महाभारतम्-06-भीष्मपर्व-111
← भीष्मपर्व-110 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-111 वेदव्यासः |
भीष्मपर्व-112 → |
द्वन्द्वयुद्धम् ।। 1 ।।
|
सञ्जय उवाच। | 6-111-1x |
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं रणे। आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ।। | 6-111-1a 6-111-1b |
माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः । आजघान रणे राजन्प्रहसन्निव भारत ।। | 6-111-2a 6-111-2b |
तथैव राक्षसो राजन्माधवं नवभिः शरैः । अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुङ्गवम् ।। | 6-111-3a 6-111-3b |
शैनेयः शरसङ्घं तु प्रेषयामास संयुगे । राक्षसाय सुसंक्रुद्धो माधवः परवीरहा ।। | 6-111-4a 6-111-4b |
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् । विव्याध विशिखैस्तीक्ष्णैः सिंहनाद ननाद च ।। | 6-111-5a 6-111-5b |
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा। धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ।। | 6-111-6a 6-111-6b |
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः । ताडयामास समरे तोत्रैरिव महागजम् ।। | 6-111-7a 6-111-7b |
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः । प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ।। | 6-111-8a 6-111-8b |
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः । चिच्छेद शतधारेण भल्लेन कृतहस्तवत् ।। | 6-111-9a 6-111-9b |
अथान्यद्धनुरादाय वेगवत्परवीरहा । भगदत्तं रणे क्रुद्धं विव्याध निशितैः शरैः ।। | 6-111-10a 6-111-10b |
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् । शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ।। | 6-111-11a 6-111-11b |
यमदण्डोपमां घोरां चिक्षेप परमाहवे। तामापतन्तीं सहसा तस्य बाहुबलेरिताम् ।। | 6-111-12a 6-111-12b |
सात्यकिः समरे राजन्द्विधा चिच्छेद सायकैः । ततः पपात सहसा सहोल्केव हतप्रभा ।। | 6-111-13a 6-111-13b |
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशांपते । महता रथवंशेन वारयामास माधवम् ।। | 6-111-14a 6-111-14b |
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्। दुर्योधनो भृशं क्रुद्धो भ्रातॄन्सर्वानुवाच ह ।। | 6-111-15a 6-111-15b |
तथा कुरुत कौरव्या यथाः वः सात्यको युधि । न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ।। | 6-111-16a 6-111-16b |
तस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् । तथेति च वचस्तस्य परिगृह्य महारथाः ।। | 6-111-17a 6-111-17b |
शैनेयं योधयामासर्भीष्मायाभ्युद्यतं रणे। `अभिमन्युं तदाऽऽयान्तं भीष्मस्याभ्युद्यतं वधे।' काम्भोजराजो बलवान्वारयामास संयुगे ।। | 6-111-18a 6-111-18b 6-111-18c |
आर्जुनिं नृपतिर्विद्ध्वा शरैः सन्नतपर्वभिः। पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृप ।। | 6-111-19a 6-111-19b |
सुदक्षिणस्तु समरे पुनर्विव्याध तं पञ्चभिः । सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ।। | 6-111-20a 6-111-20b |
तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे। यदाभ्यधावद्गाङ्गेयं शिखण्डी शत्रुकर्शनः ।। | 6-111-21a 6-111-21b |
विराटद्रुपदौ वृद्धौ वारयनतौ महाचमूम् । भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ।। | 6-111-22a 6-111-22b |
अश्वत्थामा रणे क्रुद्धः समियाद्रथसत्तमः। ततः प्रववृते युद्धं तयोस्तस्य च भारत ।। | 6-111-23a 6-111-23b |
विराटो दशभिर्भल्लैराजघान परंतप । यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ।। | 6-111-24a 6-111-24b |
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तदा। गुरुपुत्रं समासाद्य प्रहरन्तौ महाबलौ ।। | 6-111-25a 6-111-25b |
अश्वत्थामा ततस्तौ तु विव्याध बहुभिः शरैः। विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतौ ।। | 6-111-26a 6-111-26b |
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्। यद्द्रौणिसायकान्घोरान्प्रत्यवारयतां युधि ।। | 6-111-27a 6-111-27b |
सहदेवं तथाऽऽयान्तं कृपः शारद्वतोऽभ्ययात्। यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ।। | 6-111-28a 6-111-28b |
कृपश्च समरे शूरो माद्रीपुत्रं महारथम् । आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ।। | 6-111-29a 6-111-29b |
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः । अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ।। | 6-111-30a 6-111-30b |
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् । माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ।। | 6-111-31a 6-111-31b |
आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् । तथैव पाण्डवो राजञ्छारद्वतममर्षणम् ।। | 6-111-32a 6-111-32b |
आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया । तयोर्युद्धं समभवद्धोररूपं भयावहम् ।। | 6-111-33a 6-111-33b |
नकुलं तु रणे क्रुद्धो विकर्णः शत्रुतापनः । विव्याध सायकैः षष्ट्या रक्षन्भीष्मं महाबलम् ।। | 6-111-34a 6-111-34b |
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धीमता। विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ।। | 6-111-35a 6-111-35b |
तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ । अन्योन्यं जघ्नुतुर्वीरौ गोष्ठे गोवृषभाविव ।। | 6-111-36a 6-111-36b |
घटोत्कचं रणे यान्तं निघ्नन्तं तव वाहिनीम् । दुर्मुखः समरे प्रायाद्भीष्यहेतोः पराक्रमी ।। | 6-111-37a 6-111-37b |
हैडिम्बस्तु रणे राजन्दुर्मुखं शत्रुतापनम् । आजघानोरसि क्रुद्धः शरेणानतपर्वणा ।। | 6-111-38a 6-111-38b |
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः। षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ।। | 6-111-39a 6-111-39b |
धृष्टद्युम्नं तथाऽऽयान्तं भीष्मस्य वधकाङ्क्षिणम् । हार्दिक्यो वारयामास रथश्रेष्ठं महारथः ।। | 6-111-40a 6-111-40b |
हार्दिक्यः पार्षतं चापि विद्ध्वा पञ्चभिरायसैः । पुनः पञ्चाशता तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ।। | 6-111-41a 6-111-41b |
आजघान महाबाहुः पार्षतं तं महारथम् । तं चैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः ।। | 6-111-42a 6-111-42b |
विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रैरजिह्नगैः । तयोः समभवद्युद्धं भीष्महेतोर्महाहवे ।। | 6-111-43a 6-111-43b |
अन्योन्यातिशये युक्तं यथा वृत्रमहेन्द्रयोः । भीमसेनं तथाऽऽयान्तं भीष्मं प्रति महारथम् ।। | 6-111-44a 6-111-44b |
भूरिश्रवाभ्ययात्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् । सौमदत्तिरथो भीममाजघान स्तनान्तरे ।। | 6-111-45a 6-111-45b |
नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे। उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् ।। | 6-111-46a 6-111-46b |
स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम। तौ शरान्सूर्यसंकाशान्कर्मारपरिमार्जितान् ।। | 6-111-47a 6-111-47b |
अन्योन्यस्य रणे क्रुद्धौ चिक्षिपते नरर्षभौ । भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम् ।। | 6-111-48a 6-111-48b |
तथा भीष्मजये गृध्नुः सौमदत्तिस्तू पाण्डवम् । कृतप्रतिकृते यत्तौ योधयामासतू रणे ।। | 6-111-49a 6-111-49b |
युधिष्ठिरं तु कौन्तेयं महत्या सेनया वृत्तम्। भीष्माभिमुखमायान्तं भारद्वाजो न्यवारयत् ।। | 6-111-50a 6-111-50b |
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् । श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ।। | 6-111-51a 6-111-51b |
सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे। द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ।। | 6-111-52a 6-111-52b |
चेकितान रणे यत्तं भीष्मं प्रति जनेश्वर । चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ।। | 6-111-53a 6-111-53b |
भीष्महेतोः पराक्रान्तश्चित्रसेनः पराक्रमी । चेकितानं परं शक्त्या योधयामास भारत ।। | 6-111-54a 6-111-54b |
तथैव चेकितानोऽपि चित्रसेनमवारयत् । तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे ।। | 6-111-55a 6-111-55b |
अर्जुनो वार्यमाणस्तु बहुशस्तत्र भारत । विमुखीकृत्य पुत्रं ते सेनां तव ममर्द ह ।। | 6-111-56a 6-111-56b |
दुःशासनोऽपि परया शक्त्या पार्थमवारयत्। कथं भीष्मं न नो हन्यादिति निश्चित्य भारत ।। | 6-111-57a 6-111-57b |
सा वध्यमाना समरे पुत्रस्य तव वाहिनी । लोड्यते रथिभिः श्रेष्ठैस्तत्रतत्रैव भारत ।। | 6-111-58a 6-111-58b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशदिवसयुद्धे एकादशाधिकशततमोऽध्यायः ।। |
6-111-58 लोड्यते आकुलीक्रियते ।।
भीष्मपर्व-110 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-112 |