पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ००१

पद्मपुराणम्
अध्यायः ००१
वेदव्यासः
अध्यायः ३ →
पद्मपुराणम्/खण्डः २

अध्यायः ००१

अध्यायः ०२

अध्यायः ०३

अध्यायः ०४

अध्यायः ०५

अध्यायः ०६

अध्यायः ०७

अध्यायः ०८

अध्यायः ०९

अध्यायः ०१०

अध्यायः ०११

अध्यायः ०१२

अध्यायः ०१३

अध्यायः ०१४

अध्यायः ०१५

अध्यायः ०१६

अध्यायः ०१७

अध्यायः ०१८

अध्यायः ०१९

अध्यायः ०२०

अध्यायः ०२१

अध्यायः ०२२

अध्यायः ०२३

अध्यायः ०२४

अध्यायः ०२५

अध्यायः ०२६

अध्यायः ०२७

अध्यायः ०२८

अध्यायः ०२९

अध्यायः ०३०

अध्यायः ३१

अध्यायः ३२

अध्यायः ३३

अध्यायः ३४

अध्यायः ३५

अध्यायः ३६

अध्यायः ३७

अध्यायः ३८

अध्यायः ३९

अध्यायः ४०

अध्यायः ४१

अध्यायः ४२

अध्यायः ४३

अध्यायः ४४

अध्यायः ४५

अध्यायः ४६

अध्यायः ४७

अध्यायः ४८

अध्यायः ४९

अध्यायः ०५०

अध्यायः ०५१

अध्यायः ०५२

अध्यायः ०५३

अध्यायः ०५४

अध्यायः ०५५

अध्यायः ०५६

अध्यायः ०५७

अध्यायः ०५८

अध्यायः ०५९

अध्यायः ०६०

अध्यायः ६१

अध्यायः ६२

अध्यायः ६३

अध्यायः ६४

अध्यायः ६५

अध्यायः ६६

अध्यायः ६७

अध्यायः ६८

अध्यायः ६९

अध्यायः ०७०

अध्यायः ७१

अध्यायः ७२

अध्यायः ७३

अध्यायः ७४

अध्यायः ७५

अध्यायः ७६

अध्यायः ७७

अध्यायः ७८

अध्यायः ७९

अध्यायः ०८०

अध्यायः ०८१

अध्यायः ०८२

अध्यायः ०८३

अध्यायः ०८४

अध्यायः ०८५

अध्यायः ०८६

अध्यायः ०८७

अध्यायः ०८८

अध्यायः ०८९

अध्यायः ०९०

अध्यायः ०९१

अध्यायः ०९२

अध्यायः ०९३

अध्यायः ०९४

अध्यायः ९५

अध्यायः ९६

अध्यायः ९७

अध्यायः ९८

अध्यायः ९९

अध्यायः १००

अध्यायः १०१

अध्यायः १०२

अध्यायः १०३

अध्यायः १०४

अध्यायः १०५

अध्यायः १०६

अध्यायः १०७

अध्यायः १०८

अध्यायः १०९

अध्यायः ११०

अध्यायः १११

अध्यायः ११२

अध्यायः ११३

अध्यायः ११४

अध्यायः ११५

अध्यायः ११६

अध्यायः ११७

अध्यायः ११८

अध्यायः ११९

अध्यायः १२०

अध्यायः १२१

अध्यायः १२२

अध्यायः १२३

अध्यायः १२४

अध्यायः १२५

ॐ श्रीगणेशाय नमः

ऋषय ऊचुः-
शृणु सूत महाभाग सर्वतत्त्वार्थकोविद ।
संदेहमागतं विद्वन्दारुणं बुद्धिनाशनम् १।
केचित्पठंति प्रह्लादं पुराणेषु द्विजोत्तमाः ।
पंचवर्षान्वितेनापि केशवः परितोषितः २।
देवासुरे कथं प्राप्ते हरिणा सह युध्यति ।
निहतो वासुदेवेन प्रविष्टो वैष्णवीं तनुम् ३।
सूत उवाच-
कश्यपेन पुरा ज्ञातं कृतं व्यासेन धीमता ।
ब्रह्मणा कथितं पूर्वं व्यासस्याग्रे स्वयं प्रभोः ४।
तमेवं हि प्रवक्ष्यामि भवतामग्रतो द्विजाः ।
संदेहकारणं जातं छिन्नं देवेन वेधसा ५ ।
व्यास उवाचः-
शृणु सूत महाभाग ब्रह्मणा परिभाषितम् ।
प्रह्लादस्य यथा जन्म पुराणेप्यन्यथा श्रुतम् ६ ।
जातमात्रः सर्वसुखं वैष्णवं मार्गमाश्रितः ।
महाभागवतश्रेष्ठः प्रह्लादो देवपूजितः ७।
विष्णुना सह युद्धाय सपुत्रः संगरंगतः ।
निहतो वासुदेवेन प्रविष्टो वैष्णवीं तनुम् ८।
सृष्टिभावं शृणुष्व त्वमस्यैव च महात्मनः ।
संगरं प्राप्य पुत्राद्यैर्विष्णुना सह वीर्यवान् ९।
प्रविष्टो वैष्णवं तेजः संप्राप्य स्वेन तेजसा ।
पुराकल्पे महाभाग यथा जातः स वीर्यवान् १०।
वृत्तांतं तस्य वीरस्य प्रवक्ष्यामि समासतः ।
पश्चिमे सागरस्यांते द्वारका नाम वै पुरी ११।
सर्वऋद्धिसमायुक्ता सर्वसिद्धिसमन्विता ।
तस्यामास्ते सदा देवो योगज्ञो योगवित्तमः १२।
शिवशर्मेति विख्यातो वेदशास्त्रार्थकोविदः ।
तस्यापि पंचपुत्रास्तु बभूवुः शास्त्रकोविदाः १३।
यज्ञशर्मा वेदशर्मा धर्मशर्मा तथैव च ।
विष्णुशर्मा महाभागो नूनं तत्कर्मकोविदः १४।
पंचमः सोमशर्मेति पितृभक्तिपरायणः ।
पितृभक्तिं विना चैव धर्ममन्यं द्विजोत्तमाः १५।
न विदंति महात्मानस्तद्भावेन तु भाविताः ।
तेषां तु भक्तिं संपश्यञ्छिवशर्मा द्विजोत्तमः १६।
चिंतयामास मेधावी निष्कर्षिष्ये सुरोत्तमान् ।
पितृभक्तेषु यो भावो नैतेषां मनसि स्थितः १७।
यथा जानाम्यहं चाथ करिष्ये बुद्धिपूर्वकम् ।
विष्णोश्चैव प्रसादात्स सर्वसिद्धिर्बभूव ह १८।
सद्भावं चिंतयामास अंजनार्थं द्विजोत्तमाः ।
उपायं ब्राह्मणश्रेष्ठस्तपसस्तेजसः किल १९।
चकार सोप्युपायज्ञो मायया ब्रह्मवित्तमः ।
तेषामग्रे ततो व्याजं शिवशर्मा व्यदर्शयत् २०।
महता ज्वररोगेण मृता माता विदर्शिता ।
तैस्तु दृष्टा मृता माता पितरं वाक्यमब्रुवन् २१।
ययावयं महाभाग गर्भोदरे प्रवर्द्धिताः ।
कलेवरं परित्यज्य स्वयमेव गता क्षयम् २२।
अपहाय गता सेयं स्वर्गे तात किमुच्यते ।
शिवशर्मोपरिभवं पुत्रं भक्तिपरायणम् २३।
यज्ञशर्माणमाहूय इत्युवाच द्विजोत्तमः ।
शिवशर्मोवाच-
अनेनापि सुतीक्ष्णेन शस्त्रेण निशितेन वै २४।
विच्छिद्यांगानि सर्वाणि यत्र तत्र क्षिपस्व ह ।
तत्कृतं तेन पुत्रेण यथादेशः श्रुतः पितुः २५।
समायातः पुनः पश्चात्पितरं वाक्यमब्रवीत् ।
यथादिष्टं त्वया तात तत्सर्वं कृतवानहम् २६।
समादिश ममान्यच्च कार्यकारणमद्य च ।
तच्च सर्वं करिष्यामि दुर्जयं दुर्लभं पितः २७।
तमाज्ञाय महाभागं पितृभक्तं स च द्विजः ।
निश्चयं परमं ज्ञात्वा द्वितीयस्य विचिंतयन् २८।
वेदशर्माणमाहूय गच्छ त्वं मम शासनात् ।
स्त्रिया विना न शक्नोमि स्थातुं कंदर्पमोहितः २९।
मायया दर्शिता नारी सर्वसौभाग्यसंपदा ।
एनामानय वत्स त्वं ममार्थे कृतनिश्चयः ३०।
एवमुक्तस्तथा प्राह करिष्ये तव सुप्रियम् ।
पितरं तं नमस्कृत्य तामुवाच गतस्ततः ३१।
त्वां देवि याचते तातः कामबाणप्रपीडितः ।
अतस्त्वं जरया युक्ते प्रसादसुमुखी भव ३२।
भज त्वं चारुसर्वांगि पितरं मम सुंदरि ।
एवमाकर्णितं तस्य मायया वेदशर्मणः ३३।
स्त्र्युवाच-
जरया पीडितस्यापि नैवेच्छामि कदाचन ।
सश्लेष्ममुखरोगस्य व्याधिग्रस्तस्य सांप्रतम् ३४।
शिथिलस्यापि चार्तस्य तस्य वृद्धस्य संगमम् ।
भवंतं रंतुमिच्छामि करिष्ये तव सुप्रियम् ३५।
भवंतं रूपसौभाग्यैर्गुणरत्नैरलंकृतम् ।
दिव्यलक्षणसंपन्नं दिव्यरूपं महौजसम् ३६।
किं करिष्यसि तातेन वृद्धेन शृणु मानद ।
ममांगभोगभावेन सर्वं प्राप्स्यसि दुर्लभम् ३७।
यद्यत्त्वमिच्छसे विप्र तद्ददामि न संशयः ।
एतद्वाक्यं महच्छ्रुत्वा अप्रियं पापसंकुलम् ३८।
वेदशर्मोवाच-
अधर्मयुक्तं ते वाक्यमयुक्तं पापमिश्रितम् ।
नेदृशं मां वदेर्देवि पितृभक्तिमनागसम् ३९।
पितुरर्थं समायातस्त्वामहं प्रार्थये शुभे ।
अन्यदेवं न वक्तव्यं भज त्वं पितरं मम ४०।
यद्यत्त्वमिच्छसे देवि त्रैलोक्ये सचराचरम् ।
तत्तद्दद्मि न संदेहो देवराज्याधिकं शुभे ४१।
स्त्र्युवाच-
एवं समर्थो दातुं मे पितुरर्थे यदा भवान् ।
तदा मे दर्शयाद्यैव सेंद्रास्त्वं समहेश्वरान् ४२।
दातुमेवं समर्थोसि दुर्लभं सांप्रतं किल ।
किं ते बलं महाभाग दर्शयस्व त्वमात्मनः ४३।
वेदशर्मोवाच-
पश्य पश्य बलं देवि प्रभावं तपसो मम ।
मयाहूताः समायाता इंद्राद्याः सुरसत्तमाः ४४।
वेदशर्माणमूचुस्ते किं कुर्मो हि द्विजोत्तम ।
यमेवमिच्छसे विप्र तं ददामो न संशयः ४५।
वेदशर्मोवाच-
यदि देवाः प्रसान्ना मे प्रसादसुमुखा यदि ।
ददंतु विमलां भक्तिं पादयोः पितुरेव मे ४६।
एवमस्तु सुराः सर्वे यथायातास्तथा गताः ।
तमुवाच तथा दृष्ट्वा दृष्टं ते तपसो बलम् ४७।
देवैस्तु नास्ति मे कार्यं यदि दातुमिहेच्छसि ।
यन्मां नयसि गुर्वर्थं तत्कुरुष्व मम प्रियम् ४८।
देहि त्वं स्वं शिरो विप्र स्वहस्तेन निकृत्य वै ।
वेदशर्मोवाच-
धन्योहमद्य संजातो मुक्तश्चैव ऋणत्रयात् ४९।
स्वशिरो देवि दास्यामि गृह्यतां गृह्यतां शुभे ।
शितेन तीक्ष्णधारेण शस्त्रेण द्विजसत्तमः ५०।
निकृत्य स्वं शिरश्चाथ दत्तं तस्यै प्रहस्य च ।
रुधिरेण प्लुतं सा च परिगृह्य गता मुनिम् ५१।
स्त्र्युवाच-
तवार्थे प्रेषितं विप्र पुत्रेण वेदशर्मणा ।
एतच्छिरः संगृहाण निकृत्तं चात्मनात्मनः ५२।
उत्तमांगं प्रदत्तं मे पितृभक्तेन तेन ते ।
तवार्थे द्विजशार्दूल मामेवं परिभुंक्ष्व वै ५३।
तस्य तैर्भ्रातृभिर्दृष्टं साहसं वेदशर्मणः ।
वेपितांगत्वमापन्नास्ते बभूवुः परस्परम् ५४।
मृता नो धर्मसाध्वी सा माता सत्यसमाधिना ।
अयमेव महाभागः पितुरर्थे मृतः शुभः ५५।
धन्योयं धन्यतां प्राप्तः पितुरर्थे कृतं शुभम् ।
एवं संभाषितं तैस्तु भ्रातृभिः पुण्यचारिभिः ५६।
समाकर्ण्य द्विजो वाक्यं ज्ञात्वा भक्तिपरायणम् ।
निकृत्तं च शिरस्तेन पुत्रेण वेदशर्मणा ५७।
धर्मशर्माणमाहाथ शिर एतत्प्रगृह्यताम् ५८।
इति श्रीपद्मपुराणे भूमिखंडे शिवशर्मचरिते प्रथमोऽध्यायः १।