महाभारतम्-06-भीष्मपर्व-099
← भीष्मपर्व-098 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-099 वेदव्यासः |
भीष्मपर्व-100 → |
कुरुपाण्डवसेनयोर्व्यूहरचनापूर्वकं परस्पराभिगमनम् ।। 1 ।।
|
सञ्जय उवाच। | 6-99-1x |
ततः शान्तनवो भीष्मो निर्ययौ सह सेनया। व्यूहं चाव्यूहत महत्सर्वतोभद्रमात्मनः ।। | 6-99-1a 6-99-1b |
कृपश्च कृतवर्मा च शैब्यश्चैव महारथः । शकुनिः सैन्धवश्चैव काम्भोजश्च सुदक्षिणः ।। | 6-99-2a 6-99-2b |
भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत । अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ।। | 6-99-3a 6-99-3b |
द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष । दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ।। | 6-99-4a 6-99-4b |
अश्वत्थामा सोमदत्तश्चावन्त्यौ च महारथौ । महत्या सेनया युक्ता वामं पक्षमपालयन् ।। | 6-99-5a 6-99-5b |
दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः । व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ।। | 6-99-6a 6-99-6b |
अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः । पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ।। | 6-99-7a 6-99-7b |
एवं च तं तदा व्यूहं कृत्वा भारत तावकाः। सन्नद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ।। | 6-99-8a 6-99-8b |
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः। नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ।। | 6-99-9a 6-99-9b |
अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः । धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ।। | 6-99-10a 6-99-10b |
स्थिताः सैन्येन महता परानीकविनाशनाः । शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः ।। | 6-99-11a 6-99-11b |
चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् । स्थिता रणे महाराज महत्या सेनया वृताः ।। | 6-99-12a 6-99-12b |
अभिमन्युर्महेष्वासो द्रुपदश्च महाबलः । युयुधानो महेष्वासो युधामन्युश्च वीर्यवान् ।। | 6-99-13a 6-99-13b |
केकया भ्रातरश्चैव स्थिता युद्धाय दंशिताः । एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् ।। | 6-99-14a 6-99-14b |
पाण्डवाः समरे शूराः स्थिता युद्धाय दंशिताः । तावकास्तु रणे यत्ताः सहसेना नराधिपाः ।। | 6-99-15a 6-99-15b |
अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाऽग्रतो नृप। तथैव पाण्डवा राजन्भीमसेनपरोगमाः ।। | 6-99-16a 6-99-16b |
भीष्मं योद्धुमभीप्सन्तः संग्रामे विजयैषिणः । क्ष्वेलाः किलकिलाः शङ्खान्क्रकचान्गोविषाणिकाः ।। | 6-99-17a 6-99-17b |
भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान्। पाण्डवा अभ्यवर्तन्त नदन्तो भैरवान्रवान् ।। | 6-99-18a 6-99-18b |
भेरीमृद्गशङ्खानां दुन्दुभीनां च निःस्वनैः । उत्कृष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ।। | 6-99-19a 6-99-19b |
वयं प्रतिनदन्तस्तानगच्छाम त्वरान्विताः । सहसैवाभिसंक्रद्धास्तदासीत्तुमुलं महत् ।। | 6-99-20a 6-99-20b |
ततोऽन्योन्यं प्रधावन्तः संप्रहारं प्रचक्रिरे । ततः शब्देन महता प्रचकम्पे वसुंधरा ।। | 6-99-21a 6-99-21b |
पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः । सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ।। | 6-99-22a 6-99-22b |
ववुश्च वातास्तुमुलाः शंसन्तः सुमहद्भयम् । घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ।। | 6-99-23a 6-99-23b |
वेदयन्त्यो महाराज महद्वैशसमागतम्। दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च ।। | 6-99-24a 6-99-24b |
रुधिरेण समुन्मिश्रमस्थिवर्षं पपात च । रुदतां वाहनानां च नेत्रेभ्यः प्रापतञ्जलम् ।। | 6-99-25a 6-99-25b |
सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशांपते । अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ ।। | 6-99-26a 6-99-26b |
रक्षसां पुरुषादानां नदतां भैरवान्रवान् । संपतन्तश्च दृश्यन्ते गोमायबलवायसाः ।। | 6-99-27a 6-99-27b |
श्वानश्च विविधैर्नादैर्भषन्तस्तत्र मारिष । ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् । निपेतुः सहसा भूमौ वेदयन्त्यो महद्भयम् ।। | 6-99-28a 6-99-28b 6-99-28c |
महान्त्यनीकानि महासमुच्छ्रये ततस्तयोः पाण्डवधार्तराष्ट्रयोः। चकम्पिरे शङ्खमृदङ्गनिःस्वनैः प्रकम्पितानीव वनानि वायुना ।। | 6-99-29a 6-99-29b 6-99-29c 6-99-29d |
नरेन्द्रनागाश्वसमाकुलाना- मभ्यायतीनामशिवे मुहूर्ते। बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ।। | 6-99-30a 6-99-30b 6-99-30c 6-99-30d |
।। इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे एकोनशततमोऽध्यायः ।। |
6-99-27 बलवायसाः बलोदग्राः काकाः ।। 6-99-29 महासमुच्छ्रये महति युद्धे ।। 6-99-30 अभ्यायतीनामभिमुखमागच्छन्तीनाम् ।।
भीष्मपर्व-098 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-100 |