महाभारतम्-06-भीष्मपर्व-095

← भीष्मपर्व-094 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-095
वेदव्यासः
भीष्मपर्व-096 →

भगदत्तादियुद्धम् ।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
सञ्जय उवाच। 6-95-1x
तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा।
`पराजयं राक्षसेन नामृष्यत परंतपः।'
गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च ।।
6-95-1a
6-95-1b
6-95-1c
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे।
घटोत्कचस्य विजयमात्मनश्च पराजयम् ।।
6-95-2a
6-95-2b
कथयामास दुर्धर्षो विनिःश्वस्य पुनःपुनः ।
अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ।।
6-95-3a
6-95-3b
भवन्तं समुपाश्रित्य द्रोणं चैव पितामह ।
पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ।।
6-95-4a
6-95-4b
एकादश समाख्याता अक्षौहिण्यश्च या मम।
निदेशे तव तिष्ठन्ति मया सार्धं परंतप ।।
6-95-5a
6-95-5b
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः ।
घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ।।
6-95-6a
6-95-6b
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः ।
तदिच्छामि महाभाग त्वत्प्रसादात्परंतप ।।
6-95-7a
6-95-7b
राक्षसापशदं हन्तुं स्वयमेव पितामह ।
त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ।।
6-95-8a
6-95-8b
सञ्जय उवाच। 6-95-9x
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम।
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ।।
6-95-9a
6-95-9b
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि कौरव।
यथा त्वया महाराज वर्तितव्यं परंतप ।।
6-95-10a
6-95-10b
आत्मा रक्ष्यस्त्वया तात सर्वावस्थास्वरिन्दम।
धर्मराजेन संग्रामस्त्वया कार्यः सदाऽनघ ।।
6-95-11a
6-95-11b
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः ।
अन्यैर्वा पृथिवीपालै राजा राजानमृच्छति ।।
6-95-12a
6-95-12b
न तु कार्यस्त्वया राजन्हैडिम्बेन दुरात्मा।
अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः।
शल्यश्च वृषसेनश्च विकर्णश्च महारथः ।।
6-95-13a
6-95-13b
6-95-13c
शेषाश्च भ्रातरस्त्वन्ये दुःशासनपुरोगमाः।
त्वदर्थे प्रतियोत्स्यामो राक्षसं तं महाबलम् ।।
6-95-14a
6-95-14b
रौद्रे तस्मिन्राक्षसेन्द्रे यदि ते हृच्छयो महान् ।
अयमागच्छतु रणं तस्य युद्धाय दुर्मतेः ।।
6-95-15a
6-95-15b
भगदत्तो महीपालः पुरन्दरसमो युधि ।
एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् ।।
6-95-16a
6-95-16b
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः।
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् ।।
6-95-17a
6-95-17b
वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् ।
राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ।।
6-95-18a
6-95-18b
तव दिव्यानि चास्त्राणि विक्रमश्च परंतप ।
समागमश्च बहुभिः पुराऽभूदमरैः सह ।।
6-95-19a
6-95-19b
त्वं तस्य नृपशार्दूल प्रतियोद्धा महाहवे ।
स्वबलेनावृतो गच्छ जहि राक्षसपुङ्गवम् ।।
6-95-20a
6-95-20b
सञ्जय उवाच। 6-95-21x
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः।
प्रययौ सिंहनादेन परानभिमुखको द्रुतम् ।।
6-95-21a
6-95-21b
तमापतन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् ।
अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः ।।
6-95-22a
6-95-22b
भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः ।
द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च भारत ।।
6-95-23a
6-95-23b
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा ।
सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ।।
6-95-24a
6-95-24b
ततः समभवद्युद्धं घोररूपं भयानकम्।
पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ।।
6-95-25a
6-95-25b
प्रयुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः ।
ते निपेतुर्महाराज नागेषु च रथेषु च ।।
6-95-26a
6-95-26b
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः ।
परस्परं समासाद्य संनिपेतुरभीतवत् ।।
6-95-27a
6-95-27b
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे ।
बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ।।
6-95-28a
6-95-28b
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः ।
चोदिताः सादिभिः क्षिप्रं निजघ्रुरितरेतरम् ।।
6-95-29a
6-95-29b
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः।
न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ।।
6-95-30a
6-95-30b
रथिनश्च रथाकंश्चित्रान्कर्णिनालीकतोमरैः ।
निहत्य समरे वीरान्सिंहनादान्विनेदिरे ।।
6-95-31a
6-95-31b
तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे ।
भगतत्तो महेष्वासो भीमसेनमथाद्रवत् ।।
6-95-32a
6-95-32b
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम्।
पर्वतेन यथा तोयं स्रवमाणेन सर्वशः ।।
6-95-33a
6-95-33b
किरञ्छरसहस्राणि सुप्रतीकशिरोगतः ।
ऐरावतस्थो मघवान्वारिधारा इवानघ ।।
6-95-34a
6-95-34b
स भीमं शरधाराभिस्ताजयामास पार्थिवः ।
पर्वतं वारिधाराभिस्तपान्ते जलदो यथा ।।
6-95-35a
6-95-35b
भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान्।
निजघान महेष्वासः संरब्धः शरवृष्टिभिः ।।
6-95-36a
6-95-36b
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् ।
चोदयामास नागेन्द्रं भीमसेनरथं प्रति ।।
6-95-37a
6-95-37b
स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा।
अभ्यधावत वेगेन भीमसेनपुरोगमाः ।।
6-95-38a
6-95-38b
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथाः।
अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ।।
6-95-39a
6-95-39b
केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः।
दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ।।
6-95-40a
6-95-40b
चेदिपो धृष्टकेतुश्च संरब्धाः सर्व एव ते।
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः ।।
6-95-41a
6-95-41b
तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् ।
स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः ।।
6-95-42a
6-95-42b
संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट्।
दशार्णाधिपतिश्चाऽपि गजं भूमिधरोपमम् ।।
6-95-43a
6-95-43b
समास्थितोऽभिदुद्राव भगदत्तस्य वारणम्।
तमापतन्तं समरे जगं जगपतिः स च ।।
6-95-44a
6-95-44b
दधार सुप्रतीकोऽपि वेलेव मकरालयम् ।
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः ।।
6-95-45a
6-95-45b
साधुसाध्विति सैन्यानि त्वदीयान्यभ्यपूजयन् ।
ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश ।।
6-95-46a
6-95-46b
प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम।
तस्य कुम्भपरित्राणां शातकुम्भपरिष्कृतम् ।।
6-95-47a
6-95-47b
विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः।
स गाढविद्धो व्यथितो नागो भरतसत्तम ।।
6-95-48a
6-95-48b
उपावृत्तमदः क्षिप्रमभ्यवर्तत वेगिनः ।
स प्रदुद्राव वेगेन प्रणदन्भैरवं रवम् ।।
6-95-49a
6-95-49b
संमर्दमानः स्वबलं वायुर्वृक्षानिवौजसा ।
तस्मिन्पराजिते नागे पाण्डवानां महारथाः ।।
6-95-50a
6-95-50b
सिंहनादं विनद्योच्चैर्युद्धायैवावतस्थिरे ।
ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् ।।
6-95-51a
6-95-51b
किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च।
तेषामापततां राजन्संक्रुद्धानाममर्षिणाम् ।।
6-95-52a
6-95-52b
श्रुत्वा स निनदंक घोरममर्षाद्गतसाध्वसः ।
भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ।।
6-95-53a
6-95-53b
अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि।
तस्मिन्क्षणे समभवत्सांवर्तक इवानलः ।।
6-95-54a
6-95-54b
रथसङ्घांस्तथा नागान्हयांश्च हयसादिनः ।
पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशःक ।।
6-95-55a
6-95-55b
अमृद्गात्समरे नागः संप्रधावंस्ततस्ततः।
तेन संलोड्यमानं तु पाण्डवानां बलं महत् ।।
6-95-56a
6-95-56b
संचुकोच महाराज चर्मेवाग्नौ समाहितम् ।
भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता ।।
6-95-57a
6-95-57b
घटोत्कचोऽथ संक्रुद्धो भगदत्तमुपाद्रवत्।
विकटः परुषो राजन्दीप्तास्यो दीप्तलोचनः ।।
6-95-58a
6-95-58b
रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव ।
जग्राह विमलं शूलं गिरीणामपि दारणम् ।।
6-95-59a
6-95-59b
नागं जिघांसुः सहसा चिक्षेप च महाबलः।
स विस्फुलिङ्गमालाभिः समन्तात्परिवेष्टितम् ।।
6-95-60a
6-95-60b
तमापतन्तं सहसा दृष्ट्वा प्राग्ज्योतिषो नृपः ।
चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं सुदारुणम् ।।
6-95-61a
6-95-61b
चिच्छेद तन्महच्छूलं तेन बाणेन वेगवान् ।
उत्पपात द्विधा च्छिन्नं शूलं हेमपरिष्कृतम् ।।
6-95-62a
6-95-62b
महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता ।
शूलं निपतितं दृष्ट्वा द्विधा कृत्तं च पार्थिवः ।।
6-95-63a
6-95-63b
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमान् ।
चिक्षेप तां राक्षसस्य तिष्ठितिष्ठेति चाब्रवीत् ।।
6-95-64a
6-95-64b
तामापतन्तीं संप्रेक्ष्य वियत्स्थामशनीमिव ।
उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ।।
6-95-65a
6-95-65b
बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत।
पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ।।
6-95-66a
6-95-66b
तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा।
दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ।।
6-95-67a
6-95-67b
पाण्डवाश्च महाराज भीमसेनपुरोगमाः ।
साधुसाध्विति नादेन पृथिवीमन्वनादयन् ।।
6-95-68a
6-95-68b
तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् ।
नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ।।
6-95-69a
6-95-69b
स विष्फार्य महच्चापमिन्द्राशानिसमप्रभम् ।
अभिदुद्राव वेगेन पाण्डवानां महारथान् ।।
6-95-70a
6-95-70b
विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् ।
भीममेकेन विव्याध राक्षसं नवभिः शरैः ।।
6-95-71a
6-95-71b
अभिमन्युं त्रिभिश्चैव केकयान्पञ्च पञ्चभिः ।
पूर्णायतविसृष्टेन शरेणानतपर्वणा ।।
6-95-72a
6-95-72b
बिभेद दक्षिणं बाहुं क्षत्रेदवस्य चाहवे ।
पपात सहसा तस्य सशरं धनुरुत्तमम् ।।
6-95-73a
6-95-73b
द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् ।
भीमसेनस्य च क्रोधान्निजघान तुरंगमान् ।।
6-95-74a
6-95-74b
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः ।
निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ।।
6-95-75a
6-95-75b
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ।।
6-95-76a
6-95-76b
ततो भीमो महाबाहुर्विरथो रथिनां वरः ।
गदां प्रगृह्य वेगेन प्रचस्कन्द रथोत्तमात् ।।
6-95-77a
6-95-77b
तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् ।
तावकानां भयं घोरं समपद्यत भारत ।।
6-95-78a
6-95-78b
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः ।
आजगाम महाराज निघ्नञ्शत्रून्समन्ततः ।।
6-95-79a
6-95-79b
यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ महाबलौ ।
प्राग्ज्योतिषेण संयुक्तौ भीमसेनघटोत्कचौ ।।
6-95-80a
6-95-80b
दृष्ट्वा च पाण्डवो भ्रातॄन्युध्यमानान्महारथान् ।
त्वरितो भरतश्रेष्ठ तत्रायुध्यत्किरञ्छरान् ।।
6-95-81a
6-95-81b
ततो दुर्योधनो राजा त्वरमाणो महारथः ।
सेनामचोदयत्क्षिप्रं रथनागाश्वसंकुलाम् ।।
6-95-82a
6-95-82b
तामापतन्तीं सहसा कौरवाणां महाचमूम् ।
अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ।।
6-95-83a
6-95-83b
भगदत्तश्च समरे तेन नागेन भारत।
विमृद्गन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ।।
6-95-84a
6-95-84b
तदासीत्सुमहद्युद्धं भगदत्तस्य मारिष।
पाञ्चालैः पाण्डवेयैश्च केकयैश्चोद्यतायुधैः ।।
6-95-85a
6-95-85b
भीमसेनोऽपि समरे तावुभौ केशवार्जिनौ ।
अश्रावयद्यथावृत्तमिरावद्वधतुत्तमम् ।।
6-95-86a
6-95-86b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
अष्टमदिवसयुद्धे पञ्चनवतितमोऽध्यायः ।।

सम्पाद्यताम्

6-95-4 भवन्तं समुपाश्रित्य वासुदेवं यथा परैः इति झo पाठः। ड पाठे अयमर्थश्लोको नास्ति।। 6-95-15 अनुशय इति पाठे पश्चात्तापः ।। 6-95-77 प्रचस्कन्द अवततार ।।

भीष्मपर्व-094 पुटाग्रे अल्लिखितम्। भीष्मपर्व-096