महाभारतम्-06-भीष्मपर्व-116

← भीष्मपर्व-115 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-116
वेदव्यासः
भीष्मपर्व-117 →

संकुलयुद्धवर्णनम् ।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
सञ्जय उवाच। 6-116-1x
अभिमन्युर्महाराज तव पुत्रमयोधयत्।
महत्या सेनया युक्तं भीष्महेतोः पराक्रमी ।।
6-116-1a
6-116-1b
दुर्योधनो रणे कार्षिं नवभिर्नतपर्वभिः।
आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिः शरैः ।।
6-116-2a
6-116-2b
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्जिह्वामिवायसीम्।
प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति ।।
6-116-3a
6-116-3b
तामापतन्तीं सहसा घोररूपां विशांपते ।
द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ।।
6-116-4a
6-116-4b
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः ।
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।।
6-116-5a
6-116-5b
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे ।
दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ।।
6-116-6a
6-116-6b
तद्युद्धमभवद्धोरं चित्ररूपं च भारत।
ईक्षितृप्रीतितजननं सर्वपार्थिवपूजितम् ।।
6-116-7a
6-116-7b
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च।
युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ ।।
6-116-8a
6-116-8b
सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः ।
आजघानोरसि क्रुद्धो नाराचेन परंतपः ।।
6-116-9a
6-116-9b
शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत।
अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ।।
6-116-10a
6-116-10b
अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः ।
त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ।।
6-116-11a
6-116-11b
सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्यकिः ।
द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ।।
6-116-12a
6-116-12b
पौरवो धृष्टकेतुं च शरैराच्छाद्य संयुगे ।
बहुधा दारयांचक्रे महेष्वासं महारथः ।।
6-116-13a
6-116-13b
तथैव पौरवं युद्धे धृष्टकेतुर्महारथः।
त्रिंशता निशितैर्बाणैर्विव्याधाशु महाभुजः ।।
6-116-14a
6-116-14b
पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः ।
ननाद बलवन्नादं विव्याध च शितैः शरैः ।।
6-116-15a
6-116-15b
सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः ।
आजघान महाराज त्रिसप्तत्या शिलीमुखैः ।।
6-116-16a
6-116-16b
तौ तु तत्र महेष्वासौ महामात्रौ महारथौ ।
महता शरवर्षेण परस्परमवर्षताम् ।।
6-116-17a
6-116-17b
अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत।
विरथावसियुद्धाय समीयतुरमर्षणौ ।।
6-116-18a
6-116-18b
आर्षभे चर्मणी चित्रे शतचन्द्रपुरस्कृते ।
तारकाशतचित्रे च निस्त्रिंशौ सुमहाप्रभौ ।।
6-116-19a
6-116-19b
प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ ।
वासितासंगमे यत्तौ सिंहाविव महावने ।।
6-116-20a
6-116-20b
मण्डलानि विचित्राणि गतप्रत्यागतानि च।
चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ।।
6-116-21a
6-116-21b
पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना ।
ताडयामास संक्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ।।
6-116-22a
6-116-22b
चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् ।
आजघान शिताग्रेण जत्रुदेशे महासिना ।।
6-116-23a
6-116-23b
तावन्योन्यं महाराज समासाद्य महाहवे ।
अन्योन्यवेगाभिहतौ निपेततुररिंदमौ ।।
6-116-24a
6-116-24b
ततः स्वरथमारोप्य पौरवं तनयस्तव ।
जयत्सेनो रथेनाजावपोवाह रणाजिरात् ।।
6-116-25a
6-116-25b
धृष्टकेतु तु समरे माद्रीपुत्रः प्रतापवान् ।
अपोवाह रणे क्रुद्धः सहदेवः पराक्रमी ।।
6-116-26a
6-116-26b
चित्रसेनः सुशर्माणं विद्ध्वा बहुभिरायसैः ।
पुनर्विव्याध तं षष्ट्या पुनश्च नवभि शरैः ।।
6-116-27a
6-116-27b
सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशांपते ।
दशमिर्दशभिश्चैव विव्याध निशितैः शरैः ।।
6-116-28a
6-116-28b
चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वभिः ।
आजघान रमे क्रुद्धः स च तं प्रत्यविध्यत ।।
6-116-29a
6-116-29b
भीष्मस्य समरे राजन्यशो मानं च वर्धयन् ।
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् ।।
6-116-30a
6-116-30b
पार्थहेतोः पराक्रान्तो भीष्मस्य निधनं प्रति।
आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ।।
6-116-31a
6-116-31b
पुनर्विव्याध विंशत्या शरैः सन्नतपर्वभिः ।
सौभद्रः कोसलेन्द्रं तु विव्याधाष्टभिरायसैः ।।
6-116-32a
6-116-32b
नाकम्पयत संग्रामे विव्याध च पुनः शरैः ।
कौसल्यस्य धनुश्चापि पुनश्चिच्छेद फाल्गुनिः ।।
6-116-33a
6-116-33b
आजघान शरैश्चापि त्रिंशता कङ्कपत्रिभिः ।
सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः ।।
6-116-34a
6-116-34b
फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ।
तयोर्युद्धं समभवद्भीष्महेतोः परंतप ।।
6-116-35a
6-116-35b
संरब्धयोर्महाराज समरे चित्रयोधिनोः ।
यथा देवासुरे युद्धे बलिवासवयोरभूत् ।।
6-116-36a
6-116-36b
भीमसेनो गजानीकं योधयन्बह्वशोभत ।
यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ।।
6-116-37a
6-116-37b
ते वध्यमाना भीमेन मात्गा गिरिसन्निभाः ।
निपेतुरुर्व्यां सहिता नादयन्तो वसुधराम् ।।
6-116-38a
6-116-38b
गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः ।
विरेजुर्वसुधां प्राप्ता विकीर्णा इव पर्वताः ।।
6-116-39a
6-116-39b
युधिष्ठिरो महेष्वासो मद्रराजानमाहवे ।
महत्या सेनया गुप्तं पीडयामास संगतम् ।।
6-116-40a
6-116-40b
मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् ।
पीडयामास संरब्धो भीष्महेतोः पराक्रमी ।।
6-116-41a
6-116-41b
विराटं सैन्धवो राजा विद्ध्वा सन्नतपर्वभिः ।
नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरार्पयत् ।।
6-116-42a
6-116-42b
विराटश्च महाराज सैन्धवं वाहिनीपतिः ।
त्रिंशद्भिर्निशितैर्बाणैराजघान स्तनान्तरे ।।
6-116-43a
6-116-43b
चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ ।
रेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ ।।
6-116-44a
6-116-44b
द्रोणः पाञ्चालपुत्रेण समागम्य महारणे ।
महासमुदयं चक्रे शरैः सन्नतपर्वभिः ।।
6-116-45a
6-116-45b
ततो द्रोणो महाराज पार्षतस्य महद्धनुः ।
छित्त्वा पञ्चाशतेषूंश्च पार्षतं प्रति सृष्टवान् ।।
6-116-46a
6-116-46b
सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा।
द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ।।
6-116-47a
6-116-47b
ताञ्छराञ्छरघातेन चिच्छेद स महारथः ।
द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ।।
6-116-48a
6-116-48b
ततः क्रुद्धो महाराज पार्षतः परवीरहा ।
द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ।।
6-116-49a
6-116-49b
तामापतन्तीं सहसा हेमपट्टविभूषिताम्।
शरैः पञ्चाशता द्रोणो वारयामास संयुगे ।।
6-116-50a
6-116-50b
सा छिन्ना बहुधा राजन्द्रोगचापच्युतैः शरैः ।
चूर्णीकृता विशीर्यन्ती पपात वसुधातले ।।
6-116-51a
6-116-51b
गदां विनिहतां दृष्ट्वा पार्षतः शत्रुतापनः ।
द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ।।
6-116-52a
6-116-52b
तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत।
पार्षतं च महेष्वासं पीजयामास संयुगे ।।
6-116-53a
6-116-53b
एवमेतन्महायुद्धं द्रोणपार्षतयोरभूत्।
भीष्मं प्रति महाराज घोररूपं भयानकम् ।।
6-116-54a
6-116-54b
अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः ।
अभ्यद्रवत संयत्तो वने मत्तमिव द्विपम् ।।
6-116-55a
6-116-55b
प्रत्युद्ययौ च तं राजा भगदत्तः प्रतापवान् ।
त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ।।
6-116-56a
6-116-56b
तमापतन्तं सहसा महेन्द्रगजसन्निभम् ।
परं यत्नं समस्थाय बीभत्सुः प्रत्यपद्यत ।।
6-116-57a
6-116-57b
ततो गजगतो राजा भगदत्तः प्रतापवान् ।
अर्जुनं शरवर्षेण वारयामास संयुगे ।।
6-116-58a
6-116-58b
अर्जुनस्तु ततो नागमायान्तं रजतोपमैः ।
विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ।।
6-116-59a
6-116-59b
शिखण्डिनं च कौन्तेयो याहियाहीत्यचोदयत्।
भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ।।
6-116-60a
6-116-60b
प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज।
प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ।।
6-116-61a
6-116-61b
ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम्।
शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत ।
6-116-62a
6-116-62b
ततस्ते तावकाः शूराः पाण्डवं रभसं युधि ।
समभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ।।
6-116-63a
6-116-63b
नानाविधान्यनीकानि पुत्राणां ते जनाधिप ।
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ।।
6-116-64a
6-116-64b
शिखण्डी तु समासाद्य भरतानां पितामहम्।
इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ।।
6-116-65a
6-116-65b
रथाग्न्यगारश्चापार्चिरशिशक्तिगदेन्धनः ।
शरसङ्घमहाज्वालः क्षत्रियान्समरेऽदहत् ।।
6-116-66a
6-116-66b
यथाऽग्निः सुमहानिद्धः कक्षे चरति सानिलः।
तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ।।
6-116-67a
6-116-67b
सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् ।
न्यवारयत तत्सैन्यं पाण्डवस्य महारथः ।।
6-116-68a
6-116-68b
सुवर्णपुङ्खैरिषुभिः शितैः सन्नतपर्वभिः ।
नादयन्स दिशो भीष्मः प्रदिशश्च महाहवे ।।
6-116-69a
6-116-69b
पातयन्रथिनो राजन्हयांश्च सह सादिभिः ।
मुण्डतालवनानीव चकार स रथव्रजान् ।।
6-116-70a
6-116-70b
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे ।
चकार समरे भीष्मः सर्वशस्त्रभृतां वरः ।।
6-116-71a
6-116-71b
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।
निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ।।
6-116-72a
6-116-72b
अघोमा न्यपतन्बाणाः पितुस्ते मनुजेश्वर ।
नासञ्जन्त शरीरेषु भीष्मचापच्युताः शराः ।।
6-116-73a
6-116-73b
निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः ।
वातायमानानद्राक्षं ध्रियमाणान्विशांपते ।।
6-116-74a
6-116-74b
चेदिकाशिकरूशानां सहस्राणि चतुर्दश ।
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ।।
6-116-75a
6-116-75b
अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः ।
संग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ।।
6-116-76a
6-116-76b
जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम्।
न तत्रासीद्रणे राजन्सोमकानां महारथः ।।
6-116-77a
6-116-77b
यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे ।
तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति ।।
6-116-78a
6-116-78b
नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ।
न कश्चिदेनं समरे प्रत्युद्याति महारथः ।।
6-116-79a
6-116-79b
ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् ।
शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ।।
6-116-80a
6-116-80b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
दशमदिवसयुद्धे षोडशाधिकशततमोऽध्यायः ।।

सम्पाद्यताम्

6-116-27 चित्रसेन इति। पाण्डवपक्षीयः सुशर्मायमपरो वार्धक्षेमिर्नतु त्रैगर्तः ।। 6-116-45 समुदयं संग्रामम्। भवेत्समुदयः सङ्घे संयुगे च समुद्रमे इति मेदिनी ।।

भीष्मपर्व-115 पुटाग्रे अल्लिखितम्। भीष्मपर्व-117