महाभारतम्-06-भीष्मपर्व-008
← भीष्मपर्व-007 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-008 वेदव्यासः |
भीष्मपर्व-009 → |
मेरोरुत्तरभागस्थखण्डत्रयवर्णनम् ।। 1 ।।
|
धृतराष्ट्र उवाच। | 6-8-1x |
वर्षाणां चैव नामानि पर्वतानां च संजय। आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ।। | 6-8-1a 6-8-1b |
संजय उवाच। | 6-8-2x |
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु। वर्षं रमणकं नाम जायन्ते तत्र मानवाः ।। | 6-8-2a 6-8-2b |
शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः। निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ।। | 6-8-3a 6-8-3b |
दशवर्षसहस्राणि शतानि दश पञ्च च। जीवन्ति ते महाराज नित्यं मुदितमानसाः ।। | 6-8-4a 6-8-4b |
दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण तु। वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ।। | 6-8-5a 6-8-5b |
यत्र चायं महाराज पक्षिराट् पतगोत्तमः। यक्षानुगा महाराज धनिनः प्रियदर्शनाः ।। | 6-8-6a 6-8-6b |
महाबलास्तत्र जना राजन्मुदितमानसाः। एकादशसहस्राणि वर्षाणां ते जनाधिप ।। | 6-8-7a 6-8-7b |
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च। श्रृङ्गाणि वै श्रृङ्गवतस्त्रीण्येव मनुजाधिप ।। | 6-8-8a 6-8-8b |
एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् । सर्वरत्नमयं चैकं भवनैरुपशोभितम् । तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली ।। | 6-8-9a 6-8-9b 6-8-9c |
उत्तरेण तु श्रृङ्गस्य समुद्रान्ते जनाधिप । वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ।। | 6-8-10a 6-8-10b |
न तत्र सूर्यस्तपति न जीर्यन्ते च मानवाः । चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ।। | 6-8-11a 6-8-11b |
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः । पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ।। | 6-8-12a 6-8-12b |
अनिष्पन्दा इष्टगन्धा निराहारा जितेन्द्रियाः । देवलोकच्युताः सर्वे तथा विरजसो नृप ।। | 6-8-13a 6-8-13b |
त्रयोदशसहस्राणि वर्षाणां ते जनाधिप । आयुःप्रमाणं जीवन्ति नरा भरतसत्तम ।। | 6-8-14a 6-8-14b |
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः । हरिर्वसति वैकुण्ठः शकटे कनकोञ्ज्वले ।। | 6-8-15a 6-8-15b |
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् । अग्निवर्णं महातेजो जाम्बूनदविभूषितम् ।। | 6-8-16a 6-8-16b |
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ । संक्षेपो विस्तरश्चैव कर्ता कारयिता तथा ।। | 6-8-17a 6-8-17b |
पृथिव्यापस्तथाऽऽकाशं वायुस्तेजश्च पार्थिव । स यज्ञः सर्वभूतनामास्यं तस्य हुताशनः ।। | 6-8-18a 6-8-18b |
वैशंपायन उवाच। | 6-8-19x |
एवमुक्तः संजयेन धृतराष्ट्रो महामनाः। ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ।। | 6-8-19a 6-8-19b |
स विचिन्त्य महातेजाः पुनरेवाब्रवीद्वचः। असंशयं सूतपुत्र कालः संक्षिपते जगत् ।। | 6-8-20a 6-8-20b |
सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् । नरो नारायणश्चैव सर्वज्ञः सर्वभूतहृत् ।। | 6-8-21a 6-8-21b |
देवा वैकुण्ठ इत्याद्दुर्वेदा विष्णुरिति प्रभुम् ।। | 6-8-22a |
।। इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि अष्टमोऽध्यायः ।। |
6-8-2 यत्पूर्वं श्वेतवर्षमित्युक्तं तस्यैव रमणकमिति संज्ञान्तरम् ।। 6-8-8 शृङ्गवतः षष्ठस्य वर्षपर्वतस्य ।। 6-8-10 शृङ्गस्य शृङ्गवतः ।। 6-8-13 अनिष्पन्दा अश्वेदाः । देवतुल्या इत्यर्थः ।।
भीष्मपर्व-007 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-009 |