महाभारतम्-06-भीष्मपर्व-048
← भीष्मपर्व-047 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-048 वेदव्यासः |
भीष्मपर्व-049 → |
श्वेतयुद्धम् ।। 1 ।। भीष्मेण श्वेतवधः ।। 2 ।।
|
धृतराष्ट्र उवाच। | 6-48-1x |
एवं श्वेते महेष्वासे प्राप्ते शल्यरथं प्रति। कुरवः पाण्डवेयाश्च किमकुर्वत सञ्जय ।। | 6-48-1a 6-48-1b |
भीष्मः शान्तनवः किं वा तन्ममाचक्ष्व पृच्छतः । | 6-48-2a |
सञ्जय उवाच। | 6-48-2x |
राजञ्शतसहस्राणि ततः क्षत्रियपुङ्गवाः ।। | 6-48-2b |
श्वेतं सेनापतिं शूरं पुरस्कृत्य महारथाः । राज्ञो बलं दर्शयन्तस्तव पुत्रस्य भारत ।। | 6-48-3a 6-48-3b |
शिखण्डिनं पुरस्कृत्य त्रातुमैच्छन्महारथाः । अभ्यवर्तन्त भीष्मस्य रथं हेमपरिष्कृतम् ।। | 6-48-4a 6-48-4b |
जिघांसन्तं युधांश्रेष्ठं तदासीत्तुमुलं महत् । तत्तेऽहं संप्रवक्ष्यामि महावैशसमच्युत ।। | 6-48-5a 6-48-5b |
तावकानां परेषां च यथा युद्धमवर्तत । तत्राकरोद्रथोपस्थाञ्शून्याञ्शान्तनवो बहून् ।। | 6-48-6a 6-48-6b |
तत्राद्भुतं महच्चक्रे शरैरार्च्छद्रथोत्तमान् । समावृणोच्छरैरर्कमर्कतुल्यप्रतापवान् ।। | 6-48-7a 6-48-7b |
नुदन्समन्तात्समरे रविरुद्यन्यथा तमः । तेनाजौ प्रेषिता राजञ्शराः शतसहस्रशः ।। | 6-48-8a 6-48-8b |
क्षत्रियान्तकराः सङ्ख्ये महावेगा महाबलाः । शिरांसि पातयामासुर्वीराणां शतशो रणे ।। | 6-48-9a 6-48-9b |
गजान्कण्टकसन्नाहान्वज्रेणेव शिलोच्चयान् । रथा रथेषु संसक्ता व्यदृश्यन्त विशांपते ।। | 6-48-10a 6-48-10b |
एके रथं पर्यवहंस्तुरगाः सतुरंगमम् । युवानं निहतं वीरं लम्बमानं सकार्मुकम् ।। | 6-48-11a 6-48-11b |
उदीर्णाश्च हया राजन्वहनक्तस्तत्रतत्र ह। बद्धस्वङ्गनिषङ्गाश्च विध्वस्तशिरसो हताः ।। | 6-48-12a 6-48-12b |
शतशः पतिता भूमौ वीरशय्यासु शेरते । परस्पेरण धावन्तः पतिताः पुनरुत्थिताः ।। | 6-48-13a 6-48-13b |
उत्थाय च प्रधावन्तो द्वन्द्वयुद्धमवाप्नुवन् । पीडिताः पुनरन्योन्यं लुठन्तो रणमूर्धनि ।। | 6-48-14a 6-48-14b |
सचापाः सनिषङ्गाश्च जातरूपपरिष्कृताः । विस्रब्धहतवीराश्च शतशः परिपीडिताः ।। | 6-48-15a 6-48-15b |
तेनतेनाभ्यधावन्त विसृजन्तश्च भारत । मत्तो गजः पर्यवर्तद्धयांश्च हतसादिनः ।। | 6-48-16a 6-48-16b |
सरथा रथिनश्चापि विमृद्गन्तः समन्ततः । स्यान्दनादपतत्कश्चिन्निहतोऽन्येन सायकैः ।। | 6-48-17a 6-48-17b |
हतसारथिरप्युच्चैः पपात काष्ठवद्रथः । युध्यमानस्य संग्रामे व्यूढे रजसि चोत्थिते ।। | 6-48-18a 6-48-18b |
धनुःकूजितविज्ञानं तत्रासीत्प्रतियुद्ध्यतः। गात्रस्पर्शेन योधानां व्यज्ञास्त परिपन्थिनम् ।। | 6-48-19a 6-48-19b |
युद्ध्यमानं शरै राजन्सिञ्जिनीध्वजिनीरवात्। अन्योन्यं वीरसंशब्दो नाश्रूयत भटैः कृतः ।। | 6-48-20a 6-48-20b |
शब्दायमाने संग्रामे पटहे कर्णदारिणि। युध्यमानस्य संग्रामे कुर्वतः पौरुषं स्वकम् ।। | 6-48-21a 6-48-21b |
नाश्रौषं नामगोत्राणि कीर्तनं च परस्परम् । भीष्मचापच्युतैर्बाणैरार्तानां युध्यतां मृधे ।। | 6-48-22a 6-48-22b |
परस्परेषां वीराणां मनांसि समकम्पयन् । तस्मिन्नत्याकुले युद्धे दारुणे रोमहर्षणे ।। | 6-48-23a 6-48-23b |
पिता पुत्रं च समरे नाभिजानाति कश्चन । चक्रे भग्ने युगे च्छिन्ने एकधुर्ये हये हतः ।। | 6-48-24a 6-48-24b |
आक्षिप्तः स्यन्दनाद्वीरः समारथिरजिह्मगैः। एवं च समरे सर्वे वीराश्च विरथीकृताः ।। | 6-48-25a 6-48-25b |
तेन तेन स्म दृश्यन्ते धावमानाः समंततः । गजो हतः शिरश्छिन्नं मर्म भिन्नं हयो हतः ।। | 6-48-26a 6-48-26b |
अहतः कोपि नैवासीद्भीष्मे नघ्नति शात्रवान् । श्वेतः कुरूणामकरोत्क्षयं तस्मिन्महाहवे ।। | 6-48-27a 6-48-27b |
राजपुत्रान्रथोदारानवधीच्छतसङ्घशः। चिच्छेद रथिनां बाणैः शिरांसि भरतर्षभ ।। | 6-48-28a 6-48-28b |
साङ्गदा बाहवश्चैव धनूंषि च समंततः। रथेषां रथचक्राणि तूणीराणि युगानि च ।। | 6-48-29a 6-48-29b |
छत्राणि च महार्हाणि पताकाश्च विशांपते। हयैघाश्च रथौघाश्च नरौघाश्चैव भारत ।। | 6-48-30a 6-48-30b |
वारणाः शतशश्चैव हताः श्वेतेन भारत । वयं श्वेतभयाद्भीता विहाय रथसत्तमम् ।। | 6-48-31a 6-48-31b |
अपयातास्तथा पश्चाद्विभुं पश्याम धृष्णवः । शरपातमतिक्रम्य कुरवः कुरुनन्दन ।। | 6-48-32a 6-48-32b |
भीष्मं शान्तनवं युद्धे स्थिताः पश्याम सर्वशः । अदीनो दीनसमये भीष्मोऽस्माकं महाहवे ।। | 6-48-33a 6-48-33b |
एकस्तस्थौ नरव्याघ्रो गिरिर्मेरुरिवाचलः। आददान इव प्राणान्सविता शिशिरात्यये ।। | 6-48-34a 6-48-34b |
गभस्तिभिरिवादित्यस्तस्थौ शरमरीचिमान्। स मुमोच महेष्वासः शरसङ्घाननेकशः ।। | 6-48-35a 6-48-35b |
निघ्नन्नमित्रान्समरे वज्रपाणिरिवासुरान् । ते वध्यमाना भीष्मेण प्रजहुस्तं महाबलम् ।। | 6-48-36a 6-48-36b |
स्वयूथादिव ते यूथान्मुक्तं भूमिषु दारुणम् । तमेवमुपलक्ष्यैको हृष्टः पुष्टः परंतप ।। | 6-48-37a 6-48-37b |
दुर्योधनप्रिये युक्तः पाण्डवान्परिशोचयन्। जीवितं दुस्त्यजं त्यक्त्वा भयं च सुमहाहवे ।। | 6-48-38a 6-48-38b |
पातयामास सैन्यानि पाण्डवानां विशांपते । प्रहरन्तमनीकानि पिता देवव्रतस्तव ।। | 6-48-39a 6-48-39b |
दृष्ट्वा सेनापतिं भीष्मस्त्वरितः श्वेतमभ्ययात्। स भीष्मं शरजालेन महता समवाकिरत् ।। | 6-48-40a 6-48-40b |
श्वेतं चापि तथा भीष्मः शरौघैः समवाकिरत् । तौ वृषाविव नर्दन्तौ मत्ताविव महाद्विपौ ।। | 6-48-41a 6-48-41b |
व्याघ्राविव सुसंरब्धावन्योन्यमभिजघ्नतुः । अस्त्रैरस्त्राणि संवार्य ततस्तौ पुरुषर्षभौ ।। | 6-48-42a 6-48-42b |
भीष्मः श्वेतश्च युयुधे परस्परवधैषिणौ । एकाह्ना निर्दहेद्भीष्मः पाम्डवानामनीकिनीम् ।। | 6-48-43a 6-48-43b |
शरैः परमसंक्रुद्धो यदि श्वेतो न पालयेत्। पितामहं ततो दृष्ट्वा श्वेतो विमुखीकृतम् ।। | 6-48-44a 6-48-44b |
प्रहर्षं पाण्डवा जग्मुः पुत्रस्ते विमनाभवत्। ततो दुर्योधनः क्रुद्धः पार्थिवैः परिवारितः ।। | 6-48-45a 6-48-45b |
ससैन्यः पाण्डवानीकमभ्यद्रवत संयुगे। दुर्मुखः कृतवर्मा च कृपः शल्यो विशांपतिःक ।। | 6-48-46a 6-48-46b |
भीष्मं जुगुपुरासाद्य तव पुत्रेण नोदिताः। दृष्ट्वा तु पार्थिवैः सर्वैर्दुर्योधनपुरोगमैः ।। | 6-48-47a 6-48-47b |
पाण्डवानामनीकानि वध्यमानानि संयुगे। श्वेतो गाङ्गेयमुत्सृज्य तव पुत्रस्य वाहिनीम् ।। | 6-48-48a 6-48-48b |
नाशयामास वेगेन वायुर्वृक्षानिवौजसा । द्रावयित्वा चमूं राजन्वैराटिः क्रोधमूर्च्छितः ।। | 6-48-49a 6-48-49b |
आपतत्सहसा भूयो यत्र भीष्मो व्यवस्थितः । तौ तत्रोपगतौ राजञ्शरदीप्तौ महाबलौ ।। | 6-48-50a 6-48-50b |
अयुध्येतां महात्मानौ यथोभौ वृत्रवासवौ । अन्योन्यं तु महाराज परस्परवधैषिणौ ।। | 6-48-51a 6-48-51b |
निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः । पराक्रमं ततस्तस्य पराक्रम्य पराक्रमी।। | 6-48-52a 6-48-52b |
तरसा वारयामास मत्तो मत्तमिव द्विपम्। श्वेतः शान्तनवं भूयः शरैः सन्नतपर्वभिः ।। | 6-48-53a 6-48-53b |
विव्याध प़ञ्चविंशत्या तदद्भुतमिवाभवत्। तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवस्तदा ।। | 6-48-54a 6-48-54b |
स विद्धस्तेन बलवान्नाकम्पत यथाऽचलः । वैराटिः समरे क्रुद्धो भृशमायम्य कार्मुकम् ।। | 6-48-55a 6-48-55b |
आजघान ततो भीष्मं श्वेतः क्षत्रियनन्दनः। संप्रहस्य तत श्वेतः सृक्किणी परिसंलिहन् ।। | 6-48-56a 6-48-56b |
घनुश्चिच्छेद भीष्मस्य नवभिर्दशधा शरैः । संधाय विशिखं चैव शरं लोमप्रवाहिनम् ।। | 6-48-57a 6-48-57b |
उन्ममाथ ततस्तालं ध्वजशीर्षं महात्मनः । केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव ।। | 6-48-58a 6-48-58b |
हतं भीष्मममन्यन्त श्वेतस्य वशमागतम्। पाण्डवाश्चापि संहृष्टा दध्मुः शङ्खान्मुदा युताः ।। | 6-48-59a 6-48-59b |
भीष्मस्य पतितं केतुं दृष्ट्वा तालं महात्मनः । ततो दुर्योधनः क्रोधात्स्वमनीकमनोदयत् ।। | 6-48-60a 6-48-60b |
यत्ता भीष्मं परीप्सध्वं रक्षमाणाः समंततः। मा नः प्रपश्यमानानां श्वेतान्मृत्युमवाप्स्यति ।। | 6-48-61a 6-48-61b |
भीष्मः शान्तनवः शूरस्तथा सत्यं ब्रवीमि वः। राज्ञस्तु वचनं श्रत्वा त्वरमाणा महारथाः ।। | 6-48-62a 6-48-62b |
बलेन चतुरङ्गेण गाङ्गेयप्रन्वपालयन्। बाह्लीकः कृतवर्मा च शलः शल्यश्च भारत ।। | 6-48-63a 6-48-63b |
जलसन्धो विकर्णश्च चित्रसेनो विविंशतिः। त्वरमाणास्त्वराकाले परिवार्य समंततः ।। | 6-48-64a 6-48-64b |
शस्त्रवृष्टिं सुतुमुलां श्वेतस्योपर्यपातयन्। तान्क्रुद्धो निशितैर्बाणैस्त्वरमाणो महारथः ।। | 6-48-65a 6-48-65b |
अवारयदमेयात्मा दर्शयन्पाणिलाघवम् । स निवार्य तु तान्सर्वान्केसरी कुञ्जराविव ।। | 6-48-66a 6-48-66b |
महता शरवर्षेण भीष्मस्य धनुराच्छिनत्। ततोऽन्यद्धनुरादाय भीष्मः शान्तनवो युधि ।। | 6-48-67a 6-48-67b |
श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः । ततः सेनापतिः क्रुद्धो भीष्मं बहुभिरायसैः ।। | 6-48-68a 6-48-68b |
विव्याध समरे राजन्सर्वलोकस्य पश्यतः । ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम् ।। | 6-48-69a 6-48-69b |
प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा। निष्ठानकश्च सुमहांस्तव सैन्यस्य चाभवत् ।। | 6-48-70a 6-48-70b |
तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम् । हतं श्वेतेन मन्यन्ते श्वेतस्य वशमागतम् ।। | 6-48-71a 6-48-71b |
ततः क्रोधवशं प्राप्तः पिता देवव्रतस्तव । ध्वजमुन्मतितं दृष्ट्वा तां च सेनां निवारिताम् ।। | 6-48-72a 6-48-72b |
श्वेतं प्रति महाराज व्यसृजत्प्तायकान्बहून् । तानावार्य रणे श्वेतो भीष्मस्य रथिनां वरः ।। | 6-48-73a 6-48-73b |
धनुश्चिच्छेद भल्लेन पुनरेव पितुस्तव। उत्सृज्य कार्मुकं राजन्गाङ्गेयः क्रोधमूर्च्छितः ।। | 6-48-74a 6-48-74b |
अन्यत्कार्मुकमादाय विपुलं बलवत्तरम्। तत्र संधाय विपुलान्भल्लान्सप्त शिलाशितान् ।। | 6-48-75a 6-48-75b |
चतुर्भिश्च जघानाश्वाञ्श्वेतस्य पृतनापतेः । ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथे ।। | 6-48-76a 6-48-76b |
शिरश्चिच्छेद भल्लेन संक्रुद्धोऽलघुविक्रमः । हताश्वसूतात्सु रथादवप्लुत्य महाबलः ।। | 6-48-77a 6-48-77b |
अमर्षवशमापन्नो व्याकुलः समपद्यत । विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः ।। | 6-48-78a 6-48-78b |
ताडयामास निशितैः शरसङ्घैः समंततः । स ताड्यमानः समरे भीष्मचापच्युतैः शरैः ।। | 6-48-79a 6-48-79b |
स्वरथे धनुरुत्सृज्य शक्तिं जग्राह काञ्चनीम् । ततः शक्तिं रणे श्वेतो जग्राहोग्रं महाभयाम् ।। | 6-48-80a 6-48-80b |
कालदण्डोपमां घोरां मृत्योर्जिह्वामेव श्वसन् । अब्रवीच्च तदा श्वेतो भीष्मं शान्तनवं रणे ।। | 6-48-81a 6-48-81b |
तिष्ठेदानीं सुसंरब्धः पश्य मां पुरुषो भव। एवमुक्त्वा महेष्वासो भीष्मं युधि पराक्रमी ।। | 6-48-82a 6-48-82b |
ततः शक्तिममेयात्मा चिक्षेप भुजगोपमाम्। पाण्डवार्थे पराक्रान्तस्तवानर्थं चिकीर्षुकः ।। | 6-48-83a 6-48-83b |
हाहाकारो महानासीत्पुत्राणां ते विशांपते । दृष्ट्वा शक्तिं महाघोरां मृत्योर्दण्डसमप्रभाम् ।। | 6-48-84a 6-48-84b |
श्वेतस्य करनिर्मुक्तां निर्मुक्तोरगसन्निभाम् । अपतत्सहसा राजन्महोल्केव नभस्तलात् ।। | 6-48-85a 6-48-85b |
ज्वलन्तीमन्तरिक्षे तां ज्वालाभिरिव संवृताम् । असंभ्रान्तस्तदा राजन्पिता देवव्रतस्तव ।। | 6-48-86a 6-48-86b |
अष्टभिर्नवभिर्भीष्मः शक्तिं चिच्छेद पत्रिभिः । उत्कृष्टहेमविकृतां निकृतां निशितैः शरैः ।। | 6-48-87a 6-48-87b |
उच्चुक्रुशुस्ततः सर्वे तावका भरतर्षभ । शक्तिं विनिहतां दृष्ट्वा वैराटिः क्रोधमूर्च्छितः ।। | 6-48-88a 6-48-88b |
कालोपहतचेतास्तु कर्तवक्यं नाभ्यजानत। क्रोधसंमूर्च्छितो राजन्वैराटिः प्रहसन्निव ।। | 6-48-89a 6-48-89b |
गदां जग्राह संहृष्टो भीष्मस्य निधनं प्रति। क्रोधेन रक्तनयनो दण्डपाणिरिवान्तकः ।। | 6-48-90a 6-48-90b |
भीष्मं समिदुद्राव जलौघ इव पर्वतम्। तस्य वेगमसंवार्यं मत्वा भीष्मः प्रतापवान् ।। | 6-48-91a 6-48-91b |
प्रहारविप्रमोक्षार्थं सहसा धरणींगतः। श्वेतः क्रोधसमाविष्टो भ्रामयित्वा तु तां गदाम् ।। | 6-48-92a 6-48-92b |
रथे भीष्मस्य चिक्षेप यथा देवो धनेश्वरः । तया भीष्मनिपातिन्या स रथो भस्मसात्कृतः ।। | 6-48-93a 6-48-93b |
सध्वजः सह सूतेन साश्वः सयुगबन्धुरः । विरथं रथिनां श्रेष्ठं भीष्मं दृष्ट्वा रथोत्तमकाः ।। | 6-48-94a 6-48-94b |
अभ्यधावन्त सहिताः शल्यप्रभृतयो रथाः। ततोऽन्यं रथमास्थाय धनुर्विस्फार्य दुर्मनाः ।। | 6-48-95a 6-48-95b |
शनकैरभ्यायाच्छ्वेतं गाङ्गेयः प्रहसन्निव। एतस्मिन्नन्तरे भीष्मः शुश्राव विपुलां गिरम् ।। | 6-48-96a 6-48-96b |
आकाशादीरितां दिव्यामात्मनो हितसंभवाम् । भीष्मभीष्म महाबाहो शीघ्रं यत्नं कुरुष्व वै ।। | 6-48-97a 6-48-97b |
एष ह्यस्य जये कालो निर्दिष्टो विश्वयोनिना । एतच्छ्रुत्वा तु वचनं देवदूतेन भाषितम् ।। | 6-48-98a 6-48-98b |
संप्रहृष्टमना भूत्वा वधे तस्य मनो दधे । विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पदातिनम् ।। | 6-48-99a 6-48-99b |
सहितास्त्वभ्यवर्तन्त परीप्सन्तो महारथाः । सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ।। | 6-48-100a 6-48-100b |
कैकेयो धृष्टकेतुश्च अभिमन्युश्च वीर्यवान्। एतानापततः सर्वान्द्रोणशल्यकृपैः सह ।। | 6-48-101a 6-48-101b |
अवारयदमेयात्मा वारिवेगानिवाचलः । स निरुद्धेषु सर्वेषु पाण्डवेषु महात्मसु ।। | 6-48-102a 6-48-102b |
श्वेतः खङ्गमथाकृष्य भीष्मस्य धनुराच्छिनात्। तदपास्य धनुश्छिन्नं त्वरमाणः पितामहः ।। | 6-48-103a 6-48-103b |
देवदूतवचः श्रुत्वा वधे तस्य मनो दधे । ततः प्रचरमाणस्तु पिता देवव्रतस्तव ।। | 6-48-104a 6-48-104b |
अन्यत्कार्मुकमादाय त्वरमाणो महारथः। क्षणेन सज्यमकरोच्छक्रचापसमप्रभम् ।। | 6-48-105a 6-48-105b |
पिता ते भरतश्रेष्ठ श्वेतं दृष्ट्वा महारथैः । वृतं तं मनुजव्याघ्रैर्भीमसेनपुरोगमैःक ।। | 6-48-106a 6-48-106b |
अभ्यवर्तत गाङ्गेयः श्वेतं सेनापतिं द्रुतम् । आपतन्तं ततो भीष्मो भीमसेनं प्रतापवान् ।। | 6-48-107a 6-48-107b |
आजघ्ने विशिखैः षष्ट्या सेनान्यं स महारथः । अभिमन्युं च समरे पिता देवव्रतस्तव ।। | 6-48-108a 6-48-108b |
आजघ्ने भरतश्रेष्ठस्त्रिभिः सन्नतपर्वभिः । सात्यकिं च शतेनाजौ भरतानां पितामहः ।। | 6-48-109a 6-48-109b |
धृष्टद्युम्नं च विंशत्या कैकेयं चापि पञ्चभिः । तांश्च सर्वान्महेष्वासान्पिता देवव्रतस्तव ।। | 6-48-110a 6-48-110b |
वारयित्वा शरैर्घोरैः श्वेतमेवाभिदुद्रुवे। ततः शरं मृत्युसमं भारसाधनमुत्तमम् ।। | 6-48-111a 6-48-111b |
विकृष्य बलवान्भीष्मः समाधत्त दुरासदम्। ब्रह्मास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम् ।। | 6-48-112a 6-48-112b |
ददृशुर्देवगन्धर्वाः पिशाचोरगराक्षसाः । स तस्य कवचं भित्वा हृदयं चामितौजसः ।। | 6-48-113a 6-48-113b |
जगाम धरणीं बाणो महाशनिरिव ज्वलन्। अस्तं गच्छन्यथाऽऽदित्यः प्रभाप्रादाय सत्वरः ।। | 6-48-114a 6-48-114b |
एवं जीवितमादाय श्वेतदेहाञ्जगाम ह। तं भीष्मेण नरव्याघ्रं तथा विनिहतं युधि ।। | 6-48-115a 6-48-115b |
प्रपतन्तमपश्याम गिरेः शृङ्गमिव च्युतम्। अशोचन्पाण्डवास्तत्र क्षत्रियाश्च महारथाः ।। | 6-48-116a 6-48-116b |
प्रहृष्टाश्च सुतास्तुभ्यं कुरवश्चापि सर्वशः । ततो दुःशासनो राजञ्श्वेतं दृष्ट्वा निपातितम् ।। | 6-48-117a 6-48-117b |
वादित्रनिनदैर्घोरैर्नृत्यति स्म समंततः । तस्मिन्हते महेष्वासे भीष्मेणाहवशोभिना ।। | 6-48-118a 6-48-118b |
प्रावेपन्त महेष्वासाः शिखण्डिप्रमुखा रथाः । ततो धनंजयो राजन्वार्ष्णेयश्चापि सर्वशः ।। | 6-48-119a 6-48-119b |
अवहारं शनैश्चक्रुर्निहते वाहिनीपतौ। ततोऽवहारः सैन्यानां तव तेषां च भारत ।। | 6-48-120a 6-48-120b |
तावकानां परेषां च नर्दतां च मुहुर्मुहुः । पार्था विमनसो भूत्वा न्यवर्तन्त महारथाः । चिन्तयन्तो वधं घोरं द्वैरथेन परंतपाः ।। | 6-48-121a 6-48-121b 6-48-121c |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे अष्टचत्वारिंशोऽध्यायः ।। |
भीष्मपर्व-047 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-049 |