महाभारतम्-06-भीष्मपर्व-065
← भीष्मपर्व-064 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-065 वेदव्यासः |
भीष्मपर्व-066 → |
भीष्मेण दुर्योधनंप्रति विश्वोपाख्यानकथनम् ।। 1 ।।
|
धृतराष्ट्र उवाच। | 6-65-1x |
भयं मे सुमहञ्जातं विस्मयश्चैव सञ्जय। श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् ।। | 6-65-1a 6-65-1b |
पुत्राणां च पराभावं श्रुत्वा सञ्जय सर्वशः। चिन्ता मे महती सूत भविष्यति कथं त्विति ।। | 6-65-2a 6-65-2b |
ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम। तथा हि दृश्यते सर्वं दैवयोगेन सञ्जय ।। | 6-65-3a 6-65-3b |
यत्र भीष्ममुखान्सर्वाञ्शस्त्रज्ञान्योधसत्तमान्। पाण्डवानामनीकेषु योधयन्ति प्रहारिणः ।। | 6-65-4a 6-65-4b |
केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः । केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते ।। | 6-65-5a 6-65-5b |
येन क्षयं न गच्छन्ति दिवि तारागणा इव। पुनःपुनर्न मृष्यामि हतं सैन्यं तु पाण्डवैः ।। | 6-65-6a 6-65-6b |
मय्येव दण्डः पतति दैवात्परमदारुणः। यथाऽवध्याः पाण्डुसुता यथा वाध्याश्च मे सुताः ।। | 6-65-7a 6-65-7b |
एतन्मे सर्वमाचक्ष्व याथातथ्येन सञ्जय । न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन।। | 6-65-8a 6-65-8b |
समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः । पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् ।। | 6-65-9a 6-65-9b |
घातयिष्यति मे स्रवान्पुत्रान्भीमो न शंसयः। न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे ।। | 6-65-10a 6-65-10b |
ध्रुवं विनाशः संप्राप्तः पुत्रामां मम सञ्जय। तस्मान्मे कारणं सूत शक्तिं चैव विशेषतः ।। | 6-65-11a 6-65-11b |
पृच्छतो वै यथातत्त्वं सर्वमाख्यातुमर्हसि। दुर्योधनश्च यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे ।। | 6-65-12a 6-65-12b |
भीष्मद्रोणौ कृपश्चैव सौबलश्च जयद्रथः । द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः ।। | 6-65-13a 6-65-13b |
निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मानाम् । विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय ।। | 6-65-14a 6-65-14b |
सञ्जय उवाच। | 6-65-15x |
श्रृणु राजन्नवहितः श्रुत्वा चैवावधारय। नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम् ।। | 6-65-15a 6-65-15b |
न वै विभीषिकां कांचिद्राजन्कुर्वन्ति पाण्डवाः । युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे ।। | 6-65-16a 6-65-16b |
धर्मेण सर्वकार्याणि जीवितादीनि भारत। आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः।। | 6-65-17a 6-65-17b |
न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः । श्रिया परमया युक्ता यतो धर्मस्ततो जयः ।। | 6-65-18a 6-65-18b |
तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव । तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा ।। | 6-65-19a 6-65-19b |
निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे। सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वरे ।। | 6-65-20a 6-65-20b |
निकृतानीह पाण्डूनां नीचैरिव यथा नरैः । सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् ।। | 6-65-21a 6-65-21b |
धर्ममूलाः सदैवासन्पाण्डवाः पाण्डुपूर्वज। न चैतान्बहुमन्यन्ते पुत्रास्तव विशांपते । | 6-65-22a 6-65-22b |
तस्य पापस्य सततं क्रियमाणस्य कर्मणः। सांप्रतं सुमहद्धोरं फलं प्राप्तं जनेश्वर ।। | 6-65-23a 6-65-23b |
स त्वं भुङ्क्ष्व महाराज सपुत्रः समुहृञ्जनः। नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः ।। | 6-65-24a 6-65-24b |
विदुरेणाथ भीष्मेण द्रोणेन न महात्मना। तथा मया चाप्यसकृद्वार्यमाणो न बुध्यसे ।। | 6-65-25a 6-65-25b |
वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् । पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् ।। | 6-65-26a 6-65-26b |
शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि। कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति ।। | 6-65-27a 6-65-27b |
तत्तेऽहं कथयिष्यामि यथाश्रुतमरिन्दम। दुर्योधनेन संपृष्ट एतमर्थं पितामहः ।। | 6-65-28a 6-65-28b |
दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितांस्तु महारथान् । शोकसंमूढहृदयो निशाकाले स्म कौरवः ।। | 6-65-29a 6-65-29b |
पितामहं महाप्राज्ञं विनयोपगम्य ह। यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर ।। | 6-65-30a 6-65-30b |
दुर्योधन उवाच। | 6-65-31x |
भवान्द्रोणश्च कर्णश्च कृपो द्रौणिस्तथैव च। कृतवर्मा च हार्दिक्यः काम्भोजश्च सुदक्षिणः ।। | 6-65-31a 6-65-31b |
भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् । महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ।। | 6-65-32a 6-65-32b |
त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः। पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे ।। | 6-65-33a 6-65-33b |
तत्र मे संशयो जातस्तत्त्वमाचक्ष्व पृच्छतः। यं समाश्रित्य कौन्तेय जयन्त्यस्मान्क्षणेक्षणे ।। | 6-65-34a 6-65-34b |
भीष्म उवाच। | 6-65-35x |
शृणु राजन्वचो मह्यं यथा वक्ष्यामि कौरव। बहुशश्च मयोक्तोऽसि न च मे तत्त्वया कृतम् ।। | 6-65-35a 6-65-35b |
क्रियतां पाण्डवैः सार्ध समो भरतसत्तम। एतत्क्षेममहं मन्ये पृथिव्यास्तव वा विभो ।। | 6-65-36a 6-65-36b |
भुङ्क्ष्वेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी। दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् ।। | 6-65-37a 6-65-37b |
न च मे क्रोशतस्तात श्रुतवानसि वै पुरा। तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे ।। | 6-65-38a 6-65-38b |
यश्च हेतुरवध्यत्वे तेकषामक्लिष्टकर्मणाम्। तं शृणुष्व महाबाहो मम कीर्तयतः प्रभो ।। | 6-65-39a 6-65-39b |
नास्ति लोकेषु तद्भूतं भविता नो भविष्यति। यो जयेत्पाण्डवान्सर्वान्पालिताञ्छार्ङ्गधन्वना ।। | 6-65-40a 6-65-40b |
यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः। पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् ।। | 6-65-41a 6-65-41b |
पुरा किल सुराः सर्वे ऋषयश्च समागताः । पितामहमुपासेदुः पर्वत गन्धमादने ।। | 6-65-42a 6-65-42b |
तेषां मध्ये समासीनः प्रजापतिरपश्यत । विमानं प्रज्वलद्भासा स्थितं प्रवरमम्बरे ।। | 6-65-43a 6-65-43b |
ध्यानेनावेद्य तद्ब्रह्मा कृत्वा च नियतोऽञ्जलिम् । नमश्चकार हृष्टात्मा पुरुषं परमेश्वरम् ।। | 6-65-44a 6-65-44b |
ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् । स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् ।। | 6-65-45a 6-65-45b |
यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः । जगाद जगतः स्रष्टा परं परमधर्मवित् ।। | 6-65-46a 6-65-46b |
विश्वावसुर्विश्वमूर्तिर्हि विश्वे विष्वक्सेनो विश्वकर्मा वशी च। विश्वेश्वरो वासुदेवोऽसि तस्मा- द्योगात्मानं देवतं त्वामुपैमि ।। | 6-65-47a 6-65-47b 6-65-47c 6-65-47d |
जय विश्वमहादेव जय लोकहिते रत। जय योगीश्वर विभो जय योगपरावर ।। | 6-65-48a 6-65-48b |
पद्मगर्भविशालाक्ष जय लोकेश्वरेश्वर। भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ।। | 6-65-49a 6-65-49b |
असङ्क्येयगुणाधार जय सर्वपरायण। नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ।। | 6-65-50a 6-65-50b |
जय सर्वगुणोपेत विश्वमूर्ते निरामय। विश्वेश्वर महाबाहो जय लोकार्थतत्पर ।। | 6-65-51a 6-65-51b |
महोरगवराहाद्य हरिकेश विभो जय। हरिवासदिशामीश विश्ववासामिताव्यय ।। | 6-65-52a 6-65-52b |
व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सत्त्क्रिय । असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद ।। | 6-65-53a 6-65-53b |
अनन्त विदित ब्रह्मन्नित्यभूतविभावन । कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयावह ।। | 6-65-54a 6-65-54b |
गुह्यात्मन्सर्वयोगात्मन्स्फुटसंभूतसंभव। भूताद्य लोकत्त्वेश जय भूतविभावन ।। | 6-65-55a 6-65-55b |
आत्मयोगे महाभाग कल्पसंक्षेपतत्पर । उद्भावनमनोभाव जय ब्रह्म जयप्रिय ।। | 6-65-56a 6-65-56b |
निसर्गसर्गनिरत कामेश परमेश्वर । अमृतोद्भवसद्भाव मुक्तात्मन्विजयप्रद ।। | 6-65-57a 6-65-57b |
प्रजापतिपते देव पद्मनाभ महाबल। आत्मभूतमहाभूत सत्वात्मञ्जय सर्वदा ।। | 6-65-58a 6-65-58b |
पादौ तव धा देवी दिशो बाहु दिवं शिरः। मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी ।। | 6-65-59a 6-65-59b |
बलं तपश्च सत्यं च कर्म धर्मात्मकं तव। तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः ।। | 6-65-60a 6-65-60b |
अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती। वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ।। | 6-65-61a 6-65-61b |
न सङ्ख्यानं परीमाणं न तेजो न पराक्रमम् । न बलं योगयोगीश जानीमस्ते परंतप ।। | 6-65-62a 6-65-62b |
त्वद्भक्तिनिरता देव नियमैस्त्वां समाश्रिताः। अर्चयामः सदा विष्णो परमेशं महेश्वरम् ।। | 6-65-63a 6-65-63b |
ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः। पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ।। | 6-65-64a 6-65-64b |
एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् । पद्मनाभ विशालाक्ष कृष्ण दुःश्वप्रणाशन ।। | 6-65-65a 6-65-65b |
त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगद्गुरुः । त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ।। | 6-65-66a 6-65-66b |
पृथिवी निर्भया देव त्वत्प्रसादात्सदाऽभवत् । तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ।। | 6-65-67a 6-65-67b |
धर्मसंस्थापनार्थाय दैत्यानां च बधाय च। जगतो धारणार्थाय विज्ञाप्यं कुरु मे विभो ।। | 6-65-68a 6-65-68b |
यत्तत्परमकं गुह्यं त्वत्प्रसादादिदं विभो। वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ।। | 6-65-69a 6-65-69b |
सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना। कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम् ।। | 6-65-70a 6-65-70b |
प्रद्युम्नादनिरुद्धं त्वं यं विदुर्विष्णुमव्ययम्। अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम्।। | 6-65-71a 6-65-71b |
वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः। तस्माद्याचामि लोकेश चतुरात्मानमात्मना। विभज्य भागशोत्मानं व्रज मानुषतां विभो ।। | 6-65-72a 6-65-72b 6-65-72c |
तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै। धर्मं प्राप्य यशः प्राप्य योगं प्राप्स्यति तत्त्वतः ।। | 6-65-73a 6-65-73b |
त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम । तैस्तैर्हि नामभिर्युक्ता गायन्ति परमात्मकम् ।। | 6-65-74a 6-65-74b |
स्थिताश्च सर्वे त्वयि भूतसङ्घाः कृत्वाश्रयं त्वां वरदं सुबाहो। अनादिमध्यान्तमपारयोगं लोकस्य सेतुं प्रवदन्ति विप्राः ।। | 6-65-75a 6-65-75b 6-65-75c 6-65-75d |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चषष्टितमोऽध्यायः ।। |
6-65-22 सापह्नवाः इति पाठे अपरिसंख्यातकिल्बिषा ।। 6-65-26 मन्यसि कमन्यसे ।। 6-65-35 मह्यं नम ।।
भीष्मपर्व-064 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-066 |