महाभारतम्-06-भीष्मपर्व-101
← भीष्मपर्व-100 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-101 वेदव्यासः |
भीष्मपर्व-102 → |
अभिमन्युनाऽलम्बुसस्य पराजयः ।। 1 ।।
|
धृतराष्ट्र उवाच। | 6-101-1x |
आर्जुनं समरे शूरं विनिघ्नन्तं महारथान्। अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय ।। | 6-101-1a 6-101-1b |
आर्श्यशृङ्गिं कथं चैव सौभद्रः परवीरहा। तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे ।। | 6-101-2a 6-101-2b |
धनंजयश्च किं चक्रे मम सैन्येषु संयुगे । भीमो वा रथिनां श्रेष्ठो राक्षसो वा घटोत्कचः ।। | 6-101-3a 6-101-3b |
नकुलः सहदेवो वा सात्यकिर्वा महारथः । एतदाचक्ष्व मे सत्यं कुशलो ह्यसि सञ्जय ।। | 6-101-4a 6-101-4b |
सञ्जय उवाच। | 6-101-5x |
हन्ते तेऽहं प्रवक्ष्यामि संग्रामं रोमहर्षणम्। यथाऽभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ।। | 6-101-5a 6-101-5b |
अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः । नकुलः सहदेवश्च रणे चक्रुः पराक्रमम्।। | 6-101-6a 6-101-6b |
तथैव तावकाः सर्वे भीष्मद्रोणपुरःसराः। अद्भुतानि विचिन्राणि चक्रुः कर्माण्यभीतवत् ।। | 6-101-7a 6-101-7b |
अलम्बुसस्तु समरे अभिमन्युं महारथम् । विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ।। | 6-101-8a 6-101-8b |
अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् । अभिमन्युश्च वेगेन सिंहवद्विनदन्मुहुः ।। | 6-101-9a 6-101-9b |
आर्श्यशृङ्गिं महेष्वासि पितुरत्यन्तवैरिणम् । ततः समीपतुः सङ्ख्ये त्वरितौ नरराक्षसौ ।। | 6-101-10a 6-101-10b |
रथाभ्यां रथिनौ श्रेष्ठौ यथा वै देवदानवौ । मायावा राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः ।। | 6-101-11a 6-101-11b |
ततः कर्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः। आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याव पञ्चभिः ।। | 6-101-12a 6-101-12b |
अलम्बुरोऽपि संक्रुद्धः कार्ष्णि नवभिराशुगैः । हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम् ।। | 6-101-13a 6-101-13b |
ततः शरसहस्रेण क्षिप्रकारी निशाचरः । अर्जुनास सुतं सङ्ख्ये पीडयामास भारत ।। | 6-101-14a 6-101-14b |
अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः । बिभेद निशिसैर्बाणै राक्षसेन्द्रं महोरसि ।। | 6-101-15a 6-101-15b |
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु। स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ।। | 6-101-16a 6-101-16b |
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः । स संदधानश्च शरान्हेमपुङ्खान्महाबलः ।। | 6-101-17a 6-101-17b |
विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः । ततः क्रुद्धो महाराज आर्श्यशृङ्गिरमर्षणः ।। | 6-101-18a 6-101-18b |
महेन्द्रप्रतिमं कार्ष्णि छादयामास पत्रिभिः । तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ।। | 6-101-19a 6-101-19b |
अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम् । तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः ।। | 6-101-20a 6-101-20b |
अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् । सौभद्रस्तु रणे रक्षः शरैः सन्नतपर्वभिः ।। | 6-101-21a 6-101-21b |
चक्रे विमुखमासाद्य बलं शक्र इवाहवे । विमुखं च रणे रक्षो वध्यमानं रणेऽरिणा ।। | 6-101-22a 6-101-22b |
प्रादुश्चक्रे महामायां तामसीमरिघातिनीम् । ततस्ते तमसा सर्वे वृताश्चासन्महीपते ।। | 6-101-23a 6-101-23b |
नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे । अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः ।। | 6-101-24a 6-101-24b |
प्रादुश्चक्रेऽस्त्रमत्सुग्रं भास्करं कुरुनन्दनः । ततः प्रकाशमभवज्जगत्सर्वं महीपते ।। | 6-101-25a 6-101-25b |
तां चाभिजघ्निवान्मायां राक्षसस्य दुरात्मनः । संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ।। | 6-101-26a 6-101-26b |
छादयामास समरे शरैः सन्नतपर्वभिः। बह्वीस्तथाऽन्या मायाश्च प्रयुक्तास्तेन रक्षसा ।। | 6-101-27a 6-101-27b |
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः। हतमायं ततो रक्षो वध्यमानं च सायकैः ।। | 6-101-28a 6-101-28b |
रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात्। तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ।। | 6-101-29a 6-101-29b |
आर्जुनिः समरे सैन्यं तावकं संममर्द ह। मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ।। | 6-101-30a 6-101-30b |
ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाऽभिविद्रुतम्। महता शरवर्षेण सौभद्रं पर्यवारयत् ।। | 6-101-31a 6-101-31b |
कोष्ठीकृत्य च तं वीरं धार्तराष्ट्रा महारथः । एवं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ।। | 6-101-32a 6-101-32b |
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः । सदृशो वासुदेवस्य विक्रमेण बलेन च ।। | 6-101-33a 6-101-33b |
उभयोः सदृशं कर्म स पितुर्मातुलस्य च । रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ।। | 6-101-34a 6-101-34b |
ततो धनञ्जयो वीरो विनिघ्नंस्तव सैनिकान् । आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ।। | 6-101-35a 6-101-35b |
तथैव समरे राजन्पिता देवव्रतस्तव । आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ।। | 6-101-36a 6-101-36b |
ततः सरथनागाश्वाः पुत्रास्तव जनेश्वर । परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ।। | 6-101-37a 6-101-37b |
तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् । रणाय महते युक्ता दंशिता भरतर्षभ ।। | 6-101-38a 6-101-38b |
शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् । अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ।। | 6-101-39a 6-101-39b |
प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः । पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ।। | 6-101-40a 6-101-40b |
गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः । हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः ।। | 6-101-41a 6-101-41b |
शैनेयोऽपि ततः क्रुद्धश्चापमानम्य वेगवान् । गौतमान्तकरं तूर्णं समाधत्त शिलीमुखम् ।। | 6-101-42a 6-101-42b |
तमापतन्तं वेगेन शक्राशनिसमद्युतिम् । द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः ।। | 6-101-43a 6-101-43b |
समुत्सृज्याथ शैनेयो गौतमं रथिनां वरः । अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ।। | 6-101-44a 6-101-44b |
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत। अथैनं छिन्नधन्वानं ताडयामास सायकैः ।। | 6-101-45a 6-101-45b |
सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् । द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ।। | 6-101-46a 6-101-46b |
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः। निषसाद रथोपस्थे ध्वजयष्टिं समाश्रितः ।। | 6-101-47a 6-101-47b |
प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान् । वार्ष्णेयं समरे क्रुद्धो नाराचेन समार्पयत् ।। | 6-101-48a 6-101-48b |
शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् । वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ।। | 6-101-49a 6-101-49b |
अथापरेण भल्लेन माधवस्य ध्वजोत्तमम् । चिच्छेद समरे द्रौणिः सिंहनादं मुमोच ह ।। | 6-101-50a 6-101-50b |
पुनश्चैनं शरैर्घोरैश्छादयामास भारत। निदाघान्ते महाराज यथा मेघो दिवाकरम् ।। | 6-101-51a 6-101-51b |
सात्यकोऽपि महाराज शरजालं निहत्य तत्। द्रौणिमभ्याकिरत्तूर्णं शरजालैरनेकधा ।। | 6-101-52a 6-101-52b |
तापयामास च द्रौणिं शैनेयः परवारहा । विमुक्तो मेघजालेन यथैव तपनस्तथा ।। | 6-101-53a 6-101-53b |
शराणां च सहस्रेण पुनरेव समुद्यतः । सात्यकिश्छादयामास ननाद च महाबलः ।। | 6-101-54a 6-101-54b |
दृष्ट्वा पुत्रं च तं ग्रस्तं राहुणेव निशाकरम् । अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ।। | 6-101-55a 6-101-55b |
विव्याध च सुतीक्ष्णेन पृषत्केन महामृधे । परीप्सन्खसुतं राजन्वार्ष्णेयेनाभिपीडितम् ।। | 6-101-56a 6-101-56b |
सात्यकिस्तु रणे हित्वा गुरुपुत्रं महारथम् । द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ।। | 6-101-57a 6-101-57b |
तदन्तरममेयात्मा कौन्तेयः शत्रुतापनः । अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ।। | 6-101-58a 6-101-58b |
ततो द्रोणश्च पार्थश्च समेयातां महामृधे । यथा बुधश्च शुक्रश्च महाराज नभस्तले ।। | 6-101-59a 6-101-59b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे एकाधिकशततमोऽध्यायः ।। |
भीष्मपर्व-100 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-102 |