष्टो निःश्वसन्पन्नगो यथा ।।
6-96-1a
6-96-1b
अब्रवीत्समरे राजन्वासुदेवमिदं वचः।
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ।।
6-96-2a
6-96-2b
कुरूणां पाण्डवानां च क्षयं घोरं महामतिःक ।
स ततो निवारितवान्धृतराष्ट्रं जनेश्वरम् ।।
6-96-3a
6-96-3b
अन्ये च बहवो वीराः संग्रामे मधुसूदन।
निहताः कौरवैः सङ्ख्ये तथाऽस्माभिश्च कौरवाः ।।
6-96-4a
6-96-4b
अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्।
धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः ।।
6-96-5a
6-96-5b
अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्वनम् ।
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ।।
6-96-6a
6-96-6b
दुर्योधनापराधेन शकुनेः सौबलस्य च।
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ।।
6-96-7a
6-96-7b
इदानीं च विजानामि सुकृतं मधुसूदन।
कृतं राज्ञा महाबाहो याचता त सुयोधनम् ।।
6-96-8a
6-96-8b
राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिःक ।
दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले ।।
6-96-9a
6-96-9b
निन्दामि भृशमात्मानं धिगस्तु क्षत्रिजीविकाम् ।
अशक्तमिति मामेते ज्ञास्यन्ते क्षत्रिया रणे ।।
6-96-10a
6-96-10b
एतदर्थं मया युद्धं रोचितं मधुसूदन।
संचोदय हयाञ्शीघ्रं धार्तराष्ट्रचमूं प्रति ।।
6-96-11a
6-96-11b
प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ।
नायं क्लीबायितुं कालो विद्यते माधव क्वचित् ।।
6-96-12a
6-96-12b
सञ्जय उवाच। 6-96-13x
एवमुक्तस्तु पार्थेन केशवः परवीरहा।
चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ।।
6-96-13a
6-96-13b
अथ शब्दो महानासीत्तव सैन्यस्य भारत।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ।।
6-96-14a
6-96-14b
अपराह्णे महाराज संग्रामः समपद्यत ।
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ।।
6-96-15a
6-96-15b
ततो राजंस्तव सुता भीमसेनमुपाद्रवन् ।
परिवार्य रणे द्रोणं वसवो वासवं यथा ।।
6-96-16a
6-96-16b
ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः।
भगदत्तः सुशर्मा च धनंजयमुपाद्रवन् ।।
6-96-17a
6-96-17b
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ ।
अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः ।।
6-96-18a
6-96-18b
शेषास्त्वन्ये महाराज शेषानेव महारथान् ।
ततः प्रववृते युद्धं घोररूपं भयावहम् ।।
6-96-19a
6-96-19b
`भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव विशांपते'।
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ।।
6-96-20a
6-96-20b
पुत्रास्तु तव कौन्तेयं छादयांचक्रिरे शरैः।
प्रावृषीव महाराज जलदा इव पर्वतम् ।।
6-96-21a
6-96-21b
स च्छाद्यमानो बहुधा पुत्रैस्तव विशांपते ।
सृक्विणी संलिहन्वीरः शार्दूल इव दर्पितः ।।
6-96-22a
6-96-22b
व्यूढोरस्कस्ततो भीमः पोथयामास पार्थिवम् ।
क्षुरप्रेण सुतीक्ष्णेन सुमुक्तेन महारणे ।।
6-96-23a
6-96-23b
ताडयामास संक्रुद्धः सोऽभवद्व्यथितेन्द्रियः ।
अपरेण तु भल्लेन पीतेन निशितेन तु।
अपातयत्कुण्डलितं सिंहः क्षुद्रमृगं यथा ।।
6-96-24a
6-96-24b
6-96-24c
ततः सुनिशितान्बाणान्भीमसेनः शिलाशितान् ।
स सप्त संदधे हन्तुं पुत्रास्ते भरतर्षभ ।।
6-96-25a
6-96-25b
प्रेषिता भिमसेनेन शरास्ते दृढधन्वना ।
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ।।
6-96-26a
6-96-26b
अनाधृष्टिं कुण्डभेदिं विराजं दीप्तलोचनम् ।
दीर्घबाहुं सुबाहुं च तथैव मकरध्वजम् ।।
6-96-27a
6-96-27b
प्रपतन्तिस्म वीरास्ते विरेजुर्भरतर्षभ।
वसन्ते पुष्पशबलाः किंशुकाः पतिता इव ।।
6-96-28a
6-96-28b
ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे ।
तं कालमिव मन्यन्तो भीमसेनं महाबलम् ।।
6-96-29a
6-96-29b
द्रोणस्तु समरे वीरं निर्दहनक्तं सुतांस्तव ।
यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ।।
6-96-30a
6-96-30b
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् ।
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ।।
6-96-31a
6-96-31b
यथा गोवृषभो वर्षं संधारयति स्वात्पतत् ।
भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ।।
6-96-32a
6-96-32b
अद्भुतं च महाराज तत्र चक्रे वृकोदरः ।
यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्यवारयत् ।।
6-96-33a
6-96-33b
पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः ।
मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ।।
6-96-34a
6-96-34b
यथा हि पशुमध्यस्थो द्रावयेत पशून्वृकः ।
वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ।।
6-96-35a
6-96-35b
गाङ्गेयो भगदत्तश्च गोतमश्च महारथाः ।
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ।।
6-96-36a
6-96-36b
अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ।।
6-96-37a
6-96-37b
अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम् ।
विरथं रथिनां श्रेष्ठं कारयामास सायकैः ।।
6-96-38a
6-96-38b
विरथो वध्यमानस्तु सौभद्रेण यशस्विना ।
अवप्लुत्य रथात्तूर्णमम्बष्ठो वसुधाधिपः ।।
6-96-39a
6-96-39b
असिं चिक्षेप समरे सौभद्रस्य महात्मनः ।
आरुरोह रथं चैव हार्दिक्यस्य महाबलः ।।
6-96-40a
6-96-40b
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः ।
लाघवाद्व्यंसयामास सौभद्रः परवीरहा ।।
6-96-41a
6-96-41b
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा।
साधुसाध्विति सैन्यानां प्रणादोऽभूद्विशांपते ।।
6-96-42a
6-96-42b
धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन्।
तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ।।
6-96-43a
6-96-43b
तत्राक्रन्दो महानासीत्तव तेषां च भारत।
निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम् ।।
6-96-44a
6-96-44b
अन्योन्यं हि रणे शूराः केशेष्वाक्षिष्य मानिनः।
नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ।।
6-96-45a
6-96-45b
तलैश्चैवाथ निस्त्रिंशैर्बाहुभिश्च सुसंस्थितैः।
विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ।।
6-96-46a
6-96-46b
न्यहनच्च पिता पुत्रं पुत्रश्च पितरं तथा।
व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः ।।
6-96-47a
6-96-47b
रणे चारूणि चापानि हेमपृष्ठानि मारिष ।
हतानामपविद्धानि कलापाश्च महाधनाः ।।
6-96-48a
6-96-48b
जातरूपमयैः पुङ्खै राजतैर्निशिताः शराः।
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ।।
6-96-49a
6-96-49b
खङ्गाश्च दान्तत्सरवो जातरूपपरिष्कृताः ।
चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनां ।।
6-96-50a
6-96-50b
सुवर्णाविकृताः प्रासाः प्रभग्ना हेमभूषिताः।
जातरूपमया यष्ट्यः शक्त्यश्च कनकोज्ज्वलाः ।।
6-96-51a
6-96-51b
अवस्कन्दाश्च पतिता मुसलानि गुरूणि च ।
परिघाः पट्टसाश्चैव भिण्डिपालाश्च मारिष ।।
6-96-52a
6-96-52b
पतिता विविधाश्चापाश्चित्रा हेमपरिष्कृताः ।
कुथा बहुविधाकाराश्चामरा व्यजनानि च ।।
6-96-53a
6-96-53b
नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः।
जीवन्त इव दृश्यनते गतसत्त्वा महारथाः ।।
6-96-54a
6-96-54b
गजाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः।
गजावाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ।।
6-96-55a
6-96-55b
तथैवाश्वनृनागानां शरीरैर्विबभौ तदा।
संछन्ना वसुधा राजन्पर्वतैरिव शातितैः ।।
6-96-56a
6-96-56b
समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः।
निस्त्रिंशैः पट्टसैः प्रासैरवस्कन्दैः परश्वथैः ।।
6-96-57a
6-96-57b
परिघैर्भिण्डिपालैश्च शतघ्नीभिश्च मारिष।
शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मेदिनी ।।
6-96-58a
6-96-58b
विशब्दैरल्पशब्दैश्च शोणितौगपरिप्लुतैः।
गतासुभिरमित्रघ्न विबभौ निचिता मही ।।
6-96-59a
6-96-59b
सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः ।
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ।।
6-96-60a
6-96-60b
बद्धचूजामणिवरैः शिरोभिश्च सकुण्डलैः ।
पातितै ऋषभाक्षाणां बभौ भारत मेदिनी ।।
6-96-61a
6-96-61b
कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः ।
रराज सुभृशं भूमिः शान्तार्चिर्भिरिवानलैः ।।
6-96-62a
6-96-62b
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः ।
विप्रकीर्णैः शरैश्चैव रुक्मपुङ्खैः समन्ततः ।।
6-96-63a
6-96-63b
रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः ।
वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वैः सशोणितैः ।।
6-96-64a
6-96-64b
अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि ।
प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ।।
6-96-65a
6-96-65b
स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही ।
नानारूपेरलंकारैः प्रमदेवाभ्यलङ्कृता।।
6-96-66a
6-96-66b
दन्तिभिश्चापरैस्तत्र सप्राणैर्गाढवेदनैः ।
करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ।।
6-96-67a
6-96-67b
विबभौ तद्रणस्थानं स्यन्दमानैरिवाचलैः।
नानारागैः कम्बलैश्च परिस्तोमेश्च दन्तिनाम् ।।
6-96-68a
6-96-68b
वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः।
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः ।।
6-96-69a
6-96-69b
विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा।
ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च ।।
6-96-70a
6-96-70b
यन्त्रैश्च बहुधा च्छिन्नैस्तोमरैश्चापि काञ्चनैः।
`रराज सुभृशं भूमिस्तत्रतत्र विशांपते'
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः।।
6-96-71a
6-96-71b
6-96-71c
सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा।
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः।।
6-96-72a
6-96-72b
उष्णीषैश्च तथा चित्रैर्विप्रविद्धैस्ततस्ततः।
विचित्रैर्बाणवर्षैश्च जातरूपपरिष्कृतैः ।।
6-96-73a
6-96-73b
अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा।
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः ।।
6-96-74a
6-96-74b
छत्रैस्तथापविद्धैश्च चामरैर्व्यजनैरपि ।
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः ।।
6-96-75a
6-96-75b
क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ।
अपविद्धैर्महाराज सुवर्णाज्ज्वलकुण्डलैः ।।
6-96-76a
6-96-76b
ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा।
एवमेते महासेने मृदिते तत्र भारत ।।
6-96-77a
6-96-77b
परस्परं समासाद्य तव तेषां च संयुगे ।
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत ।।
6-96-78a
6-96-78b
रात्रिः समभवत्तत्र नापश्याम ततोऽनुगान् ।
ततोऽवहारं सैकन्यानां प्रचुक्रुः कुरुपाण्डवाः ।।
6-96-79a
6-96-79b
घोरे निशामुखे रौद्रे वर्तमाने महाभये।
अवहारं ततः कृत्वा सहिताः कुरुपाणड्वाः ।
न्यविशन्त निशाकाले गत्वा स्वशिबिरं तदा ।।
6-96-80a
6-96-80b
6-96-80c
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
अष्टमदिवसयुद्धे षण्णवतितमोऽध्यायः ।।

सम्पाद्यताम्

6-96-23 व्यूढोरस्कं इति झo पाठः ।। 6-96-48 अपविद्धानि पतितानि ।।

भीष्मपर्व-095 पुटाग्रे अल्लिखितम्। भीष्मपर्व-097