महाभारतम्-06-भीष्मपर्व-023
← भीष्मपर्व-022 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-023 वेदव्यासः |
भीष्मपर्व-024 → |
अर्जुनेन दुर्गास्तोत्रपठनम् ।। 1 ।।
|
सञ्जय उवाच। | 6-23-1x |
धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम्। अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत् ।। | 6-23-1a 6-23-1b |
श्रीभगवानुवाच। | 6-23-2x |
शुचिर्भूत्वा महाबाहो संग्रामाभिमुखे स्थितः। पराजयाय श्त्रुणां दुर्गास्तोत्रमुदीरय ।। | 6-23-2a 6-23-2b |
सञ्जय उवाच। | 6-23-3x |
एवमुक्तोऽर्जुनः सङ्ख्ये वासुदेवेन धीमता। अवतीर्य रथात्पार्थः स्तोत्रमाह कृताञ्जलिः ।। | 6-23-3a 6-23-3b |
अर्जुन उवाच। | 6-23-4x |
नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि । कुमारि कालि कापालि कपिले कृष्णपिङ्गले ।। | 6-23-4a 6-23-4b |
भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते । चण्डि चण्डे नमस्तुभ्यं तारिणि वरवर्णिनि ।। | 6-23-5a 6-23-5b |
कात्यायनि महाभागे करालि विजये जये। शिखिपिच्छध्वजधरे नानाभरणभूषिते।। | 6-23-6a 6-23-6b |
अट्टशूलप्रहरणे स्वङ्गखेटकधारिणि । गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे ।। | 6-23-7a 6-23-7b |
महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि । अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये ।। | 6-23-8a 6-23-8b |
उभे शाकम्भरि श्वेते कृष्णे कैटभनाशिनि । हिरण्याश्चि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते ।। | 6-23-9a 6-23-9b |
वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि । जम्बूकटकचैत्येषु नित्यं सन्निहितालये ।। | 6-23-10a 6-23-10b |
त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम्। स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि ।। | 6-23-11a 6-23-11b |
स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती। सावित्री वेदमाता च तथा वेदान्त उच्यते ।। | 6-23-12a 6-23-12b |
स्तुतासि त्वं महादेवि विशुद्धेनान्तरात्मना । जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ।। | 6-23-13a 6-23-13b |
कान्तारभयदुर्गेषु भक्तानां चालयेषु च । नित्यं वससि पाताले युद्धे जयसि दानवान् ।। | 6-23-14a 6-23-14b |
त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च । संध्या प्रभावती चैव सावित्री जननी तथा ।। | 6-23-15a 6-23-15b |
तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी । भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः ।। | 6-23-16a 6-23-16b |
सञ्जय उवाच। | 6-23-17x |
ततः पार्थस्य विज्ञाय भक्तिं मानववत्सला। अन्तरिक्षगतोवाच गोविन्दस्याग्रतः स्थिता ।। | 6-23-17a 6-23-17b |
देव्युवाच। | 6-23-18x |
स्वल्पेनैव तु कालेन शत्रूञ्जेष्यसि पाण्डव । नरस्त्वमसि दुर्धर्ष नारायणसहायवान् ।। | 6-23-18a 6-23-18b |
अजेयस्त्वं रणेऽरीणामपि वज्रभृतः स्वयम् । इत्येवमुक्त्वा वरदा क्षणेनान्तरधीयत ।। | 6-23-19a 6-23-19b |
लब्ध्वा वरं तु कौन्तेयो मेने विजयमात्मनः । आरुरोह ततः पार्थो रथं परमसंमतम् ।। | 6-23-20a 6-23-20b |
कृष्णार्जुनावेकरथौ दिव्यौ शङ्खौः प्रदध्मतुः । य इदं पठते स्तोत्रं कल्य उत्थाय मानवः ।। | 6-23-21a 6-23-21b |
यक्षरक्षःपिशाचेभ्यो न भयं विद्यते सदा। न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः ।। | 6-23-22a 6-23-22b |
न भयं विद्यते तस्य सदा राजकुलादपि । विवादेक जयमाप्नोति बद्धो मुच्यति बन्धनात् ।। | 6-23-23a 6-23-23b |
दुर्गं तरति चावश्यं तथा चोरैर्विमुच्यते। संग्रामे विजयेन्नित्यं लक्ष्मीं प्राप्नोति केवलाम् ।। | 6-23-24a 6-23-24b |
आरोग्यबलसंपन्नो जीवेद्वर्षशतं तथा । एतद्दृष्टं प्रसादात्तु मया व्यासस्य धीमतः ।। | 6-23-25a 6-23-25b |
मोहादेतौ न जानन्ति नरनारायणावृषी । तव पुत्रा दुरात्मानः सर्वे मन्युवशानुगाः ।। | 6-23-26a 6-23-26b |
प्राप्तकालमिदं वाक्यं कालपाशेन कुण्ठिताः । द्वैपायनो नारदश्च कण्वो रामस्तथानघः । अवारयंस्तव सुतं न चासौ तद्गृहीतवान् ।। | 6-23-27a 6-23-27b 6-23-27c |
यत्र धर्मो द्युतिः कान्तिर्यत्र ह्रीः श्रीस्तथा मतिः। यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ।। | 6-23-28a 6-23-28b |
।। इति श्रीमन्महाभरते भीष्मपर्वणि भगवद्गीतापर्वणि त्रयोविंशोऽध्यायः ।। |
6-23-1 हितार्थाय हितश्चासावर्थश्च हितार्थो जयस्तदर्थम् ।। 6-23-3 सङ्ख्ये सङ्ग्रामे ।। 6-23-4 इदं स्तोत्रं झo पुस्तक एव दृश्यते न दाक्षिणात्यकोशेषु क्वापि। हे सिद्धसेनानि सिद्धानां सेनाया नेत्रि। मन्दरे मन्दरवने वसतीति तथा। कुमारि अविप्लुतब्रह्मचर्ये जादिहीने इति वा। कालि कालशक्ते। कापालि कपालस्यायं पतिः कापालो रुद्रस्तत्पत्नि। कपिलः कृष्णपिङ्गलश्च वर्णविशेषौ तद्वति ।। 6-23-5 भद्रं कल्याणं कालयति भक्तान् प्रति आनयति सा भद्रकाली। महती चासी काली च कालयित्री संहत्री कालरूपा महाकाली। चण्डि चण्डस्य कालान्तकस्य भार्ये। चण्डे प्रगल्भे। तारिणि संकटोत्तरणकर्त्रि । वरवर्णिनी सर्वसौभाग्यलक्षणोपेता स्त्री तद्रूपे ।। 6-23-6 कात्यायनि कतगोत्रोद्भवे। महाभागे अतिपूज्ये। करालि क्रूरे। विजये विशिष्टो जयो यया सा। जयप्रदे इत्यर्थः। जये जयस्वरूपे ।। 6-23-7 भट्टं अत्युत्कटं शूलं तदेव प्रहरणायुधं यस्याः। खेटकं चर्म ।। 6-23-8 कौशिकि कुशिककुलोत्पन्ने। अट्टहासे प्रशस्तस्मिते। कोकं चक्रवत् वृत्तं वा रक्तबीजवधेऽसुरादानशीलं वा मुखं यस्याः सा कोकमुखा ।। 6-23-9 हिरण्याक्षि पीतनेत्रे। विरूपाक्षि विविधरूपयुक्तनेत्रे ।। 6-23-10 ब्रह्मण्ये यज्ञकर्मविप्रादिषु साध्वी ब्रह्मण्या। जातवेदसि अतीतज्ञे अतीतैर्ज्ञाते वा। जम्बूकटकेषु जम्बूद्वीपराजधानीषु चैत्येषु देवतालयेषु नित्यं सन्निहित आलयः स्थानं यस्याः सा तथा ।। 6-23-13 रणाजिरे युद्धाङ्गणे ।। 6-23-15 जम्भनी तन्द्रा । मोहिनी निद्रा। श्रीर्लक्ष्मीः विद्यातपोधनादिसमृद्धिरूपा ।।
भीष्मपर्व-022 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-024 |