महाभारतम्-06-भीष्मपर्व-097
← भीष्मपर्व-096 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-097 वेदव्यासः |
भीष्मपर्व-098 → |
भीष्मो न्यस्तशस्त्रश्चेदहं पाण्डवान् जेष्यामीति कर्णबोधितेन दुर्योधनेन रात्रौ भीष्ममेत्य कर्णस्य युद्धानुज्ञाप्रार्थना ।। 1 ।।
|
सञ्जय उवाच। | 6-97-1x |
ततो दुर्योधनो राजा शकुनिश्चापि सौबलः। दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ।। | 6-97-1a 6-97-1b |
समागम्य महाराज मन्त्रं चक्रुर्विवक्षितम् । कथं पाण्डुसुताः सङ्ख्ये जेतव्याः सगणा इति।। | 6-97-2a 6-97-2b |
ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः । सूतपुत्रं समाभाष्य सौबलं च महाबलम् ।। | 6-97-3a 6-97-3b |
द्रोणो भीष्म कृपः शल्यः सौमदत्तिश्च संयुगे। न पार्थान्प्रति बाधन्ते न जाने किंनु कारणम् ।। | 6-97-4a 6-97-4b |
अवध्यमानास्ते चापि क्षपयन्ति बलं मम। सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे ।। | 6-97-5a 6-97-5b |
`द्रोणस्य प्रमुखे वीरा हतास्ते भ्रातरो मम। भीमसेनेन राधेय मम चैव च पश्यतः '।। | 6-97-6a 6-97-6b |
निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि । सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् ।। | 6-97-7a 6-97-7b |
सञ्जय उवाच। | 6-97-8x |
तमब्रवीन्महाराज सूतपुत्रो नराधिपम् । मा शोच भरतश्रेष्ठ करिष्येऽहं प्रियं तव ।। | 6-97-8a 6-97-8b |
भीष्मः शान्तनवस्तूर्णमपयातु महारणात् । निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत ।। | 6-97-9a 6-97-9b |
अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः । पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ।। | 6-97-10a 6-97-10b |
पाण्डवेषु दयां नित्यं स हि भीष्मः करोति वै। अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ।। | 6-97-11a 6-97-11b |
अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः । स कथं पाण्डवान्युद्धे जेष्यते तात संगतान् ।। | 6-97-12a 6-97-12b |
स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति । अनुमान्य गुरुं वृद्धं शस्त्रं न्यासय भारत ।। | 6-97-13a 6-97-13b |
न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् । मयैकेन रणे राजन्ससुहृद्गणबान्धवान् ।। | 6-97-14a 6-97-14b |
एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव । अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ।। | 6-97-15a 6-97-15b |
अनुयात्रं यथा सर्वं सज्जीभवति सर्वशः । दुःशासन तथा क्षिप्रं सर्वमेवोपपादय ।। | 6-97-16a 6-97-16b |
एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः । अनुमान्य रणे भीष्ममेषोऽहं द्विपदां वरम् ।। | 6-97-17a 6-97-17b |
आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिन्दम। अपक्रान्ते ततो भीष्मे प्रहरिष्यसि संयुगे ।। | 6-97-18a 6-97-18b |
निष्पपात ततस्तूर्णं पुत्रस्तव विशांपते । सहितो भ्रातृभिस्तैस्तु देवैरिव शतक्रतुः ।। | 6-97-19a 6-97-19b |
ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् । आरोपयद्धयं तूर्णं भ्राता दुःशासनस्तदा ।। | 6-97-20a 6-97-20b |
अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृप । धार्तराष्ट्रो महाराज विबभौ स पथि व्रजन् ।। | 6-97-21a 6-97-21b |
भण्डीपुष्पनिकाशेन तपनीयनिभेन च। अनुलिप्तः परार्द्ध्येन चन्दनेन सुगन्धिना ।। | 6-97-22a 6-97-22b |
अरजोम्बरसंवीतः सिंहखेलगतिर्नृप । शुशुभे विमलार्चिष्मान्नभसीव दिवाकरः ।। | 6-97-23a 6-97-23b |
तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति । अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः । भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ।। | 6-97-24a 6-97-24b 6-97-24c |
हयानन्ये समारुह्य गजानन्ये च भारत । रथानन्ये नरश्रेष्ठं परिवव्रुः समन्ततः ।। | 6-97-25a 6-97-25b |
`पदातयश्च त्वरिता नखरप्रासयोधिनः। परिवव्रुर्महेष्वासं धार्तराष्ट्रं महारथम् ।।' | 6-97-26a 6-97-26b |
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः । प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि ।। | 6-97-27a 6-97-27b |
स पूज्यमानः कुरुभिः कौरवाणां महाबलः । प्रययौ सदनं राजा गाङ्गेयस्य यशस्विनः । अन्वीयमानः सततं सोदरैः परिवारितः ।। | 6-97-28a 6-97-28b 6-97-28c |
दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा। हस्तिहस्तोपमं सौम्यं सर्वशत्रुनिबर्हणम् ।। | 6-97-29a 6-97-29b |
प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतो दिशः। शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ।। | 6-97-30a 6-97-30b |
संस्तूयमानः सूतैश्च मागधैश्च महायशाः। पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः।। | 6-97-31a 6-97-31b |
प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचितैः । परिवव्रुर्महाराजं प्रज्वलद्भिः समन्ततः ।। | 6-97-32a 6-97-32b |
स तैः परिवृतो राजा प्रदीपैः काञ्चनैर्ज्वलन्। शुशुभे चन्द्रमायुक्तो दीप्तैरिव महाग्रहैः ।। | 6-97-33a 6-97-33b |
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः। प्रोत्सारयन्तः शनकैस्तं जनं सर्वतो दिशम् ।। | 6-97-34a 6-97-34b |
संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् । अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः ।। | 6-97-35a 6-97-35b |
अभिवाद्य ततो भीष्मं निषण्णः परमासने। काञ्चने सर्वतोभद्रे स्पर्द्ध्यास्तरणसंवृते। उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः ।। | 6-97-36a 6-97-36b 6-97-36c |
त्वां वयं हि समाश्रित्य संयुगे शत्रुसूदन । उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् । किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् ।। | 6-97-37a 6-97-37b 6-97-37c |
तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो। जहि पाणडुसुतान्वारान्महेन्द्र इव दानवान् ।। | 6-97-38a 6-97-38b |
पूर्वमुक्तं महाबाहो हनिष्यामि ससोमकान् । पाञ्चालान्केकयैः सार्धं करूपांश्चेति भारत ।। | 6-97-39a 6-97-39b |
त्वद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् । सोमकांश्च महेष्वासान्सत्यवाग्भव भारत ।। | 6-97-40a 6-97-40b |
दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो । मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् ।। | 6-97-41a 6-97-41b |
अनुजानीहि समरे कर्णमाहवशोभिनम् । स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् ।। | 6-97-42a 6-97-42b |
सञ्जय उवाच। | 6-97-43x |
स एवमुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव। नोवाच वचनं किंचिद्भीष्मं सत्यपराक्रमम् ।। | 6-97-43a 6-97-43b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तनवतितमोऽध्यायः ।। |
6-97-21 भण्डीपुष्पं मञ्जिष्ठापुष्पम् ।। 6-97-29 दक्षिणं स्वभुजं संभृत्य समुद्धृत्य ।।
भीष्मपर्व-096 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-098 |