महाभारतम्-06-भीष्मपर्व-108

← भीष्मपर्व-107 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-108
वेदव्यासः
भीष्मपर्व-109 →

भीष्मयुद्धम् ।। 1 । शिखण्डिनो भीष्मेण सह संवादो युद्धसन्नाहश्च ।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
धृतराष्ट्र उवाच। 6-108-1x
कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे।
पाण्डवाश्च कथं भीष्मं तन्ममाचक्ष्व सञ्जय ।।
6-108-1a
6-108-1b
सञ्जय उवाच। 6-108-2x
ततः प्रभाते विमले सूर्यस्योदयनं प्रति।
ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ।।
6-108-2a
6-108-2b
ध्मायमानेषु शङ्खेषु पाण्डरेषु समन्ततः ।
शिखण्डिनं पुरस्कृत्य निर्याप्ताः पाण्डवा युधि ।।
6-108-3a
6-108-3b
कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् ।
शिखण्डी सर्वसैन्यानामग्र आसीद्विशांपते ।।
6-108-4a
6-108-4b
चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ ।
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ।।
6-108-5a
6-108-5b
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः।
धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ।।
6-108-6a
6-108-6b
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः।
प्रययौ सिंहनादेन नादयन्भरतर्षभ ।।
6-108-7a
6-108-7b
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृत्तः ।
द्रुपदश्च महाबाहो ततः पञ्चादुपाद्रवत् ।।
6-108-8a
6-108-8b
केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् ।
जघनं पालयामासुः पाण्डवेयश्च राक्षसः ।।
6-108-9a
6-108-9b
एवं व्यूह्य महासैन्यं पाण्डवास्तव वाहिनीम् ।
अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः ।।
6-108-10a
6-108-10b
तथैव कुरवो राजन्भीष्मं कृत्वा महारथम् ।
अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ।।
6-108-11a
6-108-11b
पुत्रैस्तव दुराधर्षो रक्षितः सुमहाबलैः ।
ततो द्रोणो महेष्वासः पुत्रश्चास्य महाबलः ।।
6-108-12a
6-108-12b
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः ।
कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ।।
6-108-13a
6-108-13b
काम्भोजराजो बलवांस्ततः पश्चात्सुदक्षिणः ।
मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ।।
6-108-14a
6-108-14b
तथैवान्ये महेष्वासाः सुशर्मप्रमुखा नृपाः ।
जघनं पालयामासुस्तव सैन्यस्य भारत ।।
6-108-15a
6-108-15b
दिवसेदिवसे प्राप्ते भीष्मः शान्तनवो युधि।
आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ।।
6-108-16a
6-108-16b
ततः प्रववृते युद्धं तव तेषां च भारत।
अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ।।
6-108-17a
6-108-17b
अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्।
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान्।।
6-108-18a
6-108-18b
तत्र भारत भीमेन ताडितास्तावकाः शरैः।
रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ।।
6-108-19a
6-108-19b
नकुलः सहदेवश्च सात्यकिश्च महारथः ।
तव सैनयं समासाद्य पीडयामासुरोजसा ।।
6-108-20a
6-108-20b
ते वध्यामानाः समरे तावका भरतर्षभ ।
नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ।।
6-108-21a
6-108-21b
ततस्तु तावकं सैन्यं वध्यमानं समन्ततः।
संप्राद्रवद्दशः दिशः काल्यमानं महारथैः ।।
6-108-22a
6-108-22b
त्रातारं नाध्यगच्छन्त तावका भरतर्षभ ।
वध्यमानाः शितैर्बाणैः पाण्डवैः सह सृञ्जयैः ।।
6-108-23a
6-108-23b
धृतराष्ट्र उवाच। 6-108-24x
पीड्यमानं बलं दृष्ट्वा पार्थैर्भीष्मः पराक्रमी ।
यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय ।।
6-108-24a
6-108-24b
कथं वा पाण्डवा युद्धे प्रत्युद्याताः परंतपाः ।
निघ्नन्तो मामकान्वीरांस्तन्ममाचक्ष्व सञ्जय ।।
6-108-25a
6-108-25b
सञ्जय उवाच। 6-108-26x
आचक्षे ते महाराज यदकार्षीत्पिता तव।
पीडिते तव पुत्रस्य सैन्ये पाण्डव सृञ्जयैः ।।
6-108-26a
6-108-26b
प्रंहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज ।
अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ।।
6-108-27a
6-108-27b
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् ।
नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ।।
6-108-28a
6-108-28b
स पाणडवान्महेष्वासः पञ्चालांश्चैव सृञ्जयान् ।
नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ।।
6-108-29a
6-108-29b
अभ्यवर्षत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ।
स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् ।।
6-108-30a
6-108-30b
आत्तशस्त्रो रणे यत्नाद्वारयामास सायकैः ।
नानाशस्त्रास्त्रवर्षैस्तान्वीर्यामर्षप्रवेरितैः ।।
6-108-31a
6-108-31b
निजघ्ने समरे क्रुद्धो हस्त्यश्वं चामितं बहु।
रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभ ।।
6-108-32a
6-108-32b
सादिनश्चाश्वपृष्ठेभ्यः पादातांश्च समागतान् ।। 6-108-33a
गजारोहान्गजेभ्यश्च परेषां जयकारिणः ।
तमेकं समरे भीष्मं त्वरमाणं महारथम् ।।
6-108-34a
6-108-34b
पाण्डवाः समवर्तन्त वज्रहस्तमिवासुराः।
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्छरान् ।।
6-108-35a
6-108-35b
दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः।
मण्डलीभूतमेवास्य नित्यं धनुरदृश्यत ।।
6-108-36a
6-108-36b
संग्रामे युध्यमानस्य शक्रचापोपमं महत् ।।
तदृष्ट्वा समरे कर्म पुत्रास्तव विशांपते ।।
6-108-37a
6-108-37b
विस्मायं परमं गत्वा पितामहमपूजयन् ।
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव ।।
6-108-38a
6-108-38b
युध्यमानं रणे शूरं विप्रचित्तिमिवामराः ।
न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ।।
6-108-39a
6-108-39b
दशमेऽहनि संप्राप्ते रथानीकं शिखण्डिनः ।
अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ।।
6-108-40a
6-108-40b
तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्सनान्तरे ।
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ।।
6-108-41a
6-108-41b
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् ।
पुनर्नालोकयत्क्रुद्धः प्रहसन्निदमब्रवीत् ।।
6-108-42a
6-108-42b
कामं प्रहर वा मा वा न त्वां योत्स्ये कथंचन ।
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ।।
6-108-43a
6-108-43b
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्च्छितः ।
उवाच भीष्मं समरे सृक्विणी परिलेलिहन् ।।
6-108-44a
6-108-44b
जानामि त्वां महाबाहो क्षत्रियाणां भयंकरम् ।
मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ।।
6-108-45a
6-108-45b
दिव्यश्च ते प्रभावोऽयं मया च बहुशः श्रुतः ।
जनन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ।।
6-108-46a
6-108-46b
पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम ।।
अद्य त्वां योधयिष्यामि रणे पुरुषसत्तम ।।
6-108-47a
6-108-47b
ध्रुवं च त्वां हनिष्यामि शपे सत्येन तेऽग्रतः ।
एतच्छ्रुत्वा च मद्वाक्यं यत्कृत्यं तत्समाचर ।।
6-108-48a
6-108-48b
कामं युध्यस्व वा मा वा न मे जीवन्प्रमोक्ष्यसे ।
सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिंजय ।।
6-108-49a
6-108-49b
सञ्जय उवाच। 6-108-50x
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः।
अविध्यत रणे भीष्मं प्रतुदन्वाक्यसायकैः ।।
6-108-50a
6-108-50b
तस्य तद्वचनं श्रुत्वा सव्यसाची महारथः ।
कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत् ।।
6-108-51a
6-108-51b
अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः ।
अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ।।
6-108-52a
6-108-52b
न हि ते संयुगे पीडां शक्ताः कर्तुं महाबलाः ।
तस्मादद्य महाबाहो यत्नाद्भीष्यमभिद्रव ।।
6-108-53a
6-108-53b
अहत्वा समरे भीष्म यदि यास्यसि मारिष ।
अवहास्योऽस्य लोकस्य भविष्यसि मया सह ।।
6-108-54a
6-108-54b
नावहास्या यथा वीर भवेम परमाहवे ।
तथा कुरु रणे यत्नं साधयस्व पितामहम् ।।
6-108-55a
6-108-55b
कुरूंश्च सहितान्सर्वान्यतमानान्महारथान् ।
अहमावारयिष्यामि सावयस्व पितामहम् ।।
6-108-56a
6-108-56b
द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् ।
चित्रसेनं विकर्णं च सैन्धवं च यजद्रथम् ।।
6-108-57a
6-108-57b
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम् ।
भगदत्तं तथा शूरं मागदं च महाबलम् ।।
6-108-58a
6-108-58b
सौमदत्तिं तथा शूरमार्श्यशृङ्गिं च राक्षसम् ।
त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ।।
6-108-59a
6-108-59b
अहमावारयिष्यामि वेलेव मकरालयम् ।
कुरूंश्च सहितान्सर्वान्युध्यमानान्महाबलान् ।
निवारयिष्यामि रणे साधयस्व पितामहम् ।।
6-108-60a
6-108-60b
6-108-60c
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
दशमदिवसयुद्धे अष्टाधिकशततमोऽध्यायः ।।

सम्पाद्यताम्

6-108-43 कामं स्वच्छन्दम्। अभ्यस इति पाठे प्रक्षिप ।। 6-108-49 सुदृष्टः क्रियतां न पुनर्द्रक्ष्यसि लोकमिममिति भावः ।। 6-108-55 साधयस्वस्वीकुरु जहि वा ।।

भीष्मपर्व-107 पुटाग्रे अल्लिखितम्। भीष्मपर्व-109