महाभारतम्-06-भीष्मपर्व-012
← भीष्मपर्व-011 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-012 वेदव्यासः |
भीष्मपर्व-013 → |
क्रौञ्चदिद्वीपवर्णनम् ।। 1 ।।
|
सञ्जय उवाच। | 6-12-1x |
उत्तरेषु च कौरव्य द्वीपेषु श्रूयते कथा। एवं तत्र महाराज ब्रुवतश्च निबोध मे ।। | 6-12-1a 6-12-1b |
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः । सुरोदः सागरश्चैव तथान्यो जलसागरः ।। | 6-12-2a 6-12-2b |
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप । पर्वताश्च महाराज समुद्रैः परिवारिताः ।। | 6-12-3a 6-12-3b |
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् । पर्वतः पश्चिमे कृष्णो नारायणसखो नृप ।। | 6-12-4a 6-12-4b |
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः । प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधत्सुखम् ।। | 6-12-5a 6-12-5b |
कुशस्तम्बः कुशद्वीपे मध्ये जनपदैः सह । संपूज्यते शाल्मलिश्च द्वीपे शाल्मलिके नृप ।। | 6-12-6a 6-12-6b |
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः । संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा ।। | 6-12-7a 6-12-7b |
गोमन्तः पर्वतो राजन्सुमहान्सर्वधातुमान् । यत्र नित्यं निवसति श्रीमान्कमललोचनः ।। | 6-12-8a 6-12-8b |
मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः । कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः ।। | 6-12-9a 6-12-9b |
सुनामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः । द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः ।। | 6-12-10a 6-12-10b |
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः । षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ।। | 6-12-11a 6-12-11b |
तेषामन्तरविष्कम्भो द्विगुणः सर्वभागशः । औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ।। | 6-12-12a 6-12-12b |
तृतीयं सुरथाकारं चतुर्थं कम्बलं स्मृतम् । धृतिमत्पञ्चमं वर्षं षष्ठं प्रभाकरम् ।। | 6-12-13a 6-12-13b |
सप्तमं कापिलं वर्षं सप्तैते वर्षलम्भकाः । एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर ।। | 6-12-14a 6-12-14b |
विहरन्ते रमन्ते च न तेषु म्रियते जनः। न तेषु दस्यवः सन्ति म्लेच्छजात्योपि वा नृप ।। | 6-12-15a 6-12-15b |
गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव । अवशिष्टेषु सर्वेषु वक्ष्यामि मनुजेश्वर ।। | 6-12-16a 6-12-16b |
यथाश्रुतं महाराज तदव्यग्रमनाः श्रृणु । क्रौञ्चद्वीपे महारा क्रौञ्चो नाम महागिरिः ।। | 6-12-17a 6-12-17b |
क्रौञ्चात्परो वामनको वामनादन्धकारकः। अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः । | 6-12-18a 6-12-18b |
मैनाकात्परतो रादन्गोविन्दो गिरिरुत्तमः । गोविन्दात्परतो राजन्निबिडो नाम पर्वतः ।। | 6-12-19a 6-12-19b |
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन । देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः श्रृणु ।। | 6-12-20a 6-12-20b |
क्रोञ्चस्य कुशलो देशो वामनस्य मनोनुगः। मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह ।। | 6-12-21a 6-12-21b |
उष्णात्परः प्रावरकः प्रावारादन्धकारकः। अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ।। | 6-12-22a 6-12-22b |
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः। सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप ।। | 6-12-23a 6-12-23b |
एते देशा महाराज देवगन्धर्वसेविताः । पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् ।। | 6-12-24a 6-12-24b |
तत्र नित्यं प्रभवति स्वयं देवः प्रजापतिः । तं पर्युपासते नित्यं देवाः सर्वे महर्षयः ।। | 6-12-25a 6-12-25b |
वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप। जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत ।। | 6-12-26a 6-12-26b |
द्वीपेषु तेषु सर्वेषु प्रजानां कुरुसत्तम। ब्रह्मचर्येण सत्येन प्रजानां हि दमेन च ।। | 6-12-27a 6-12-27b |
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः। एको जनपदो राजन्द्वीपेष्वेतेषु भारत। उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ।। | 6-12-28a 6-12-28b 6-12-28c |
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः । द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ।। | 6-12-29a 6-12-29b |
स राजा स शिवो राजन्स पिता प्रतितामहः । गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ।। | 6-12-30a 6-12-30b |
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् । सिद्धमेव महाबाहो तद्धि भुञ्जन्ति नित्यदा ।। | 6-12-31a 6-12-31b |
ततः परं समा नाम दृश्यते लोकसंस्थितिः। चतुरश्र महाराज त्रयस्त्रिंशत्तु मण्डलम् ।। | 6-12-32a 6-12-32b |
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः। दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ।। | 6-12-33a 6-12-33b |
सुप्रतीकस्तदा राजन्प्रभिन्नकरटामुखः। तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे ।। | 6-12-34a 6-12-34b |
असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा । तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव हि ।। | 6-12-35a 6-12-35b |
असंबद्धा महाराज तान्निगृह्णन्ति ते गजाः । पुष्करैः पद्मसंकाशैर्विकसद्भिर्महाप्रभैः ।। | 6-12-36a 6-12-36b |
शतधा पुनरेवाशु ते तान्मुञ्चन्ति नित्यशः । श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः । आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ।। | 6-12-37a 6-12-37b 6-12-37c |
धृतराष्ट्र उवाच। | 6-12-38x |
परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः। दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय ।। | 6-12-38a 6-12-38b |
सञ्जय उवाच। | 6-12-39x |
उक्ता द्वीपा महाराज ग्रहं वै शृणु तत्त्वतः । स्वर्भानोः कौरवश्रेष्ठ यावदेव प्रमाणतः ।। | 6-12-39a 6-12-39b |
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः । योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ।। | 6-12-40a 6-12-40b |
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ । षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ।। | 6-12-41a 6-12-41b |
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः । विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ।। | 6-12-42a 6-12-42b |
एकोनषष्टिविष्कम्भं शीतरश्मेर्महात्मनः ।। | 6-12-43a |
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन। विष्कम्भेण ततो राजन्मण्डलं त्रिंशता समम् ।। | 6-12-44a 6-12-44b |
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ। श्रूयते परमोदारः पतगोऽसौ विभावसुः ।। | 6-12-45a 6-12-45b |
एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत । स राहुश्छादयत्येतौ यथाकालं महात्तया ।। | 6-12-46a 6-12-46b |
चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः । इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा ।। | 6-12-47a 6-12-47b |
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि । यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत् ।। | 6-12-48a 6-12-48b |
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति। श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् ।। | 6-12-49a 6-12-49b |
श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः । आयुर्बलं च कीर्तिश्च तस्य तेजश्च वर्धते ।। | 6-12-50a 6-12-50b |
यः शृणोति महीपाल पर्वणीदं यतव्रतः । प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ।। | 6-12-51a 6-12-51b |
इदं तु भारतं वर्षं यत्र वर्तामहे वयम्। पूर्वैः प्रवर्तितं पुण्यं तत्सर्वं श्रुतवानसि ।। | 6-12-52a 6-12-52b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भूमिपर्वणि द्वादशोऽध्यायः ।। | |
।। समाप्तमिदं भूमिपर्व ।। |
6-12-4 मानःशिलो मनःशिलामयः ।। 6-12-34 तस्य गजचतुष्टयस्य पृथिव्या आश्रयभूतस्य । तत्कस्योपरिवर्तते इति दुर्वचम्। तेन ईश्वरशक्त्यैव दिग्गजा ध्रियन्त इति भावः ।। 6-12-36 पुष्करैः शुण्डाग्रैः ।। 6-12-39 उत्तरं सूर्येन्दुराहुप्रमाणम् ।। 6-12-41 परिणाहेन परिधिना षट्त्रिंशत्सहस्राणि विपुलत्वेन ततोऽप्याधिक्येन ।। 6-12-42 षष्टिर्योजनानि परिणाह एवेत्यर्थः ।। 6-12-45 पतगः शीघ्रगः । विभावसुः सूर्यः ।।
भीष्मपर्व-011 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-013 |