महाभारतम्-06-भीष्मपर्व-056
← भीष्मपर्व-055 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-056 वेदव्यासः |
भीष्मपर्व-057 → |
उभयपक्षयोर्व्यूहरचना ।। 1 ।।
|
सञ्जय उवाच। | 6-56-1x |
प्रभातायां च शर्वर्यां भीष्मः शान्तनस्तदा। अनीकान्यनुसंयाने व्यादिदेशाय भारत ।। | 6-56-1a 6-56-1b |
गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा। पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः । | 6-56-2a 6-56-2b |
गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव। चक्षुषी च भरज्वाजः कृतवर्मा च सात्वतः ।। | 6-56-3a 6-56-3b |
अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ । त्रैगर्त्तैरथ कैकेयैर्वाटधानैश्च संयुगे ।। | 6-56-4a 6-56-4b |
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष । मद्रकाः सिन्धुसौवीरास्तथा पाञ्चनदाश्च ये ।। | 6-56-5a 6-56-5b |
जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः । पृष्ठे दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः ।। | 6-56-6a 6-56-6b |
विन्दानुविन्दावावन्त्यौ काम्भोजश्च शकैः सह। पच्छमासन्महाराज शूरसेनाश्च सर्वशः ।। | 6-56-7a 6-56-7b |
मागधाश्च कलिङ्गाश्च दासेरकगणैः सह । दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ।। | 6-56-8a 6-56-8b |
काकरुशा विकुञ्चाश्च मुण्डाः कुण्डीवृषास्तथा। बृहद्वलेन सहिता वामं पार्श्वमवस्थिताः ।। | 6-56-9a 6-56-9b |
व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः। धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ।। | 6-56-10a 6-56-10b |
अर्धचन्द्रेण व्यूहेन व्यूहन्तमतिदारुणम् । दक्षिणं शृङ्गमास्वय भिमसेनो व्यरोचत ।। | 6-56-11a 6-56-11b |
नानासंस्त्रौपसंषत्रैर्नानादेश्यैर्नृपैर्वृतः । तदन्येव विराटश्च द्रुपदश्च महारथः ।। | 6-56-12a 6-56-12b |
तदनन्तरमेवासीन्नीलो नीलायुधैः सह । नीलादनन्तरश्चैव धृष्टकेतुर्महाबलः ।। | 6-56-13a 6-56-13b |
चेदिकाशिकरूपेश्च पौरवैरपि संवृतः। धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः ।। | 6-56-14a 6-56-14b |
मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत। तत्रैव धर्मराजोऽपि गजानीकेन संवृतः । | 6-56-15a 6-56-15b |
ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः । अभिमन्युस्ततः शूर इरावांश्च ततः परम् ।। | 6-56-16a 6-56-16b |
भैमसेनिस्ततो राजन्केकयाश्च महारथाः । एते सर्वे महाराज वामं पार्श्वमुपाश्रिताः ।। | 6-56-17a 6-56-17b |
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः। `तत्रानुरथिनां श्रेष्ठो वामश्रृङ्गे व्यवस्थितः।' एवमेतं महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः ।। | 6-56-18a 6-56-18b 6-56-18c |
वधार्थं तव पुत्रामां तत्पक्षे ये च सङ्गताः । ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ।। | 6-56-19a 6-56-19b |
तावकानां परेषां च निघ्नतामितरेतरम् । हयौघाश्च रथौघाश्व तत्र तत्र विशांपते ।। | 6-56-20a 6-56-20b |
संपतन्तो व्यदृश्यन्त निघ्नन्तस्ते परस्परम् । धावतां च रथोघानां निघ्नतां च पृथक् पृथक् ।। | 6-56-21a 6-56-21b |
बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः । दिवस्पृङ्वरवीराणां निघ्नतामितरेतरम् । संप्रहारे सुतुमुले तव तेषां च भारत ।। | 6-56-22a 6-56-22b 6-56-22c |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे षट्पञ्चाशोऽध्यायः ।। |
6-56-17 ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमपाश्रितः इति खo पाठः ।।
भीष्मपर्व-055 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-057 |