श्रीमच्छङ्करदिग्विजयः

श्रीमच्छङ्करदिग्विजयः
विद्यारण्यः
१८९१

आनन्दाश्रमसंस्कृतग्रन्थावलिः । ग्रन्थाङ्कः २२ श्रीविद्यारण्यविरचितः श्रीमच्छंकर दिग्विजयः । अद्वैतराज्यलक्ष्मीटीकान्तर्गतविशेषविभागटिप्पणीभिस्तथा धनपतिसूरिकृतडिण्डिमाख्यटीकया च समेतः । एतत्पुस्तकमानन्दाश्रमस्थपण्डितैः संशोधितम् । महादेव चिमणाजी आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । शालिवाहनशकाब्दाः १८१२ ॥ विस्ताब्दाः १८९१ ॥ ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ) मूल्यं रूपकषट्टम् । रु० ६ आदर्शपुस्तकोलेखपत्रिका । अस्य शंकरदिग्विजयंस्य पुस्तकानि यैः परहितैकतानतया संस्करणार्थ मदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते । (क.) इति संज्ञितम्-मूलं डिण्डिमाख्यटीकासमेतं * गणपतकृष्णाजी ' इत्येतस्य मुद्रणालये मुद्रितं, आनन्दाश्रमस्थम् । मुद्रणकालः शके १७८६ ॥ ( ख.) इति संज्ञितम्-मूलं डिण्डिमाख्यटीकासमेतंचतुर्दशसर्गपर्यन्तमपूर्ण, दक्षिणापथवर्तिविद्यालयग्रन्थसंग्रहगृहस्थं 'डॉक्टर' इत्युपपदधारिभिर्भाडारकरोपाद्वै रामकृष्ण गोपाल इत्येतैर्दत्तम्। पत्राणि २०८। एकपत्रस्थपङ्किसंख्या २८ । एकपङ्किस्थानामक्षराणां संख्या ४९ । लेख नकालस्तु चत्वारिंशत्संवत्सरमित इत्यनुमीयते । ( ग.) इति संज्ञितम्-मूलं डिण्डिमाख्यटीकासमेतं ‘रानडे' इत्युपाख्यानां पुण्यपत्तननिवासिनां रा. रा. ‘बंडुनाना' इत्येतेषाम् । पत्राणि २७२। पङ्कय: ३२ । अक्षराणि ३९ । लेख नकालः शके १७५७ । (घ.) इति संज्ञितम्-मूलं डिण्डिमाख्यटीकासमेतं रन्नागिरीनिवासिनां

  • आठल्ये' इत्युपाह्वानां रा. रा. 'वासुदेव हरी'

इत्येतेषाम् । पत्राणि १९३। पङ्कयः ३४। अक्षराणि ४१ । लेखनकालत्रिंशत्संवत्सरांमत इत्यनुमीयते । अद्वैतराज्यलक्ष्मीटौकायाः पुस्तकं वे० शा० रा.रा. ‘साठे' इत्युपादैः पुण्य पत्तननिवासिभिर्नारायणशास्त्रिभिः केवलं परहितैकपरायणमनीषयैव प्रदत्तम् । तदन्तर्गतविशेषविभानां टिप्पण्यप्यत्र सङ्कलिताऽति । समाप्तमिदं सूचीपत्रकम् । अथ विषयानुक्रमः । [ विषयानुक्रमः] १ उपोद्धातः । २ आचार्यजन्मादिकथनम् । ३ देवावताराः । ४ कौमारचरितवर्णनम् । ... ... १५ संन्यासग्रहणम् । ६ आत्मविद्याप्रतिष्ठा । ७ व्यासदर्शनादिचरितवर्णनम् । ८ श्रीमदाचार्यमण्डनमिश्रसंवादः । .... ९ श्रीमदाचार्यसरस्वतीसंवादः । ... १० राजदेहप्रवेशादिकथनम् । _ _ _ _ _ _ _ ... १२ हस्तामलकादीनां शिष्यत्वेन ग्रहणम् । ... १३ ब्रह्मविद्याप्रचारः । १४ पद्मपादतंथेयात्रावणनम् । ... ... १५ आचार्यकृतदिग्जयवर्णनम् । .. १६ श्रीमदाचार्याणां शारदापीठवासवर्णनम् । ... ... ... ... [ पृष्टाङ्काः ] २९ १४० २१४ २५८ .... ३४३ ३७४ ४१५ ... ४३४ ४६४ ४८४ ५२९ ... ६०० ॥ श्री ॥ श्रीविद्यारण्यविरचितः । श्रीमच्छंकरदिग्विजयः । अद्वैतराज्यलक्ष्मीटीकान्तर्गताविशेषविभागटिप्पणीभिस्तथा धनपतिसूरिकृतडिण्डिमाख्यटीकया च समेतः । प्रथमः सगोः । प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।। प्राचीनशंकरजये सारः संगृह्यते स्फुटम् ॥ १ ॥ श्रीमद्विष्णुमजभिवन्द्यचवरणं गोपादिकारावितं वन्दे पूर्णसितास्रसौम्यवदनं संसारतापापहम् ॥ सत्यं ज्ञानमनन्तमाद्यविधुरं गोभारसंहारकं सर्वात्मानमपस्तसर्वममलं विश्वेश्वरं शंकरम् ॥ १ ॥ नुमः श्रीबालगोपालतीर्थान्व्यासमुखान्मुनीन् । विन्नहर्तृन्गणेशादीन्पण्डितांश्च विमत्सरान् ॥ २ ॥ व्याख्यानरहितस्यास्य व्याख्यानं डिण्डिमाभिधम् । क्रियते स्वीयबोधाय प्रमादः क्षम्यतां बुधैः ॥ ३ ॥ निखिलानर्थनिवृत्तिपूर्वकपरमानन्दाविर्भावलक्षणपरमपुरुषार्थानन्यसाधनाद्वैतज्ञांनाव जयपर्यवसत्रं श्रीमच्छंकराचार्यविजयमाविष्कतुं ग्रन्थमारभमाणः श्रीमन्माधवाचार्य स्तस्य निर्विन्नपरिसमाप्त्यादिसिद्धयेऽविगीतशिष्टाचारानुमितश्रुतिप्रमितकर्तव्यताकं वि षयप्रयोजनसूचकं मङ्गलमाचरंश्चिकीर्षितं प्रतिजानीते । प्रणम्येति । परमात्मानं परमेश्वरं प्रणम्य प्राचीनशंकरजये सारो मया माधवेन संगृह्यते । संग्रहत्वेनास्फुटत्वमाशङ्कयाऽऽह । स्फुटं यथा स्यात्तथेति । परमात्मानं विशिनाष्टि । श्रीविद्यातीर्थरूपिणम् । अनेन स्वगुरोः श्रीविद्यातीर्थस्येश्वरावतारत्वं तत एव सर्वज्ञत्वं च सूचितम् । अन्येषामपि परमात्मनि स्वगुरौ च तुल्यभक्त्यैव निःश्रेयसमाप्तिरित्यपि ध्वनितम् । तथाच श्रुतिः १ घ. 'जादिव'। २ ख. ‘र्णविचन्द्रसौ'। ३ ख. ध. विद्येश्व'। ४ ग. "ज्ञानिवि'। ५ क. श्रीमा

न्मा "। ६ ख. *थैरूपस्ये।

‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ इति ।


यद्वा परं परमेश्धरं सर्वात्मानं शिवं प्रणम्येत्यर्थः । तं विशिनष्टि । श्रीविद्यातीर्थरूपिणम् । तार्किकादिकल्पितैः कुतकैर्मलिनीकृताया विद्यायाः सरस्वत्यास्तन्मलापकरणेन शोधकत्वाद्विद्यातीर्थः । श्रिया ब्रह्मविद्यात्मिकया युक्तः श्रीविद्यातीर्थो
भगवान्भाष्यकारस्तदूपिणम्। तथाचोक्तं संक्षेपशारीरकाचार्ये-

'वक्तारमासाद्य यमेव नित्या सरस्वती स्वार्थसमन्विताऽऽसीत् ।
निरस्तदुस्तकैकलङ्कपङ्का नमामि तं शंकरमचंताडूघ्रिम्' इति ।


शिवावतारत्वं च भगवतो भाष्यकारस्य शिवपराणादेरवगन्तव्यम् । तथाचोक्तं शिवपुराणे-

‘व्याकुर्वन्व्याससूत्रार्थं श्रुतेरर्थे यथोचिवान् ।
श्रुतेन्र्याय्य: स एवार्थः शंकरः सावता न नः’ इति ।


यद्वाऽऽत्मानं प्रत्यगभित्रं परं परमेश्वरं श्रीमया विद्याशब्देन परापरविद्ये तत्प्रा
प्यौ मोक्षदेवलोकौ च गृह्यते । तीर्थशब्देन-

'तीर्थे शास्त्राध्वरक्षेत्रपात्रोपाध्यायमत्रिषु ।
अवतारर्षिजुष्टाम्भः स्त्रीरजःसु च विश्रुतम् ।


इति विश्धोक्तानि शास्त्रादीनि गृह्यन्ते । तदूपिणं सर्वात्मकमित्यर्थः । ‘सर्व खल्विदं ब्रह्म । एकमेवाद्वितीयम्’ इत्यादिश्रुतेः । तथाच श्रीमच्छंकरजयनिरूपणेन तदुक्तस्य ब्रह्मात्मभावस्यैव जय इति स एवाज्ञातः सन्विषयो ज्ञातः सन्प्रयोजनम् । भाचार्यविजयज्ञानं त्ववान्तरमयोजनमिति परमेत्यादिना सूचितम् । अत्रानेकार्थ शब्दन्यासाच्छलेषालंकारः । तदुक्तं—‘नानार्थसंश्रयः श्लेषः' इति ।

‘देवतावाचकाः शब्दा ये च भद्रादिवाचकाः ।
ते सर्वे च न निन्द्याः स्युर्लिपितो गणतोऽपि च'।


इत्युक्तत्वाज्जगणादिपयोगो न दोषावह इति मन्तव्यम् ॥१॥ * [ श्रीति। अत्र रूढया स्वगुर्वभिन्नमित्यर्थः । िद्याशाब्दिताद्वैतब्रह्मात्मैक्यविषयकसाक्षात्कारलक्षणचर
मान्त:करणवृत्तिविशेषरूपाखण्डममाप्रतियोगिकतीर्थशब्दितोपायत्वस्यापि तत्र योग
वृत्त्या लाभादुरुत्वसामग्रसिद्धिः। तथाहि। िवद्याया ब्रह्मविद्यायांस्तीर्थं तीर्थं शास्त्रा-



अतः परं [] इति चिन्हे यदागमिष्यति साऽद्वैतराज्यलक्ष्मीटीकान्तर्गतविशेषविभागटिप्पणी.


यद्वद्धटानां पटलो विशालो विलोक्यतेऽल्पे किल दर्पणेऽपि ॥
तद्वन्मदीये लघुसंग्रहेऽस्मिनुद्वीक्ष्यतां शांकरवाक्यसारः ॥ २ ॥
यथाऽतिरुच्ये मधुरेऽपि रुच्युत्पादाय रुच्यान्तरयोजनाऽहाँ ॥
तथेष्यतां प्राकविहृद्यपद्येष्वेषाऽपि मत्पद्यनिवेशेभङ्गी ॥ ३ ॥




ध्वरक्षेत्रोपायेत्यादिमेदिनीवचनादुपायः । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणि
श्रोत्रियं ब्रह्मनिष्ठमिति श्रुतेः शब्दपरब्रह्मनिष्णातत्वलक्षणः सामग्रीविशेषो यस्मिन्स
विद्यातीर्थः । श्रीमान्परिपककषायस्वशरणागताशष्याणां दर्शनादिकरणकशक्तिपातेन
तत्त्वज्ञानोत्पत्यादिप्रतिबन्धकदुरितनिराकरणसामथ्र्यवानित्यर्थः । स चासौ विद्यातीथै
श्धेति । तथा पुनरपि स रूपं यस्येति बहुव्रीहिविग्रहस्तमिति यावत् । अत्र भारती
पदस्थाने विद्यापदप्रयोगस्त साक्षादुरुनामोचारणस्य-

“आत्मनाम गुरोनम नामातिकृपणस्य च ।
श्रेयस्कामो न गृण्हीयाज्ज्येष्ठापत्यकलत्रयोः'इति निषेधाव ] ॥ १ ॥


 ननु प्राचीनशंकरजय उदाहृतानां शांकरवाक्यानां सारस्त्वदीये संग्रहे कथमवलो
कनीयस्तव संग्रहस्याल्पत्वादिति चेत्तत्राऽऽह । यद्वदिति । यद्वद्धटानां कुम्भानामि
भशिरसां वाऽद्रिशृङ्गाणां वा पटलः समुदायो विशालो विस्तृतोऽल्पेऽपि दर्पणे वि
लोक्यते । किलेति प्रसिद्धम् । तद्वदस्मिन्बुद्धिस्थे मदीये लघुसंग्रहे शांकरवाक्यानां
सार उद्वीक्ष्यतां सम्यगवलोक्यताम् । उपमालंकार: ' साधम्र्यमुपमाभेदः' इत्युक्तः ।
इन्द्रोपेन्द्रवत्राभिश्रणादुपजातिवृत्तम् * अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुप
जातयस्ताः-
इति लक्षणात् ॥ २ ॥ [घटानां-
 ‘घटा घटनगोष्ठीभघटनासु च योषिति' इति मेदिन्याः करिघटनानां हस्तिपरं
पराणामित्यर्थः । ] [शांकरेति । शंकरस्य भगवतो भाष्यकारस्यायं शांकर आनन्द
गिर्थभिधस्तस्य तत्मशिष्यस्य वाक्यसारः ] ॥ २ ॥
 प्राचीनशंकरजयस्य वैयथ्यैमाशङ्कयाऽऽह । यथेति । यथाऽतिरुच्येऽत्यन्तमभि
लाषविषये मधुरे रुच्युत्पादाय रुच्यान्तरस्य सलवणस्य योजनाऽऽह योग्या । तथैषा
मत्पद्यनिवेशभङ्गी मदीयानां पद्यानां निवेशस्य विन्यासस्य भङ्गी रीतिरपि माचः
कवेयेषु मनोशेषु पधेषु रुच्युत्पादायेष्यतामित्यर्थः ॥ ३ ॥ [ रुच्यान्तरेति ।
निम्बुरसादिलक्षणतदावरुद्धतदनुगुणाम्लादिरुच्यान्तरस्य योजना ] ॥ ३ ॥


स्तुतोऽपि सम्यकविभिः पुराणैः कृत्याऽपि नस्तुष्यतु भाष्यकारः ।|
क्षीराष्धिवासी सरसीरुहाक्षः क्षीरं पुनः किं चकमे न गोष्ठे ॥४॥

पयोब्धिविचरीसुनिःसृतसुधाझरी माधुरी
रीणधुभणिताधरीकृतफणाधराधीशितुः ॥
शिवैकरसुशंकराभिधजगदुरोः प्रायशो
यशो हृदयशोधकं कलयितुं समीहामहे ॥ ५ ॥




 यद्यपि पुराणैः प्राचीनैः कविभिः सम्यक्स्तुतस्तथाऽपि नोऽस्माकं कृत्या भाष्य
कारस्तुष्यतु । अभ्यर्थनायां लोट् । बहुवचनं वाङ्मनःकायाभिप्रायेण । ननु स्वल्पया
तव कृत्या कथं तस्य तुष्टिरित्याशङ्कयाऽऽप्तकामस्य परमेश्वरस्य भक्त्या कृतेन स्व
ल्पेनाप्यधिकादधिकतरा तुष्टिरित्याह । क्षीराब्धिवासीति । क्षीराब्धौ क्षीरसमुद्रे वस्तुं
३शीलमस्यास्तीति । तथा कमलसदृशे अक्षिणी नेत्रे यस्य स सरसीरुहाक्षो भगवा
न्विष्णुर्गेष्ठ ब्रजे प्रेमभराक्रान्ताभिगॉपीभिर्दीयमानमल्पं दुग्धं किं पुनर्न चकमेऽपि तु
कामितवानेवेत्यर्थः ।

ब्रdजः स्याद्रोकुलं गोष्ठम्’ इति वैजयन्ती ।
अत्र स्तुतिक्षीरयोर्बिम्बप्रतिबिम्बभावादृष्टान्तालंकारः ।


‘दृष्टान्तः पुनरेतेषां सर्वेषां पतिबिम्बनम्’ इत्युक्तेः ॥ ४ ॥


 तस्माच्छिवं सुखं करोतीति शिवंकरोऽत एव सुशंकर इत्यभिधा संज्ञा यस्य शिवं
करश्चासौ सुशंकराभिधश्च स चासौ जगतां गुरुश्च तस्य शिवंकरसुशंकरैस्य जगदुरो
र्भगवतो भाष्यकारस्य प्रायशो यशो हृदयशोधकं कलयितुमनुसंधातुं कथयितुं वा समी
हामहे । संपूर्वकस्य चेष्टार्थकस्येहधातोलैटि रूपम् । सम्यक्चेष्टां प्रयत्नं कुर्मः । क
चिदन्ययशसोऽपि कथनात्यायश इत्युक्तम् । तं विशिनष्टि । पयोब्वेः क्षीरसमुद्रस्य
विवरीभ्यः सूक्ष्मच्छिद्रेभ्यः सुनिःसृतायाः सुधाया अमृतस्य झरीणां सूक्ष्ममवाहाणां
माधुरी मधुरता तस्याः सकाशाद्दरीणं श्रेष्ठमतिमधुरं यद्भणितं भाषितं तेनाधरीकृतः
फणाधराणां सपणामधीशिता नियन्ता शेषो येन तस्य। अत्र रेफस्यासकृदावृत्या वृ
त्यनुप्रासः शब्दालङ्कारः ‘एकस्याप्यसकृत्परः’ इत्युक्तः । पृथ्वीवृत्तम् ।

जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ।


 इति लक्षणात् ॥ ५ ॥ [शिवंकरेति। यतः शिवंकरः ‘शिवमद्वैतं चतुर्थं मन्यन्ते
स आत्मा स विज्ञेयः' इति श्रुतेरौद्वैतात्मरूपमोक्षमदोऽतः सुतरामन्वर्था शैकरत्यभिधा
संज्ञा यस्य स एतादृशोऽत एव जगदुरुः सर्वेषामपि जीवानां सामान्यतो निरति



केमे शंकरसदुरोर्गुणगगा दिग्जालकूलंकषा
कालोन्मीलितमालतीपरिमलावष्टम्भमुष्टिंधयाः ॥
काहं हन्त तथाऽपि सदुरुकृपापीयुषपारंपरी
मम्रोन्मझकटाक्षवीक्षणबलादस्ति प्रशस्ताऽर्हता ॥ ६ ॥




शयसुखाभिलाषित्वात्तस्य च द्वितीयाद्वै भयं भवतीति श्रुतेरुक्तरूपमुक्तिमन्तरा
संभवाभावात्साक्षात्परंपरया च सकलजीवहितोपदेशकस्तस्येत्यर्थः ] [ गौररादेराकृ
तिगणत्वाद्विवरीतेि प्रयोगः ‘षिद्रौरादिभ्यश्च' इति सूत्रेण साधुः] ॥ ५ ॥
 गप्शैकरगुणानुवर्णने स्वस्यानर्हतामाशङ्कय परिहरति । केति । ‘सदेव सोम्येदमम
आसीदेकमेवाद्वितीयम्’ इत्यादिश्रुत्युक्तसदद्वितीयस्य बोधकत्वात्सदुरुः सतां वा गुरुः
शंकरश्चासौ सदुरुश्च तस्य गुणानां गणाः समूहाः। दिग्जालस्य कूलं रोवं कषन्ति ऋन्ती
ति दिग्जालकूलंकषाः । सर्वकृलेत्यादिना खच् ।'अरुद्विषदजन्तस्य’ इति मुम् । दिग्जा
लमुलङ्घ्य गता इत्यर्थः। कालेन वसन्तादिकालेनोन्मीलितानां प्रफुलितानाम् । मालती
त्युपलक्षणम् । मालत्यादिपुष्पाणां परिमलो विमदोत्थो जनमनोहरोगन्धस्तस्यावष्टम्भस्य
स्तम्भस्य मुष्टिधया मुष्टि निष्पीड्य वयन्ति पिबन्तीति ते । कालोन्मीलितमालतीपरिम
लघनादप्यधिकतरसुखकरा इत्यर्थः । नाडीमुष्टयोश्रेति खश् । इमे प्रसिद्धाः । काहं
जन्तुरत्यन्तायोग्यः क । यद्यपीत्यध्याहार्यम् । हन्तेति हर्षे । तथाऽपि सदुरोर्विद्या
तीर्थस्य शंकरस्य वा कृपारूपस्य पीयूषस्यामृतस्य पारंपर्या परंपरायां भैमेनोन्मन्नेन च
कटाक्षेण निमीलने मग्रत्वस्योन्मीलन उन्मग्रत्वस्य चाऽऽरोपोवीक्षणमेव बलं तस्मात्प्र
शस्ता योग्यता ममास्तीत्यर्थः । अननुरुपयोर्घटनावर्णनेन ‘विषमं वण्यैते यत्र घटनाऽ
ननुरूपयोः' इत्युक्तेन विषमेण प्राप्ताया अनर्हताया विचार्थ रूपकेण प्रतिषेधादाक्षेपालं
कारस्याऽऽक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणादित्युक्तस्य ताभ्यां संकरः 'अवि
श्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः' इत्युक्तः ।


सूर्याचैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्’ ॥ ६ ॥


[दिगिति । दिशां प्राच्यादीनां जालवजालं वृन्दं तलक्षणं कूलं नदीतटं
कषान्त नदीवद्धर्षयान्ति ते तथा दिकुलव्यापका इत्यर्थः । एतेनोक्तदिग्वृन्देऽपि
तेषां स्थलापर्याध्याऽऽनन्त्यं द्योत्यते ] कालेति । काले तत्तद्विकासप्रयोजके
वसन्तादिसमय उन्मीलिता स्वप्राबल्यभरलक्षणेन समयमाहात्म्येन विकसितैताद्वशी


[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।

धन्यंमन्यविवेकशून्यजनमन्याब्धिकन्यानटी
त्योन्मत्तनराधमाधमकथासंमर्ददुष्कर्दमैः ।
दिग्धां मे गिरमद्य शंकरगुरुक्रीडासमुद्यद्यशः
पारावारसमुचलजलझरैः संक्षालयामि स्फुटम् ॥ ७ ॥




या मालती ‘सुमना मालती जातिः सप्तला नवमालिका' इत्यमराद्वसन्ते चेन्मधुमालती
शरादि चेच्छरन्मलिकेत्यर्थः । तस्या ये परिमलाः * विमदथे परिमलो गन्धे
जनमनोहरे ' इत्यमरात्परममनोहरसुगन्धास्तेषामपि येऽवष्टम्भा निरोधाः । निरुद्धो
हि कस्तूर्यादिसुगन्धः परमोत्कटो भवतीति लोके प्रसिद्धमेव । तेऽपि मुधिया
मुधियन्ति माशयन्ति ते तथा । स्तनंधया हि बालाः स्वमुष्टिमेव चोषयन्तीति
मसिद्धमेव । तथाच मुष्टिवयपदवाच्यास्तनंधयबाला इव येषां ते तथा] [ सदिति ।
सन्ब्रह्मनिष्ठः ‘तस्यैव ब्रह्म वेद ब्रौव भवति' इति श्रुतेर्वास्ताविकसत्त्वातू ]॥ ६ ॥

 ड्प्न्कतार्थमात्मानं धन्यं मन्यन्त इति धन्यंमन्या असज्जनं दुर्जनमात्मानं
सुजनं मन्यन्त इति सुजनंमन्थाः । उक्तसूत्रेण मुम् । अब्धेः समुद्रस्य कन्या लक्ष्मीः
सैव नटी चञ्चलत्वान्नर्तकी तस्या येन नर्तनेनोन्मत्ता धन्यंमन्याश्च ते विवेकशून्याश्च
सुजनंमन्याश्चाब्धिकन्यानटीत्येनोन्मत्ताश्चेति द्वंद्रो वा द्वयोर्द्धयोः कर्मधारये द्वंद्वी वा
ते च ते नराधमेभ्योऽप्यधमाश्च तेषां कथा यद्वा तेषां नराधमानामधमाश्च ताः कथाश्च
तासां संमर्दः संघर्षा एव दुष्कर्दमा दुष्टपङ्कास्तैर्दिग्धां लिप्तां मे गिरं वाचमद्य शंकरगुरोः
क्रीडया समुद्ययश एव पारावारः समुद्रः * पारावारः सरित्पातिः' इत्यमरः । तस्य
समुचलद्भिर्जलझरैवरिप्रवाहैः संक्षालयामि स्फुटं यथा स्यात्तथा सम्यक्प्रक्षालयामी
त्यर्थः । तथाचोक्तं भगवता वेदव्यासेन-

“असत्कीर्तनकान्तारपरिवर्तनपांसुलाम् ।
वाचं शैौरिकथालापैर्गङ्गयेव पुनीमहे' !


 इति । अत्र रूपकवृत्त्यनुप्रासयोरन्योन्यनिरपेक्षयोरेकत्र समावेशातिलतण्डुलव
त्संसृष्टिः ।

*सैषा संसृष्टिरेवेषां भवेदैक्यादिह स्थितिः’ इत्युक्तेः ॥ ७ ॥


 १ ख. ग. घ. 'नृत्तोन्म'। २ व. ग. घ, नृतेन । ३ ख. म. नृतेनो ४ ग. दुष्.'; ५ घ.


वन्ध्यासूनुस्खरीक्षिाणसदृशक्षुद्रक्षितीन्द्रक्षमा
शौयौदार्येदयादिवर्णनकलादुर्वासनावासिताम् ॥
मद्वाणीमधिवासयामि यमिनखैलोक्यरङ्गस्थली
नृत्यत्कीर्तिनटीपटीरपटलीचूणैर्विकीणैः क्षितौ ॥ ८ ॥
प्रेमस्थेमसमर्हणार्हमधुरव्याहारसनोत्करः ॥
ौढोऽयं नवकालिदासकवितासंतानसंतानको
दद्यादद्य समुद्यतः सुमनसामामोदपारंपरीम् ॥ ९ ॥




 वन्ध्यासुतेन गर्दभीशृङ्गेण च तुच्छेन तुल्या ये क्षुद्राणां क्षितीन्द्राणां राज्ञां क्षमा
शैौदार्यद्यादयस्तेषां वर्णनस्य या कला तलक्षणया दुर्वासनया दुर्गन्धिना वासितां
दुर्गन्धिव्याप्तां स्ववाचं यमिनो यतेः श्रीशंकरस्य त्रैलोक्यलक्षणायां रङ्गस्थल्यां नृत्य
भूमिप्रदेशे नृत्यन्ती चासौ कीर्तिलक्षणा नटी तस्याः पटीरस्य चन्दनस्य पटली समूह
स्तस्याश्रृणैः क्षितौ पृथिव्यां विकीणैः पसृतैरधिवासयामि सुगन्धयामि ॥८॥ [वर्णनकला


'सत्यैकबतपालको द्विगुणधीयर्थे चतुर्वेदिता
पञ्चस्कन्धकृती षडन्वयदृढः सप्ताङ्गसवैसहः ।
अभष्टव्यक्तिकलाधरो नवनिधिः शुष्यद्दशाप्रत्ययः
स्मातींच्छायधुरंधरो विजयते श्रीबुकणः क्ष्मापति


इत्यादिस्तवनचातुरी ] [ क्षितौ भरतवर्षभूमाविति यावत् ] ।। ८ ।।
 अयं मौढो नवकालिदासस्य माधवस्य कवितासंानरूपः संतानकः कल्पवृक्षोऽद्य
समुद्यतः सुमनसां पण्डितानां हर्षलक्षणामोदपरंपरां दद्यात् । यथा कल्पवृक्षः सुमनसां
देवानामामोदस्यातिसमाकर्षिणो गन्धवस्य संततिं ददाति तद्वदित्यर्थः । तं विशिनष्टि ।
पीयूषद्युतेरमृतांशोश्चन्द्रस्य खण्डः शकलो मण्डनमलंकारो यस्य तस्य शिवस्य कृपाँ
रूपान्तरस्य श्रिया युक्तस्य गुरोर्यत्प्रेम्णः स्थेन्ना स्थैर्येण समर्हणं सम्यक्पूजनं तस्मि
न्न योग्या मधुरा व्याहारा उक्तय एव सूनानि पुष्पाणि तेषामुत्करो निचयो य
स्मिन्सः । अत्र कवितासंतानस्य कल्पवृक्षेणाभेदेन रूपेण रञ्जनादूपकालंकारः । तदुक्तम् ।
 ‘विषय्यभेदताप्यरञ्जनं विषयस्य यत् । रूपकं तत्' इति ॥ ९ ॥


१ ख.त्यप्र'। २ ख. ग. थ. 'संततिरू'। ३ खा. ग. "पाया रू'।

सामोदैरनुमोदिता मृगमदैरानन्दिता चन्दनै
र्मन्दारैरभिनन्दिता प्रियगिरा काश्मीरजैः स्मेरिता ॥
वागेषा नवकालिदासविदुषो दोषोज्झिता दुष्कवि
ब्रातैर्निष्करुणैः क्रियेत विकृता धेनुस्तुरुष्कैरिव ॥ १० ॥




 सुमनसां सुखकरमपि वस्तु कुमनोभिर्विकृतं क्रियत इत्यालोच्य स्ववाचि विकार
प्राप्ति संभाव्याऽऽह । सामोदैरिति । आमोदेन हर्षेण वा सहितैमृगाणां मदैः कस्तू
रिकासंज्ञकैरनुमोदिता श्लाधिता सामोदैरित्यस्योत्तरत्रापि संबन्धः । सामोदैश्चन्दनै
रानन्दिताऽभिनन्दिता तथा सामोदैर्मन्दारैः प्रियगिराऽभिनन्दिता तथा सामोदैः का
इभीरजैः प्रियगिरा स्मेरिता विकासिता श्लाघिता दोषैर्विवर्जिताऽपि धेनुर्यद्वा दोषा
रात्रिस्तस्यामुज्झिता स्वस्थानाद्विमुक्ता निष्करुणैस्तुरुष्कैम्लेच्छैर्यथा विकृता क्रियते ।

तुरुष्कः सिल्हके म्लेच्छजातौ' इति मेदिनी ।


 तथैवंभूता सर्वदोषविनिर्मुक्ता नवीनकालिदासस्य विदुषो माधवस्यैषा वाग्दुष्टानां
कवीनां समुदायैरत एव निष्करुणैर्विकृता विकारमन्यथाभावं प्राप्ता क्रियेतेत्यर्थः ॥१०॥
[ सामोदैरिति । पुरुषपक्ष आसमन्तादानन्दसहितैः सद्भिरिति यावत् । एतेन स्ववा
चि निरतिशयानन्दजनकत्वं व्यज्यते] [कवितापक्षेऽमृगेति च्छेदः । न विद्यते मृगै
स्तदुपलक्षितमांसाशनेन मदो येषां ते तथा । कस्मिाश्चद्देशे हि गौडविशेषेषु ब्राह्मणा
अपि मांसभक्षणं कुर्वन्तीति प्रसिद्धमेवातस्तद्युदासः । मांसभक्षकब्राह्मणभित्रैरिति यावत् ।
एतादृशैर्विद्वद्भिरिति सर्वत्राऽऽर्थिकम् । अनुमोदिता कृताभिनन्देत्यर्थः । एतेन प्रकृत
काव्यस्याहिंसैकप्रधानयतन्द्रिचक्रवर्तिचरणचरितवर्णनात्मकत्वेन हिंसकानादरेऽपि न
क्षतिारीति द्योतितम्] [पक्षेऽचन्दनैरित्यकारमश्लेषः । चन्दनं तदुपलक्षितं यावत्स्रग्व
नितादिविषयजातं तन्न विद्यते येषां ते तथा । ऐहिकाद्यखिलेष्टाविषयविमुखास्तैरिति
यावत् । आनन्दिताऽभिपूजितेत्यर्थः] [एतेनास्य विषयासक्तानादृतत्वेऽप्यखिलवि
रक्तपण्डितादृतत्वान्न काऽप्यनिष्टापत्तिरिति ध्वन्यते] [पक्षे मन्देभ्योऽपि जडेभ्योऽपि
अं'अकारो वासुदेवः स्यात्’ इति कोशाद्विष्णुरान्त्यात्मत्वेन ददतीति तथा । स्वयोगै
धर्यशक्तयाऽकुशाग्रबुद्धिभ्योऽपि मुमुक्षुभ्यः शुद्धाद्वैतपरमात्मबोधप्रदैरिति यावत् ।
आनन्दिताऽभिनन्दिता][पियगिरा प्रियंवद्या सख्या। काश्मीरजैः ‘काश्मीरजन्मानि
1शाखम्' इत्यमरात्कुङ्कमैरित्यर्थः। ललाटस्तनतटपादद्वयावच्छेदेन तिलकतमालपत्राभले
पनादिद्वारा स्मेरिता हर्षे नीतेत्यर्थः । प्रियगिरेतीदमपि कर्तृवाचकं पदं पूर्वत्र मृगमदच
न्दनमन्दाराभिधेषु त्रिष्वपि करणपदेषु प्रागेव प्रयोज्यम् । पक्षे काश्मीरजैः काश्मी
रदेशोद्भवैर्विद्वद्भिः । मियगिराऽतिरम्यतमामिदं काव्यमिति प्रकृतकाव्यवत्कृसंतोषपोषक
भाषयेति यावत् । स्मरिता जानितानन्देत्यर्थः । विछता निन्दिता पक्षे हता क्रियतोति

यद्वा दीनदयालवः सहृदयाः सौजन्यकछोलिनी
दोलान्दोलनखेलनैकरसिकस्वान्ताः समन्तादमी ॥
सन्तः सन्ति परोक्तिमौक्तिकजुषः किं चिंन्तयाऽनन्तया
यद्वा तुष्यति शंकरः परगुरुः कारुण्यरलाकरः ॥ ११ ॥
उपक्रम्य स्तोतुं कतिचन गुणाञ्शंकरगुरो
प्रभग्राः श्लोकाधे कतिचन तदर्धार्धरचने ।।
अहं तुष्टपुस्तानहह कलये शीतकिरणं
कराभ्यामाहतुं व्यवसितमतेः साहसिकताम् ॥ १२ ॥




संबन्धः । एतेन तेषामतिनिन्द्यत्वं ध्वन्यते । एवं वेनृपमया स्ववाच्यतिवन्द्यत्वं च ।
तथाचाऽऽम्रायते वाजसनेयिभिः ‘वाचं धेनुमुपासीत’ इति ] ॥ १० ॥
 एवं प्राप्तामनन्तां चिन्तां काव्यकरणे प्रतिबन्धकां वारयति । यद्धेति । यद्वा
दीनेषु दयालवः सहृदयाः परकीयश्रमाद्यभिज्ञाः सौजन्यात्मिकायां कलोलिन्यां नद्यां
दोलान्दोलनमितस्तस्तो भ्रमणं तदात्मकं यत्खेलनं तस्मिन्नेवैकं मुख्यं रसिकं स्वान्तं मनो
येषां ते परोक्ति मौक्तिकवज्जुषन्तीति तथाभूता अमी सन्तः समन्तात्सन्ति । अतोऽ
नन्तया चिन्तया किं, न किमपि, सा न कर्तव्येत्यर्थः । तेषां दैर्लभ्यमाशङ्कयाऽऽह ।
यद्वा कारुण्यस्य रत्नाकरः समुद्रः पग्गुरुः श्रीशंकरस्तुष्यति । तथाच तत्संतुष्टयथेम
वश्यं यतितव्यमिति भावः । भत्र पर्वश्लोकात्प्राप्तचिन्ताया यद्वेत्यादिना प्रतिषेधादाक्षे
पालंकारः ॥ ११ ॥ [ परेति । परेषामुक्तय एव मौक्तिकानि तानि जुषन्ते सेवन्ते
ते । [ निरुक्तविशेषणचतुष्टयविशिष्टशिष्टानां तत्कालसौलभ्येऽपि कालान्तरदेशान्त
रदैौर्लभ्यास्वरसमूलकमेव यद्वेति विकल्पान्तरमित्याशयः ] ॥ ११ ॥
 ननु यत्र श्रीशंकरगुणवर्णने बहवोऽपि प्रभग्रास्तत्र प्रवृत्तस्य तव साहसमात्रमेवेति
चेत्सत्यं तथाऽपि गुरुकटाक्षा भघटितमपि मद्भीष्टं घटयितुं शक्ता इत्याहोपक्रम्येति
द्वाभ्याम् । श्रीशंकरगुरोर्गुणांस्तोतुमुपक्रम्य कतिचन केचिच्छ्लोकाधे प्रभग्राः केवितु
लोकपादरचने प्रभमाः कतिच न प्रभग्रा अपि तु सर्व एव प्रभग्रा इति वा । अह
तांस्तथाभूतान्गुणांस्तुष्टषुः स्तोतुमिच्छुरहहात्यन्तेमाश्चर्यम् । शीतकिरणं चन्द्रं करा
भ्यां हस्ताभ्यामाहतुं व्यवसितमतेव्र्यवसिता निश्चिता मतिर्यस्य तस्य बालस्य साह
सिकतां कलये संपादयामि । अत्र स्वस्मिस्तद्रतपाहासिकतापदार्थारोपान्निदर्शनालंकारः ।
‘पदार्थवृत्तिमप्येके वदन्त्यन्यां निदर्शनाम्’ इत्युक्तः ।
शिखरिणी-
 ‘रसै रुद्वैश्छिन्ना यमनसभलागः शिखरिणी'इति लक्षणात् ॥ १२ ॥
 


१ क. ". तमन्याय्यम् ।


तथाऽप्युज्नृम्भन्ते मयि विपुलदुग्धाब्धिलहरी
लसत्कछोलालीलसितपरिहासैकरसिकाः ॥
मूकान्वाचालयितुमपि शक्ता पतिपते
कटाक्षाः किं चित्रं भृशमघटिताभीष्टघटने ॥ १३ ॥
अस्मजिह्वाग्रसिंहासनमुपनयतु स्वोक्तिधारामुदारा
मद्वैताचार्यपादस्तुतिकृतसुकृतोदारता शारदाम्बा ॥
ऋत्यन्मृत्युंजयोचैर्मुकुटतटकुटीनिःस्रवत्स्वः स्रवन्ती
कछोलोद्वेलकोलाहलमदलहरीखण्डिपाण्डित्यहृद्याम् ॥ १४ ॥




 यद्यप्येवं तथाऽपि विपुलानां दुग्वाब्धेः क्षीरसमुद्रस्य लहरीणां प्रवाहाणां लसन्त
श्रवकासन्तो ये कलोला बृहत्तरङ्गास्तेषामाली पङ्किस्तस्या लासिते परिहास एकरसिका
मुख्यरसिकास्ततोऽप्यतिस्वच्छा यतिपतेर्विद्यातीर्थस्य शंकरस्य वाऽमी कटाक्षा मूका
नपि वाचालयितुं शक्ताः समर्था मय्युलसन्त्यतोऽघटितं यदभीष्टं तस्य ममाघटिता
भीष्टस्य घटने भृशामतिशयेन शक्ता इत्यत्र किं चित्रं किमप्याश्चर्यं न भवतीत्यर्थः ।
भृशमघटिताभीष्टस्य घटने किं चित्रमिति वा ॥ १३ ॥[मूकान्वागिन्द्रियानुग्रहविरहि
णः पुरुषानिति यावत् । वाचालयितुमपि ‘स्याज्जल्पाकस्तु वाचालः' इत्यमराब्दहु
जल्पनशीलं कर्तुमपीत्यर्थः ] ।। १३ ॥
 एवमपि चित्तस्थैर्यमलभमानी जगज्जननीं सरस्वतीं प्रार्थयते । अस्मदिति । अद्वैता
चार्यपादस्सुत्या श्रीशंकराचार्यपादस्तुत्या कृतं संपादितं यत्सुकृतं पुण्यं तेनोदारता
यस्याः कृतं मुकृतं येन तस्मिन् । मय्युदारता यस्या इति वा । सा शारदाम्बा नृत्यतो
मृत्युंजयस्य शिवस्योचैर्मुकुटतटकुट्या निःस्रवन्ती या स्व:सरिद्रङ्गा तस्याः कलोलानामुद्धे
लोऽनतिवेलोऽत्यर्थो यः कोलाहलस्तस्य यो मदो गर्वोऽहंकारस्तस्य लहरीणां खण्डि
खण्डनकर्तृ यत्पाण्डित्यं तेन हृद्यां मनोज्ञामुदारां विशालां स्वीयां व्याहारधारामस्म
जिह्वाग्रमेव सिंहासनमुपनयतु जिह्वाग्रलक्षणसिंहासनसमीपं प्रापयतु । अभ्यर्थनाय
लोट् । स्रग्धरा-
 ‘म्रभैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्’ इति लक्षणात् ॥ १४ ॥
[ शारदेति । ‘स भूरिति व्याहरत् । तेन भुवमसृजत’ इति श्रुतेः सकलपृथ्व्यादिसृष्ट
घणवव्याहृत्यादिशब्दब्रह्मपूर्वकत्वात्तदधिष्ठातृरज:मधानमायोपहितेश्धरलीलाविग्रहकम
लासनशक्त्याः सरस्वत्याः प्रणवादिसकलशब्दब्रह्माधिष्ठात्र्याः समुचितमेव जगज्जन्
हेतुत्वेनाम्बात्वमिति तत्वम् । [ स्वेति । स्वस्याऽऽत्मनो या उक्तयस्तासां या धा
 


केदं शंकरसदुरोः सुचरितं काहं वराकी कथं
निर्बभन्नासि चिरार्जितं मम यशः किं मजयस्यम्बुधौ ॥
इत्युक्त्वा चपलां पलायितवतीं वाचं नियुङ्गे बला
त्मत्याहृत्य गुणस्तुतौ कविगणश्चित्रं गुरोगरवम् ॥ १५ ॥
रुक्षेकाक्षरवाडूनिघण्टुशरणैरौणादिकप्रत्यय
मापैर्हन्त पडन्तदन्तुरतरैर्दूबोधदूरान्वयैः ॥
क्रूराणां कवितावतां कतिपयैः कष्टेन कृष्टैः पदै
हाँ हा स्याद्वशगा किरातविततेरेणीव वाणी मम ॥ १६ ॥




संततिस्तया या मुदानन्दाभिव्यक्तिस्तस्या भारेवाऽऽरा ‘आारा चर्मपभेदिन्यां पुंसि
भैौमे शनैश्चरे' इति मेदिन्युक्तरतिसूक्ष्माग्रभूमिमित्यर्थः । स्ववाक्चातुर्यानन्दप्रथमावस्था
मित्यर्थ एव फलितः ] ॥ १४ ॥
 ननु दुर्घटेऽर्थे तव वाचः पलायनमेव युक्त मध्येऽसामथ्यैवशन्निवृत्तौ चिरार्जितय
कोनाशसंभवादिति चेदिदमेव विचार्य पलायितवतीं मद्वाचं गुरोगौरवाद्वलात्मत्याहृत्य
कविगणो नियुङ्ग इत्याह । केति । इदं शंकरसदुरोः मुचरितं क । अहं वराकी क्षुद्रा
क। अतश्चिरार्जितं मम यशः कथं कुतो निर्बन्नासि नाशयस्यम्बुधौ समुद्रे मां मम यशो वा
किमर्थ मज्जयसीत्युक्त्वा पलायितवतीं चपलां वाचं बलात्प्रत्याहृत्य शंकरसदुरोर्गुण
स्तुतौ कविसमूहो नियुङ्गे प्रेरयतीति चित्रं गुरोगौरवम् । शार्दूलावक्रीडितम् ॥ १५ ॥
[ अहं वराकी तद्वर्णनाशाक्तत्वादतितुच्छा छ । अतो रे कवे त्वं मां तद्वर्णने कथं नि
बेन्नासि योजयसीत्यध्याहृत्यान्वयः । ततश्चिरार्जितं मम यशः किमित्यम्बुधौ मज्जय
सीति संबन्धः । इत्युक्त्वा यतश्चपलामतः पलायितवतीमेतादृशीं वाचम् ] ॥ १५ ॥
 काव्यरचनायां मवृत्ता मद्वाणी क्रूराणां कवितावतां शैलीमनुसारष्यतीति साक्रोश
माह । रुक्षेति । रुक्षा चासावेकाक्षरा चासौ वाक्च सा च निघण्टवः कोशाश्च शारणे
येषां तैः । औौणादिकाः प्रत्ययाः प्रायेण येषु तैः । यदन्तानि च तानि दन्तुरतराणि
विषमतराणि च-
 

'दन्तुरं वाच्यवद्विद्याद्विषमोन्नतदन्तयोः' इति विश्धप्रकाशाः ।


 यङन्तानि च दन्तुरतराणि च तौरीति वा । दुबँधानि च तानि दूरान्वयानि च
दुर्योधानि च दूरान्वयानि चेति वा तैः । कष्टेन कृष्टः क्रूराणां कवितावतां कतिपयैः
केन्धित्पदैहाँ हा मम वाणी वशगा स्यात् । यथैणी मृगी किरातानां विततेः पङ्केस्तद्व
दित्यर्थः ॥ १६ ॥ [ यङन्ताश्चरीकतfत्यादयः मसिद्धा एव शब्दास्तैर्दन्तुरतराण्यति
 


नेता यत्रोछसति भगवत्पादसंज्ञो महेश
शान्तिर्यत्र प्रकचति रसः शेषवानुज्ज्वलाचैः ॥
पत्राविद्याक्षतिरपि फलं तस्य काव्यस्य कर्ता
धन्यो व्यासाचलकविवरस्तत्कृतिज्ञाश्च धन्याः ॥ १७ ॥




 निम्रोन्नतानि तैरित्यर्थः । [ कूराणां कठोरवाचाम् । पक्षे निर्दयानाम् । कुकवी
नामित्यार्थिकम् । [एणीव हरिणीव मम वाणी वशगा स्यात्तेषां भुवि बहुत्वादस्याश्चै
कत्वात्तत्परवशा स्याद्भयादेत्यन्वयः ] | १६ ॥

 एवं तर्हि किमर्थं काव्यरचनायां प्रवृत्तस्त्वामेति चेच्छूशंकराचार्यस्य गुणानुवर्णनेन
स्वस्य कृतकृत्यतासंपादनार्थमित्याशयेनाऽऽह । नेता यत्रेति । यत्र यस्मिन्काव्ये भग
वत्पादेति संज्ञा यस्य स महेशो नेता मुख्यः स्वामी वगर्य इति यावत् । उलुसात प्रकाशते।
तस्य काव्यस्य ‘तददोषौ शब्दार्थों सगुणावनलंकृती पुनः कापि' इत्युक्तस्वरूपस्य प्रभु
संमितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्संमितार्थतात्पर्यवदितिहासपुराणादिभ्यश्च शब्दा
थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणस्य कान्तेव सरसतापादनेनाभिमुखी
कृत्योपदेशकर्तुलकोत्तरवर्णनानिपुणस्य कवेः कर्मणः कर्ता व्यास इवाचवलः स्थिरश्वासैौ
कविश्रेष्ठश्रेति व्यासाचलकविवरो माधवो धन्यः कृतकृत्यः । नन्वविद्याक्षतिपूर्वकब्रह्मा
नन्दपाया कृतकृत्यताया वेदान्तसिद्धान्तत्वात्कथं तद्वद्यतिरिक्तरसयुक्तकाव्यकरणेन
कृतकृत्यतेत्यत आह । यत्र यस्मिन्काव्ये शान्तिः शान्तिसंज्ञो रसः प्रकचवति
प्रकाशते । रसं विशिनष्टि । उज्ज्वलाचैः शेषरुपसर्जनभूतैः शेषवाञ्शेषी प्रधानभृत
इति यावन् । उज्ज्वलः शृङ्गार-

'शृङ्गारः शुचिरुज्ज्वलः' इत्यमरः ।


 आद्यपदेन वीरकरुणादुतहास्यभयानकबीभत्सरौद्राख्या रसा गृह्यन्ते । यत्र यस्मि
काव्येऽविद्याक्षतिरपि फलम् । क्षतेरन्यत्र फलत्वाभावादपिशब्द । तथाचैवंविधका
व्यकर्ता धन्य एवोति भावः । तस्य माधवस्य कृतिं यत्नं जानन्तीति तत्कृतिज्ञास्तेऽ
पि वन्याः । मन्दाक्रान्ता-
 'मन्दाक्रान्ता जलधिषडगैम्भ नैतौ तादुरू चेत्' इति लक्षणात् ॥ १७ ॥
 [शेषवानङ्गवानित्यर्थः]। [व्यासेति । व्यासो भगवान्बादरायणः प्रसिद्ध एव तद्वद्
चल : सर्वमान्यत्वेनाखण्ड्यः स चासौ कविवरश्चोति तथा]|| १७ ॥
 


तत्राऽऽदिम उपोद्धातो द्वितीये तु तदुद्भवः ॥
तृतीये तत्तदमृतान्धोवतारनिरुपणम् ॥ १८ ॥
चतुर्थसर्गे तच्छुद्धाष्टमप्राक्चरितं स्थितम् ।
पञ्चमे तद्योग्यसुस्वाश्रमप्राप्तिनिरुपणम् ॥ १९ ॥
महताऽनेहसा यषा संप्रदायागता गता । ।
तस्याः शुद्धात्मविद्यायाः षष्ठ सर्गे प्रतिष्ठितिः ॥ २० ॥
तद्वद्यासाचार्यसंदर्शविचित्रं सप्तमे स्थितम् ।
स्थितोऽष्टमे मण्डनार्यसंवादो नवमे मुनेः ॥ २१ ॥




 अथ शांकरीं कथां विस्तरेण निरूपयितुं प्रथमं तावच्छतुः सुखमतिपत्तये षोडश
सगैर्निरूप्यां तां संक्षिप्य दर्शयति । तत्रेत्यादिना । तत्र षोडशसर्गात्मके काव्य भादिम
ॐआाचे सगै उपोद्धातः 'चिन्तां प्रकृतिसिद्धयर्थामुपोद्धातं प्रचक्षते' इत्यक्तः । शिवदे
वतासंवादादिरूपो निरूपितः । द्वितीये स तु तस्य भगवतो महेशस्योद्भव आविर्भावः ।
तृतीये सर्गेऽमृतमन्धोऽन्नमदनीयं येषाम् ।'अदेर्नुम्धौ च' अदेर्भते वाच्येऽसुन्मत्ययो
नुमागमो दस्य वादेशश्च । तेषां तेषाममृतान्धसां देवानामवतारस्य निरूपणम् । तस्य
तस्यामृतान्धसोऽवतारस्येति वा ॥ १८ ॥
 चतुर्थे सर्गेऽष्टमवर्षात्याकरितमष्टमप्राकरितं शुद्धं च तदष्टममाक्चरितं च तस्य
महेशस्य शुद्धाष्टमप्राकरितं स्थितम् । शुद्धत्वं च प्राकृतचरितविलक्षणत्वम् । पञ्चमे सर्गे
तस्य योग्यस्य जीवन्मुक्तिसुखसाधनस्य चतुर्थाश्रमस्य प्राप्तर्निरूपणम् । योग्यस्य
सुखाश्रमस्येति वा ॥ १९ ॥[। तद्योग्येति । तस्य भगवतो भाष्यकारस्य योग्यः शु
द्धाद्वैतब्रह्मविचैकप्रतिष्ठापनपयोजकप्रकटितमाथिकलीलाविग्रहसमुचित इति यावत् ।
एतादृशो यः सुखाश्रमः परमहंससंन्यासस्तस्यैव पारमार्थिकसुखसाधकत्वात्तथात्वम् ।
तस्य या प्राप्तिस्तस्या निरूपणमित्यर्थः ] ॥ १९ ॥
 येषा शुद्धात्मविद्या संप्रदायादागता महता कालेन संप्रदायस्य विच्छिन्नत्वाद्रता
तस्याः शुद्धात्मविद्यायाः प्रतिष्ठितः सम्यक्स्थापनं षष्ठ सर्गे स्थितम् ॥ २० ॥
 सप्तमे सर्गे तस्य शंकराचार्यस्य व्यासाचार्यस्य च परस्परसंदर्शनात्मकं विचित्र
माश्चर्ये स्थितम् । अष्टमे सर्गे मण्डनार्ययोर्मण्डनभाष्यकारयोः संवादः स्थितः ॥२१॥
[ तदिति । तस्य भगवतो भाष्यकारस्य यः सम्यग्जाग्रत्येवापरोक्षतया दर्शनं ज्ञानं
संदर्शः । व्यासश्वासावाचार्यः ।

'आाचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि ।
स्वयमप्याचरेद्यस्तु स आचार्य इति स्मृतः' इति ।
कृते तु भगवान्मत्यस्त्रेतायां दत्त एव च ।


 

वाणीसाक्षिकसार्वज्ञनिर्वाहोपापचिन्तनम् ॥
दशमे योगशक्त्या भूपतिकायप्रवेशनम् ॥ २२ ॥
बुङ्का मीनध्वजकलास्तत्प्रसङ्गप्रपञ्चनम् ।।
सर्ग एकादशे तूग्रभैरवाभिधनिर्जयः ॥ २३ ॥
द्वादशे हस्तधान्यार्यतोटकोभयसंश्रयः ॥
वार्तिकान्तब्रह्मविद्याचालनं तु त्रयोदशे ॥ २४ ॥
चतुर्दशे पद्मपादतीर्थयात्रानिरुपणम् ॥
सर्गे पञ्चदशे तूत्तं तदाशाजयकौतुकम् ॥ २५ ॥
षोडशे शारदापीठवासस्तस्य महात्मनः ।
इति षोडशभिः सगैव्युत्पाद्या शांकरी कथा ॥ २६ ॥




द्वापरे भगवान्व्यास कलौ श्रीशंकरः स्वयम्’


 इति चाभियुक्तोक्तरद्वैतविद्यायाः पाचीनसंपदायप्रवर्तकश्चेति तथा । तस्य यः
संदर्शः स तथा व्यासाचार्यसंदर्शस्तेन विचित्रमदुतमित्यर्थः । चरितमिति शेषः]॥२१॥
नवमे सर्गे सरस्वतीसाक्षिकं मुनेर्यत्सार्वज्ञ तस्य यो निर्वाहस्तदुपायस्य चितनं
स्थितम् । दशमे सर्गे योगशक्त्या भूपतेरमरकाभिधस्य राज्ञः काये शरीरे प्रवेशनं
स्थितम् ॥ २२ ॥
 मीनध्वजस्य कामस्य कला बुङ्का तासां कलानां प्रसङ्गस्य प्रपञ्चनं प्रकटीकरण
मिति पूर्वेणान्वयः । एकादशे सर्गे तूप्रभैरवाभिधस्य कापालिकस्य निर्जयः स्थितः ॥२३॥
[ तत्प्रसङ्गेति । तयोभयभारत्यभिधसरस्वत्या सह यः प्रसङ्गः पुनर्जल्पादिस्तस्य प्रप
वनमिति यावत् ] ॥ २३ ॥
 द्वादशे सर्गे इस्तामलकार्यतोटकोभयसंश्रयो द्वयोः शिष्यत्वेनाऽऽश्रयणं स्थितम् ।
त्रयोदशे सर्गे तु वार्तिकान्ताया ब्रह्मविद्यायाश्चालनं पचारः स्थितः ॥ २४ ॥
[ चालनं ग्रन्थादिद्वाराऽखिलभरतवर्षे संचारणमित्यर्थः ] ॥ २४ ॥
 चतुर्दशे सर्गे पद्मपादस्य तीर्थयात्राया निरूपणम् । पञ्चदशे स तु तस्य शंकर
स्याऽऽशाजयात्मकं कौतुकमुक्तम् । दिग्विजयस्य कौतुकमिति वा ॥ २५ ॥ [पद्म
पादेति । पमपादाचार्यः श्रीविष्ण्बवतारीभूतस्तच्छिष्य इत्यर्थः ] ॥ २५ ॥
 षोडशे सर्गे तस्य महात्मनः शारदापीठवासः स्थितः । इत्येवंप्रकारेण षोडशभि
सगैः शांकरी कथा प्रतिपादनीया ॥ २६॥ [ शारदेति । सर्वान्भेदवादिनो विजित्य
यः सर्वज्ञत्वेन सर्वमान्यस्तेन देशविशेषप्रसिद्धसरस्वतीपीठनिवासः कर्तुमुचित इति
शिष्टकिंवुद्दन्ती ] ॥ २६ ॥

सैषा कलिमलच्छेत्री सकृच्छूत्याऽपि कामदा ॥
नानाप्रश्रोत्तरै रम्या विदामारभ्यते मुदे ॥ २७ ॥
एकदा देवता रूप्याचलस्थमुपतस्थिरे ॥
देवदेवं तुषारांशुमिव पूर्वाचलस्थितम् ॥ २८ ॥
प्रसादानुमितस्वार्थसिद्धयः प्रणिपत्य तम् ॥
मुकुलीकृतहस्ताब्जा विनयेन व्यजिज्ञपन् ॥ २९ ॥
विज्ञातमेव भगवन्विद्यते यद्धिताय नः ॥
वश्वयन्मुगतान्बुद्धवपुर्धारी जनार्दनः ॥ ३० ॥




 सैषा शांकरी कथा कलिमलनाशकत्र सकृच्छूवणेनापि काम्यमानपुरुषार्थचतुष्टय
प्रदा नानामश्रोत्तरैर्मनोज्ञा विदुषां प्रमोदार्थमारभ्यते ॥ २७ ॥ [ कलीति । ऐश्धरप
रमसात्विकतरावतारचरितत्वादित्यर्थः ] ॥ २७ ॥
 इत्थं संग्रहेण शांकरी कथां निरूप्य तस्या विस्तरेण निरूपणं प्रतिज्ञाय तदुपोद्धा
तत्वेन कथां पस्तौति । एकदेति । एकदैकस्मिन्काले रूप्याचले कैलासे स्थितं देवा
नामिन्द्रादीनां देवं महादेवं पूर्वाचलस्थं चन्द्रमिव देवता उपतस्थिर उपासांचक्रिरे। दे
वता ब्रह्माद्या अत्र ग्राह्याः । निगमाचारपरिभ्रष्टानागमाचाररतान्विप्रादिवर्णानवलोक्य
सत्यलोकंगतेन नारदेन प्रेरितो ब्रह्मा स्वभक्तादिसहितः शिवलोकमागत्य प्रणिपत्य प
ञ्चवक्त्रं शिवैमूच इति पाचीनविजयोत्तेः ॥२८॥ [ इन्द्रादयः । पूर्वेति । उद्याद्रि
गतम् । तुषारेति चन्द्रमिवेतेि संबन्धः । ते ह्यमृताख्यस्वजीवनार्थं तमुपतिष्ठन्तीति
शास्त्रमसिद्धमेव तद्वत्तस्याप्युपादानीभूतामिहोत्रादिवैदिककर्मणस्तथात्वादद्वैतविद्याया
श्च पारमार्थिकामृतत्वहेतुत्वाच युक्त एवायं ब्रह्मादिदेवकर्तृकः शिवस्तवनोपक्रम
इति भावः ] ॥ २८ ॥
 उपास्य यत्कृतवत्यस्तदाह । उपासनया प्रसादितस्य शिवस्य पसन्नतारूपेण लि
ङ्गेनानुमिता स्वार्थस्य सिद्धिर्याभिस्ताः । अमुकुलानि मुकुलीकृतानि इंस्तकमलानि
याभिस्ता बद्धाञ्जलयो देवदेवं प्रणिपत्य पकर्षेण नम्रीभूय विनयेन व्यजिज्ञपन्विज्ञा
पनं कृतवत्यः ॥ २९ ॥ [ प्रसादेति । शंकरस्येत्यार्थिकम् । ब्रह्मादयो देवा इति
शेषः ] ॥ २९ ॥
 तदेवोदाहरति । हे भगवन्नोऽस्माकं हिताय बुद्धवपुर्धारी जनार्दनः सुगतान्वञ्चय
न्यद्विद्यते स्म तत्वया विज्ञातमेव ॥ ३० ॥ [बुद्धेति ।
 


तत्प्रणीतागमालम्बैबौद्वैर्दर्शनदूषकैः ॥
व्याप्सेदानीं प्रभो धात्री रात्रिः संतमसैरिव ॥ ३१ ॥
वर्णाश्रमसमाचारान्द्विषन्ति ब्रह्मविद्विषः ॥
बुवन्त्यान्नायवचसां जीविकामात्रतां प्रभो ॥ ३२ ॥
न संध्यादीनि कर्माणि न्यासं वा न कदाचन ।।
करोति मनुजः कश्चित्सर्वे पांरखण्डतां गताः ॥ ३३ ॥
श्रुते पिदधति श्रोत्रे क्रतुरित्यक्षरद्वये ।।
क्रियाः कथं प्रवर्तेरन्कथं क्रतुभुजो वयम् ।। ३४ ॥




बुद्धो नाम्रा जिनसुतः कीकटेषु भविष्यति' ।


 इति भागवतोक्तर्बद्धावतार इत्यर्थः ] ॥ ३० ॥
 यद्यपि जनार्दनोऽस्मद्धिताय दैत्यान्पूर्वे वञ्चितवांस्तथाऽपीदानीं तेन बुद्धेन प्रणीता
राविता य आगमास्तदालम्बैबौद्वैश्यते कर्मोपासना ज्ञानं च येन यस्मिन्निति वा त
द्दर्शनं कर्मादिप्रतिपादकं वेदादिशास्त्रं तदूषकेबद्वैधत्री पृथिवी व्याप्ता । यथा संत
मसैर्गाढान्धकरै रात्रिस्तद्वत् । तेषां निराकरणे त्वमेव भुरिति सूचयितुं प्रभो इति
संबोधनम् । त्वयि प्रभौ सतीदमत्यन्तानुचितमिति वा संबोधनाशयः ॥ ३१ ॥ [ द
शर्शनेति । आस्तिकषड्दर्शनीनिन्दकैरित्यर्थः । धात्री
 “धात्री जनन्यामलकी वसुमत्युपमातृषु' इति मेदिन्याः पृथ्वीत्यर्थः ] ॥ ३१ ॥
 अनर्थरूपं तेषां कृत्यमाहुः । वर्णाश्रमाणां ये सम्यगाचारास्तान्द्विषन्ति यतो ब्र
ह्माणं ब्राह्मणं वेदं तपो ब्रह्मा च विद्विषन्तीति ब्रह्मविद्विषोऽत एव वेदवचनानां जी
विकामात्रतां बुवन्ति । वेदा जीविकार्थ निर्मिता इति कथयन्ति हे प्रभो ॥ ३२ ॥
[ आन्नायेति । 'श्रुतिः स्री वेद आाम्रायस्त्रयी' इत्यमराद्वेदवाक्यानामित्यर्थः] ॥३२॥
न्यासं संन्यासं गताः माप्ताः ॥ ३३ ॥ [पाखण्डताम्
[ सर्ग १ ]

'पाशब्देन त्रयीधर्मः पारक्षण इति स्मृतेः ।
तं खण्डयन्ति ये तकैस्ते पाखण्डा इति स्मृताः ।


 इत्यभियुक्तोक्तर्नास्तिकतामित्यर्थः ] ॥ ३३ ॥



 

शिवविष्ण्वागमपरैर्लिङ्गचक्रादिचिह्नितैः ।
पोखण्डैः कर्म संन्यस्तं कारुण्यमिव दुर्जनैः ॥ ३५ ॥
अनन्येनैव भावेन गच्छन्त्युत्तमपूरुषम् ॥
श्रुतिः साध्वी मदक्षीबैः का वा शाक्यैर्न दूषिता ॥ ३६ ॥
सद्यः कृत्तद्विजशिरःपङ्कजाॉर्चितभैरवैः ।।
न ध्वस्ता लोकमर्यादा का वा कापालिकाधमैः ।। ३७ ।।
अन्येऽपि बहवो मार्गाः सन्ति भूमौ सकण्टकाः ॥
जनैर्येषु पदं दत्त्वा दुरन्तं दुःखमाप्यते ।। ३८ ।।
तद्रवाॐोकरक्षार्थमुत्साद्य निखिलान्खलान् ।।
वत्र्म स्थापयतु श्रौतं जगद्येन सुखं व्रजेत् ॥ ३९ ॥




 क्रतुरित्यक्षरद्वये श्रुतेऽपि सति श्रोत्रे पिदधाति कर्णपिधानं कुर्वन्ति ॥ ३४ ॥
[ क्रतुरिति । ‘सप्ततन्तुर्मखः क्रतुः' इत्यमराद्यज्ञः ] ॥ ३४ ॥
 शिवेति । स्पष्टोऽर्थः ।। ३५ । [ संन्यस्तं त्यक्तम् । विधिं विनैव समुज्झितमि
त्यर्थः । तेन नाधिकारिकर्तृकवैधसंन्यासऽतिव्याप्तिरिति तत्त्वम् ] ॥ ३५ ॥
 यथा साध्वी पतिव्रताऽनन्येनैव भावेन स्वपतिमनुसरन्ती मदोन्मतैर्तुष्टैष्यते त
थोत्तमपूरुषं क्षराक्षरातीतं परमात्मानमनन्येनैव भावेन गच्छन्ती श्रुतिः साध्वी मदक्षी
चैः शाक्यैबद्वैिः का वा न दूषिताऽपितु सर्वेव दूषिता । तथाचोत्तमपुरुषेण त्वया
स्वपतिपादिका श्रुतिरवश्यं रक्षणीयेति भाव ।। ३६ । [ भावेन स्वाभिप्रायेणे
त्यर्थः । पक्षेऽव्यभिचारिणैव प्रेम्णेति यावत् । ][ उत्तमेति ।
 'उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’ इति भगवद्वचनात्परमात्मानमित्यर्थः । ]
[ पक्षे ब्राह्माविवाहाविधिना परिणीतत्वात्स्वपतिरुपमेव सर्वोत्तमं कान्तमित्यर्थः । गच्छ
न्ती तात्पर्यतः पर्यवस्यन्ती । पक्षे । अभिसरन्ती ] [ श्रुतीति । श्रुतिरेव साध्वी
पतिव्रता । पक्षे श्रुतिरिव सावॉशिकशुद्धा साध्वी पतिव्रतेति यावत् । मदक्षीबैवि
द्यामदादिनोन्मतैः । पक्षे मद्यमदादिनोद्धान्तैरित्यर्थः ] ॥ ३६ ॥
सद्यः कृतानि च्छिन्नानि द्विजानां शिरांस्येव पङ्कजानि तैरचैिवतो भैरवो यैस्तैः
कापालिकाधमैलोकमर्यादा का वा न ध्वस्ता किं तु सवैव नाशितेत्यर्थः ।। ३७ ।।
 पदं दत्त्वा गत्वा ॥ ३८ ॥ [ अन्येऽपीति । तार्किकादय इत्यर्थः ] ॥ ३८ ॥
 तत्तस्मादुत्साद्य विनाश्य श्रौतं वत्र्म वैदिकं मार्गम् ।। ३९ । [ श्रौतं श्रुतिमात्र
प्रतिपादितं पूर्वोत्तरमीमांसालक्षणम् । नतु तम्रमिश्रितमित्यर्थः ॥ ३९ ॥
 


इत्युक्त्वोपरतान्देवानुवाच गिरिजाप्रियः ।
मनोरथं पूरयिष्ये मानुष्यमवलम्ब्य वः ।। ४० ।।
दुष्टाचारविनाशाय धर्मसंस्थापनाय च ।।
भाष्यं कुर्वन्ब्रह्मसूत्रतात्पर्यार्थविनिर्णयम् ॥ ४१ ॥
मोहनप्रकृतिद्वैतध्वान्तमध्याह्नभानुभिः ॥
चतुर्भिः सहितः शिष्यैश्चतुरैर्हरिवदुजैः ॥ ४२ ।।
यतीन्द्रः शंकरो नाम्रा भविष्यामि महीतले ।।
मद्वत्तथा भवन्तोऽपि मानुषीं तनुमाश्रिताः ।। ४३ ॥
तं मामनुसरिष्यन्ति सर्वे त्रिदिवासिनः ॥
तदा मनोरथः पूणां भवतां स्यान्न संशयः ॥ ४४ ॥
बुवन्नेवं दिविषदः कटाक्षानन्यदुर्लभान् ।।
कुमारे निदधे भानुः किरणानिव पङ्कजे ॥ ४५ ॥




 मानुष्यमवलम्ब्य मनुष्यभावमाश्रित्य वो युष्माकं मनोरथं वाञ्छां ॥४०॥
किं कुर्वन्नित्यपेक्षायामाह । दुष्टाचारविनाशायेति । ब्रह्ममतिपादकानां सूत्राणां ता
त्पर्यार्थस्य विशेषेण निर्णयो येन तत् ।

अल्पाक्षरमसंदिग्धं सारवाद्विश्वतोमुखम् ।
अस्तोभमनवद्य च सूत्रं सूत्रविदो विदु ।
सूत्रार्थो वण्यैते यत्र वाक्यैः सूत्रानुकारीभिः ।
स्वपदानि च वण्थैन्ते भाष्यं भाष्यविदो विदुः ।


 इति सूत्रभाष्यलक्षणश्लोकः द्रष्टव्यौ ॥ ४१ ॥
 मोहनमज्ञानं पछतिरुपादानं यस्य तच तद्वैतमेव ध्वान्तं गाढं तमस्तस्य निरसने
मध्याह्नसूयैश्चतुर्भिश्चतुरैः कुशलैः शिष्यैः सहितश्चतुर्भिर्भुजैर्हरिवत् ॥ ४२ ॥ [ च
तुरैः शास्त्राद्यखिलव्यवहारकुशलैः ] ॥ ४२ ॥
 यतीन्द्रो नाम्रा शंकरो महीतले भविष्यामि तथा भवन्तोऽपि मानुषीं तनुमाश्रि
ताः सर्वे स्वर्गवासिनो देवास्तं यतीन्द्रं शंकरं मामनुपरिष्यन्ति तदा भवतां मनोरथः
पूर्णः स्याद्भविष्यति न संशयोऽस्मिन्नर्थे संशयो न कर्तव्य इत्यर्थः ।। ४३ [ यतीन्द्र
परमहंसपरिव्राजकाचार्यः ] ।। ४३ ।। ४४ ।।
 ततो-यदृत्तं तदाह । बुवन्निति । एवमनेन प्रकारेण दिविषदो देवान्प्रति बुव
न्सोऽन्यदुर्लभान्कटाक्षान्कुमारे स्वामिकार्तिके निदधे यथा सूर्यः पङ्कजे किरणान्स्थापय
ति तद्वदित्यर्थः ॥ ४५ ॥
 

क्षीरनीरनिधेवचिसचिवान्प्राप्य तान्गुहः ॥
कटाक्षान्मुमुदे रश्मीनुदन्वानैन्दवानिव ॥ ४६ ॥
अवदन्नन्दनं स्कन्दममन्दं चन्द्रशेखरः ॥
दन्तचन्द्रातपानन्दिवृन्दारकचकोरकः ॥ ४७ ॥
शृणु सौम्य वचः श्रेयो जगदुद्धारगोचरम्।
काण्डत्रयात्मके वेदे प्रोदृते स्याद्विजोदृतिः ॥ ४८ ॥
तद्रक्षणे रक्षितं स्यात्सकलं जगतीतलम् ॥
तदधीनत्वतो वर्णाश्रमधर्मततेस्ततः ॥ ४९ ॥
इदानीमिदमुद्धार्यमितिवृत्तिमतः पुरा ॥
मम गूढाशयविदौ विष्णुशेषौ समीपगौ ॥ ५० ॥
मध्यमं काण्डमुद्धर्तुमनुज्ञातौ मयैव तौ ।
अवतीयशतो भूमौ संकर्षणपतञ्जली ॥ ५१ ॥
मुनी भूत्वा मुदोपास्तियोगकाण्डकृतौ स्थितौ ।
अग्रिमं ज्ञानकाण्डं तूद्धरिष्यामीति देवताः ॥ ५२ ॥




 क्षीरनीरानधेः क्षीरसमुद्रस्य वीचिभिस्तुल्यान्कटाक्षान्प्राप्य गुहः कुमारो मुमुदे ।
यथा क्षीराब्धिवीचिसहकृतांस्ततुल्यान्वा चन्द्रसंबन्धिनो रश्मीन्प्राप्य जलधिमदमाम्रो
ति तद्वत् ॥ ४६ ॥
 चन्द्रशेखरः शिवः स्वसुतममन्दं बुद्धिमन्तं स्कन्दमवददुक्तवान् । चन्द्रशेखरं विशि
नष्टि । दन्तात्मकैश्चन्द्रातपैश्चन्द्रज्योत्स्राभिरानान्दनो वृन्दारका देवा एव चकोरक
यस्य दन्तलक्षणानां चन्द्राणामातपैरिति वा । पाठान्तरे तु क्रियाविशेषणम् || ४७ ॥
[ अमन्दं स्पष्टं यथा भवति तथा ] ॥ ४७ ॥
 यदुवाच तदुदाहरति । जगदुद्धारविषयं श्रेयःसाधनं वचनं हे सौम्य शृणु श्रोतुं
सावधानो भव । काण्डत्रयात्मके कर्मोपासनाज्ञानभेदेन वृन्दत्रयात्मके वेदे प्रकर्षणोट्टते
सति द्विजानामुदृतिः स्यात् ॥ ४८ ॥ [ द्विजेति । ब्राह्मणक्षत्रियवैश्यानां भोगमोक्ष
सिद्धयोद्धार इत्यर्थः ] ॥ ४८ ॥
 तेषां द्विजानां रक्षणे सति समस्तं जगतीतलं राक्षतं स्यात् । वर्णाश्रमधर्माणां तते
संततेस्तदधीनत्वतो द्विजाधीनत्वात् । तत इत्युत्तरान्वयि ।। ४९ ।।
 


संप्रति प्रतिजाने स्म जानात्येव भवानपि ॥
जैमिनीयनयाम्भोधेः शरत्पर्वशी भव ॥ ५३ ॥
विशिष्टं कर्मकाण्डं त्वमुद्धर ब्रह्मणः कृते ॥
सुब्रह्मण्य इति ख्यातिं गमिष्यसि ततोऽधुना ॥ ५४ ॥
नैगम कुरुमर्यादामवतीर्य महीतले ।
निर्जित्य सौगतान्सर्वानाझायार्थविरोधिनः ॥ ५५ ॥
ब्रह्माऽपि ते सहायार्थं मण्डनो नाम भुसुरः ।
भविष्यति महेन्द्रोऽपि सुधन्वा नाम भूमिपः ॥ ५६ ॥
तथेति प्रतिजग्राह विधेरपि विधायिनीम् ॥
बुधानीकपतिर्वाणीं मुधाधारामिव प्रभोः ॥ ५७ ॥




 ततस्तस्मादिदानीमिदमुद्धार्यमित्यभिप्रायवतो ममैतदृत्तान्तात्पूर्वं गूढाशयाभिौ वि
ष्णुशेषौ मम समीपगौ मध्यमं काण्डं देवताकाण्डमुद्धर्तु तौ मयैवानुज्ञातौ भूमावंशतोऽ
वतीर्य संकर्षणपतञ्जली मुनी भूत्वा मुदोपास्तियोगकाण्डस्य कृतैौ कर्तारौ स्थितौ करणा
र्थमिति वाऽयिमं ज्ञानकाण्डं त्वहमुद्धरिष्यामीति देवताः प्रति संपतिजाने स्म प्रतिज्ञां
कृतवानस्मि । भवानपि जानात्येव त्वं तु जैमिनीयन्यायसमुद्रस्य शरत्पौर्णमासीचन्द्रो
भव भूत्वा च ब्रह्मणः कृते ब्राह्मणस्य वेदस्य हिरण्यगर्भस्य तपसः परब्रह्मणश्चार्थे विशैि
ष्टकर्मकाण्डस्योद्धरणादधुना सुबह्मण्य इति ख्यातिं गमिष्यसीति पञ्चानां योजना ।
५० ॥ ५१ ॥ ५५ ॥ ५३ ॥ ५४ ॥ [ ब्रह्मणः कृते ।

ब्रह्म तत्त्वतपोवेदे न द्वयोः पुंसि वेधसि ।
ऋत्विग्योग्यभिदोर्विप्रः' ।
इति मेदिन्युक्तःबहाणजात्यर्थमित्यर्थः' ] ।। ५४ ॥


 नैगमीं वैदिकीमाम्रायार्थस्य वेदार्थस्य विरोधिनः ।। ५५ । । नैगमीमिति ।

निगमो वाणिजे पुर्या वाटे वेदे वणिक्पथे '


 इति मेदिन्युत्तेर्निगमशब्दितवेदसंबन्धिनीमिति यावत् । [ आम्रायेति ।

श्रुतिः स्त्री वेद आम्रायस्त्रयी धर्मस्तु तद्विधिः ।

 इत्यमराद्वेदार्थभूतधर्मोपलक्षिताद्वैतब्रह्मप्रतिकूलानित्यर्थः ] ॥ ५५ ॥

भूसुरो ब्राह्मणः ॥ ५६ ॥
 प्रभोः शिवस्य वाणीं वाचं विधेर्हिरण्यगर्भस्यापि विधायिनीं प्रवृत्तिकरीं बुधानीक
पतिर्देवसेनापतिर्गुहस्तथाऽस्त्विति सुधाधारामिव प्रतिजग्राह ॥ ५७ ॥ [ बुधेति ।
भामेत्यादिवन्नामैकदेशाग्रह्णन्यायेन बुधा विबुधाः ‘त्रिदशा विबुधाः सुराः' इत्यमरात्।
 


अथेन्द्रो नृपतिर्भूत्वा प्रजा धर्मेण पालयन् ॥
दिवं चकार पृथिवीं स्वपुरीमरावतीम् ॥ ५८॥
सर्वज्ञोऽप्यसतां शात्रे कृत्रिमश्रद्धयाऽन्वितः ।
प्रतीक्षमाणः क्रौञ्चारिं मेलयामास सौगतान् ॥ ५९ ॥
ततः स तारकारातिरजनिष्ट महीतले ।।
भट्टपादाभिधा यस्य भूषा दिक्सुदृशामभूत् ॥ ६० ॥
स्फुटयन्वेदतात्पर्यमभाज्जैमिनिसूत्रितम् ॥
सहस्रांशुरिवानूरुव्यञ्जितं भासयञ्जगत् ॥ ६१ ॥




तेषामनीकम् । ‘अनीकोऽस्त्री रणे सैन्येऽपि' इति मेदिन्याः । सैन्यं तस्य पतिः सेना
नीरित्यर्थः ] ।। ५७ ॥
 दिवं स्वर्गम् ॥ ५८ ॥ [ अथेति । नृपतिः सुधन्वाभिवो भूपतिरित्यर्थः] ।। ५८ ।।

 कृत्रिमया रचितया श्रद्धया युक्तः। क्रौञ्चारेिं श्रौश्चाख्यपर्वतस्य शत्रं गुहम् ॥५९॥
[ असतां बौद्धानाम् । क्रौञ्चारिम् ' कुमारः क्रौञ्चदारणः' इत्यमरात्मागुक्तरीत्या
प्रकटितावतारं स्कन्दमित्यर्थः ] ।। ५९ ।।
तारकस्य दैत्यविशेषस्यारातिः शत्रुः स्कन्दो महीतलेऽजनिष्ट प्रादुरभूद्यस्य भट्टपाद
इत्यभिधा संज्ञा दिक्सुदृशां दिगङ्गनानां भूषाऽलंक्रियाऽभूत् ॥ ६० ॥ [ तारकेति ।

 ‘बाहुलेयस्तारकजित्' इत्यमरात्स्कन्द इत्यर्थः ] ।। ६० ।।
अवतारकृत्यं दर्शयति । स्फुटयन्निति । जैमिनिना सूत्रैः सूचितं वेदस्य तात्पर्य
स्फुटयन्नभाद्राजत् । यथाऽनूरुणाऽरुणेन व्यञ्जितं किंचित्पकाशितं जगत्सम्यग्भासय
न्सहस्रांशुः सूर्यो राजते तद्वदित्यर्थः ।। ६१ । [ जैमिनीति । जैमिनिना सूत्रितम्

 ‘अथातो धर्मजिज्ञासा’ इत्यादिद्वादशलक्षण्या पूर्वमीमांसया सूचितमित्यर्थः । [वेदेति ।
पक्षीन्द्रः फणीन्द्रमत्तीत्यादौ फणीन्द्रपदस्य तच्छिरोवयवीभूतमणिविशेषेतरयावत्तच्छरी
रावयवविशेषशक्तिवद्वेदपदस्यापि प्रकृते वेदान्ताख्योत्तरकाण्डेतरपूर्वकाण्ड एव शक्तिः ।
अन्यथोपनिषत्काण्डस्यापि तेनैव व्याख्यातत्वापत्तेः । स्फुटयंस्तदीयशावरभाष्योपरि
वार्तिकद्वयद्वारा प्रकाशयन्सन्निति यावत् ] ।। ६१ ।।
 



राज्ञः सुधन्वनः प्राप नगरी स जयन्दिशः ॥
प्रत्युद्रम्य क्षितीन्द्रोऽपि विधिवत्तमपूजयत् ॥ ६२ ॥
सोऽभिनन्द्याऽऽशिषा भूपमासीनः काञ्चनासने ।।
तां सभां शोभयामास सुरभिर्युवनीमिव ॥ ६३ ॥
सभासमीपविटपिश्रितकोकिलकूजितम् ।।
श्रुत्वा जगाद तद्याजाद्राजानं पण्डिताग्रणीः ॥ ६४ ॥
मलिनैश्चेन्न सङ्गस्ते नीचैः काककुलैः पिक ।।
श्रुतिदूषकनिह्नदैः श्लाघनीयस्तदा भवेः ॥ ६५ ॥




स भट्टपादः प्रत्युद्रम्य प्रत्युत्थानाभिगमने विधाय ।

‘ऊध्र्वं प्राणा द्युत्क्रामन्ति यूनः स्थविर आगते ।
‘प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रातिपद्यते'


 इति शास्त्रमनुसरन्निति भावः ॥ ६२ ॥ [प्रत्युद्रम्येति । सार्वभौमसंपदुन्मादसंभ
वेऽपीन्द्रावतारत्वात्स लेशतोऽपि नैवाऽऽसेति सूचितम् ] ॥ ६२ ॥
 सुराभिः सुगन्धो वसन्तो वा । द्युवनीं स्वर्गवनम् ॥ ६३ ॥
 सभायाः समीपे विटपिनं वृक्षं श्रितस्य कोकिलस्य कृजितं मधुरभाषितं श्रुत्वा तद्वद्या
जात्तन्मिषेण राजानं प्रति पण्डिताग्रणीर्भट्टपादो जगाद बभाषे ॥ ६४ ॥
 यदुक्तवांस्तदुदाहरति । हे पिक हे कोकिल मलिनैनीचैः श्रुतेः कर्णस्य दूषकः
पीडाकरो निह्नौदः शब्दो येषां तैः काककुलैस्ते तव सङ्गो न स्याचेत्तदा श्लाघनीयः
स्तुत्यो भवेः । एतद्याजेन मलिनैनीचैः काकवृन्दसदृशैर्नास्तिकैर्वेददूषकनिदैस्ते सङ्गो
न स्याचेत्तदा त्वं श्लाघनीयो भवेरिति राजानं प्रत्युक्तवानित्यर्थः । गृढोक्तिरलंकारः ।

‘गृढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते '


 इत्युक्तः ॥ ६५ ॥ [मलिनैः ‘मलिनं दूषिते कृष्णे' इति मेदिन्याः कृष्णवणैः ।
पक्षे नास्तिकत्वादृषितैरित्यर्थः । [ नीचैरिति । विड़क्षकत्वादतिनिन्चैरित्यर्थः ।
पक्षे ‘असन्नेव स भवति । असन्नद्रक्षेति वेद वेत्' इति श्रुतेः शून्यात्मादिवादित्वाद
तितुच्छैरिति यावत् [ श्रुतीति । श्रोत्रसमुद्वेजकशाब्दै । पक्षे वेदखण्डकवाक्यै
रित्यर्थः । एतादृशैः । काकेति । पक्षे स्वजातिपोषकत्वात्काकानामिव कुलं वृन्दं
येषां ते तथा बौद्वैः सहेति यावत् ] ॥ ६५ ॥
 



षडभिज्ञा निशम्येमां वाचं तात्पर्यगर्भिताम् ॥
नितरां चरणस्पृष्टा भुजंगा इव चुक्रुधुः ॥ ६६ ॥
छित्त्वा युक्तिकुठारेण बुद्धसिद्धान्तशाखिनम् ।।
स तद्वन्थेभ्रनैश्चीणैः क्रोधज्वालामवर्धयत् ॥ ६७ ॥
सा सभा वदनैस्तेषां रोषपाटलकान्तिभिः ।।
बभौ बालातपातात्रैः सरसीव सरोरुहैः ॥ ६८ ॥
उपन्यस्यत्सु साक्षेपं खण्डयत्सु परस्परम् ।।
तेष्दतिष्ठनिघषो भिन्दन्निव रसातलम् ॥ ६९ ॥
अधः पेतुर्बुधेन्द्रेण क्षताः पक्षेषु तत्क्षणम् ॥
व्यूढकर्कशतर्कण तथागतधराधराः ॥ ७० ॥




 षडभिज्ञा बौद्धा निशाम्य श्रुत्वा ॥ ६६ ॥ [ अत्र भुजंगोपमया तेषां द्विजिह्वत्वादि
ध्वन्यते ] ॥ ६६ ॥
 बुद्धसिद्धान्त एव शाखी वृक्षस्तं स भट्टपादो युक्तिकुठारेण च्छित्वा तेषां बुद्धानां
ग्रन्थैरेवेभ्रनैश्रवीणैरुपचितैः क्रोधज्वालामवर्धयत् ॥ ६७ ॥[ छित्त्वति । चीणैः संपा
दितैः । सिद्धान्तो हि प्रतिपाद्यतया सर्वग्रन्थावच्छेदेन तिष्ठतीति तस्मिन्नेव खण्डिते
वृक्षे छिन्ने तदवयवानामिव निष्प्रयोजनत्वेनेन्धनत्वमुचितमेवेति भावः ] ॥ ६७ ॥

 सा सभा तेषां बुद्धानां वदनैर्मुखै रोषेण कोपेन पाटला श्वेतरक्ता कान्तिर्येषां तैर्ब
भौ चकाशे । बालातपेनाऽऽतात्रैरीषद्रतैः सरोरुहैः कमलैः सरसीव ॥ ६८ ॥

 तषु भट्टपादादषु साक्षप यथा स्यात्तथा मातपादन कुवत्सु तथा परस्पर खण्डन
कुर्वत्यु सत्सु रसातलं विदारयन्निव निघीषो नाद उदतिष्ठत् ॥ ६९ ॥ [ उपन्यस्य
त्स्विति । ‘उपन्यासस्तु वाङ्मुखम्’ इति ।

अवर्णाक्षेपानिर्वादपरीवादापवादवत्' इति चामरः ] ॥ ६९ ॥


 यथा देवानामिन्द्रेण पक्षेषु पृथुलेन कर्कशेन वत्रेण क्षता धराधराः पर्वता अधो
निपेतुस्तथा देवेन्द्रस्थानीयेन बुधानां पण्डितानाभिन्द्रेण भट्टपादेन तथागताः सुगता
‘धर्मराजस्तथागतः' इत्यमरः । त एव धराधरास्तत्क्षणं तस्मिन्नेव क्षणे व्युढो विन्यस्त
पृथुलो वा स चासौ कर्कशो दृढश्च स चासौ तर्कश्च तेन पक्षेषु क्षताः खण्डिता अध
पेतुर्निकृष्टतां प्राप्ता इत्यर्थः ॥ ७० ॥ [बुधेति । ‘बुधो बुद्धज्ञपडितः' इति मेदिन्या
पण्डितश्रेष्ठन भट्टपादेनेत्यर्थः । पक्षे मेरुः सुमेरुरित्यादिवदुपसर्गनिर्गमेऽपि तदभिधायक
त्वदर्शनाद्वबुधेन्द्रेण वत्रिणेति यावत् । पक्षेषु ।

‘पक्षेो मासार्धके गेहपाश्र्धसाध्यविशेषयोः' ।


 


स सर्वज्ञपदं विज्ञोऽसहमान इव द्विपाम् ॥
चकार चित्रविन्यस्तानेतान्मौनविभूषितान् ॥ ७१ ॥
ततः प्रक्षीणदर्पषु बौद्धेषु वसुधाधिपम् ॥
बोधयन्बहुधा वेदवचांसि प्रशशंस सः ॥ ७२ ॥
बभाषेऽथ धराधीशो विद्यायत्तौ जयाजयौ। ।
यः पतित्वा गिरेः शृङ्गादव्ययस्तन्मतं धुवम् ॥ ७३ ॥
तदाकण्र्य मुखान्यन्ये परस्परमलोकयन् ।
द्विजायस्तु स्मरन्वेदानारुरोह गिरेः शिरः ॥ ७४ ॥
यदि वेदाः प्रमाणं स्युर्भूयात्काचिन्न मे क्षतिः ।।
इति घोषयता तस्मान्यपाति सुमहात्मना ॥ ७५ ॥




 इति मेदिन्याः शून्यादितत्तत्साध्यावशेषावच्छेदेनेत्यर्थः। पक्षे क्षताः खण्डिताः सन्तः।
व्यूढेति । इदं तु विशेषणमेव बुधेन्द्रस्येति यथाश्रुतग्रहाः । वयं तु बुधेत्यादिविशेष्यप
देनैवालैौकिकपाण्डित्यलक्षणस्य तदर्थस्य सिद्धौ तद्वैयथ्यत्तथागतानां धराधराभेदादि
रूपके तत्करणमेवेति वदाम । विशेषेणोढाः प्रमाणान्तरानुग्रहानपेक्षत्वेनैव स्वीकृता
कर्कशा इव परमकठोरत्वात्पाषाणा इव तकः श्रुतिविरुद्धत्वाडुरूहा येन नास्तिक्येन
तत्तथा तेन निमित्तेनेत्यर्थः ] ॥ ७० ॥
 स विशेषेण सर्वे जानातीति विज्ञः सर्वज्ञो भट्टपादो द्विषां शत्रूणां सुगतानां सर्व
ज्ञपद्मसहमान इवेत्यन्वयः ॥ ७१ ॥ [इवेति । चित्रविन्यस्तानिवेत्युत्तरत्राप्यनुकृष्य
योज्यम् ] ॥ ७१ ॥
 स भट्टपादः ॥ ७२ ॥
 अथ बौद्धानां पराजयानन्तरं बभाष उवाच विद्यायत्तौ विद्याधीनौ जयपराजयौ
तर्हि कस्य मतं धुवं कस्याधुवमिति निर्णयः कथं स्यादिति चेत्तत्राऽऽह । यः पर्व
तस्य शृङ्गात्पतित्वा विनाशरहितः स्यात्तस्य मतं ध्रुवमन्यस्याधुवमित्यर्थः ।। ७३ ॥
तदाकण्र्य राज्ञोक्तं श्रुत्वाऽन्ये सौगताः परस्परं मुखान्यलोकयान्नित्यन्वयः । द्विजा
यो द्विजोत्तमोभट्टपादस्तु स्वरक्षार्थ वेदान्स्मरन्पर्वतस्य शृङ्गमारुरोह ॥ ७४ ॥
 इत्येवं घोषयता शब्दं कुर्वता न्यपात गिरेः शृङ्गान्निपतितम् ॥ ७५ ॥ [नन्वेवं
भृगुपाते तस्य धैर्यं कथं समभूदित्याशङ्कायां तं विशिनष्टि । स्विति । वेदप्रामाण्यानि
व्वयेऽतिविततमतिनेत्यर्थः ] ॥ ७५ ॥
 



किमु दौहित्रदत्तेऽपि पुण्ये विलयमास्थिते ॥
ययातिश्यवते स्वगत्पुनरित्यूचरे जनाः ॥ ७६ ॥
अपि लोकगुरुः शैलातूलपिण्ड इवापतत् ॥
श्रुतिरात्मशरण्यानां व्यसनं नोच्छिनत्ति किम् ॥ ७७ ॥
श्रुत्वा तददुतं कर्म द्विजा दिग्भ्यः समाययुः ॥
घनघोषमिवाऽऽकण्र्य निकुञ्जेभ्यः शिखावलाः ॥ ७८ ॥
दृष्टा तमैक्षतं राजा श्रद्धां श्रुतिषु संदधे ॥
निनिन्द बहुधाऽऽत्मानं खलसंसर्गदूषितम् ॥ ७९ ॥
सौगतास्त्वबुवन्नेदं प्रमाणं मतनिर्णये ॥
मणिमन्नौषधैरेवं देहरक्षा भवेदिति ॥ ८० ॥
दुर्विधैरन्यथा नीते प्रत्यक्षेऽर्थेऽपि पार्थिवः ।।
भृकुटीभीकरमुखः संधामुग्रतरां व्यधात् ॥ ८१ ॥




 किमु वितकें । दौहित्रैरष्टकादिभिर्दते ययातिधर्मस्य व्यवनस्य सबन्धनिमित्तेन
तत्तादात्म्यसंभावनस्य सत्वादुत्प्रेक्षा ।
‘संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना' इत्युक्तेः ॥ ७६ ॥
[ जनाः श्रीभट्टपादपतिज्ञादिव्यकरणदर्शनार्थे तत्कालं मिलिताः ] ॥ ७६ ॥
 श्रुतिरात्मा स्वयमेव शरण्यं येषां तेषां व्यसनं दुःखं किं नोच्छिनत्यपि तृच्छिन
त्येव ॥ ७७ ॥ [ तूलपिण्ड इव कापसगोलक इवाक्षत एवापतदित्यन्वयः । ]
 

व्यसनम् 'व्यसनं त्वशुभे सक्तौ पानस्रीमृगयादिषु ।
दैवानिष्टफले पापे विपत्तौ निप्फलोद्यमे' ।


 इति मेदिन्या अशुभं विपत्तिजातं वेति यावत् ] ॥ ७७ ॥
 घनघोषं मेघगर्जितं निकुत्रेभ्यो लतादिपिहितोदरेभ्यः शिखावला मयूराः ॥७८॥
 खलानां दुर्जनानां सौगतानां संसर्गेण संबन्वेन दृषितम् ॥ ७९ ॥ [ खलेति ।
बोद्धसंबन्धसंजातबाधमित्यर्थः ] ॥ ७९ ॥
 ॥ ८० ॥ [ सौगतास्त्विति। इदं पर्वतशृङ्गान्निपतनं मतनिर्णये विषये नैव ममा
णमित्यबुवान्निति योजना । [ इतिशब्दो हेत्वर्थः ] ॥ ८० ॥
 दुर्विधैः खलैबॉडैः प्रत्यक्षेऽर्थेऽप्यन्यथा नीते सात राजा भृकुट्या भीकरं भयंकरं
मुखं यस्य स प्रतिज्ञामुग्रतरां व्यधाद्विहितवान् ॥ ८१ ॥ [ दुर्विधैरिति ।
 


पृच्छामि भवतः किंचिद्वतुकुं न प्रभवन्ति ये ॥
योपलेषु सर्वांस्तान्घातयिष्याम्यसंशयम् ॥ ८२ ॥
इति संश्रुत्य गोत्रेशो घटमाशीविषान्वितम् ।
आनीयात्र किमस्तीति पप्रच्छ द्विजसौगतान् ॥ ८३ ॥
वक्ष्यामहे वयं भूप श्वः प्रभातेऽस्य निर्णयम् ॥
इति मसाद्य राजानं जग्मुर्भमुरसौगताः ॥ ८४ ॥
पद्मा इब तपस्तेपुः कण्ठद्वयसपाथसि ।।
द्युमाणिं प्रति भूदेवाः सोऽपि प्रादुरभूत्ततः ॥ ८५ ॥
संदिश्य वचनीयांशमाऽदित्येन्तर्हिते द्विजाः ।।
आजग्मुरपि निश्चित्य सौगताः कलशस्थितम् ।। ८६ ॥


 

विधा गजान्ने ऋद्धौ च प्रकारे रचने विधौ ' ।


 इति ‘संधा स्थितिप्रतिज्ञयोः' इति च मेदिनी ] ॥ ८१ ।।
 वामेवाऽऽह पृच्छामीति द्वाभ्याम् । यत्रोपलेषु यम्राकारेषु पाषाणेषु ॥ ८२ ॥
[ यत्रेति । गुलिकाधनुराख्ययश्रविशेषनिर्मुक्तपाषाणावच्छेदेनेत्यर्थः ] ॥ ८२ ॥
 इत्येवं संश्रुत्य प्रतिज्ञां विधाय गोत्रा पृथ्वी ‘गोत्रा कुः पृथिवी'इत्यमरः । तस्या
ईशो राजाऽऽशीविषः सपों द्विजाश्च सौगताश्च तान् ॥ ८३ ॥
 ।।८४ ।। [ भूसुरा ब्राह्मणाः ] ॥ ८४ ॥
 ‘वा पुंसि पझं नलिनम्' इत्यमरसत्पद्या इति पुंलिङ्गप्रयोगः । कण्ठप्रमाणे पाथसि
जले ‘प्रमाणे द्वयसच्’ इति द्वयसच्पत्ययः । द्युमणिं सूर्य मति भूदेवा ब्राह्मणाः स
भानुः ॥८५॥ [ द्युमणिं प्रति सूर्यमुद्दिश्येति यावत् । यद्यपि ‘विप्राणां दैवतं शंभुः ’
इति प्राचीनशंकराविजये मनूतेः शिव एव ब्राह्मणैः शरणीकरणीयस्तथाऽपि पृथ्व्या
द्यष्टमूर्तेस्तस्य ब्राह्मणसर्वस्वीभूतगायत्रीमत्रे सवितृमूर्तित्वेनैवोपास्यत्वप्रसिद्धेर्युक्तमेव
तदाराधनामित्याभिसंधिः ] ॥ ८५ ॥
 घटे शेषशायी विष्णुरस्तीति कथमीयांशं संदिश्योपदिश्य। सौगता अपि घटस्थितं
वस्तु निश्चित्याऽऽजग्मुः ॥ ८६ ॥ [ सौगता अपि तन्निश्चित्य ।

अतिपूजिततारयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनु ।
जिनसिद्धान्तस्थितिरिव विलोकिता कं न मोहयति ।


इति गोवर्धनाचार्यवचनात्स्चाराध्यमत्रशास्त्रमसिद्धदशमहाविद्यान्तर्गतताराख्यदेवता
विशेषप्रसादेन निर्णीयेत्यर्थः ] ॥ ८६ ॥
 

ततस्ते सौगताः सर्वे भुजंगोऽस्तीत्यवादिषुः ॥
भोगीशभोगशयनो भगवानिति भूसुराः ।। ८७ ।।
श्रुतभूसुरवाक्यस्य वदनं पृथिवीपतेः ।
कासारशोषणम्लानसारसश्रियमाददे ॥ ८८ ॥
अथ प्रोवाच दिव्या वाक्सम्राजमशरीरिणी ।
तुंदन्ती संशयं तस्य सर्वेषामपि शृण्वताम् ॥ ८९ ॥
सत्यमेव महाराज ब्राह्मणा पद्धभाषिरे ॥
मा कृथाः संशयं तत्र भव सत्यप्रतिश्रवः ॥ ९० ॥
श्रुत्वाऽशरीरिणीं वाणीं ददर्श वसुधाधिपः ॥
मूर्ति मधुद्विषः कुम्भे मुधामिव मुराधिपः ॥ ९१ ॥
निरस्ताखिलसंदेहो विन्यस्तेतरदर्शनात्।।
व्यधादाज्ञां ततो राजा वधाय श्रुतिविद्विषाम् ॥ ९२ ॥




 भुजंगः सर्पः । भवादिषुः कथितवन्तः । भोगीशस्य शेषस्य मोगे शरीरे शयनं
यस्य स विष्णुरित्यर्थः ॥ ८७ ॥

 श्रुतं भूसुराणां वाक्यं खेन घटे निहितादन्यस्यार्थस्य प्रतिपादकं येन तस्य भूपते
र्मुखं कासारस्तडागः ।

 ‘पाकरस्तडागोऽस्मी कासारः सरसी सरः' इत्यमरः । तस्य शोषणेन म्लानस्य
सारसस्य कमलस्य श्रियमाददे ॥ ८८ ॥

 अथानन्तरमशरीरिणी दिव्या वाणी तस्य राज्ञः शृण्वतां च सर्वेषां संशायं नाशा
यन्ती राजानं मोवाच ॥ ८९ ॥ [ ततः श्रीशशंकर एवाष्टमूर्तिरपि शब्दगुणकाकाशमू
त्र्यवच्छेदेनैव राजानं सान्त्वयामासेत्याह । अथेति ] ॥ ८९ ॥
 हे महाराज ब्राह्मणा यदुक्तवन्तस्तत्सत्यमेव तत्र तदुक्त संशयं मा कुरु सत्यम
तिश्रवः सत्यमतिज्ञो भव ॥ ९० ॥
 मधुद्विषो विष्णोः सुराधिप इन्द्रः ।। ९१ ।।

 विन्यस्ताद्धटे स्थापिवादाशीविषादितरस्य मधुद्विषो दर्शनं तस्माद्धेतोर्निरस्ता अप
गता अखिलाः संदेहा यस्य सः ॥ ९२ ।।
 


आ सेतोरा तुषाराद्रेबौद्धानावृद्धबालकम् ।।
न हन्ति यः स हन्तव्यो धृत्यानित्यन्वशानृपः ॥ ९३ ॥
इष्टोऽपि दृष्टदोषश्चेद्वध्य एव महात्मनाम् ।।
जननीमपि किं साक्षान्नावधीदृगुनन्दनः ॥ ९४ ॥
स्कन्दानुसारिराजेन जैना धर्मद्विषो हताः ।।
योगीन्द्रेणेव योगन्ना विन्नास्तत्वावलम्बिना ॥ ९५ ॥
हतेषु तेषु दुष्टषु परितस्तार कोविदः ॥
श्रतवत्र्म तमिस्रषु नष्टष्विव रविर्महः ॥ ९६ ॥
कुमारिलमृगेन्द्रेण हतेषु जिनहस्तिषु ।
निष्प्रत्यूहमवर्धन्त श्रुतिशाखाः समन्ततः ॥ ९७ ।।




 आा सेतो रामसेतुपर्यन्तं तथा हिमालयपर्यन्तं वृद्धं बालकं चाभिव्याप्य यो
मदृत्यः सौगतान्न हन्ति स मया हन्तव्य इति भृत्यानन्वशादाज्ञप्तवान् ॥ ९३ ॥
 ननु स्वगुरुत्वेन स्वीकृतत्वादिष्टानां वधाय किमित्येवमाज्ञां कृतवानित्यत माह ।
इष्टोऽपीति । पित्रा नियुक्तो भृगुनन्दनः परशुरामः साक्षाज्जननीमपि किं नावधीदपि
तु हतवानेव । अत्र पूर्वोक्तबैौद्धवधाज्ञारूपस्य विशेषस्य समर्थनाय सामान्यमुपन्यस्य
विशेषान्तरोपन्यासाद्विकस्वरालंकारः ।
 ‘यस्मिन्विशेषसामान्यविशेषाः स विकस्वरः' इत्युक्तः ॥ ९४ ॥
 भट्टपादानुसारिराजेन सुधन्वना धर्मद्विषो बौद्धा विनाशिताः । तत्त्वावलम्बिना
योगीन्द्रेण योगनाशका विघ्रा व्याधिस्थानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्ध
भूमिकत्वानवस्थितत्वादयोऽन्तराया योगशास्रोक्ता इवेत्यर्थः ॥ ९५ ॥ [ तत्त्वेति ।
औद्वैतात्मानुसंधानाश्रयिणेति यावत् ] ॥ ९५ ॥
 तेषु दुष्टषु बौद्धेषु इतेषु कोविदः पण्डितो भट्टपादः श्रौतमार्ग परितस्तार सर्वतः
प्रसारितवान् । यथा तमिस्रष्वन्धकारेषु नटेषु सूर्यो महस्तेजो विस्तारयति तद्वत
॥ ९६ ॥ [ परितस्तार । वेदाध्ययनामिहोत्राद्यनुष्ठानादिरूपेण विस्तारयामासेति
संबन्धः ] ॥ ९६ ॥
 कुमारिलो भट्टपाद् एव मृगेन्द्रः सिंहस्तेन निष्प्रत्यूहं निर्विघ्रम् ॥ ९७ ॥ [कुमा
रिलेति । कुमारः ‘कुमारः क्रौञ्चदारणः' इत्यमरात्स्कन्दः सोऽस्यास्तीति कुमारी स्कन्द
पिता श्रीशंकरस्तं लात्यात्मपितृत्वेनाऽऽदत्त इति तथा । शिवाज्ञापरिपालकः साक्षा
त्स्कन्द एव भट्टपादात्मनाऽवतीर्णः स एव मृगेन्दः सिंहस्तेनेत्यर्थः ] ॥ ९७ ॥
 


प्रागित्थं ज्वलनभुवा प्रवर्तितेऽस्मिन्कर्माध्वन्यस्खिलविदा कुमारिलेन ॥
उद्धर्तु भुवनमिदं भवाब्धिममं कारुण्याम्बुनिधिरियेष चन्द्रचूडः ॥ ९८ ॥


इति श्रीमाधवीये तदुपोद्धातकथापरः ।।
संक्षेपशंकरजये सर्गेऽयं प्रथमोऽभवत् ॥ १ ॥




अथ द्वितीयः सर्गः ।


ततो महेशः किल केरलेषु श्रीमद्वषाद्रौ करुणासमुद्रः ॥
पूर्णानदीपुण्यतटे स्वयंभूलिङ्गात्मनाऽनङ्गधगाविरासीत् ॥ १ ॥




 उपोद्धातरूपां स्कन्दाववारकथामुपसंहरञ्शिवावतारकथां ग्रन्थमतिपाद्यामुपक्षिपति।
प्रागित्थमिति । ज्वलनादनलाद्भवतीति ज्वलनभूस्तेन सर्वज्ञेन भट्टपादेन पूर्वमनेन प
कारेणास्मिन्कर्ममार्गे प्रवर्तिते सति ततः संसारसागरे निमग्रं भुवनमद्वैतशास्त्रबलवेनोद्धर्तु
कारुण्यजलधिश्चन्द्रशेखरो महादेव इयेषेच्छति स्म । प्रहर्षणी वृत्तं ।
“म्रौत्रैौगत्रिदशयतिः प्रहर्षणीयम्’ इति लक्षणात् ॥ ९८ ॥
 इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यदत्तवंशावतंसराम
कुमारसूनुवनपतिसूरिकृते श्रीमच्छंकराचार्यविजयडिण्डिमे प्रथमः सर्गः ॥ १ ॥
अथ द्वितीयसर्गस्य टीका प्रारंभः ।
 शंकरावतारं विस्तरेण वर्णयितुं पीठिकां रचयति । तत इति । ततः कर्ममार्गमवृत्य
नन्तरं करुणासमुद्रोऽनङ्ग कामं दहतीत्यनङ्गधङ्मद्देशः केरलेषु देशविशेषेषु श्रीमदृषसं
ज्ञके गिरौ पूर्णानदीपुण्यतटे ज्योतिर्लिङ्गात्मनाऽऽविरासीत्प्रादुरभूत् । उपजातिश्छ
न्दः ॥ १ ॥ [ श्रीमदिति । श्रीरत्र निरुक्तनद्याः संनिधानादिना विलक्षणशेोभैव ]
[ लिङ्गरूपेणाऽऽविर्भविष्यतो भगवतः पार्थिवरूपत्वेन तदईस्य तदीयवाहनीभूतवृष
स्यापि तथात्वमेवापेक्षितमिति वृषपदेन द्योत्यते । तथाच ‘वृषो धर्मे बलीवर्दे’ इति मे
दिन्याः श्रेषेण धर्मशिखर एव परशिवाविर्भावो भवतीति भावः ] [ अनङ्गेति ।
अनङ्गं कामम् । पक्षे न विद्यतेऽङ्ग प्रमाणगम्यं शरीरं यस्य मूलाज्ञानस्य तत्तथा ।
तदुक्तं वार्तिके ।
{{block center‘अविद्याया अविद्यात्व इदमेव तु लक्षणम् ।
यत्प्रमाणासहिष्णुत्वमसाधारणमिष्यते '
इति । तं तचदइतीति तथा] ॥ १ ॥}}
 


तैचोदितः कश्चन राजशेखरः स्वप्रे मुहुँदृष्टतदीयवैभवः ।
प्रासादमेकं परिकल्प्य सुप्रभं प्रावर्तयत्तस्य समर्हणं विभोः ॥ २ ॥
तस्येश्वरस्य प्रणतार्तिहर्तुः प्रसादतः प्राप्तनिरीतिभावः ।
कश्चित्तद्भ्याशगतोग्रहारः कालव्यभिख्योऽस्ति महान्मनोज्ञः ॥ ३ ॥
कश्चिद्विपश्चिदिह निश्चलधीर्विरेजे विद्याधिराज इति विश्रुतनामधेयः ।।
रुद्रो वृषाद्रिनिलयोऽवतरीतुकामो यत्पुत्रमात्मपितरं समरोचयत्सः॥४॥
पुत्रोऽभवत्तस्य पुरात्पुण्यैः सुब्रह्मतेजाः शिवगुर्वेभिख्यः ॥
ज्ञाने शिवो यो वचने गुरुस्तस्यान्वर्थनामाकृत लब्धवर्णः ॥ ५ ॥




 तेन लिङ्गात्मनाऽऽविर्भूतेन मद्देशेन प्रेरितः कश्चन राजशेखराख्यो महीपः पुनः
पुनः स्वप्रे दृष्टस्तदीयो वैभवो येन स एकं प्रासादं देवालयं पारिकल्प्य तस्य विभो
संपूजनं पवर्तितवान् ‘स्यादिन्द्रवंशा ततजैरसंयुतैः' ।। २ । [ तचोदित इति ।
अन्तयमितया तत्प्रेरित इत्यर्थः ] ॥ २ ॥
 तस्य प्रणतार्तिहर्तुरीशास्य प्रसादात्प्राप्तो निरीतिभावोऽयम् । ईतयस्तु ।

‘अतिवृष्टिरनावृष्टिमूषिकाः शलभाः शुकाः ।
अत्यासन्नाश्च राजानः षडेता ईतयः स्मृता


 इत्युक्ताः षड्बाधा ज्ञेयाः । एवंविधस्तस्य प्रासादस्य समीपगतः कश्चित्काल
टिसंज्ञोऽतिरम्योऽप्रहारो ब्राह्मणप्रधानो ग्रामोऽस्ति ।। ३ ।।
 इहास्मिन्नग्रहारे विद्याविराज इति विश्रुतनामेधयो निश्चलमतिः कश्चित्पाण्डितो
विरेजे । स वृषाद्रिनिलयोऽवरीतुकामोऽवतरणेच्छुर्यस्य पुत्रमात्मपितरं समरो
चयत्स विरेज इति वाऽन्वयः । ‘उक्तं वसन्ततिलकं तभजा जगौ गः' ॥ ४ ॥
[ निश्चलेति । एतेन तत्र योगाभ्यासपरिपाकोऽपि व्यज्यते ] ॥ ४ ॥
 तस्य विद्याविराजस्य पुरा पूर्वमनेकजन्मस्वातैरर्जितैः पुण्यैः सुष्ठु ब्रह्मतेजो यस्य
स शिवगुरुसंज्ञः पुत्रोऽभवत् । यो ज्ञाने शिवो वचने गुरुर्तृहस्पतिस्तस्य पुत्रस्य
लब्धवर्णो विचक्षणो विद्याविराजोऽन्वर्थनामार्थानुरूपं नामाकृत संज्ञां कृतवान् ।

‘धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ।
इत्यमरः । ‘स्यादिन्द्रवप्रा यदितौ जगौ गः' ॥ ५ ॥




 

सर्वपुस्तकेष्वेवमेवोपलभ्यते पुंस्त्वं तु लिङ्गस्य लोकाश्रयत्वात्कथंचिद्धेोध्यम् ।




 

स ब्रह्मचारी गुरुगेहवासी तत्कार्यकारी विहिताभभोजी




 एवं शिवगुरोर्जन्मोक्त्वा तचरितमाह । स शिवगुरुर्बह्मचारी गुरुगेहवासशलि
स्तस्य गुरोः कार्यकारी विहितं भिक्षया लब्धं गुरवे निवेदितमन्नं भोक्तुं शीलमस्या
स्तीति । तथा हुताशं हुतभुजं वाहूं सेवितुं शीलमस्यास्तीति । तथा व्रतेन ब्रह्मचर्य
नियमेन स्वीयं वेदमध्यगीष्टाधीतवान् ॥ ६॥ [ निजं वेदं तैत्तिरीयशाखारूयं मुख्यं
यजुर्वेदम् । तदाहुश्चरणव्यूहकाराः ।

‘मत्रब्राह्मणयोर्वेदविगुणं यत्र पठ्यते ।
यजुवदः स विज्ञया ह्यन्ये शाखान्तराः स्मृता।


 इति । अद्यापि तद्देशे तज्जातीयद्रविडेषु तैत्तिरीयशाखाया एव प्राचुर्योपलब्धेः ।
ऋक्सामशाखिनां तु काचित्कत्वात् । श्रीमद्भाष्यकारचरणैः ‘अथातो ब्रह्मजिज्ञासा’
इति शारीरकाख्योत्तरमीमांसारम्भसूत्रे * तद्विजिज्ञासस्व ' इति तद्वाक्यस्यैव
समुदाहृतत्वाच्च । नच जिज्ञासापद्घाटितसूत्रसाधम्यत्तदुदाहरणमिति वाच्यम् । ‘भूमा
त्वेव विजिज्ञासितव्यः' इति च्छान्दोग्यवाक्यस्य तथात्वेन तदेव कुतो नोदाहृतमिति
प्रश्रावकाशात् । नापि तत्र लिङ्गसाम्याभाव इति सांप्रतम् । तत्रैवाष्टमाध्याये ‘अथ
यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वे
ष्टव्यं तद्वाव विजिज्ञासितव्यम्' इत्येतस्यापि समानलिङ्गत्वात् । तस्माच्छिवगुरोस्तै
त्तिरीयारूयमुख्ययजुःशाखैवेति दिक् ] ॥ ६ ॥
 यतः क्रियानुष्ठानं फलं यस्य सोऽर्थबोधो विचारं विना नैव जायते । अतो
वेदानधीत्य तदनन्तरं तद्विचारं चकार । वेदार्थविचारात्मकं पूर्वमीमांसाशास्त्रमधी
तवान् । नन्वधीतस्वाङ्गस्वाध्यायस्तदर्थं स्वयमेव कुतो नावबुद्धवानिति चेत्तत्राऽऽह ।
हि यस्माद्वेदो दुबोधतरो विचारं विनाऽतिशयेन दुर्घटो यथार्थबोधो यस्य सः। ‘उपे
न्द्रवत्रा जतनास्ततो गौ' ॥७॥ [क्रियेति । आदिना ‘उद्यन्तमस्तं यन्तमादित्यमाभेि
ध्यायन्कुर्वन्ब्राह्मणो विद्वान्सकलं भद्रमश्नुते’ ‘असावादित्यो ब्रह्म' इति ' बौव सन्ब्र
हाप्येति य एवं वेद ' इति तैत्तिरीयारण्यकश्रुतिचोदितं ध्यानमेव प्राह्यम् ।
तस्यैवानुषेयत्वात् । ज्ञानस्य तु वस्तुतत्रत्वेनातथात्वाच । तदुक्तं वार्तिके ।

‘वस्तुतम्रो भवेद्वोधः कर्तृतश्रमुपासनम्' इति ॥ ७ ॥


 

वेदेष्वधीतेषु विचारितेऽर्थे शिष्यानुरागी गुरुराह तं स्म ॥
अपाठि मत्तः सषडङ्गवेदो व्यचारि कालो बहुरत्यगात्ते ॥ ८ ॥
भक्तोऽपि गेहं व्रज संप्रति त्वं जनोऽपि ते दर्शनलालसः स्यात् ॥
गत्वा कदाचित्स्वजनप्रमोदं विधेहि मा तात विलम्बयस्व ॥ ९ ॥
विधातुमिष्टं यदिहापराहे विजानता तत्पुरुषेण पूर्वम् ॥
विधेयमेवं यदिह श्च इष्टं कर्तु तदद्येति विनिश्चितोऽर्थः ॥ १० ॥
कालोप्तबीजादिह यादृशं स्यात्सस्यं न तादृग्विपरीतकालात् ।।
तथा विवाहादि कृतं स्वकाले फलाय कल्पत न चेदृथा स्यात् ॥ ११॥




 वेदेष्वधीतेषु सत्सु तदर्थे च विचारिते सति शिष्यानुराग्याचार्यस्तं शिवगुरुमाह
स्म मोक्तवान् । षड़िः शिक्षाकल्पव्याकरणच्छन्दोज्योतिर्निरुक्तसंशैरङ्गः सहितः सर्वो
वेदो मत्तस्त्वया पठितो विचारितश्च कालस्ते तव बहुरतिक्रान्तः । उपजातिच्छन्दः॥८॥
[ व्यचारि पूर्वोत्तरमीमांसाभ्यां कापिलपातञ्जलसाख्यद्वयकाणादाक्षचरणन्यायद्वया
नुगुणिताभ्यां विचारित इत्यर्थः ] ॥ ८ ॥
 यद्यपि त्वं भक्तस्तथाऽपि संपतीदानीं गेहं व्रज संबन्धिजनोऽपि ते तव दर्शन
लालसः स्यात्तस्मात्कदाचिद्रत्वा स्वजनप्रमोदं विधेहेि शिष्यस्य पुत्रतुल्यत्वात्संबोधनं
हे तात मा विलम्बयस्व विलम्बं मा कुरु ।

‘अाख्यानकी तौ जगुरु गमोजे जतावनोजे जगुरू गुरुश्चेत्’ ॥ ९ ॥


 [कदाचित्स्वेत्याद्येकं पदम् । तथाच कदाचित्कस्मिाश्चद्वयवहारप्रसङ्गे यः स्वजन
संबन्धिजनवत्प्रेमशीलोऽन्यत्र तूदासीनस्तस्य यः प्रमोदस्तमपि विधेहीति संबन्धः ।
एवं च मात्रादिवास्तविकस्वजनप्रमोदविधानं कैमुत्यसिद्धमेवेति भावः । अन्यथा कदा
चिद्रमनं विवक्षितं चेन्मा तात विलम्बयस्वेति वाक्यशेषासांगत्यं स्यात् ] ॥ ९ ॥
 विलम्बो न कर्तव्य इत्युक्तं तत्र हेतुमाह । यत इहास्मिलोके यदपराहे विधातु
मिटं तदायुरादेः क्षणभङ्गरतां विजानता पुरुषेण पूर्व पूर्वीह एव विधेयमेवमिह य
अछूोऽनागतेऽह्नि कर्तुमिष्टं तद्द्य विधेयमिति विनिश्चितोऽर्थस्तस्मान्मा विलम्बयस्वे
त्यर्थः । उपेन्द्रवज्रा वृत्तम् ।। ५० ।।

['धःकार्यमद्य कर्तव्यं पूर्वाण्हे चाऽऽपराह्निकम्'


 इत्यादिनीतिशास्रमर्यादां तद्रहगमनलक्षणसमावर्तनत्वराथै प्रथयति । विधातु
मिति ] ॥ १० ॥
 किश्च यथा काल उद्भवकाल उप्तात्क्षेत्रे रोपिताद्वीजादिह यादृशं सस्यं जायते
 

आ जन्मनो गणयतो ननु तान्गताब्दा
न्माता पिता परिणयं तव कर्तुकामौ ।
पित्रोरियं प्रकृतिरेव पुरोपनीतिं
यद्धयायतस्तनुभवस्य ततो विवाहम् ॥ १२ ॥
तत्तत्कुलीनपितरः स्पृहयन्ति कामं
तत्तत्कुलीनपुरुषस्य विवाहकर्म ।
पिण्डप्रदातृपुरुषस्य ससंततित्वे
पिण्डाविलोपमुपरि स्फुटमीक्षमाणाः ॥ १३ ॥
अर्थावबोधनफलो हि विचार एष
तच्चापि चित्रबहुकर्मविधानहेतोः ।।
अत्राधिकारमधिगच्छति सद्वितीयः
कृत्वा विवाहमिति वेदविदां प्रवादः ॥ १४ ॥




तादृशां विपरीतकालात्रैव जायते तथा विवाहादि स्वस्य विवाहादेः काले यौवनाद्यव
स्थायां कृतं फलाय पुत्रोत्पत्त्यादिकैपाय कल्पेत शतं भवेदन्यथा तद्विवाहादि
कृढं व्यर्थ स्यात् ॥ ११ ॥
 किञ्चाऽऽ जन्मनो जन्मप्रभृति ननु निश्चयेन तव परिणयं विवाहं कर्तुकामौ माता
पिता च तान्गतान्संवत्सरान्गणयतो गणनं कुरुत । यस्मात्कारणात्पित्रोरियं पकृति
स्वभाव एव पुरा पूर्वे तनुभवस्याऽऽत्मजस्योपनीतिमुपनयनं ततस्तदनन्तरं विवाहं य
यायतः कदा भविष्यतीति यचिन्तनं कुरुतः स इत्यर्थः । अत्र सामान्यविशेषयोरु
क्तत्वादर्थान्तरन्यासालंकारः ।

'उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयो:
इत्युक्तेः । वसन्ततिलकं वृत्तम् ॥ १२ ॥


 अपिच तत्तत्कुलीनापतरस्तत्तत्कुलीनपुरुषस्य विवाहकर्म कामं स्पृहयन्ति परिण
यकर्मगोचरां स्पृहामत्यन्तं कुर्वन्ति । यतस्तत्तत्कुलीनपितरः पिण्डमदातृपुरुषस्य ससंत
तित्वे सत्युपर्यग्रे पिण्डाविलोपं स्फुटं समीक्षमाणाः । वसन्ततिलकं वृत्तम् ॥ १३ ॥
 न केवलमेतावदेवापितु ‘सहोमौ चरतां धर्मम्'इत्यादिश्रुत्या सद्वितीयस्य कर्मविवा
नेऽधिकारश्रवणात्तदर्थमपि विवाह आवश्यक इत्याह । अर्थेति । एष विचारोऽर्थावबो
धनफलोऽर्थस्यावबोधनं परिज्ञानं फलं यस्य स एतस्य विचारस्यार्थपरिज्ञानं फलं त
 



सत्यं गुरो न नियमोऽस्ति गुरोरधीत
वेदो गृही भवति नान्यपंदं प्रयाति ॥
वैराग्यवान्ब्रजति भिक्षुपदं विवेकी
नो चेद्वही भवति राजपदं तदेतत् ॥ १५ ॥




चार्थावबोधनं विचित्राणे यज्ञानां विधानार्थम् । अत्र विचित्रयज्ञविधाने विवाहं कृत्वा
सद्वितीयो द्वितीयया पत्न्या सह वर्तमानोऽधिकारं गच्छति माम्रोतीति वेदविदां
मवादः ॥ १४ ॥
 एवमुक्तः शिवगुरुरुवाच सत्यमित्यादिना । सत्यमित्यधर्वाङ्गीकारे । हे गुरो गुरो
सकाशादधीतो वेदो येन स गृहेखेव भवत्यन्यपदमन्याश्रमं न प्रयातीति नियमो
नास्ति। ननु ब्रहचवर्य समाप्य गृही भवेद्वेदाद्वनी भूत्वां प्रव्रजेत्। ‘तमेतं वेदानुवचनेन
ब्राह्मणा विविदिषन्ति । यज्ञेन दानेन तपसाऽनाशकेन । स ह वा आत्मयाजी यो
वेद । इदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयते । विशुद्धसत्त्वेस्तु तं पश्यति नि
ष्कलं ध्यायमानः’ ‘जायमानो वै ब्राह्मणस्त्रिभित्रणैरणवान्’ इत्याद्याः श्रुतयः ।

‘महायशैश्च यशैश्च ब्राह्मीथं क्रियते तनुः' ।
यस्यैतेऽष्टाचत्वारिंशत्संस्काराः ।
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ।


 इत्याद्याः स्मृतयश्चाऽऽश्रमादाश्रमान्तरप्रवेशस्य यज्ञाद्यनुष्ठानाचित्तशुद्धौ ज्ञा
नमाधेश्ध क्रमनियमं बोधयन्तीति चेत्तत्राऽऽह । वैराग्यवानिहामुत्रार्थभोगेषु विरक्तो
विवेकी नित्यानित्यवस्तुविवेकवानुपलक्षणमेतत्साधनचतुष्टयसंपन्ने इत्यर्थः । चतुर्थाश्रमं
गच्छति । अयमर्थः । यदि चैतरथा ब्रह्मचर्यादेव प्रव्रजेद्रहाद्वाब्रवनाद्वा वा ते ह्यदृढा
यज्ञारूपा 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः' इत्यादिश्रुत्यनुरोधेन
मध्यमाधिकारिण एव क्रमनियमो नतु शुद्धसत्त्वस्योत्कटवैराग्यवतो मुख्याधिकारिणः ।
जायमान इत्यस्यापि गृहस्थः संपद्यमान इत्यर्थः । गृहस्थस्यापि सत्त्वशुद्धयर्थमेवण
पाकरणं तदिदमुक्तम् । नो चेदिति । विवेकादिमान्न भवति चेत्तहिं गृही भवति तदेत
द्राजपदं राजमार्गः ॥ १५ ॥
 



जीवं वसामि तव पार्श्वगतश्चिरायुः ।
दण्डाजिनी सविनयो बुध जुद्रौ
वेदं पठन्पठितविस्मृतिहानिमिच्छन् ॥ १६ ॥
दारग्रहो भवति तावदयं सुखाय
यावत्कृतोऽनुभवगोचरतां गतः स्यात् ।
पश्चाच्छनैर्विरसतामुपयाति सोऽयं
किं निह्नषे त्वमनुभूतिपदं महात्मन् ॥ १७ ॥
यागोऽपि नाकफलदो विधिना कृतश्चे
त्प्रायः समग्रकरणं भुवि दुर्लभं तत् ॥
वृष्टयादिवचनहि फलं यदि कर्मणि
स्याद्दिष्टया यथोक्तविरहे फलदुर्विधत्वम् ॥ १८ ॥




 त्वया ताहिं किं कर्तव्यमित्यपेक्षायामाह । श्रीनैष्ठिकाश्रमं मरणान्तब्रह्मचथै परिगृह्य
चिरायुरहं तव पार्श्वगतः समीपे स्थितो दण्डाजिने अस्य स्त इति दण्डाजिनी विनयेन
सह वर्तत इति सविनयो हे बुव सर्वज्ञायौ जुहृद्धोमं कुर्वन्वेदं पठन्पठितस्य विस्मृते
निमभावमिच्छन्वसाभि वासं करिष्यामि।'वर्तमानसामीप्ये वर्तमानवद्वा' इतिलट्॥१६॥
 नन्वतिसुखकरं दारयहं विहाय कथमतिदुःखदं नैष्ठिकाश्रममङ्गीकुरुष इति चेत्त
त्राऽऽह । दारग्रह इति । अयं दारग्रहस्तावत्सुखाय भवति यावत्कृतः सन्ननुभव
गोचरतां गतः माप्तः स्यात् । अनुभवविषयताप्राप्तिपर्यन्तमित्यर्थः । पश्चादनुभवगोच
रतामाप्त्यनन्तरं सोऽयं दारग्रहो विरसतां वैरस्यमुपयाति प्राम्रोति । हे महात्मन्नक्षु
द्रस्वभावानुभूतिपदमनुभवगम्यं किं निहुषेऽपलपस्यपलपितुमशक्यमित्यर्थः ॥ १७ ॥
  नन्वैश्किसुखाभावेऽपि विवाहे कृते यागाद्यनुष्ठानेन पारलौकिकं तत्सेत्स्यतीति
चेत्तत्राऽऽह । यागोऽपीति । यागो विधिना यथाविधि कृतश्चेत्स्वर्गफलदः । नच
तथा कर्तु शक्यत इत्याह । प्रायस्तत्समग्रकरणं भुवि दुर्लभम् । तद्विना तु फलं नैव
लभ्यते । हि यस्मात्कारीयौदियागफलभूतवृष्टयादिवत्कर्मणि फलं यदि न स्यात्ति
दैववशाद्यथोक्तविरहे फलदुर्गतत्वं भवति । तथाच न पारलौकिकसुखमाप्याशाऽपी
त्यर्थः । आदिपदेन चित्राद्रियागफलं पश्धादिकं गृह्यते ॥ १८ ॥ [ फलेति । दुष्टा
विा मकारो यस्य तत्तथा तस्य भावो दुर्विधत्वं फलस्य दुर्विधत्वमनर्धजनकत्वमप्य
स्वीत्यार्थिकम् । तथाच तैत्तिरीयाः समामनन्ति ‘यो वै स्वां देवतामतियजते मस्वा
देवायै च्यवते न परां माओति पापीयान्भवति'इति ] ॥ १८ ॥
 

निःस्वौ भवेद्यदि गृही निरपी स नूनं
भोकुं न दातुमपि यः क्षमतेऽणुमात्रम् ।
पूर्णोऽपि पूर्तिमभिमन्तुमशकुवन्यो
मोहेन शं न मनुते खलु तत्र तत्र ॥ १९ ॥
पावत्सु सत्सु परिपूर्तिरथो अमीषां
साधो गृहोपकरणेषु सदा विचारः ॥
स्तचापयाति पुनरप्यपरेण योगः ॥ २० ॥




 न केवलं सुखाभाव एवापित्वतिदुःखमपीत्याशायवानाह । यदि गृही निःस्वो नि
र्धनो भवेतहिं नूनं निश्चयेन स निरयी नरकवान् । निरयित्वमेव स्फुटयति । योऽ
गुमपि भोतुं दातुं च न क्षमते समर्थो न भवति स नूनं निरयीति संबन्धः । ननु श्री
मत्कुलोत्पन्नस्य तव नास्ति दुःखमिति चेत्तत्राऽऽह । पूर्णोऽपीति । पूर्णोऽपि पूर्ति
पूर्णतामभिमन्तुमशकुवन्यो मोहेनाविवेकेन तस्मिस्तास्मिन्विषये शं सुखं न मनुते सोऽ
पि नूनं निरर्थीत्यर्थः । विषयसंपत्तस्तृष्णनिवर्तकत्वाभावात्सर्वानर्थबीजभूततृष्णानुवि
द्धचेतसः सुखामाप्तिदुःखावाप्तिसत्त्वान्निरथित्वमेवेति भावः । तथाचोक्तम् ।

न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवत्वं भूय एवाभिवर्धते' इति ॥
'यान्येतानि दुरन्तानि दुर्जराण्युन्नतानि च ।
तृष्णावल्याः फलानीह तानि दुःखानि राघव ॥
यावती यावती जन्तोरिच्छोदेति यथा यथा ।
तावती तावती दुःखबीजमुष्टिः प्ररोहति' इति च ॥ १९ ॥


 अथेो अतः कारणाद्धे साधो गृहोपकरणेषु सदा विचारो भवति यावत्सु सत्स्वमीषां
संबन्धिजनानां परिपूर्तिः परिपूर्णता स्यादमीषां गृहस्थानामिति वा । तथाचैवं विचा
र्यमाणस्य पयत्नेनैकत्रैकास्मिन्स्थाने संहतवतः संचवयं कृतवतः स्थितपूर्वनाश एतत्सं
चयात्पूर्व स्थितस्य संचितस्य नाशो भवति च पुनस्तदपि पश्चात्संचितमप्यपयाति न
श्यति । पुनरप्यपरेण योगः संयोगो भवति । तथाच गृहस्थाश्रमे सर्वथा दुःखमेवेति
भावः ॥ २० ॥ [ यावत्सु गृहोपकरणेषु सत्सु संपूर्णेषु गृह्यानुकूलवस्तुषु विद्यमाने
ष्विति यावत् । यद्यपि परिपूर्तिः सकलविषयतृप्तिस्तात्कालिकी भवति तथाऽप्यथो
अनन्तरम् । सदा निरन्तरम् । अविचार इतिच्छेदः । अविवेकमूलकः प्रमाद एव
भवतीति संबन्धः । तथाचाऽऽडुः । ‘दृष्टो हि ममाद्यति । प्रमत्तो हि धर्ममतिक्रामति'
 


एवं गुरौ वदति तजनको निनीषु
रागच्छदत्र तनयं स्वहं बृहेशः ॥
तेनानुनीय बहुखं गुरवे प्रदाप्य
पाकेितनमनापि गृहीतविद्यः ॥ २१ ॥
गत्वा निकेतनमसौ जननीं ववन्दे
साऽऽलिङ्गय तद्विरहजं परितापमौज्झत् ॥
प्रायेण चन्दनरसादपि शीतलं त
द्यत्पुत्रगात्रपरिरम्भणनामधेयम् ॥ २२ ॥
श्रुत्वा गुरोः सदनतश्चिरमागतं तं
तद्धन्धुरागमदथ त्वरितेक्षणाय ॥
प्रत्युद्भमादिभिरसावपि बन्धुतायाः
संभावनां व्यधित वित्तकुलानुरूपाम् ॥ २३ ॥




इति । अथो अमीषामित्यत्रौदन्तनिपातत्वेन प्रगृह्यत्वात्प्रकृतिभावः । स्थितेति ।
पूर्वे सुस्थितं रक्षितत्वेन विद्यमानं स्थितपूर्व पञ्धादिधनं तस्य नाशः पीडाविशेषेण ध्वं
सः स्यात् । यदि दैवात्तत्पशुपीडाद्यपि मणिमश्रौषधादिभिरपयाति निरस्तं भवाति चे
तर्हि पुनरप्यपरेणेतरेणानिटेन व्याध्यादिना योगः संभवत्येवेति योजना ] ॥ २० ॥
 एवमुक्तप्रकारेण शिवगुरौ वदति सति तस्य शिवगुरोर्जनकः पिता गृहेशः सुतं गृ
हं प्रति निनीषुर्नेतुमिच्छुरागच्छदागतवान् । आगत्य यदकरोत्तदाह। बहुलं बहुधाऽ
नुनयं विनयं कृत्वा तेन शिवगुरुणा गुरवे बहुलं दक्षिणाद्रव्यं प्रदाप्य गृहीता वि
द्या येन स शिवगुरुर्यत्नान्निकेतनमनाय्यानीत इत्यर्थः ॥ २१ ॥ [ गुरौ । सत्यभामे
त्यादौ भामेत्यादिवच्छिवगुरावित्यर्थः ] ॥ २१ ॥
 असैौ शिवगुरुर्निकेतनं गत्वा मातरं ववन्दे सा जननी पुत्रमश्लिष्य तस्य पुत्रस्य
विरहाजातं परितापमौज्झत्यक्तवती । तत्र हेतुमाह । यत्पुत्रगात्रालिङ्गननामधेयं त
चन्दनरसादपि प्रायेण शीतलमत इत्यर्थः । अत्रार्थान्तरन्यासः । यद्वा परितापत्याग
स्य मायेणेत्यादिना समर्थनात्काव्यलिङ्गालंकारः ।
 ‘समर्थनीयस्यार्थस्य काठयलिङ्ग समर्थनम्’ इत्युक्तेः ॥ २२ ॥
 अथानन्तरं गुरोर्गुहाचिरादागतं शिवगुरुं श्रुत्वा तद्वन्धुस्तत्संबन्धिवर्गः शीघ्रमव
लोकनायाऽऽगमत् । असौ ि शिवगुरुरपि बन्धुताया बन्धुसमूहस्य प्रत्युद्रममणामादिना
विचकुलानुरूपां संभावनां सपयाँ व्याधित विहितवान् । धाक्षो लुङि त'स्थाध्वोरि
'इवीकारः सिचः कित्त्वाद्वणाभावो ‘हरूवादङ्गात्'इति सकारलोपः॥२३॥[तन्धुः ।
 

वेदे पदक्रमजटदिषु तस्य बुद्धिं
संवीक्ष्य तज्जनयिता बहुशोऽप्यपृच्छत् ॥
विद्याधिराज इति संगतवाच्यमस्य ॥ २४ ॥
भाट्टे नये गुरुमते कणभुङभतादौ
प्रश्नं चकार तनयस्य मतिं बुभुत्सुः ।
शिष्योऽप्युवाच नतपूर्वगुरुः समाधिं
पित्रोदितः स्मितमुखो हसिताम्बुजास्यः ॥ २५ ॥
वेदे च शात्रे च निरीक्ष्य बुद्धिं
प्रश्नोत्तरादावपि नैपुणीं ताम् ।
दृष्टा तुतोषातितरां पिताऽस्य
स्वतः सुखा या किमु शात्रतो वाकू ॥ २६ ॥




भत्यागसहनो बन्धुरित्यभियुक्तोक्तः शिवगुरुसंबन्धिसुट्टज्जन इत्यर्थः । एकवचनं जा
त्यैच । बन्ध्विति । निमित्तपञ्चमीयम् ] ॥ २३ ॥
 ततो यदृत्तं तदाह । वेदे पदादिष्वादिपदेन शिाखाघनादिषु तस्य बुद्धिं वीक्ष्य
चस्य जनको बहून्मश्रान्कृतवान्संगतं विद्याधिराजत्वरूपं वाच्यं यस्य तद्विद्याविराज
इति प्रथितं नाम यस्यास्य वसुंधरायामभवत्स बहुशोऽप्यपृच्छदित्यर्थः ॥ २४ ॥
 बहुशोऽप्यपृच्छदिति विवृणोति । भाट्टे नये भट्टपादसिद्धान्ते गुरुः प्रभाकरः कण
भुक्कणाद आदिना गौतमसांरूयमतादिसंग्रहस्तनयस्य मातें बोडुमिच्छुः प्रश्नं कृत
वान् । एवं पित्रेोदितः पृष्टः शिष्यस्तस्य पुत्रः शिवगुरुरपि समाधानमुवाच । तं
विशिनष्टि । पूर्वं नतो नमस्कृतो गुरुर्येनेति स्मितेन मन्दहसितेन युक्तं मुखं यस्यात
एव हसिवमीषद्विकसितं यदम्बुजं तथाभूतमास्यं वदनं यस्य सः ॥ २५ ॥ [ अत्र
सोऽपीत्येव वक्तव्ये शिष्यपदं छान्दोग्यमसिद्धोद्दालकपुत्रश्धेतकेतुवदैौद्धत्यविधूननाथै
मेव । अत एव । नतेति । नताः प्रणामविषयीकृतास्तत्कमकृता वा पूर्वगुरवो ब्रह्मा
द्यखिलपूर्वाचार्या येन स तथेत्यर्थः ] [ पित्रा विद्याविराजारूयेन जनकेनोदित
प्रोत्साहितः सन्नद एव । स्मितेति । स्मितं मन्दहास्यं मुखे यस्य स तथेत्यर्थः ।
अत एव ] [ हसितेति । हसिते उपहासविषयीकृते अम्बुजयोः । ‘अब्जो जै
वातृकः सोमः' इत्यमरात्कमलकलानिध्योरास्ये मुखे येन स तथेति यावत् ] [ यथा
श्रुते तु प्रश्नं चकारेत्यनेन सह पित्रेोदित् इत्यस्य स्मितेत्यनेन सह हसितेत्यस्य च
 ऋोरे खमतस्थापने परमदखण्डचे च बां तथाभूतां निपुणदां कुशलतां दृष्ट्राऽ
 

कन्यां प्रदातुमनसो बहवोऽपि विमा
स्तन्मन्दिरं प्रति पयुर्गुणपाशकृष्टाः ॥
पूर्व विवाहसमयादपि तस्य गेहं
संबन्धवत्किल बभूव वरीतुकामैः ॥ २७ ॥
बह्वर्थदापिषु बहुष्वपि सस्सु देशे
कन्याप्रदातृषु परीक्ष्य विशिष्टजन्म ॥
कन्यामयाचत सुताय स विप्रवयों
वियं विशिष्टकुलजं प्रथितानुभावः ॥ २८ ॥
कन्यापितुर्वरपितुश्च विवाद आसी
दित्थं तयोः कुलजुषोः प्रथितोरुभूत्योः ॥
कार्यस्त्वया परिणयो गृहमेत्य पुत्री
मानीय सब तनयाय सुता प्रदेया ॥ २९ ॥




स्य पिताऽत्यन्तं तोषं माप । या पुत्रस्य वाग्वाणी स्वतः शास्रतो विहीनाऽपि सुख
रूपा सा शास्त्रतः सुखरूपेति किमु वक्तव्यम् ।
कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते'
 उपेन्द्रवत्रावृत्तम् ॥ २६ ॥ [मुखा सुखकरी भवति सा शास्त्रतः शात्रेण संस्कृता
सती सुखकरीति किमु वक्तव्यमिति संबन्धः ] ॥ २६ ॥
 ततः किं वृत्तमित्याकाङ्क्षायामाह । कन्यामिति । गुणलक्षणपाशेनाऽऽकृष्टा
कन्यां प्रदातुमनसो बहवोऽपि विप्रास्तस्य मन्दिरं प्रति ययुर्जग्मुरतो विवाहकाला
त्पूर्वमपि तस्य विद्याधिराजस्य शिवगुरोर्वा गृहं वरीतुकामैः कुमारवरणाथिभिवैिमै
संबन्धवद्वभूव । वसन्ततिलका वृत्तम् ॥ २७ ॥ [ पदातुमनसः । प्रदातुं मनः कामो
येषां ते तथा कन्यादानोत्सुका इत्यर्थः। ‘कामः संकल्पः' इत्याद्युपक्रम्य ‘एतत्सर्वं मन
एव' इति श्रुतेर्मन:शाब्देन कामो युक्त एवेति भावः ] ॥ २७ ॥
 तस्मिन्देशे बह्वर्थदायिषु कन्यामदातृषु बहुष्वपि सत्सु विशिष्टं श्रेष्ठ जन्म परीक्ष्य
प्ररूयातानुभावः स विप्रवर्यो विद्याधिराजो विपं विशिष्टकुलोत्पत्रं मघपण्डिताभिधं
कन्यामयाचत । ‘अकथितं च' इति कर्मसंज्ञा । उक्तनामकाद्विमादित्यर्थः ॥ २८ ॥
 प्ररूयाता बह्वी विभूतिर्ययोस्तयोः कुलवतोः कन्यापितुर्वरपितुश्चेत्थं विवाद आसी
तत्र कन्यापितुर्वचनमुदाहरात । अस्मवृहमागत्य पुत्रस्य विवाहस्त्वया कार्यः । वर
पितुर्वचनमाह । अस्मदीयं सैद्म पुत्रीमानीय मत्पुत्राय सुता पदेया ॥ २९ ॥
 


संकल्पिताद्विगुणमर्थमहं प्रदास्ये
मद्रेहमेत्य परिणीतिरियं कृता चेत् ॥
अर्थ विना परिणयं द्विज कारयिष्ये
पुत्रेण मे गृहगता यदि कन्यका स्यात् ॥ ३० ॥
कश्चित्तु तस्याः पितरं बभाण
मिथः समाहूय विशेषवादी ॥
अस्मासु गेहं गतवत्स्वमुष्मै
विगृह्य कन्यामपरः प्रदद्यात् ।। ३१ ।।
तेनानुनीतो वरतातभाषितं
द्विजोऽनुमेने वररुपमोहितः ॥
दृष्टो गुणः संवरणाय कल्पते
मन्त्रोऽभिजापाश्विरकालभावितः ॥ ३२ ॥




 एवमुक्तो मघपण्डित आहैतावद्धनं दास्यामीति संकल्पिताद्विगुणमथै धनं प्रदास्ये
यादि मद्रेहमागत्यायं विवाहः कृतश्चेत् । विद्याविरराज आह-हे द्विज यदि कन्य
का मे गृहं प्राप्ता तर्हथे विनैव पुत्रेण परिणयं कारयिष्ये ॥ ३० ॥ [ पुत्रेण शिव
गुर्वाख्येन सुतेन प्रयोज्यकत्रेति यावत् । परिणयं त्वत्पुत्रीपाणिग्रहणमर्थ विनैव
कारयिष्य इति योजना ] ॥ ३० ॥
 एवं विवदमानयोस्तयोर्मध्ये तस्याः कन्यायाः पितरं समाहूय कश्चितु विशेषवादी
जगाद । अस्मासु गेहं गतवत्स्वपरो मिथः परस्परं विगृह्य विग्रहं भेदं विधायामुष्मै
कन्यां मदद्यात् । संभावनायां लिङ् । मिथो रहासेि समाहूयेति वा । भारूयानकी
वृत्तम् ॥ ३१ ॥ [ कन्यां विगृह्य विवक्षितयावलोकशास्त्रसंमतवस्त्रालंकारादियुतत्वल
क्षणेन विशेषण गृहीत्वत्यर्थः ] ॥ ३१ ॥
 तेन विशेषवादिना केनचिदनुनीतोऽनुनयं पापितो मघपण्डितः पुत्रीमानीय सभ
तनयाय सुता प्रदेयेत्येवंरूपं वरपितुर्भाषितमनुमेने स्वीकृतवान्यतो वरस्य रूपेण मो
हितो यस्माच दृष्टो गुणः संवरणाय कल्पते योग्यो भवति । यथाऽभिजापाचिरकाल
भावितो बहुकालमभ्यस्तो मघ्रः संवरणाय कल्पते तद्वत् । वाचकलुष्टोपमालंकारः ।
वंशास्थेन्द्रवंशामिश्रितत्वादुपजातिस्तदुक्तम् ।
 ‘इत्थं किलान्यास्वपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम’ इति ॥ ३२ ॥
[ दृष्टः साक्षात्कृतः । गुणः कुलशीलतपोरूपविद्यावयःप्रभृतिसद्धर्म इति यावत् । सं
वरणाय स्वकम्याकर्तृकविधिवत्पाणिग्रहणाय कल्पते समर्थो भवतीत्यर्थः ] [ अभि
जापात् । जप एव जापः । अभितो यथाविध्यङ्गकलापपूर्वकमभिजापस्तस्माद्धोतोरित्य
 

विद्याधिराजमघपण्डितनामधेयौ
संप्रत्ययं व्यतनुतामभिपूज्य दैवम् ॥
सम्यङमुहूर्तमवलम्ब्य विचारणीपा
मौहूर्तिका इति परस्परमूचिवांसौ ॥ ३३ ॥
उद्वाह्य शास्रविधिना विहिते मुहूर्ते
तौ संमुदं बहुमवापतुराप्तकामौ ।
तत्राऽऽगतो भृशममोदत बन्धुवर्ग
किं भाषितेन बहुना मुदमाप वर्गः ॥ ३४ ॥
तौ दंपती सुवसनौ शुभदन्तपङ्गी
संभूषितौ विकसिताम्बुजरम्यवक्रौ ॥
सत्रीडहासमुस्ववीक्षणसंप्रहृष्टौ
देवाविवाऽऽपतुरनुत्तमशर्म नित्यम् ॥ ३५ ॥




र्थः ] [ मम्रो गायत्र्यादिर्यथा संवरणाय मुक्तिरूपवधूकर्तृकस्वयंवरणाय कल्पते तथे
ति योजना ] [ अत्र मध्य एव वृत्तभेदस्तु कन्यापितुईठवृत्तं भेत्तुमेवेति भावः]॥३२॥
 विद्याधिराजमघपण्डितसंज्ञौ सम्यङ्मुहूर्तमवलम्ब्य दैवं गणपत्यादि कुलदैवतं च स
म्यगभिपूज्य वाग्दानरूपं संप्रत्ययं व्यतनुतां विस्तारितवन्तौ। ततश्च विवाहाथै मौर्ति
का ज्योतिर्विदो विचारणीया इति परस्परमुक्तवन्तौ । वसन्ततिलका वृत्तम् ॥ ३३ ॥
[ देवं गणपतिमभिपूज्य संप्रत्ययं सम्यक्प्रत्ययः साक्षात्कारो येन तं ‘गणानां त्वा'इ५॥
दिमश्रेण तत्स्तवमित्यर्थः । व्यतनुतां विस्तारयामासतुरित्यन्वयः । अथ तौ सम्यङ्ग
हूर्ते परमोत्तमसमयमवलम्ब्य विवाहार्थं दिव्यमुहूर्तमुद्दिश्येति यावत् ! ॥ ३३ ॥
 ततश्च विहिते मुहुर्ते शास्त्रविधिना तौ विद्याविराजमघपण्डितावुद्वाह्य विवाहं कृ
त्वा बहुं विपुंलां संमुदं प्रमोदमवापतुऽर्यतः माप्ताभिलाषौ । तत्राऽऽगतो बन्धुवर्गश्चा
त्यन्तं मोदं प्राप्तवान्किबहुना कथितेन सर्वोऽपि बन्ध्वबन्धुसमुदायो मुदं पापे
त्यर्थः ।। ३४ । [मुड़तें सुमुहूर्तावच्छिन्ने शिवगुरुविवाहोचिते शास्त्रविधिना ज्योतिः
शास्त्रनियमेन विहिते चोदिते काले ] ॥ ३४ ॥
 तौ दंपती सुवसनाविति । तौ सतीशिवगुरुसंज्ञौ दंपती सुवस्रौ शुभा दन्तपा
येयोस्तौ सुष्ठुलंकृतैौ विकसितकमलवद्रम्यं मुखं ययोस्तो व्रीडया लज्जया सह बर्त
मानेन हासेन मन्दहासितेन युक्तयोर्मुखयोवक्षिणेन सम्यक्प्रकर्षेण दृष्टौ देवौ पार्वती
 


अत्रीनथाssधित् महोसरयागजातं
कर्तु विशेषकुशलैः सहितो द्विजेशः ।
तत्तत्फलं हि यदनाहितहव्यवाहः
स्यादुत्तरेषु विहितेष्वपि नाधिकारी ॥ ३६ ॥
यागैरनेकैर्बहुवित्तसाध्यै
विजेतुकामो भुवनान्यष्ट ॥
ठयस्मारि देवैरमृतं तदाशै
दिने दिने सेवितयज्ञभागैः ॥ ३७ ॥




महादेवाविवानुत्तमं सुखमवापतुः ॥ ३५ ॥ [ सत्रीडेति । सत्रीडः सलणो यो हास
स्तत्पूर्वकं यन्मुखवीक्षणं परस्परास्यावलोकनं तेन संप्रहृष्टौ निरतिशयं प्रमुदितावित्यर्थः]
[ अनुक्तमशर्म निरतिशयरतिसुखमापतुरित्यन्वयः] ॥ ३५ ॥
 अथ विवाहानन्तरं तत्तथागकर्तव्यताविशेषेषु कुशलैत्विग्भिः सहितो द्विजेशाः
शिवगुरुस्तत्तत्फलं महतामुत्तरेषामावसथ्याधानाढूध्वनामत्युक्तमानां वा यागानां समूहं
कर्तुमम्रन्गिार्हपत्याहवनीयदक्षिणारूयानाधिताग्न्याधानं कृतवान् । हि मसिद्धं
यद्यस्मादनाहितामेिः पुमन्दितेिष्वप्युत्तरेषु यागेष्वधिकारी न स्यात्तस्मादि
त्यर्थः ।॥ ३६ ॥ [ महोत्तरेति । पशुबन्धादियावदुत्तरमहाक्रतुकुलमिति यावत् ।
अनाहितेति । अनाहिता नाऽऽधानारूयसंस्कारेण संस्कृता हव्यवाहा होतुं योग्यं
हव्यमान्यादिहविद्रेव्यं तद्वहन्ति तत्तद्देवताः प्रापयन्ति ते तथाऽऽहवनीयाद्यझयो येन
स तथाऽऽनाहितश्रौताभिरित्यर्थः ] ॥ ३६ ॥
 भुवनानि स्वर्गादीनि जेतुकामो बहुवित्तसाध्यैरनेकैर्यागैरयष्ट यजनं कृतवान् ।
तेषां यागानामाशा येषां तैर्यवो दिने दिने सेविता यज्ञभागा यैस्तैर्देवैरमृतं व्यस्मारि
विस्मृतम्। अत्रामृतसंबन्धिवस्मरणसंबन्धेऽपि तदसंबन्धवर्णनात्संबन्धातिशयोक्तिरलंकारः।

“योगेऽप्ययोगः संबन्धाविज्ञायोक्तिरितीर्यते
इत्युक्तः । भाख्यानकी वृतम् ॥ ३७ ॥


[ तदाौस्तदमृतमश्नन्ति ते तथा वैरपीत्यर्थः । यद्यपि देवशब्देनैवामृताज्ञात्वे सिद्धे
पुनस्तदाशैरिवि व्यर्थमिव भाति तथाऽपि दुर्वासःशापेन देवसंपन्नाशे सति पुनः समु
द्रमथनतस्तदवाभिप्राक्क्षणपर्यन्तं मध्ये भूरितरकालातिक्रमेणामृताशनाभावेऽप्यमृतविस्मृ
तिसंभवात्तद्वयर्थत्वेनोक्तविशेषणसार्थक्यमेवोति भावः ] ॥ ३७ ॥
 


संतर्पयन्तं पितृदेवमानुषां
स्तत्तत्पदार्थरभिवाञ्छितैः सह ॥
विशिष्टवितैः सुमनोभिरचितं
तं मेनिरे जङ्गमकल्पपादपम् ॥ ३८ ॥
परोपकारव्रतिनो दिने दिने
ब्रतेन वेदं पठतो महात्मनः
श्रुतिस्मृतियोदितकर्म कुर्वतः
समा व्यतीयुर्दिनमाससंमिताः ॥ ३९ ॥
पेषु मारः क्षमया वसुंधरा
विद्यासु वृदो धनिनां पुरःसरः ॥
गर्वानभिज्ञो विनयी सदा नतः
स नोपलेभे तनपाननं जरन् ॥ ४० ॥




 पितृदेवमानुषानभिवाञ्छितैः सह तत्तत्पदार्थेः संतर्पयन्तं विशिष्टं विद्यादिलक्षणं
वित्तं येषां तैर्देवतास्थानीयैः सुमनोभिर्विद्वद्विरचितं पूजितं यद्वा विशिष्टानि च तानि
विचानि तैरेव सुमनोभिः पुष्पैरावितं व्याप्त शिवगुरुं जङ्गमकल्पवृक्षं जना मेनिरे ।
स्वर्गस्थः कल्पपादपः स्थावर इति । ततोऽस्य व्यतिरेकाभिधानाद्यातिरेकालंकृतिः ।

‘व्यतिरेको विशेषश्चेदुपमानोपमेययोः'
इत्युक्तत्वात् । उपजातिवृत्तम् ॥ ३८ ॥
दिनमासपरिमिताः समाः संवत्सरा व्यतीयुव्यतिक्रान्ताः ।
‘जतैौ तु वंशस्थमुदीरितं जरौ' ॥ ३९ ॥


 दिनेति । दिनानि पञ्चदश मासा द्वादश तैः संमिताः सप्तविंशतिसंरूयाका इ
त्यर्थः ] ॥ ३९ ॥
 मारः कामो वसुंधरा भूमिविद्यासु वृद्धः सर्वोत्तमो घनिनां पुरःसरोऽप्रगण्य एवंभू
दोऽपि गर्वानभिज्ञो गर्वरहितो यतो विनयी विनयवान्यतः सदा नतो नम्र एवंविधः
शिवगुरुर्जरञ्जरां गच्छन्पुत्रस्य मुखं नोपलेभे न प्राप । अत्र विषयभेदेन बहुधोखेख
नादुलेखालंकारः ।
  एकेन बहुधोलेखेऽप्यसौ विषयभेदतः’ इत्युक्तः । उपजातिवृत्तम् ।
॥ ४० ॥ [ पेष्विति । पुंरूपवर्णनमस्तावेऽन्धिनीकुमारादीनां सकलसुन्दरपुरुषाणां
सर्वावयवसौष्ठवेषु समुपन्यस्तेषु मध्य इत्यर्थः । वसुंधरेति । अत्र विभिन्नालिङ्गकेऽथु
 ध्रेश्यविधेथमावे-


गावो हिरण्यं बहुसस्यमालिनी
वसुंधरा चित्रपदं निकेतनम् ॥
संभावना बन्धुजनैश्च संगमो
न पुत्रहीनं बहवोऽप्यमूमुहन् ॥ ४९ ॥
अस्यामजाता मम संततिश्रे
च्छरद्यवश्यं भवितोपरिष्टात् ॥
तत्राप्यजाता तत उत्तरस्या
मेवं स कालं मनसा निनाय ॥ ४२ ॥
विन्दन्मनाः शिवगुरुः कृतकार्यशेषो
जायामचष्ट सुभगे किमतः परं नौ ॥
साङ्गं वयोऽर्धमगमत्कुलजे न दृष्टं
पुत्राननं यदिहलोक्यमुदाहरन्ति ॥ ४३ ॥




‘लिङ्गसंख्याविभेदेऽपि विशेषणविशेष्यता ।
विभक्तिः पुनरैकेव विशेषणविशेष्ययोः' ।


 इति वचनाद्वभिन्नालिङ्गकविशेषणविशेष्यभावात्रैव दोषः ] [ विनयी विशिष्टः शा
खाद्यगतिो नयो नीतिरस्यातीति तथा । एवं च यथा श्रुते विनयशब्दितनम्रताशा
लित्वेन न सदा नत इत्यस्य पौनरुक्त्यम् ] ॥ ४० ॥
 चित्रपदमाश्चर्यास्पदं निकेतनं गृहं बहुगुणैरयं संपन्न इति संभावनैते बहवोऽपि
मोहद्देववः । पुत्रहीनं शिवगुरुं नामूमुहन्स्वस्मिन्नसक्त्यापादनेन मोहितं न कृत
वन्तः ॥ ४१ ॥
 अस्यामृतौ मम संततिरजाता चेदुपरिष्टादग्रे शरद्यवश्यं भावष्यात तस्यामप्यजा
ता चेत्तत उत्तरस्यां हेमन्ततै भविष्यतीत्येवं मनोरथैव्यप्तान्तःकरणः कालं निना
य नीतवान् ॥ ४२ ॥ [ अस्यामिति । अस्यां शरद्यस्मिन्वर्ष इत्यर्थः । स शिव
गुरुः । मनसा मनोराज्येन ] ॥ ४२ ॥
 खिन्दत्खेदयुक्तं मनो यस्य कृतः कार्यस्य शेषी येन स शिवगुरुर्भार्यामचष्टोक्त
बान् । हे सुभगेऽतः परं किं कर्तव्यं नावावयोरङ्गेनेन्द्रियसामथ्र्येन सहितं वयोऽर्धम
गमत् । हे कुलजे पुत्राननं न दृष्टं यत्पुत्रमुखामिहलोक्यमिहलोके हिवमुदाहरन्ति ।
पुत्रेणायं लोकः’ इतिश्रुतेः । वसन्ततिलका वृत्तम् ॥ ४२ ॥
 


एवं प्रिये गतवतोः सुतैदर्शनं चे
त्पञ्चत्वमैष्यदथ नौ शुभमापतिष्यत् ।
अस्याभ्युपायमनिशं भुवि वीक्षमाणो
नेक्षे ततः पितृजनिर्विफला ममाभूत् ॥ ४४ ॥
भद्रे सुतेन रहितौ भुवि के वदन्ति
नौ पुत्रपौत्रसरणिक्रमतः प्रसिद्धिः ।
लोके न पुष्पफलशून्यमुदाहरन्ति
वृक्षं प्रवालसमये फलितं विहाय ॥ ४५ ॥
इतीरिते प्राह तदीयभार्या
शिवाख्यकल्पहुममाश्रयावः ॥
तत्सेवनास्रौ भविता सुनाथ। फलं
स्थिरं जङ्गमरूपमैशम् ॥ ४६ ॥




 हे पिय एवं सुतदर्शनं गतवतोः प्राप्तवतोरावयोः पञ्चत्वं मरणमैष्यचेदथ नावा
योः शुभमापतिष्यदागमिष्यद्स्य पुत्रदर्शनस्याभ्युपायमनिशं भुवि वीक्षमाणोऽन्वि
यमाणो नेक्षे न पश्यामि ततस्तस्मान्मम पितृतो जनिर्जन्म निष्फलाऽभूत् ॥ ४४ ॥
अत्र जनिर्विफलेत्येतावतैव विवक्षितार्थसाफल्ये पितृपदं विद्याविराजाभिधविश्ववि
यातविशिष्टपितृसूचनार्थमेवेति ध्येयम् ] ॥ ४४ ॥
 किंच हे भद्रे सुतेन रहितौ नावावां भुवि के वदन्ति केऽपि न वदिष्यन्तीत्यर्थः ।
वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । यतः पुत्रपौत्रसरणिक्रमतो लोके प्रसिद्धिर्भवति
था मवालानां पहलवानां समये फलितं वृक्षं विहाय पुष्पफलशून्यं वृक्षं केऽपि नोदा
रन्ति तद्वदित्यर्थः ॥ ४५ ॥ [ फलितं संजातसुफलम् । पुष्पेति । वेतसादिकं
ममित्यर्थः । नोदाहरन्ति नैव शाखिशिखामाणत्वेन स्तुवन्तीति योजना । तस्माद्त्र
वमेवोपायं कथयेत्याशयः ] ॥ ४५ ॥
 इत्येवं भत्रेरिते कथिते सति तदीया भार्य सती प्राह । जङ्गमरूपं शिवाभिधक
पवृक्षमाश्रयावस्तस्य सेवनाद्धे सुनाथैशमीश्वरसंबन्धि स्थिरं फलं नावावयोर्भविता
विष्यति । उपेन्द्रवप्रा वृत्तम् ॥ ४६ ॥
 


  • ताच्छौल्यादौ चानश् ।


भतेप्सितार्थपरिकल्पनकल्पवृक्ष
देवं भजाव कमितः सकलार्थसिद्धये ॥
तत्रोपमन्युमहिमा परमं प्रमाणं
नो देवतासु जडिमा जडिमा मनुष्ये ॥ ४७ ॥
इत्थं कलत्रोक्तिमनुत्तमां स
श्रुत्वा मुतार्थी प्रणतैकवश्यम् ॥
इयेष संतोषयितुं तपोभि
सोमार्धमूर्धानमुमधमीशम् ॥ ४८ ॥




 इतोऽस्मात्कारणातेप्सितार्थपरिकल्पने कल्पवृक्षं देवं कं सुखं शिवमिति यावत्सक
लार्थसिद्धयै भजाव । यद्वेतोऽस्माद्देवादन्यं कमेवं भूतं देवं भजाव । एवं भूतादन्यस्या
भावात् । शिवोपास्तितः सकलार्थसिद्धिर्भवतीत्यत्र पमाणाकाङ्क्षायामाह । तत्रोपमन्यो
मैहिमा माहात्म्यं परमं प्रमाणमेवं हि महाभारते श्रूयते । उपमन्युः किल पयः पिबतो
मुनिबालकानवलोक्यात्याग्रहेण मातरं दुग्धं याचितवांस्तन्माता च दारियवशेन दु
ग्धाभावात्पिटेन तद्विधायायच्छत्स च तदेव पीत्वा दुग्धं मया पीतमिति मन्यमानो
न तदेतत्सर्वं ज्ञात्वा कुमारा जहसुस्ततो हास्यकारणं पृच्छतेऽस्मै माता दारि
अमावेदयत्तज्ज्ञात्वा महेश्वरमाराध्य क्षीराब्ध्यधिपतित्वं पापेति । ननु पाषाणाद्यात्मतया
जडाभ्यो देवताभ्यः कथं निाखिलार्थासद्धिरित्याशङ्कयाऽऽह । नहि देवतासु जडिमा
जाख्यं किंतु श्रद्धाभक्तिहीने देवतास्वरूपानभिज्ञे मनुष्ये स इत्यर्थः । वसन्ततिलका
वृत्तम् ॥ ४७ ॥
 एवं प्रकारामनुत्तमां भायोंक्ति श्रुत्वा स पुत्रार्थी सोमस्य चन्द्रस्यार्थेनोपलक्षितो
मूर्धा यस्य तं प्रणतैकवश्यमुमार्धमुमासहायमशिं तपोभिः संतोषयितुमियेषेच्छति
स्म । उपजातिवृत्तम् ॥ ४८ ॥ [ एवं पत्न्या विज्ञापितविचारः शिवगुरुः किं सार
वित्वात्तमनुमेने यद्वा स्रीवाक्यत्वादुपेक्षितवानित्याशङ्कय
 ‘युक्तियुक्तं वचो ग्राह्य बालादपि शुकादपि ।
 अयैौक्तिकं तु संत्याज्यमप्युक्तं पद्मयोनिना' इति
 वचनात्पत्युत सद्यस्तथैवानुष्ठातुमप्युद्युक्तोऽभूदित्याह । इत्थमिति ] [मणतेति ।
प्रणतानामनन्यतया शरणागतानामेकवश्यः केवलस्वाधीनस्तमेतादृशम् । अत एव ।
सोमेति ] [ उमेति । एतेन गृहस्थाश्रमसुखावच्छिन्नत्वेन तत्कामपूरकत्वावश्यकत्वं
तत्र व्यज्यते ] ।। ४८ ॥
 


तस्योपधाम किल संनिहिताऽऽपगैौका
स्रात्वा सदाशिवमुपास्त जले स तस्याः ॥
कन्दाशनः कतिचिदेव दिनानि पूर्व
पश्चात्तदा स शिवपादयुगाञ्जभृङ्गः ॥ ४९ ॥
जायाऽपि तस्य विमला नियमोपतापै
क्षेत्रे वृषस्य निवसन्तमजं स भर्तु
कालोऽत्यगादिति तयोस्तपतोरनेकः ॥ ५० ॥
देवः कृपापरवशो द्विजवेषधारी
प्रस्पक्षतां शिवगुरुं गत आत्तनिद्रम् ।
मोवाच भोः किमभिवाञ्छसि किं तपस्ते
पुत्रार्थितेति वचनं स जगाद् विप्रः ॥ ५१ ॥




 तस्योपधाम धाम्नः प्रासादस्य समीपे स्थिताऽऽपगा जलवहका नदी तस्या जले
स्नात्वा स शिवगुरुः पूर्वे कतिचिद्दिनान्येव कन्दाशनः सन्सदाशिवमुपास्त पश्चात्स शिव
चरणद्वकमलभृङ्गः स शिर्वपदाब्जमकरन्दातिरिक्तकन्दाद्यास्वादनवर्जितः सनुपा
स्तेत्यर्थः । वसन्ततिलका वृत्तम् ॥ ४९ ॥ [ एका मुरूया । अत एव संनिश्तिा सम्य
क्षुराणप्रसिद्धत्वेन नितरां शीतलनिश्चलनिर्मलसुपधूरमुखावगाह्मजलत्वेन चात्य
न्तं हिता सुखकरीत्यर्थः । एतेनोपधामेत्यनेन सहैतस्य पौनरुक्त्यं मत्युक्तम् । तदा
कन्दमूलाद्यशानेन्द्रियवशीकारकाल इत्यर्थः ] ॥ ४९ ।।
 तस्य भर्तुजयाऽपि विमला वृषस्य क्षेत्रे वसन्तमजं स्वयमेवाऽऽविर्भूतं नतु के
नचित्स्थापितं शिवमर्चयन्ती नियमकृतैरुपतापैर्नियमात्मकैरुपतापैौरीतेि वा नियमैश्धो
पदापैश्चेति वा कायं देहं विशेत्येवंपकारेण तपतोस्तपः कुर्वतोस्तयोदंपत्योः स प्रसि कालोऽनेकोऽत्यगात् ॥ ५० ॥
 कृपापरवशो देवो महादेवो द्विजवेषधारी प्रत्यक्षतां प्राप्तः प्राप्तनिद्रं शिवगुरुं प्रो
वाच । भोः शिवगुरो किमभिवाञ्छसि किमपि नेत्याशङ्कयाऽऽह । किं तपस्ते नि
ष्कामस्य तव तपः किं न किमपि तथाच तपसि प्रवृत्तस्य ते कामनाऽस्तीत्यनुमीयते।
एवमुक्तः स विपः शिवगुरुः पुत्रार्थिता सुतस्य प्रार्थनेति जगाद ॥ ५१ ॥ [ यतः ।
कृपेति । अत: । द्विजांत ] [ एतादृ३: सन् ] ॥ ५५ ॥
 



देवोऽप्यपृच्छदथ तं द्विज विद्धि सत्यं
सर्वज्ञमेकमपि सर्वगुणोपपन्नम् ॥
पुत्रं ददांन्यथ बहून्विपरीतकांस्ते
भूर्यायुषस्तनुगुणानवदद्दिजेशः ॥ ५२ ॥
पुत्रोऽस्तु मे बहुगुणः प्रथितानुभावः
सर्वज्ञतापदमितीरित आबभाषे ।।
दद्यामुदीरितपदं तनयं तपो मा
पूर्णो भविष्यसि गृहं द्विज गच्छ दारैः ॥ ५३ ॥
आकर्णयन्निति बुबोध स विप्रवर्य
स्तं चाब्रवीभिजकलत्रमनिन्दितात्मा ।
स्व शशंस वनितामणिरस्य भार्या
सत्यं भविष्यति तु नौ तनयो महात्मा ॥ ५४ ॥




 अथ देवोऽपि तं शिवगुरुमपृच्छद्धे द्विज मदुक्तं सत्यं विद्धि जानीहि । पाठान्तरे
तन्मदुक्तम् । सर्वज्ञ सर्वगुणोपपन्नमल्पायुषमेकमेव सुतं दैदानि किंवा विपरीतकान्विप
रीतानसर्वज्ञानल्पगुणान्भूर्यायुषो बहून्पुत्रास्ते तुभ्यं ददन्येवमुक्तो द्विजेशः शिवगु
रुरवदत् ॥५२॥ [ सर्वति । एतेन सर्वेश्वर्यसंपन्नत्वं व्यज्यते ] [ बहूंसयधिका
न् । बहुवचनेनैव त्रयाणां प्राप्तत्वात् ] [ द्वितीयपक्षेऽत्र भूर्यायुष इति विशेषणा
रप्रथमपक्षे तद्वैधुर्य ध्वन्यते ] ॥ ५२ ॥
 यदुवाच तदुदाहरति । बहुगुणः प्रथितानुभावः सर्वज्ञताया अभाश्रयः पुत्रो मेऽ
स्त्वित्युक्तो देव उवाचोदीरितानामुक्तानां गुणानां पदमाश्रयं पुत्रं दद्यां दास्यामि
तस्मात्तपो मा कुरु पुत्रोत्पत्त्या पुणों भविष्यसीत्यतो दाँरैर्भार्यया सह हे द्विज गृहं
गच्छ ॥ ५३ ॥ [ सर्वज्ञतेति । एवं चाल्पायुष्टदोषसत्त्वेऽपि गुणाधिक्यात्तेन मृकण्डु
मुनिवत्स्वप्रेऽपीश्धरपृष्टपक्षद्वयमध्ये प्रथमपक्ष एवाङ्गीकृत इत्याशयः । स्वन्ने जीवस्य
संस्काराचेकपराधीनत्वेन स्वातकृयाभावाद्विचारासंभवात्कथमेवं तेनोक्तरितमित्याशङ्कां
शामयितुं तं विशिनष्टि । ईरित इति ] ॥ ५३ ॥
 इत्येवंप्रकॉरेण शृण्वन्स विप्रवर्यः शिवगुरुर्बबोव पबुद्धश्चानिन्दितात्मा स स्वभायाँ
तं स्वप्रमब्रवीत् । पत्युक्तं श्रुत्वा चास्य विप्रवर्यस्य भार्या योषिन्मणिः शशंसोक्तवती
सत्यमावयोर्महात्मा पुत्रो भविष्यत्येव संशयो नास्तीत्यर्थः ।। ५४ ।।
 



तौ दंपती शिवपरौ नियतौ स्मरन्तौ
स्वप्रेक्षितं शृहगतौ बहुदक्षिणानैः ॥
संतप्र्य विपनिकरं तदुदीरिताभि
राशीर्भिरापतुरनस्पमुदं विशुद्धौ ॥ ५५ ॥
तस्मिन्दिने शिवगुरोरुपभोक्ष्यमाणे
भते प्रविष्टमभवत्किल शैवतेजः ।
भुक्तान्नविप्रवचनादुपभुक्तशेषं
सोऽभुङ्क साऽपि निजभर्तृपदाब्जभृङ्गी ॥ ५६ ॥
गर्भ दधार शिवगर्भमसौ मृगाक्षी
गभोंऽप्यवर्धत शनैरभवच्छरीरम् ।।
तेजोतिरेकविनिवारितदृष्टिपात
विश्धं रवेर्दिवसमध्य इवोग्रतेजः ॥ ५७ ॥
गभलसा भगवती गतिमान्द्यमीष
दापेति नादुतमिदं धरते शिवं या ॥
यो विष्टपानि बिभृते हि चतुर्दशापि
यस्यापि मूर्तप इमा वसुधाजलाद्याः ॥ ५८ ॥




 विमनिकरं ब्राह्मणसमूहम् ॥ ५५ ॥ [ ताविति । यतो विशुद्धौ तपःक्षीणकलु
षावतोऽनल्पेत्यादिसंबन्धः ] ॥ ५५ ॥
 भतेऽन्ने भुक्तमत्रं यैस्तेषां विप्राणां वचनात्तदुपभुक्तशेषं शिवतेजोयुक्तमत्रं म
शिवगुरुरभुङ्क भर्तृचरणारविन्दभ्रमरी सा सत्यप्यभुङ्ग ॥ ५६ ॥
 ततो यद्वत्तं तदाह । गर्भमिति । असँौ मृगाक्षी शिवो गर्भ मध्ये यस्य तथाभूतं
गर्भ द्धार । गभोऽपि शनैरवर्धत वर्धमाने च शनैः शरीरमभवत्तद्विशिनाष्टि । तेजसोऽ
तिरेकेणातिशयेन विनिवारितो विधेषां दृष्टिपातो येन तत् । 'राजदन्तादिषु परम्’
इति विश्धशब्दस्य परनिपातः । मध्याहे सर्यस्योग्रतेज इव ॥ ५७॥ [ तेजसोऽतिरेक
आधिक्यं तेन विनिवारितो दूरीकृतो दृष्टिपातो दृग्दोषविशेषः पक्षे दृक्संचारो यस्य
तादृशं विश्धं येन तत्तथेति यावत् ] ।। ५७ ।।
 या शिवं धरते सा गर्भालसा भगवती किंचिद्रतिमान्धं प्रापेतीदमदुतं न भवति ।
कथंभूतं शिवं यः पातालमहातलतलातलरसातलपुतलवितलभूतलभूर्भुवःस्वर्महर्जन



संव्याप्तवानपि शरीरमशेषमेव
नोपास्तिमाविरसकावकृतात्र कांचित् ।
यत्पूर्वमेव महसा दुरतिक्रमेण
व्याप्त शरीरमदसीपममुष्य हेतोः ॥ ५९ ॥
रम्याणि गन्धकुसुमान्यपि गर्धिमस्यै
नाऽऽधातुमैशत भरात्किमु भूषणानि ॥
यद्यदुरुत्वपदमस्ति पदार्थजातं
तत्तद्विधारणविधावलसा बभूव ॥ ६० ॥
तां दौहृदं भृशमबाधत दु:शरारिः
प्रायः परं किल न मुञ्चति मुञ्चतेऽपि ।
आनीतदुर्लभमपोहति याचतेऽन्य
तचाप्यपोह्य पुनरर्दति साऽन्यवस्तु ॥ ६१ ॥




स्तपःसत्यारूयानि चतुर्दशापि भवनानि बिभते पुनश्च यस्य शिवस्येमा वसुधाजलाद्या
मृतयः । तदुक्तम् ।

क्षितिहुतवहक्षेत्रज्ञाम्भ:प्रभञ्जनचन्द्रम
स्तपनवियदित्यष्टौ मूर्तीर्नमो भव बिभ्रते'


 इतेि ॥ ५८ ॥ [ भगवतीति । साभिप्रायम् । ईश्वरस्य स्वोदरे धारणेन
तदीयानिरतिशयषड्णैश्वर्यस्य तत्रापि सत्त्वातू ] [ धरत इत्यात्मनेपदेनोक्तश्धरधारणस्य
निजैककार्ताथ्यैप्रयोजकत्वं व्यज्यते । ‘कुलं पवित्रं जननीकृतार्था' इत्यादिवचनात्क्ष
णिकयद्धयानादेरपि यदा जननीकार्ताथ्र्यकारकत्वं तदा सगुणस्य तस्य साक्षाद्रर्भ
धारणस्य तत्कैमुत्यासिद्धमेवेति भावः ] ।। ५८ ।।
 असौ शिवः सर्वमेव शारीरं संव्याप्तवानप्यत्र शरीरे कांचिदुपाति किंचिदुपक्षपमे
धिकप्रक्षेपं नाऽऽविरकृत नैव प्रकटितवान् । यद्यस्मादुरतिक्रमेण तजसाऽमुष्याः सत्या
इदं शरीरं पूर्वमेव व्याप्तममुष्य हेतोरस्मात्कारणादित्यर्थः । निमित्तपर्यायमयोगे सर्वा
सां प्रायदर्शनम्’ इति षष्ठी ॥ ५९ ॥

  • मनोज्ञानि गन्धपुष्पाण्यप्यस्यै सत्यै कामनामाधातुं समर्थाने नाभूवन्भूषणानि किमु

किं बहुना यद्यत्पदार्थजातं गुरुत्वास्पदं तस्य तस्य विधारणविधौ साऽलसा कर्तव्येषु
मन्दोद्यमा बभूव ॥ ६० ॥ [ दमनकमञ्जर्याः कुसुमेषु गन्धकुसुमत्वेऽपि रम्यत्वाभावा
हाडिमीकुसुमविशेषे रम्यत्वेऽपि गन्धाभावात्समुचयोपादानम् । अपिनैतेष्वनाद्रान
हत्वं ध्वम् ] [ भरातडारणे भारसंभवादिति यावत् ] ॥ ६० ॥
 


तां बन्धुताऽऽगमदुपश्रुतदोहदाि
रादाय दुर्लभमनध्र्यमपूर्ववस्तु ॥
आस्वाद्य बन्धुजनदत्तमसौ जहर्ष
हा हन्त गर्भधरणं स्वलु दुःस्वहेतुः ॥ ६२ ॥
मानुष्यधर्ममनुसृत्य मयेदमुक्त
काऽपि व्यथा शिवमहोभरणे न वध्वा
सर्वव्यथाव्यतिकरं परिहर्तुकामा
देवं भजन्त इति तत्त्वविदां प्रवादः ॥ ६३ ॥




'दोइदं दैौहृदं श्रद्धा लालसं च समं स्मृतम्'


 इति हलायुधादौहृदं गर्भिणीमनोरथो भृशमत्यन्तमबाधत । शारं हिंमामृच्छति
गच्छतीति शारारिः पक्षिविशेषः । ‘अच इ:’ इतीः प्रत्ययः । 'दारारिराटेिराडिश्च'
इत्यमरः । तथाच यथा दुष्टः शरारिः प्रायः परं न मुञ्चति मुञ्चतेऽपीति प्रसिद्धं
तद्वदित्यर्थः । बाधप्रकारमाहाऽऽनीतं यहुर्लभं तदपोहति त्यजत्यन्यद्याचते तचाप्य
पोह्य परित्यज्य पुनरन्यद्वस्तु सा वाञ्छतीत्यर्थः ॥ ६१ ॥ [ दुष्टं गर्भधारणस्वभावदू
षितं हृदन्तःकरणं यस्याः सा दुत्तस्या भावो दौदं गर्भिण्यभिलाषजातमित्यर्थः ]
[ दुष्टश्चासौ शरारिश्धेति विग्रहः । स्वभावक्रूरः शरारिसंज्ञक आाडीति रूयातः काश्ध
त्पक्षिविशेष इति यावत् ] ॥ ६१ ॥
 तां प्रति दुर्लभमनघ्र्यममूल्यमपूर्वं वस्तु समादाय बन्धुसमूह आगमत् । बन्धुतां
विशिनष्टि । उपश्रुता दोहदस्य दौहृदस्याऽऽर्तिर्यया सा बन्धुजनदत्तमसैौ सत्यास्वा
द्य जहर्ष हा हन्त गर्भधरणं खलु दुःखहेतुरिति जगाद चति शेषः ॥ ६२ ॥
 हा इन्तेतीदं मया मानुष्यधर्ममनुसृत्योक्तम् । यतः शिवस्य महसस्तेजसो भरणे
धैरणे वध्वा मम काऽपि व्यथा पीडा नास्त्येतदपि कुत इति चेत्तत्राऽऽह । सर्वपी
डासंपर्क परिहर्तुकामा देवं भजन्त इति तत्त्वविदां मवाद इत्यत इत्यर्थः ।। ६३ ।।
[वध्वाः प्रकृतशिवगुरुपत्न्या इत्यर्थः ] [ शिवेति । ‘डुभृञ्धारणपोषणयोः' इति स्म
रणाच्छंकरांशारूपतेजोधारणे कृते सत्यपि काऽपि व्यथा नाऽऽसेति संबन्धः ]
[ विवादो विशिष्टो निर्णयात्मको वादस्तस्वबुभुत्सोः कथाविशेषोऽस्तीत्यन्वय इह बो
ध्यः ] [ एवं चाहो यद्भजनेनापि भक्तानां सकलातिंत्रातविध्वंसः शास्त्रे सिद्धः स
एव साक्षाच्छंकर एवांशेनावतीर्णो यदुदरे वर्तते तस्याः कथं वा दोहदादिपीडासंभ
वोऽपि स्यात्तस्मादिदं मनुष्यजात्यनुसारेणैव मया वर्णितम् । वस्तुतस्तु न किंचिदपि
तस्याः पीडाजातमासीदिति कव्युक्तिः ] ॥ ६३ ॥
 



उक्ष्णा निसर्गधवलेन महीयसा सा
स्वात्मानमैक्षत समूढमुपात्तनिद्रा ॥
संगीयमानमपि गीतविशारदायै
र्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥ ६४ ॥
भाकर्णयजय जयेति वरं दधाना
रक्षेति शब्दमवलोकय मा दृशेति ॥
क्षाकण्र्य नोत्थितवती पुनरुक्तशब्दं
सा विस्मिता किल शृणोति निरीक्षमाणा ॥ ६५ ॥
नमक्तिकृत्यामपि खिद्यमाना
किञ्चापि चञ्चत्तरमञ्चवरोहे ॥
जित्वा मुदाऽन्यानतिहृद्यविद्या
सिंहासनेऽसौ स्थितिमीक्षते स्म ॥ ६६ ॥
समानता सात्विकवृत्तिभाजां
विरागता वैषयिकप्रवृत्तौ ॥
तस्याः स्त्रिया गर्भगपुत्रचित्र
चरित्रशंसिन्यजनिष्ट चेष्टा ॥ ६७ ॥




 निसर्गधवलेन स्वभावतः धेतेनातिशयेन महतोक्ष्णा वृषभेण सम्यगूढं पुनश्च गीत
विशारदैर्गन्धर्वादिभिराव्यैर्युतैस्तत्स्वामिभिर्वा विद्याधरप्रभृतिभिर्विनयेनोप समीपे पातैः
पातैः संगीयमानमात्मानं प्राप्तनिद्रा सा सत्यैक्षत ॥ ६४ ॥ [ निसर्गेति । स्वभा
वशुछेनेत्यर्थः । तेन कृत्रिभशुञ्चत्वव्युदासः ] ॥ ६४ ॥
 पुनश्च जय जयेति रक्षेति मा मां दृशा कृपादृष्टयाऽवलोकयेति शाब्दं वरं दधा
ना मयच्छन्ती सत्याकर्णयत् । श्रुत्वा विस्मयं प सोत्थितवतीतस्ततो निरीक्षमाणा सा
पुनरुक्तशब्दं न शृणोति स्माऽऽकण्र्य नोत्थितवतीति वा संबन्धः ॥ ६५ ॥
किंच चञ्चत्तरस्य स्फुरतरस्य मञ्चस्य शय्याया रोह आरोहणेऽपि नमॉक्तिकृत्यां
परिहासोतेर्यत्नेऽपि खिद्यमानाऽन्याञ्जित्वाऽतिहृद्यविद्यायाः सरस्वत्याः सिंहासने
स्वस्य स्थितिमीक्षते स्म । अतिहृद्ये विद्यासिंहासन इति वा । इन्द्रवज्रा वृत्तम् ॥६६॥
[ अन्याम्मीमांसकाद्यखिलभेदवादिन इत्यर्थः । मुदा हर्षेण न त्वायासेन । एतेन भ
विष्यद्भगवत्पादाभिधभाष्यकारकर्तृकभाविभेदवादित्वावच्छिन्नभञ्जने लीलामात्रत्वं व्य
न्यते ] ॥ ६६ ॥
 सात्त्विकवृत्तिभाजां सतां समानता तुल्यता वैषयिकपवृत्तौ विषयगोचरमवृत्तौ विरा
 



तद्रोमवर्छी रुरुचे कुचाद्रया
वृण्वत्प्रभाधुन्युरुशैवलालिः ॥
यन्नाच्छिशोरस्य कृते प्रशस्तो
न्यस्तो विधात्रेव नवीनवेणुः ॥ ६८ ॥
पयोधरद्धमिषादमुष्या
पयःपिबत्यर्धविधानयोग्यौ ॥
कुम्भौ नवीनामृतपूरितौ द्वा
वम्भोजयोनिः कलयांबभूव ॥ ६९ ॥
द्वैतमवादं कुचकुम्भमध्ये
मध्ये पुनर्माध्यमिकं मतं च ।
द्राग्गर्हयामास महात्मगङ्खम् ॥ ७० ॥




गता वैराग्यं तस्याः स्त्रियाः सत्या एतादृशी चेष्टा गर्भगतस्य पुत्रस्य चित्रमाश्चर्य
रूपं यचरित्रं तच्छंसिनी तज्ज्ञापिकाऽजनिष्ट । उपेन्द्रवज्रा वृत्तम् ॥ ६७ ॥
[सात्त्विकेति। सत्त्वगुणैकमधानस्थिातिशालिनीनामनुसूयादिरमणीनामिति यावत्]॥६७॥
 तद्रोमवली कुचलक्षणावद्री पर्वतावावृण्वती या प्रभा सैव धुनी नदी तस्या उरुशै
वलालिर्महती शैवालपङ्की रुरुचे रेजे । अस्य शिशोः कृते यत्नाद्विधात्रा स्थापितः
प्रशस्तो वेणुरिवेत्युत्प्रेक्षा । इन्द्रब्रावृत्तम् ॥ ६८ ॥[ शिशोबलस्य कृतेऽग्रे करि
प्यमाणत्वेन वक्ष्यमाणपारमहंस्योपयोगित्वार्थमित्यर्थ । प्रशास्त: सूक्ष्मत्वादिधर्मः शास्त्र
संमत इति यावत् । एतेनात्र गर्भसंन्यासित्वमेवेति ध्वन्यते ] ॥ ६८ ॥
 अस्याः सत्याः पयोधरद्वमिषात्कुचयुग्मव्याजेन दुग्धपिबत्यर्थस्य पानस्य विधा
ने योग्यौ नवीनामृतपूरितौ द्वा कुम्भौ पद्मयोनिद्रा कलयांबभूव रचयामास ।
 ‘कैतवापन्हुतिव्र्यक्तौ व्याजाचैर्निन्हुतेः पदैः’ । उपजातिः ॥ ६९ ॥
 [ नवीनेति । नवीनं निखिलविबुधकृतसकलश्रुत्यन्तक्षीरार्णवमथनोदूतत्वादभिनवं
यद्मृतम् ।
 

'मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्।


 इत्यमराज्जीवन्मुक्तिसद्योमुक्तिलक्षणावस्थाभेदेन द्विविधं निःश्रेयसपीयुषं तेन पृरव
भारदाविति यावत् । एतेन तत्रालौकिकत्वं द्योत्यते ] ॥ ६९ ॥
 कुचकुम्भमध्ये द्वैतमवादं तयोर्मध्ये पुनर्माध्यमिकं मतं शून्यमतं च सुधूमणेगभग एव
सोऽभ बालको ब्राग्झटिति गईयामास । यतो महात्मभिर्ग निन्द्य मेदवादशून्यम.
 


ठमे शुभे शुभयुते सुषुवे कुमारं ।
श्रीपार्वतीव सुस्विनी शुभवीक्षिते च ।
जाया सती शिवगुरोर्निजतुङ्गसंस्थे
सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥ ७१ ॥




तयोः प्रतिषेधाय गर्भगेणाभेण स्तनयोरभेदस्य तन्मध्यगतावकाशाभावस्य च संपादन
मिति फलोत्प्रेक्षा । इन्द्रवत्रा वृत्तम् ॥ ७० ॥ [ स्विति । शोभना ध्रुवो यासां तासु
त्रैलोक्यसुन्दरीषु मध्ये या मणिरिव रत्रमिव परमरमणीया । एतेन तस्यामीश्वरमातृत्व
योग्यत्वं ध्वन्यते । गर्भग एवोद्रवत्र्येवेति यावत् । एवं चावताराद्युक्तरं किं करिष्य
तीति को वेदेति तत्राचिन्यैश्वर्यं सूच्यते । द्वैतति । तार्किकादि सकलभेदवादमिति
यावत् । एतेन तयेोरेकीभावोक्तिरतिपीनत्वं द्योतितम् । चोऽवधारणे । तथाच
मध्ये तस्या मध्यशाब्दिते निरुपमकृशा उदर एव । माध्यमिकं माध्यमिकसंज्ञकना
स्तिकविशेषसिद्धान्तीभूतमित्यर्थः । महात्मेति । महात्मभिर्महति देशादिपरिच्छेदविधुरे
ब्रह्मात्मैक्यरूपद्वैते विषय आत्मा चरमवृतिलक्षणमारूपा बुद्धिर्येषां तैः श्रीमद्वादरा
यणादिभिर्गहिंतुं निन्दितुं योग्यमित्यर्थः ] [ गईयामास कुचद्वन्द्वपीनतासंपादनेन
कृशोदरगुरुतासंपादनेन च तिरश्चकारेत्यन्वयः ] ॥ ७० ॥
 लमे शुभे शुभेन प्रहेण युते युक्ते शुभेन तेन दृष्टे च पुनश्च सूयादी स्वतुङ्गसंस्
निजतुङ्गा उबस्थानानि सूर्यादीनां क्रमेणोक्तानि ।

‘भजवृषभमृगाङ्गनाकुलीरा
झषवणिजौ च दिवाकरादितुङ्गाः' । इति


 अजो मेषो मृगो मकरोऽङ्गना कन्या कुलीरः कर्कोझषो मीनो वणिक्तुला ।
तथाच सूर्ये मेषस्थे कुजे भौमे मकरस्थे रावसुते मन्दे तुलास्थे गुरौ च केन्द्रे चतुर्था
पन्यतमराशिस्थे चकारावुक्तानुक्तसमुचयौथै । शिवगुरोभार्या सती सुखिनी सुखवती न
त्वन्यस्त्रीवत्पीडिता कुमारं शिशु सुषुवे यथा श्रीपार्वती कुमारं स्कन्दं सुषुवे तद्वत् ।
अनेन गर्भप्रवेशादिकं मायया मदश्र्थ सदाशिवः शंकराचार्यरूपेण मादुरभूदितेि दृि
तम् । वसन्ततिलका छन्दः ॥ ७१ ॥ [ शुभे पुण्यग्रहस्वामिके ] ॥ ७१ ॥
 


दृष्टा सुतं शिवगुरुः शिववारिराशौ
मम्रोऽपि शक्तिमनुसृत्य जले न्यमाङ्क्षीत् ॥
व्यश्राणयद्धहु धनं वसुधाश्च गाश्च
जन्मोक्तकर्मविधये द्विजपुङ्गवेभ्पः ॥ ७२ ॥
तस्मिन्दिने मृगकरीन्द्रतरक्षुसिंह
सपखुमुख्यबहुजन्नुगणा द्विषन्तः ॥
वैरं विहाय सह चेरुरतीव हृष्टाः
कण्डूमपाकृषत साधुतया निघृष्टाः ॥ ७३ ॥
वृक्षा लताः कुसुमराशिफलान्यमुञ्व
नद्यः प्रसमसलिला निखिलास्तथैव ॥
जाता मुहुर्जलधरोऽपि निजं विकारं
भूभृद्वणादपि जलं सहसोत्पपात ॥ ७४ ॥
अद्वैतवादिविपरीतमतावलम्बि
हस्ताग्रवर्तिवरपुस्तकमप्यकस्मात् ॥
उचैः पपात जहसुः श्रुतिमस्तकानि
श्रीव्यासचित्तकमलं विकचीबभूव ॥ ७५ ॥




 सुतं दृष्ट्रा शिवगुरुः शिववारिराशौ सुखसमुद्रे मम्रोऽपि शक्ति सामथ्र्यमनुसृत्य
जले न्यमाङ्क्षीन्निमजितवान् । तदनन्तरं बहु धनं वसुधाश्च गाश्च पुत्रजन्मन्युक्त
स्य कर्मणो विधये विधानाय द्विजपुङ्गवेभ्यो ब्राह्मणवरेभ्यः शास्त्रज्ञेभ्यः पात्रेभ्यो
व्यश्राणयद्दत्तवान् ॥ ७२ ॥
 तरक्षुव्यम्रो मृगादयो बहुजन्तुगणाः परस्परं द्विषन्तोऽपि तस्मिन्दिने वैरं विहा
यातीव दृष्टाः सह चेरुः पुनश्च साधुतया निघृष्टाः सम्यक्तयाऽन्योन्यं संघर्षणं खर्ज
नं कुर्वन्तः कण्डूमपाकृषत कण्डूपाकरणं कृतवन्तः ॥ ७३ ॥ [ 'तरक्षुस्तु मृगादनः’
इत्यमरः । एवं च मृगेण सह तस्य वैरम् । करीन्द्रेण सह सिंहस्याऽऽखुना सह
सपैस्येति यथायोगं ज्ञेयम् ] ॥ ७३ ॥
 तस्मिन्दिने वृक्षा लताश्च पुष्पराशीन्फलानि चामुवंस्तथैव सकला नद्यः प्रसन्न
जला जाता जलधरोऽपि निजं विकारं जलं मुहुरमुश्चदिति वचनविपरिणामेन संब
न्वनीयं भूभृद्रणात्र्पवतसमूहादपि जलं सहसोत्पपात ॥ ७४ ॥ [मुहुरिति सर्वत्र
ज्ञेयम् ] ॥ ७४ ॥
 किंचाँद्वैतवादिभ्यो विपरीतं मतमवलम्बितुं शीलं येषां तेषां हस्ताप्रवर्तिवरपुस्त
कमप्यकस्मादुचैः पपात श्रुतिमस्तकानि वेदान्ता जहयुः श्रीव्यासस्य चित्तकमलं विक

सर्वाभिराशाभिरलं प्रसेदे
वातैरभाव्यदुतदिव्यगन्धैः ॥
प्रजज्वलेऽपि ज्वलनैस्तदानीं
प्रदक्षिणीभूतविचित्रकीलैः ॥ ७६ ॥
सुमनोहरगन्धिनी सतां
सुमनोवद्विमला शिवंकरी ।
सुमनोनिकरप्रचोदिता
सुमनोवृष्टिरभूत्तदाऽदुतम् ॥ ७७ ॥
लोकत्रयी लोकदृशेव भास्वता
महीधरेणेव मही सुमेरुणा ॥
विद्या विनीत्येव सती सुतेन सा
रराज तत्तादृशाराजतेजसा ॥ ७८ ॥




चीबभूव विकासं माप ॥ ७५ ॥ [ वरेति पुस्तकविशेषणं तु तत्तत्सूत्राद्यार्षग्रन्थ
संप्रहार्थमेव । श्रुतीति । उपनिषद्भागमात्रपुस्तकानीत्यर्थ । जहसुः स्वत एव वेष्टना
दिविघटनपूर्वकमुद्धाटितारम्भाक्षरसरणीनि बभूवुरित्यर्थः ][ श्रीति । श्रीव्यासचित्तसर
सः प्रादुर्भूतं यत्कमलमिव ब्रह्मसूत्रं तत्पुस्तकमपीति यावत् । भगवद्वादरायणान्तःक
रणमपि सुपसन्नमासेति तु कैमुत्यसिद्धमेवेति भावः । एतेन श्रुतिमस्तकपदेन तदधि
ष्ठातृदेवताग्रहोऽपि व्याख्यातः ] ॥ ७५ ॥
 किंचव सर्वाभिराशाभिर्दिग्भिरलं प्रसेदे । भावे प्रत्यय । सर्वा दिशोऽतिशयेन पसन्ना
बभूवुरित्यर्थः । अदुतो दिव्यो गन्धो येषां ते तैर्वातैरभावि वायवोऽदुतदिव्यगन्धाश्चा
भूवन् । पदक्षिणीभूता विचित्राः कीला ज्वाळा येषां तैज्र्वलनैरमिहोत्रादिभिरपि तदानीं
प्रजज्वले तथाभूता अग्रयोऽपि प्रज्वलिता बभूवुः । अत्रापि भावे प्रत्ययः ।
उपजातिवृत्तम् ॥ ७६ ॥
 किंच तदा तस्मिन्काले सुमनोहरो गन्धोऽस्यास्तीति तथा सतां सुषु शुद्धं यन्मन
स्तद्वद्विमला शिवं सुखं करोतीति तथा सुमनसां देवानां निकरैः समूहैः प्रचोदिता मेरि
ता सुमनसां पुष्पाणां वृष्टिरद्रुतं यथा स्यात्तथाऽभूत् । यमकालंकारः ।

अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः ।


 यमकम्' इत्युक्तः। ‘विषमे ससजा गुरुः समे सभरा लोऽथ गुरुर्वियोगिन ' ॥७७॥
 लोकत्रयी लोक्ष्टशा लोकनेत्रेण भास्वता सूर्येणेव मही सुमेरुणा पर्वतेनेव विद्या

तिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।
सत्कारपूर्वमभियुक्तमुहूर्तवेदि
विप्राः शशंसुरभिवीक्ष्य सुतस्य जन्म ॥
सर्वज्ञ एव भविता रचयिष्यते च
शास्त्रं स्वतन्त्रमथ वागधिपांश्च जेता ।। ७९ ।।
कीर्ति स्वकां भुवि विधास्यति यावदेषा
किं बोधितेन बहुना शिशुरेष पूर्ण: ।।
नापृच्छि जीवितमनेन च तैर्न चोक्तं
प्रायो विदन्नपि न वक्तयशुभं शुभज्ञः ॥ ८० ॥




विनयेनेव सा सती तत्तेन सुनेन रराज । सुतं विशिनष्टि । तादृशानामतिप्रसिद्धानां
रामचन्द्रमभतिराज्ञां तेजो यस्मिस्तेन । यद्वा तेजसां राजेति राजतेजस्तादृशं सूयदि
तुल्यं राजतेजो यस्मिस्तेनेत्यर्थः । अत्राभिन्ने दीप्तिलक्षणे साधारणे धर्मे एकस्यैव बहू
पमानोपादानान्मालोपमा । उपजातिवृत्तम् ॥ ७८ ॥ [ तदित्यादि । ‘ज्योतिषां रवि
रंशुमान्’ इति ‘नक्षत्राणामहं शशी’ इति च स्मृतेस्तजगत्प्रसिद्धं सूर्याख्यं तथा तादृशा
सर्वानन्दकरो राजा चन्द्रो येन तत्तेजो यस्याष्टमत्र्यवतारस्य भगवतः शंकरभगवत्पाद
स्यैव तेजसः सूर्याचन्द्रमसोरपि सत्त्वात्स तथा तेन सूर्याद्याधिकवर्चस्वनेत्यर्थः] [यद्य
प्यत्र विद्या विनीत्येवेति विनीतिशाब्दस्य स्त्रीलिङ्गकस्यैव पयुक्तत्वाद्भिन्नलिङ्गोपमत्वं
नित्यदोष एवायं वाक्यगस्तथाऽप्यत्र वक्तुः कवेरुक्ताचार्यचरणावतारमहोत्सववर्णनप
रायणस्य भक्तिरसाविष्टचेतस्त्वात्तदवधानवैधुर्य गुण एव । तथा चोक्तं रसगङ्गाधरे ।

मलयानिलकालकूटयोरमणीकुन्तलभोगिभोगयोः ।
श्धपचात्मभुवोर्निरन्तरा मम जाता परमात्मनि स्थिति


 इति पद्ये यद्यपि प्रथमावं उत्तमाधमयोरुपक्रमाद्वितीयाधेऽधमोत्तमवचनं क्रमभङ्ग
मावहाति तथाऽपि वत्कुर्बह्मात्मकतयोत्तमाधमभावज्ञानवैकल्यं संपन्नमिति द्योतनाय
क्रमभङ्गो गुण एवेति ॥ ७८ ॥
 सत्कारपूर्वमभियुक्ता विनियुक्ता मुहूर्तवेदिनो विप्राः सुतस्य जन्म वीक्ष्याऽऽलोच्य
शशंसुरेष तव पुत्रः सर्वज्ञो भविष्याति पुनश्च स्वतन्त्रं शास्त्रं रचयिष्यतेऽथ वागाधि
पांश्च जेता भविष्यति । वसन्ततिलका वृत्तम् ॥ ७९ ॥ [ जन्म जन्मलग्रमिति या
वत्] [अभिवीक्ष्य लगवादिज्योति:शास्त्राचार्यतत्त्वानुसारेण भूरितरं विचिन्त्येति या
चतू] [स्वतश्रमद्वैतात्ममात्रपवानमित्यर्थः] [वागिति । वक्ष्यमाणसरस्वत्यवतारीभूतो
भयभारतीपतिमण्डनमिश्रप्रमुखसकलद्वैतवादिपण्डितानित्यर्थ. ] | ७९ ॥
किंच यावदेषा भूस्तावत्स्वकां कीर्ति भुवि विधास्यति किं बहुना बोधितेनैष तव


तज्ज्ञातिबन्धुमुहृदिष्टजनाङ्गनास्ता
स्तं सूतिकागृहनिविष्टमथो निदध्युः ॥
सोपायनास्तमभिवीक्ष्य यथा निदाघे
चन्द्रं मुदं ययुरतीव सरोजवक्त्रम् ॥ ८१ ॥
तत्सूतिकागृहमवैक्षत नप्रदीपं
तत्तेजसा यदवभातमभूत्क्षपायाम् ॥
आश्चर्यमेतदजनिष्ट समस्तजन्तो
स्तन्मंदिरं वितिमिरं यदभूददीपम् ।। ८२ ॥




शिशुः पूर्णोऽस्ति । जीवितं च तेन शिवगुरुणा न च पृष्टं न च तैरुक्तं यतः प्रायो
जानन्नप्यशुभं शुभज्ञः नैव वक्ति ॥ ८० ॥ [ पूर्णः परमात्मैव भक्तानुग्रहार्थमभक्तनि
अहाथै चावतीर्णोऽस्तीति यावत् । चोऽवधारणे द्वितीयः समुच्चये ] [ न वक्ति नैव
भाषत इति योजना । ‘नाश्लीलं कीर्तयेत्’ इति श्रौतनिषेधाद्भाविज्ञानभरितैरप्यमङ्गलं
नैव वक्तव्यमिति संप्रदाय एवोति भावः ] ॥ ८० ॥
 अथो अनन्तरं तज्ज्ञातिबन्धुसुत्दृदिष्टजनानामङ्गना उपायनेनोपहारेण सह वर्त
मानास्तास्तं सूतिकागृहनिविष्टं ददृशुस्तं सरोजमुखमभिसमन्ताद्वीक्ष्यात्यन्तं मुदं च य
युः प्रापुः । यथा निदाघे ग्रीष्मतै सूर्यातपेन तप्ताश्चन्द्रं वीक्ष्यात्यन्तं मुदं पाशुवान्त
तद्वत् ॥ ८१ } [ तज्ज्ञातीति । तस्य शिवगुरोर्ये ज्ञातयः संबन्धिनः बन्धुसुत्दृदौ
तूौ' अत्यागसहनो बन्धुः सदैवानुगतः सुत्दृद्’ इति । इष्टपदेनावाशीष्टौ' एकक्रियं
भवेन्मित्रं समप्राणः सखा मतः' इति वचनान्मित्रसखायौ ज्ञेयौ ] ॥ ८१ ॥
 न विद्यते प्रदीपो यस्मिन् । नैकधेत्यादिवन्न शाब्देन समासः । नप्रदीपं सत्क्ष
पायां रात्री तस्य शिशोस्तेजसा यद्वभातमभूत्तत्सूतिकागृहं सर्वो जनोऽवैक्षतैतत्सर्वज
न्तोराश्चर्यमजनिष्ट यद्दीपं सत्तस्य मन्दिरमतिमिरमभूदित्यर्थः ॥ ८२ ॥ [ तदिति ।
सूतिकागृहं कर्तृ । मदीपं कर्म । नावैक्षत नैवापश्यदित्यन्वयः । तत्र हेतुः । तत्तेजसेति
द्वितीयपादेन । यद्यस्मात्क्षपायां रात्रावपि । तांदांत] [ निश्यपि तदोजसाऽवभास
मानं बभूवेति संबन्धः । अत एव सकललोकानामप्येतददुतमेवाभूदित्याह । आश्चय
मित्याद्युत्तरार्धन ] ॥ ८२ ।।


यत्पश्यतां शिशुरौ कुरुतेशमद्रयं
तेनाकृतास्य जनकः किल शंकरास्याम् ।
यद्वा चिराय किल शंकरसंप्रसादा
जातस्ततो व्यधित शंकरनामधेपम् ।। ८३ ।।
सर्वे विदन्सकलशक्तियुतोऽपि बालो
मानुष्यजातिमनुस्मृत्य चचार तद्वत् ।
बालः शनैर्हसितुमारभत क्रमेण
स्रपुं शशाक गमनाय पदाम्बुजाभ्पाम् ।। ८ ४ ॥
बालेऽथ मञ्चे किल शापितेऽस्मि
न्सतां प्रसन्नं हृदयं बभूव ।।
संवीक्षमाणे मणिगुच्छवयं
विद्वन्मुखं हन्त विनीलमासी ।। ८५ ।।
संताडयन्हन्त शनैः पदाभ्यां
बिभेद सद्यः शतधा समूहा
न्विभेदवादीन्द्रमनोरथानाम् ॥ ८६ ।।




 अथ शंकरनामधेये प्रवृत्तिनिमित्तद्वयमाह । ययेन कारणेनासौ बालकः पश्यतां
जनानामुत्कृष्टं शं मुखं कुरुते तेनास्य जनकः मसिद्धां शंकरारूयामकृत कृतवान् ।
यद्वा । चिरकालाच्छंकरप्रसादाजातस्तत्तस्माच्छंकरनामधेयं व्यधिताकृत् ॥ ८३ ॥
 वद्वालवत्पादकमलाभ्यां गमनायाऽऽदौ स्रमुदरेण सर्पणं कर्तृ समर्थो बभूव ॥८४॥
[बालः शनेरिति । बवयोः सावण्यद्वा ‘गतिगन्धनयोः' इति स्मरणाद्वाति स्वाङ्गसैौरभ्यं
प्रसारयतीति वोऽत एवाभितः सकलसैनिकृष्टजनचेतांसि लात्याश्चयेदशेनवशादादत्त
इत्यालो वश्वासावालश्चेति तथा सौरभ्यशालिशारीरत्वानिखिलजनमनोहर इत्यर्थः ।
एतेन बालपदपौनरुक्तयं मत्युक्तं तदैश्वर्यातिशयश्च सूचितः ] ॥ ८४ ॥
 अस्मिन्बाले मञ्चे शायते सति सतां हृदयं प्रसन्ने बभूव माणगुच्छवयै वीक्षमाणे
सति विदुषां मुखं विगतनीलमभूत् । यद्वा वादिपण्डितानां मुखं विशेषेण नीलमभूत् ।
उपजातिवृत्तम् ॥ ८५ ॥ [ मणीति । कुमारकर्तृकानिरीक्षणानन्दसिद्धयथै तन्मञ्चा
शुपरि रत्नादिगुच्छको निबध्यत इति लोके प्रसिद्धमेवेति भावः ] ॥ ८५ ॥
 कमनीया सुन्दरी शय्या शयनीयं यस्मिंस्तं पर्यङ्कश्रेष्ठ शनैः पदाभ्यां संताडयन्स
न्विशेषेण भेदवादिनां य इन्द्रास्तेषां ये मनोरथास्तेषां समूहान्सद्यः शतधा बिभेद वि


द्वित्राणि वर्णानि वदत्यमुष्मि-
द्वैतिप्रवीरा दधुरेव मौनम् ॥
मुद्दा चलत्यङ्धिसरोरुहाभ्यां
दिशः पलायन्त दशापि सद्यः ॥ ८७० ॥
उदचारयदर्भको गिरः
पदचारानतनोदनन्तरम् ।
विकलोऽभवदादिमात्तयो:
पिकलोकश्रमान्मरालकः ॥ ८८ ॥
नवविद्रुमपछवास्तृता
मिवकाश्मीरपरागपाटलाम् ।।
रचयन्नचलां पदत्विषा स
चचारेन्दुनिभः शनैः शनैः ॥ ८९ ॥




ददार । अत्र ताडनविभेदैनयेोहेंतुकार्ययोर्विरुद्धभिन्नदेशत्वादसंगतिरलंकारः ।

‘विरुद्धभिन्नदेशत्वं कार्यहेत्वोरसंगतिः’ इत्युक्तेः ॥ ८६ ॥


 द्वित्राणि वर्णान्यमुष्मिन्बाले वदति सति 'द्वैतिपवीरा मौनमेव दधुः । चरणकम
लाभ्यां मुदा चलति सति ते सद्यो दशापि दिशः पलायन्त पलायनं कृतवन्तः ।

‘चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे' ॥ ८७ ॥


 [ वर्णानि ‘वर्ण तु वाऽक्षरम्' इत्यमरादक्षराणीत्यर्थः ] ॥ ८७ ॥
 अर्भको गिर उदचारयत्प्रवर्तितवाननन्तरं पदचारानतनोद्विस्तारितवांस्तयोर्वाणीप्र
वर्तनपादचारविस्तारयोर्मध्ये गिरः प्रवर्तनापिकलोकः सर्वोऽपि कोकिलो विक
लोऽभवत् । चरमादन्त्यात्पादचारविस्तारान्मरालको हंसो विकलोऽभवत् । वियो
गिनी वृत्तम् ॥ ८ ॥
 अचलां भूमिं पादत्विषा चरणकान्त्या नवीनैर्विद्रुमस्य रत्नवृक्षस्य पलवैरास्तृतामिव

विदुमी रत्नवृक्षेऽपि प्रवालेऽपि पुमानयम्’


 इति मेदिनी । काश्मीरपरागैः पाटलां धेतरक्तामिव रचयंश्चन्द्रतुल्यः शिशुः शनैः
शनैश्चचार ॥ ८९ ॥ [ इवकारोऽयं काकाक्षिगोलकन्यायेन काइमीरेत्यत्राप्यन्वेति ।
पदेति । चरणकान्त्या रचयन्सन्नत एव । इन्दुनिभः सद्यः समुदितशरद्राकानाय
कसदृश इत्यर्थः । सोऽपि तत्कालं किंचित्पाटलस्वपाददीप्त्या पृथ्वीं क्षणिकारक्तां
करोत्येवेति भावः ] ॥ ८९ ॥



मूर्धनि हिमकरचिह्न निटले नयनाङ्मंसयोः शूलम् ।।
वपुषि स्फटिकसवर्ण प्राज्ञास्तं मेनिरे शंभुम् ॥ ९० ॥
राज्यश्रीरिव नयकोविदस्य राज्ञो
विद्येव व्यसनदवीयसो बुधस्य ।
शुभ्रांशोश्छविरिव शारदस्य पित्रो
संतोषैः सह ववृधे तदीयमूर्तिः ॥ ९१ ॥
नागेनोरसि चामरेण चरणे बालेन्दुना फालके
पाण्योश्चक्रगदाधनुर्डमरुकैप्रैि त्रिशूलेन च ॥
तत्तस्यादुतमाकलय लालत लस्वाकृत लाञ्छत
चित्रं गात्रममंस्त तत्र जनता नेत्रैर्निमेषोज्झितैः ॥ ९२ ।।




 मूर्धनि हिमकरस्य शीतकिरणस्य चन्द्रस्य चिह्न निटले ललाटे नयनस्य नेत्र
स्याङ्गं चिह्नमंसयोः स्कन्धयोः शूलं वपुषि स्फटिकेन मानवर्ण प्राज्ञा वीक्ष्य शंभु मे
निरे । अनुमानालंकारः । वृत्तं गीतिः ।

'आर्या प्रथमदलोक्त यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः कृतयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः' इति लक्षणात् ।
'लक्ष्मैतत्सप्तगणा गोपेता भवति नेह विषमे जः ।
षष्ठोऽयं नलाघ वा प्रथमेऽर्थे नियतमायायाः'


 इत्यार्यापूर्वार्धलक्षणम् ॥ ९० ॥ [ शूलं त्रिशूलरेखाचिह्नमित्यर्थः ] ।। ९० ।
राजनीतिकुशलस्य राजश्रीरिव

'व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु ।
दैवानिष्टफले पापे विपत्तौ विफलोद्यम '


 इति मेदिनीकोशाद्वापनादशुभादेर्दवीयस ‘दवीयश्च दविष्ठं च सुदूरे' इत्यमरा
दतिदूरस्य बुधस्य विद्येव शरत्कालीनस्य चन्द्रस्य च्छविरिव पित्रोः संतोषैः सह
तदीया मूर्विवृधे । महर्षणी वृत्तम् ॥९१॥ [अत्रोपमा सहोक्तिश्चालंकारःlतदुक्तम् ।

'सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः ।
दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह' इति ] ॥ ९१ ॥


 उरसि नागेन चरणे चामरेण मस्तके बालचन्द्रेण हस्तयोश्चक्रादिभिर्मूर्धनि त्रिशू
लेन चादुतं तस्य ललितं गात्रं सुकुमाराङ्गविन्यासं शरीरं नेत्रैर्निमेषरहितैराकलय्य
सम्यगवलोक्य रेखाथै लाञ्छितं चित्रं तत्रत्यजनसमुदायोऽमंस्त । शार्दूलविक्रीि
वम् ॥ ९२ ॥

सर्गे प्राथमेिके प्रयाति विरतिं मार्गे स्थिते दौर्गते
स्वर्गे दुर्गमतामुपेयुषि भृशं दुर्गेऽपवर्गे सति ।
वर्गे देहभृतां निसर्गमलिने जातोपसर्गेऽखिले
सर्गे विश्वसृजस्तदीयवपुषा भगेऽवतीर्णो भुवि ॥ १९६१ ॥
इति श्रीमाधवीये तद्वतारकथापरः ॥
संक्षेपशंकरजये सर्गः पूर्णो द्वितीयकः ॥ २ ॥


अथ तृतीयः सर्गः ।


इति बालमृगाङ्कशेखरे सति बालत्वमुपागते ततः ॥
दिविषत्प्रवराः प्रजज्ञिरे भुवि षट्शास्त्रविदां सतां कुले ॥ १ ॥




[ नागेन भोगीन्द्रयज्ञोपवीतविद्वेनेत्यर्थः । मूति । मस्तकावच्छेदेन पार्थमहार
सूचकत्रिशूलाकाररेखात्रयेणेत्यर्थः । अन्यथा तदनौचित्यातू ] ॥ ९२ ॥
 प्राथमिके सनकादिसर्गे विरतिं प्रयाति सति मार्गे दौर्गते दुर्गतिसंपादके स्थिते सति
स्वर्गे दुर्गमतां दुष्प्राप्यतामुपेयुषि प्राप्तवाति सत्यपवर्गे मोक्षे भृशमत्यन्तं दुर्गे दुष्पापे
सति देहभृतां जीवानां वर्गे समुदाये निसर्गात्स्वभावादेव मलिने सति तथाच विश्धक
तुराखिलेऽपि सर्गे जाता उपसर्गा नाशकराणि विन्नानि यस्य तथाभूते सति तदीयव
पुषा शाङ्कराचार्यविग्रहात्मना भर्गः सदाशिवो भूमावतीर्णः ॥ ९३ ॥ [ सर्ग इति ।
प्राथमिके सर्गे प्रकृतैतत्काव्यस्याऽऽदिमसर्ग इत्यर्थः ] [ पक्षे कृतादि
द्वापरान्तसृष्टिसमाप्तौ सत्यामित्यर्थः । अत एव दौर्गते दुर्गतेरयं दौर्गतस्तास्मन्नरका
दिदुर्गतिमापक इति यावत् ] ॥ ९३ ॥
 इति श्रीपरमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यदत्तवंशावसंसराम
 कुमारसूनुधनपतिसूरिकृते शंङ्करविजयण्डिडिमे द्वितीयः सर्गः ॥ २ ॥

अथ तृतीयसर्गस्य टीका ।


 एवं शिवावतारमुपवण्यै तत्तद्देवावतारमुपवर्णयितुमुपक्रमते । इतीति । एवं बालच
न्द्रशेखरे शिवे बालत्वं प्राप्त साति तदनन्तरं सुरोत्तमा भुवि षट्शास्त्रविदां सतां कुले
प्रजज्ञिरे प्रादुर्बभुवुः । वियोगिनी वृत्तम् ॥ १ ॥[कुत्रचित्षट्शास्रोपलक्षितसकलशाब्द
ब्रह्मवित्त्वलक्षणवास्तवश्रोत्रियत्वे सत्यपि प्रतिबन्वविशेषवशादपरोक्षब्रह्मबोधाभावसंभ
वात्तद्वयुदासाथै सतामिति विशेष्यपदम् । तावन्मात्रोक्तौ च लोकानुग्रह्मयोजक३ब्द
ब्रह्मविश्वरूपोक्तश्रोत्रियत्वाभावापत्तिरिति षट्शास्त्रेति विशेषणपदमप्युपात्तनिदि त
 रवम्]॥१॥

कमलानिलयः कलानिधे
र्विमलारूयादजनिष्ट भूसुरात् ।।
भुवि पचपदं वदन्ति यं
सविपद्येन विवादिनां यशः ॥ २ ॥
पवनोऽप्यजनि प्रभाकरा
त्सवनोन्मीलितकीर्तिमण्डलात् ।
गलहस्तितभेदवाद्यसौ
किल हस्तामलकाभिधामधात् ॥ ३ ॥
पवमानदशांशतोऽजनि
पुवमानाऽश्वति यद्यशोम्बुधौ ॥
धरणी मथिता विवादिवा
क्तरणी येन स तोटकाह्वयः ॥ ४ ॥




 तत्राऽऽदौ विष्णोरवतारमाह । कमलाया लक्ष्म्या निलयः श्रीविष्णुः सर्वासां क
लानां निधेर्विमलाभेिवाद्धसुराद्वाह्मणादुव्यजनिष्ट पादुरभूत् । भुवीत्युक्तरान्वयि । य
भुवि पश्यपदं वदन्ति येन विवादिनां यशाः सविपद्विपदा सह वर्तमानमित्यर्थः ॥ २ ॥
[ एवं सामान्यतः सकलसुरवरावतारे तत्र विशेषजिज्ञासायां परमाभ्यर्हितत्वान्निरति
शायं श्रीशशंकरचरणानुरक्तत्वाच्च प्रथमं भगवतो विष्णोरवतारं वर्णयाति । कमलेति ।
 कमला श्रीर्हरिपिया ' इत्यमरात्कमला लक्ष्मीस्तस्या निलय इवाऽऽश्रयः श्रीमन्ना
रायण इत्यर्थः ] [ विमलेति । विमल इत्यन्वर्थऽऽरूया यस्य स तथा तस्मा
दित्यर्थः ] ॥ २ ॥
 पवनोऽपि मातःसवनादिनोन्मीलितं प्रस्फोरितं कीर्तिलक्षणं मण्डलं यस्य तस्मा
त्मात:कालोन्मीलितमण्डलः सूर्यस्ततुल्यात्प्रभाकराभिधासुरादजनि प्रादुरभूत् । गले
हस्तिाः कण्ठे इस्तेन गृहीता इव रुद्धकण्ठाः ठता भेदवादिनो येनासाववतीणों
वायुः किल प्रसिद्ध हस्तामलकेति संज्ञामधात् ॥ ३ ॥
 [गलेति । गले हस्तो मलयुद्धे मतिमलस्य दीयत इति प्रसिद्धमेव स इव
 तिरस्कृतत्वेन संजातो येषां तादृशा भेदवादिनो येन स तथेति यावत् ।
अधाद्दधार ] ॥ ३ ॥
 वायोरेव दशांशावतारमाह । पवमानस्य पबनस्य दशांशतः स तोटकारूयोऽज
नि । यस्य यशोलक्षणे जलधौ सवमानोत्तरन्ती धरण्यञ्चति येन विवादिवौक्तरणी



उद्भावि शिलादसूनुना
मदवद्वादिकदम्बनिग्रहैः ।
समुदञ्चितकीतिशालिनं
यमुदङ्गं बुवते महीतले ॥ ५ ॥
विधिरास सुरेश्वरो गिरां
निधिरानन्दगिरिव्यजायत ॥
वरुणोऽजायत चित्सुखाह्वयः ॥ ६ ॥




मथितेत्यर्थः ॥ ४ ॥ [ दशसंख्याकश्चासौ पवमानश्चेति मयूरव्यंसकादिवद्विगृह्य तस्य
योंऽशस्तेन 'वायुवै गौतम तत्सूत्रम्’इति श्रुतेः प्राणादिपञ्चमुख्यप्राणनागादिपञ्चमुख्य
प्राणभेदभिन्नदशविधसमष्टिपाणवायुप्रधानसूत्रात्मांशेनेत्यर्थः ] [ धरणी पृथ्व्यश्चाति
पूजिता भवति राजत इत्यर्थः ] ॥ ४ ॥
 शिलादस्य सूनुना पुत्रेण नन्दिसंज्ञकेनोदभावि शिलादसूनुः प्रादुरभूत् । यं मद्वद्वा
दिकदम्बानां मदयुक्तवादिसमुदायानां निग्रहैः समुलसन्त्या कीत्य शोभत इति तथा
तं महीतल उदङ्गं वदन्तीत्यर्थः ॥ ५ ॥ [ ननु तोटकाचार्यस्यैव कुतो न जन्मस्थानं
पञ्चपादादिवदुक्तमित्यत आह । उदभावीति ] [ शिलादेति ।

कणशाद्यर्जनं तूञ्छं कणिशाद्यर्जनं शिलम्


 इति स्मरणाच्छिलाख्यवृत्तिविशेषणात्यत्रं भुनक्तीति तथा । एतन्नात्रैव क
श्चित्प्रसिद्धो ब्राह्मणस्तस्य सूनुः पुत्रस्तेनेत्यर्थः । एतादृशेन तोटकाचार्येणोक्त
सूत्रात्मांशावतारेण तेनेति प्रकरणाद्यच्छब्दानुकूलत्वाचेत्यार्थिकं बोध्यम् ] [ समु
दश्चितेति। एतादृशामुदकें ‘उदर्कः फलमुत्तरम्' इत्यमरान्निरुक्तवादिपराजयानन्तरभा
विफलकाल इत्यर्थः । महातले बुवत इति योजना । न चैवं तत्पितृनामकथनोपयो
गेऽप्यवशिष्टत्रिपाद्यर्थपौनरुक्त्यापत्तिः सवमानेत्यादिना पूर्वपद्य एव तथा प्रतिपादित
त्वादिति वाच्यम् । भव शंकर देशिक मे शरणमिति वक्ष्यमाणस्तोत्रपूर्वकं श्रीभाष्य
कारचरणं मत्येतस्यैव शरणागतत्वावधृतभूरिवाग्मित्वसूचनोपयोगित्वादित्याशयः । डि
ण्डिमकारस्तु प्रकारान्तरेणैव व्याकरोति । तद्यथा । शिलादस्य सूनुना पुत्रेण नन्दि
संज्ञकेनोदभावि शिलादसूनुः प्रादुरभून् । यं मद्वद्वादिकदम्बानां मद्युक्तवादिसमु
दायानां निग्रहैः समुलसन्त्या कीत्र्या शोभत इति तथा तं महीतल उदङ्गं वदन्तीत्यर्थे
इति । एवं च तन्मते यमुदङ्गं बुवत इत्यादिपाठः । तथा चोदङ्कनामा कश्चिन्नन्दी
न्धरावतारो भगवत्पादशिष्य इति फलति ] ॥ ५ ॥
 विधिर्बह्मा सुरेश्वरो मण्डनापरसंज्ञ आस बभूव । गिरां निधिर्वाचस्पतिरानन्दागि

अपरेऽप्यभवन्दिवौकस
स्वपरेष्यपरविद्विषः प्रभोः ।
चरणं परिसेवितुं जग
चच्छरण भूस्सुरपुगवात्मजाः ॥ ७ ॥
चार्वाकदर्शनविधानसरोषधातृ
शापेन गीष्पतिरभूदुवि मण्डनाख्यः ॥
नन्दीश्चरः करुणगयेश्वरचोदितः स
न्नानन्दगिर्यभिधया व्यजनीति केचित् ॥ ८ ॥




रिजायत । अरुणो गरुडभ्राता सूर्यो वा । सनन्दनसंज्ञः समभवत् । यद्यपि विष्णु:
पद्मपादसंज्ञो बभूवेत्युक्त स एव च वक्ष्यमाणरीत्या सनन्दनस्तथाऽपि पक्षान्तरमाश्र
त्यैकत्र वोभयांशावतरणमाश्रित्याविरोधः संपादनीयः । वरुणो जलाधीशश्चित्सुरवसं
ज्ञोऽजायत ॥ ६ ॥ [ नन्वयं सनन्दन एव षष्ठसर्गे पद्मपादत्वेन वर्णनीयः स चेह
कमलानिलय इत्यादिना विष्ण्ववतारत्वेन वर्णितोऽधुना तु सूर्यावतारत्वेन गरुडभ्रात्र
रुणावतारत्वेन वा वण्र्यत इति स्फुट एव विरोध इति चेन्न । चार्वाकेत्यादिवक्ष्यमा
णाष्टमपद्ये मण्डनमिश्रानन्दगिर्योः केचिन्मतेन बृहस्पतिनन्दिकेश्वरावतारत्ववदविरोवो
पपत्तेः । एवं च सुरेश्वरादेर्विध्याद्यवतारत्ववदस्य प्रथमोत्तं विष्ण्ववतारत्वमेव मुख्य
मिति दिक ] ॥ ६ ॥
 अपरेऽपि स्वीयैः परैश्च सह येष्य मत्सरस्तत्परान्दैत्यान्स्वपरेषु येष्य तत्परान्वा
विद्विषन्तीति ते दिविषद: । स्वपरेप्यपरान्विद्वष्टी वा तस्य प्रभोः श्रीशंकरस्य चरण
जगतां शरणं परिसेवितुं ब्राह्मणोत्तमानां पुत्रा अभवन् ।। ७ ॥ [ स्वेति ।
 ईष्र्याऽसूया तु परस्य विषये स्पृहा' ।
 इत्यमरात्स्वस्याऽऽत्मनः परोत्कटैतादृशीष्य परस्य विषये पकाश्य इष्टशब्दा
दिलाभैौत्तरकालिकान्तःकरणवृत्तिविशेषात्मकसुखे विषयं स्पृहाऽभिलाषम्तत्र परास्तदै
कपरायणा ये निखिलभेदवादिनस्ते विद्विषः शत्रवो यम्य स तथा तस्येत्यर्थः ।
एतादृशस्य प्रभोः श्रीमच्छकरभगवत्पादाचार्यस्येत्यर्थः ] ।। ७ ।।
 'विधिरास सुरेश्वरो गिरां निधिरानन्दगिरिव्र्यजायत' इत्युक्तमिदानीं मतान्त
रमाह। चार्वाकानां देहात्मवादिनास्तिकानां दर्शनस्य शास्त्रस्य विधानेन परोपस्य धातु
त्रैह्मणः शापेन गीष्पतिर्देवगुरुर्भवि मण्डनसंज्ञोऽभूत् । नन्दीश्वरः करुणयेश्वरेण म
हादेवेन प्रेरितः सन्नानन्दगिरिसंज्ञया व्यजनीति केचित् । वसन्ततिलका घृत्तम् ॥८॥
[चार्वाकशास्त्रं हि देहात्मवादपधानं बृहस्पतिनाऽसुरमोहाथै प्रणीतमिति पद्मपुराणादौ
मसिद्धमेव] [अत्र केचिदिति पदप्रयोगान्नेदं स्वप्रभनिशिष्टसंमतमिति व्यज्यत] ॥८॥


सा शोणतीरेऽजनि विप्रकन्या
सर्वार्थवित्सर्वगुणोपपन्ना ॥
यस्या बभूवुः सहजाश्च विद्या
शिरोगतं के परिहर्तुमीशाः ॥ १५ ॥
सर्वाणि शास्त्राणि षडङ्गवेदा
न्काव्यादिकान्वेत्ति परं च सर्वम् ।
तन्नास्ति नो वेत्ति यदत्र बाला
तस्मादभूचित्रपदं जनानाम् ॥ १६ ॥




 सा सरस्वती शोषाख्यनदस्य तीरे विपस्य विष्णुमित्रसंज्ञकस्य कन्याऽजनि
तां विशिनाष्टि । सर्वानर्थान्वेत्तीति सर्वार्थवित्सा चासैौ सर्वेर्गुणैरुपपन्ना युक्ता च भित्रं
वा पदं यस्याः पुनर्विद्या ऋग्यजुःसामाथर्वसंज्ञाश्चत्वारो वेदाः शिक्षा कल्पो व्याकरणं
छन्दो ज्योतिषं निरुक्तिरिति षडङ्गानि मीमांसा धर्मशास्त्रं न्यायः पुराणमिति चतुर्दश
सहजाः सहोत्पन्ना बभूवुर्यस्माच्छिरोगतं शिरसि स्थितं परिहर्तु के समर्था न केऽपि
दुर्वासआदय इत्यर्थः । उपजातिवृत्तम् ॥ १५ ॥ [ शिरोगतं शिरोरुह्जातम् ।
परिहतुं त्यक्तम् । क इशाः शक्तिमन्तो भवन्तीति योजना । अयं भावः । यथा शि
रोरुहादिकं शरीरस्यावयवजातं सहजमेव तथा तस्याः सर्वविद्याद्युपलक्षितयावच्छब्द
ब्रह्मरुपमङ्गजातं स्वभावसिद्धमेवेति । अर्थान्तरन्यासोऽलंकारस्तद्वनिवा पूर्णोपमा च ।
तदुक्त कुवलयानन्दमूल ।


‘उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः ।
हनूमानब्धिमतरदुष्करं किं महात्मनाम् ।
गुणवद्वस्तुसंयोगाद्याति स्वल्पोऽपि गौरवम् ।
पुष्पमालानुषङ्गेण सूत्रं शिरास धार्यते’ इति ] ॥ १५ ॥


 सर्वाणि सांख्यपातञ्जलवैशेषिकन्यायमीमांसावेदान्ताख्यानि शास्राणि व्याकरणादीनि
षडङ्गन्यूगादीन्वैदान्काव्यनाटकादीन्परमन्यच सर्वे वेति किं बहुनाऽत्र जगति तन्ना.
स्ति यद्वाला सरस्वती न जानाति यस्मादेवं तस्मात्सा बालाऽत्र लोके जनानामाश्च
यश्रयभूताऽभूत् । इन्द्रवत्रा वृत्तम् ॥ १६ ॥[परं च मन्वादिभिः प्रणीतं यावत्स्मृत्यु
पस्मृत्यादिरूपं धर्मशास्त्रं तथा श्रीबादरायणादिभिः प्रणीतमष्टादशमहापुराणोपपुराण
जातमपि सर्व सा बाला वेत्तीत्यन्वयः । एवं च ।

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दशा'


सा विश्वरुपं गुणिनं गुणज्ञा
मनोभिरामं द्विजपुंगवेभ्यः ।
शुश्राव तां चापि स विश्वरूप
स्तस्मात्तयोर्दर्शनलालसाऽभूत् ।। १७ ॥
अन्योन्यसंदर्शनलालसौ तौ
चिन्ताप्रकर्षादधिगम्य निद्राम् ।।
अवाप्य संदर्शनभाषणानि
पुनः प्रबुद्रौ विरहामितप्तौ ॥ १८ ॥
दिदृक्षमाणावपि नेक्षमाणा
वन्योन्यवार्ताहृतमानसौ तौ ॥
यथोचिताहारविहारहीनौ
तनै । तनुत्वं स्मरणादुपेतौ ॥ १९ ॥




 इति स्मृत्युक्तचतुर्दशायुर्वेदाद्युपवेदमिलिताष्टादशाविद्यानां सकलानामपि संग्रहः
सूचितः ] ॥ १६ ॥
 एवं सरस्वत्याः प्रादुर्भावमुपवण्र्य तस्या विवाहं वक्तुमुपक्रमते । सा गुणज्ञा सर
स्वती Iवश्वरूप मण्डनापरनामधेयं गुणिनं मनोभिरामं द्विजश्रेष्ठभ्यः श्रुतवती स गुण
ज्ञो विश्वरूपस्तां सरस्वतीमपि गुणवतीं मनोभिरामां द्विजपुंगवेभ्यः श्रुतवांस्तस्मात्
योर्मगडनसरस्वत्योर्दर्शनलालसा जाता । उपजातिवृत्तम् ॥ १७ ॥ [ गुणज्ञेति वक्ष्य
माणानुरागहेतुगर्भ विशेषणम् ] ॥ १७ ॥
 एवंभूतयोस्तयोश्चिन्तनप्रकर्षालब्धस्वाप्रिकसंदर्शनादिकयोः प्रबोधकाले विरहाभिसं
तापो जात इत्याह । अन्योन्येति ॥ १८ ॥
 द्रष्टमिच्छमानावपि नेक्षमाणौ स्वाकियाऽन्योन्यवाया हृतमानसँौ यथोचिताहार
विहारराहितौ परस्परस्मरणाच्छरीरे सूक्ष्मतामवापतुः॥१९॥[अत्र सरस्वतीविश्धरूपान्यो
न्यालम्बितः परस्परगुणमणिगणश्रवणोद्दीपितः स्वस्वोचिताहारविहारविरहसूचितस्त
म्भारूयसात्विकविशिष्टशारीरकाश्यनभावितः स्मृतीच्छादिसंचारितो रत्याख्यः स्थाय
भाव एव परिकरालंकारात्प्राधान्येन ध्वन्यते । एवं चेह समानुरागको वियोगकालाव
च्छिन्नत्वेन विप्रलम्भः शृङ्गार एव रसः । परिकरोऽलंकार । विस्तरस्तु मदीये साहि
त्यसार एव द्रष्टव्य इत्यलं पलावितेन ] ॥ १९ ॥

दृष्टा तदीयौ पितरौ कदाचि
दपृच्छतां तौ परिकर्शिताङ्गौ ॥
वपुः कृशं ते मनसोऽप्पगवें
न व्याधिमीक्षे न च हेतुमन्पम् ॥ २० ॥
इष्टस्य हानेरनभीष्टयोगा
द्रवन्ति दुःखानि शरीरभाजाम् ।।
वीक्षे न तौ द्वावपि वीक्षमाणो
विना निदानं नहि कार्यजन्म ॥ २१ ॥
न तेऽत्यगादुद्वहनस्य कालः
परावमानो न च निःस्वता वा ॥
कुटुम्बभारो मयि दुःसहोऽयं
कुमारवृत्तेस्तव काऽत्र पीडा ॥ २२ ॥
न मूढभावः परितापहेतु
पराजितिर्वा तव तन्निदानम् ।।
विद्वत्सु विस्पष्टतयाऽग्रपाठा
त्मृदुर्गमार्थादपि तर्कविद्रिः ॥ २३ ॥




 कदाचित्तदीयौ पितरौ परिकर्शितशरीरौ तौ दृष्टा पृष्टवन्तौ। किं तदिति तत्राऽऽह ।
शरीरं ते कृशं मनसश्चागर्वस्तदेतत्किनिमित्तमहं तु रोगं वाऽन्यद्वैतन्निमित्तं नेक्षे ॥२०॥
[ इतः परं भोः पुत्रि भोः पुत्रेति संबुध्यध्याहारः प्रतिमश्र पक्षद्वयेऽपि यथाक्रमं
बोध्यः सर्वत्र ] ॥ २० ॥
 नच हेतुमन्यमित्युक्तं विवृणोति । इष्टवियोगादनिष्टसंयोगाद्वा देहवतां दुःखानि
भवन्ति तौ द्वावपि वीक्षमाणो विचार्यमाणोऽहं न वीक्षे । तर्हि निदानं विनैवैतत्स्या
दिति चेत्तत्राऽऽह । निदानं कारणं विना । हि प्रसिद्धम् । कार्यस्य जन्म न भवति
तस्मान्मददृश्यमेतन्निदानं वक्तव्यमित्यर्थ. । भाख्यानकी वृत्तम् ॥ २१ ॥
 निदानान्तराण्यपि न सन्तीत्याह । तव विवाहस्य कालोऽपि नैवातिक्रान्तः परे
भ्योऽपमानोऽपि तव नास्ति निर्धनताऽपि ते न भवति किंच दुःसहोऽयं कुटुम्बभरोऽपि
मयि वर्ततेऽतस्तवाव लोके का पीडा न काऽपीत्यर्थः । उपेन्द्रवज्रा वृत्तम् ॥ २२ ॥
[ कुमारेति । भावपधानोऽयं निर्देशः । कौमारावस्थावस्थितरित्यर्थः ] ॥ २२ ॥
 किंच संतापहेतुमूर्द्धभावोऽपि तव नास्ति तथा संतापस्य कारणं पराजयोऽपि तव
मास्ति तत्र हेतुर्विद्वत्सु तर्कविद्धिरपि सुदुर्गमोऽर्थो यस्य तस्मात् । सुदुर्जयार्थादिवि

आा जन्मनो विहितकर्मनिषेवणं ते
स्वप्रेऽपि नास्ति विहितेतरकर्मसेवा ॥
तस्मान्न भेयमपि नारकपातनाभ्प
किं ते मुख्वं प्रतिदिनं गतशोभमास्ते ॥ २४ ॥
निर्बन्धतो बहुदिनं प्रतिपाद्यमानौ
वक्तुं कृपाभरयुताविदमूचतुः स्म ।
निर्बन्धतस्तव वदामि मनोगतं मे
वाच्यं न वाच्यमिति द्वितनोति लज्जाम् ।। २५ ।।
कन्या श्रुतिं गतवती द्विजपुंगवेभ्यः ।
सर्वज्ञतापदमनुत्तमरुपवेषाँ
तामुद्विवक्षति मनो भगवन्मदीयम् ॥ २६ ॥




कचित्पाठः । तथाभूताद्विस्पष्टतयाऽग्रे पाठाद्धेतोः श्रेष्टपाठादिति वा । प्रपाठादिति
कचित्पाठः ।। २३ ।।
 किंच जन्मप्रभृति तव वेदविहितस्य कर्मणः सम्यक्सेवनमस्ति विहितादन्यस्य
कर्मणः सेवा तु स्वप्रेऽपि तव नास्ति तस्मान्नारकयातनाभ्योऽपि न त्वया भेतव्यं
तथाच लोकद्वितयदुःखविनिर्मुक्तस्य ते मुखं शोभारहितं किमाम्तेऽत्र किं निमित्तमि
त्यर्थः । वसन्तिलक, वृत्तम् ।। २४ । [ नन्वथापि ।

विहितस्याननुष्ठानान्निन्दितम्य च सेवनात् ।
अनिग्रहाचेन्द्रियाणा नरः पतनमृच्छति ।


 इति स्मृतेरुक्तनिमित्तजपातित्यभीत्याऽयं परिताप इत्यत आह । अभा जन्मन
इत्यादिवसन्ततिलकया ] ।। २४ ।।
 एवमत्याग्रहाद्वहुदिनं निमित्तं वतुं कथ्यमानौ । स्नेहजन्यकृपातिशययुक्तौ पितरौ
कर्म । मण्डनसरस्वत्याविदं वक्ष्यमाणमूचतुः स्म । किमित्यपेक्षायामादौ मण्डनवचनमु
दाहरति । यद्वाच्यं न वाच्यमिति मे लज्जां विस्तारयति तत्स्वमनसि स्थितं तवात्या
महाद्वदामि ।। २५ ।।
 तद्दर्शयति । शोणारूयपुंनदस्य तटे वासं कुर्वतो विप्राणमित्राख्यस्य विपस्य कन्या
सर्वज्ञताश्रयभूताऽनुत्तमरुपयेषवती विमवरेभ्यः श्रवणं प्राप्तवन्यतो हे भगवन्मदीयं
मनस्तामुद्वोढुमिच्छति ॥ २६ ॥ [ आय भगवन् । एतेन वक्ष्यमाणमनोरथपूरणे साम
ग्री सूचिता । शोणाख्येति । पुंपदेनात्र जडात्माऽपि स एव पुमाँलेोकोत्तरो यदनेन


पुत्रेण सोऽतिविनयं गदितोऽन्वशाद्दौ
विप्रो वधूवरणकर्मणि संप्रवीणौ ।।
तावापतुर्द्धिजगृहं द्विजसंदिदृक्षु
देशानतीत्य बहुलान्निजकार्यसिद्धयै ॥ २७ ।।
भूभृन्निकेतनगतः श्रुतविश्वशास्त्र
श्रीविश्वरूप इति यः प्रथितः पृथिव्याम् ॥
तत्पादपद्मरजसे स्पृहयामि नित्यं
साहाय्यमत्र यदि तात भवान्विदध्यात् ॥ २८ ॥
पुत्रया वचः पबात कणपुटन तात
श्रीविश्वरूपगुरुणा गुरुणा द्विजानाम् ।।
आजग्मतुः सुवसनौ विशदाभयष्टी
संप्रेषितौ मुतवरोद्वहनक्रियायै ॥ २९ ॥


वक्ष्यमाणकन्यारत्नकर्तृकस्वहृदयरसनिमज्जनादिपुखमनुभूयत इति द्योत्यते । तन्नात्र
नैवाधिकपदत्वादिदोषावकाशः । द्विजेति । तीर्थयात्रादपरायणत्वेन ब्राह्मणश्रेष्ठवा
क्येभ्यो निमित्तभूतभ्यः श्रुतिं गतवती मत्कर्णपथं प्राप्ताऽभूत् । पक्षे वेदतदर्थज्ञत्वेन
ब्राह्मणश्रेटेभ्यो हेतुभ्यः सरस्वती देवतात्वेन श्रुतिप्रसिद्धेत्यर्थः ] ॥ २६ ॥
 एवमतिविनयं यथा भवेत्तथा पुत्रेण कथितः स हिममित्रो वधूवरणकर्मण्यतिकुशलौ
द्वैौ विप्रावन्वशात्प्रेषितवान् । वधूवरणकर्मण्याज्ञप्तवानिति वा । तौ निजकार्यसिद्धयर्थ
विष्णुमित्रदर्शनेच्छु बहुलान्देशानुलङ्घ्य विष्णुमित्रगेहमवापतुः ॥ २७ ॥
 अथोभयभारतीवाक्यमुदाहरति । राजस्थाननिवासी श्रुताखिलशास्त्रो यो विश्वरूप
इति भूमौ परूयातस्तस्य चरणरजसे नित्यं स्पृहां करोमि 'स्पृहरीप्सितः' इति संप्रदा
नम् । हे तात यद्यत्र तत्पादपद्मरज:प्राप्तौ भवान्साहाय्यं विदध्यात्ताहिं स्पृहा सफला
स्यादित्यर्थः ॥ २८ ॥ [ भूभृदिति । एतेन लैौकिकसंपत्तिमत्त्वं तत्र ध्वन्यते]॥२८॥
 एवं पुत्रया वचनं ताते कर्णपुटेन पिबति सति द्विजानां गुरुणा विश्धरूपपित्रा हि
ममित्रेण सुतस्योत्कृष्टविवाहक्रियार्थे संप्रेषितौ विशदाभायुक्तयष्टिद्वययुक्तौ सुवस्रौ द्वौ
ब्राह्मणावाजग्मतुः ॥ २९ ॥ [ यद्यप्यत्र पुत्रीपदादेव तस्मिन्पितृत्वे लब्वे पुनस्तद्वाच
कं तात पदं पौनरुक्त्यापादकमिव प्रतीयते तथाऽपि सतीपितरि दक्षप्रजापतौ जामातू
द्वेष्टत्वेन पितृत्वगुणाभावस्यापि शाखे दर्शनात्तदपाकरणार्थत्वेन तदुपयुक्तमेवेति भा
वः ] [ कर्णेति । पिबति सादरं शृण्वति सतीत्यर्थः । एतेनोक्तवाक्ये पीयूषसम
त्वं सूचितम् ] [ सुवसनौ शोभनानि धौतसितत्वादिना रमणीयानि वसनान्युष्णी
षादिवासांसि ययोस्तौ तथा ] [ विशदेति । विशादा निर्मलाऽऽभा ययोस्तादृश्य

तावाच्यं स द्विजवरौ विहितोपचारै
रायानकारणमथो शनकैरपृच्छत् ॥
श्रीविश्चरुपगुरुवाक्यत आगतौ स्व
इत्यूचतुर्वरणकर्मणि कन्यकायाः ॥ ३० ॥
संप्रेषितौ भुतवयःकुलवृत्तधर्म
साधारणीं श्रुतवता स्वसुतस्य तेन ॥
याचावहे तव सुतां द्विज तस्य हेतो
रन्योन्यसंघटनमेतु मणिद्वयं तत् ॥ ३१ ॥




यष्टी पान्थगृहस्थर्षिधर्मोचिताषाढारूयवणवदण्डौ ययोस्तौ तथेत्यर्थः । एतेन तत्स्वा
मिन्यपि सदाचारशालित्वमभिव्यज्यते ] ॥ २९ ॥
 स विष्णुमित्रस्तौ विपवरौ विहितोपचारैः संपूज्याथानन्तरं शनैरागमनकारणं पृष्ट
वान् । श्रीविश्धरूपस्य पितुर्वाक्यात्कन्याया वरणकर्मार्थमागमनं कृतवन्तावित्यूच-
तुः ॥३० ॥

[ अथं ‘मङ्गलानन्तरारम्भमश्रकात्स्न्येष्वथा अथ


 इत्यमरान्निरुक्तविप्रयुग्मागमनावलोकनानन्तरमित्यर्थः। तौ पूर्वपद्योक्तौ। विहितेति ।
धर्मशास्त्रविहितपाद्यादिभिः । आध्यभितः पूजयित्वेत्यर्थः । अच्येति स्वपपाठ
एव । निरुपपदाद्धातोल्र्यबविधानात् । अत एव कालिदासोऽपि रघुवंशे ‘तमर्चयित्वा
विधिवद्विविज्ञः’ इत्यादौ क्त्वापत्ययान्तमेव पपाठ ] [ श्रति । श्रीमनैहिकपा
रात्रिकपकलसंपत्तिमान्यो विश्वरूपगुरुर्विश्वविख्यातविद्यादिकीर्तेर्विश्वरूपपण्डितस्य पि
ता । ‘स्यान्निषेकादिकृदुरुः' इत्यमरः । तस्य वाक्यत इति यावत् ] [ वरणेति ।
वरणं विश्धरूपकर्तृकं तत्पाणिग्रहणं तलक्षणं यत्कर्मोद्वाहशास्त्रविहितक्रियाजातं तस्मि
न्विषये तद्धटनार्थमित्यर्थः ] ॥ ३० ॥
 श्रुतेन शास्रश्रवणेन कुलेन वृतैवृत्तिभिश्चरित्रैर्वा धमैश्च स्वसुनस्य सावारणी समानां
तव सुतां श्रुतवता तेन श्रीविश्वरूपगुरुणा तस्य श्रीविधरूपस्य हेतोस्तव सुतां या
चावहे । हे द्विज हिममित्रमुखेनैव यावां करवाव तस्मान्मणिद्वयमन्योन्यसंघटनं पर
स्परसंबन्धमेतु प्राम्रोतु। तस्य हेतोरित्यस्य तस्मात्कारणादिति वाऽर्थः । ‘निमित्तपर्या
यमयागे सर्वासां मायदर्शनम्' इति वचनात्षष्ठी ॥ ३१॥[तद्विश्धरूपसरस्वतीरूपम् ।
मणीति । रत्नद्वन्द्वम् । अन्योन्येति । परस्परसंमेलनमेतु जगदीश्वरकृपया प्राम्रोत्वि
त्यन्वयः ] ॥ ३१ ॥



मझं तदुक्तमभिरोचत एव विौ
पृष्टा वधुं मम पुनः करवाणि नित्यम् ॥
कन्यामदानमिदमापतते वधूषु
नो चेदमूब्र्यसनसक्तिषु पीडयेयुः ॥ ३२ ॥
भार्यामपृच्छदथ किं करवाव भद्रे
विमौ वरीतुमनसौ खलु राजगेहात् ।
एतां मुतां सुतनिभा तव याऽस्ति कन्या
ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ॥ ३३ ॥
दूरे स्थितिः श्रुतवयःकुलवृत्तजातं
न ज्ञायते तदपि किं प्रवदामि तुभ्यम् ॥
वित्तान्विताय कुलवृत्तसमन्विताय
देया सुतेति विदितं श्रुतिलोकयोश्च ॥ ३४ ॥




 एवमुक्तो विष्णुमित्र उवाच । हे विमौ यद्यपि तेन हिममित्रेणोक्तं मह्य रोचत एव
तथाऽपि निजवधू पृष्टा तदुक्तं करवाणि । यस्मादिदं कन्याप्रदानं वध्वधीनमेव नित्यं
भवति । नो चेत्तदनुमत्यभावे व्यसनप्राप्तिषु कन्याया दुःखप्राप्तिष्वमूर्वध्वः पीडयेयु
रित्यर्थः ॥ ३२ ॥ [ भायततेऽभितो यत्नं तनोतीत्यर्थः । कन्यादानविषयकः समी
चनिस्थलनिरीक्षणादिलक्षणः प्रयत्नः पत्न्येकाधिकरणकः प्राधान्येन भवतीति भा
वः ] [ व्यसनेति । ‘व्यसनं त्वशुभे' इति मेदिन्युतेव्र्यसनेष्वशुभेषु दैवाज्जातेषु सत्सु
याः सक्तयः प्रेमातिशयाच्छोकातिरेकास्तेषु प्राप्तषु सत्स्वित्यर्थः ] [ पीडयेयुः प
तिमित्यार्थिकं संयोज्य योजना ] ॥ ३२ ॥
 अथानन्तरं भार्या पृष्टवान्हे भद्रे तव या पुत्रतुल्या कन्याऽस्ति तां वरीतुकामी
खलु राजगेहादेतावागतौ । एतयोरागमनं भद्रकरमिति संबोवनाशयः । तत्र किं
करवाव किं देया न देया वा तस्मात्त्वं पक्षद्वय एकमनुमाय सम्यग्ज्ञात्वा बूहि । यतो
देयेत्युक्त्वा न देयेति पुनर्न वक्तव्यं ‘सकृत्कन्या पदीयते' इत्यादिस्मृतेः ॥ ३३ ॥
[ हे भद्रे कल्याणमूर्त इत्यर्थः । एतेन त्रैवर्गिकस्य धर्मादिलक्षणस्य कल्याणस्य तदे
कायत्तत्वात्तत्प्रोत्साहनं ध्वन्यते । राजेति । काश्मीरेश्वरगृहात् । खलु निश्चितम् ।
एतेनैहिकसंपत्तिशालित्वं व्यज्यते । किं करवावाऽऽवामित्यार्थिकम् ] ॥ ३३ ॥
 एवं पृष्टा विष्णुमित्रभार्योवाच । प्रथमं स्थितिर्दूरे तथा यच ज्ञातव्यं श्रुतवयःकुल
वृत्त जातं तदपि न ज्ञायतेऽतस्तुभ्यमहं किं प्रवदामि । वित्तयुक्ताय कुलेन वृत्तेनाधी
तेन शीलेन वृत्त्या च समन्विताय कन्या प्रदेयेति' तु ।


नैवं निपन्तुमनघे तव शक्पमेत
तां रुक्मिणीं यदुकुलाय कुशस्थलीशे ।।
प्रादात्स भीष्मकनृपः स्वलु कुण्डिनेश
स्तीर्थापदेशमटते त्वपरीक्षिताय ॥ ३५ ॥
किं केन संगतमिदं सति मा विचारी
ये वैदिक सरणिममहतां प्रपलात् ॥
प्रातिष्ठिपत्सुगतदुर्जपनिर्जपेन
शिष्यं यमेनमशिषत्स च भट्टपादः ।॥ ३६ ॥




कुलं च शीलं च वयश्च रूपं
विद्या च वित्तं च सनाथता च ।
एतान्गुणाम्सप्त परीक्ष्य देया
कन्या बुधैः शेषमचिन्तनीयम्


 इत्यादिस्मृतिमूलभूतश्रुतौ लोके च विदितमेवेत्यर्थः ॥ ३४ : [तुभ्यं किं प्रब्रवीमि
दानतद्वर्जनयोरेकतरमपि मया वतुं नैव शक्यत इत्यन्वयः । एवं च नैव देयेति
वक्तव्ये पूर्वपद्ये राजपदध्वनितश्रीमदभिमतदानप्रत्यारूयानेन पातिव्रत्यभङ्गापतिः ।
तदङ्गीकृतैौ च दूरत्वादिवक्ष्यमाणदोषापत्तिरिति मौनमेव शारणमिति द्योत्यते । तत्र
हेतुः । दूर इत्यादि पूर्वार्धशेषेण । यतो दूरे स्थितिरतः श्रुतवयःकुलवृत्तजातं न
ज्ञायत इति संबन्धः । कुलेति । कुलस्य वृत्तं तत्समान्वतायेत्यर्थः ] ॥ ३४ ॥
 एवमुक्तो विष्णुमित्र भाह । हेऽनघे तवैतत्रैवं नियन्तुं शक्यं यतो यदुगोत्राय
कुशस्थलीं द्वारकामीष्ट इति कुशस्थलीट् तस्मै तीर्थव्याजं यथा स्यात्तथाऽटतेऽपरीक्षि
ताय च श्रीकृष्णाय तां प्रसिद्धां रुक्मिणीं कुण्डिनाख्यनगरेशो भीष्मकाभिधो नृपः मा
दात्खलु प्रसिद्धम् । तथाच लोकप्रसिद्धायाप्यपरीक्षिताय सुता न देयेत्येतन्नियन्तुं न
शक्यमित्यर्थः ॥ ३५ !॥ [ हेऽनघे कायिकादिसकलदोषश्शून्ये प्रिय इत्यर्थः । भीष्म
केति । भीष्मकसंज्ञकस्य राज्ञः सुतः पुत्र इत्यर्थः । एतादृशाः स भीमकत्वेन प्ररूया
तः । पद्विति। यदवः कुलं वंशो यस्य स तथा । एतेन तत्र ययातिशापाच्छत्रचा
मरादिधुर्य ध्वन्यते । तीर्थेति । गूढं रुक्मिणीप्रेषितपत्रिकावशादन्तः परमैौत्सुक्येऽपि
बस्तिीर्थानामपदेशेो मिषं यथा स्यात्तथाऽटते रथमात्रसहायेन परिभ्रमत इत्यर्थः]॥३५॥
 ननु श्रीकृष्णस्य परमेश्धरत्वेन प्ररूयातत्वादस्य तु मनुष्यत्वेन वराकत्वात्किं केन
संगतामित्याशङ्कयाऽऽह । हे सति किं केन संगतमिति विचारं मा कुरु । यतोऽयम


किं वण्र्यते सुदति यो भविता वरो नो
विद्याधनं द्विजवरस्य न बाह्यवित्तम् ॥
याऽन्वेति संततमनन्तदिगन्तभाजं
यां राजचोरवनिता नच हर्तुमीशाः ॥ ३७ ॥
वैध्वर्जनावनपरिव्ययगानि तानि
वित्तानि चित्तमनिशं परिखेदयन्तैि ।।
चोरानृपात्स्वजनतश्च भयं धनानां
शर्मेति जातु न गुणः खलु बालिशस्य ।॥ ३८ ॥




प्यतिमसिद्धभट्टपादमुख्यशिष्यत्वेन प्रसिद्ध इत्याह । यः सुगतानां मध्ये ये दुर्जया
स्तेषां निर्जयेन वैदिकों सरणिं समग्रां प्रयत्नात्मकर्षेण स्थापितवान्सोऽतिपरूयातो
भट्टपादो यमेनं विश्धरूपं शिक्षितुं योग्यं शिक्षितवान् ॥ ३६ ॥ [ हे सति भोः सा
ध्वि । एतेन तव मदेकनिष्ठत्वालोकवार्तानभिज्ञत्वेन प्रकृते विश्धरूपाण्डिते श्रुतादिपरी
क्षणसंदेहसत्त्वेऽपि न क्षतिरिति द्योत्यते ] [ अमहतामखण्डिताम् ] ॥ ३६ ॥
 यो विश्वरूपो नोऽस्माकं वरः कन्यार्थे वरणीयो भविता भविष्यति स हे सुदति
किं वण्यैते वर्णयितुमशक्य इत्यर्थः । विद्यावतो विश्वरूपस्योत्कृष्टत्वबोधनार्थ विद्यो
त्कर्ष निरूपयति । यतो द्विजश्रेष्ठस्य विचैव धनं नतु बाह्यवित्तं याऽऽविद्यानन्तदिग
न्तं भजतीत्यनन्तदिगन्तभाक्तं संततं निरन्तरमन्वेति । यां च राजेचोरवनिता हर्तु
न समर्थाः ॥ ३७ ॥ [ हे सुदति । एतेन पूर्वपद्योक्तताद्वद्यामात्रप्रशंसनसूचनसंजा
तोक्ताशङ्काव्यञ्जकमन्दस्मितवत्वं द्योत्यते । अनन्तेति । असंख्यातहरित्पान्तसेविनमपि
पुरुषमित्यर्थः । राजेति । वनिताऽत्र पण्याङ्गनैव । तस्या एव वित्तहारकत्वात् । हर्तु
मीशाः समर्था नैव भवन्तीति योजना । एतेन पद्मात्रमप्यननुगताद्राजाद्यपहार्याच
वित्ताद्यतिरेको विद्यायां व्यज्यते । प्रतीपविशेषोऽत्रालंकारः । तदुक्तम् ।

वण्यपमेयलाभेन तथाऽन्यस्याप्यनादरः ।
कः क्रौर्यदर्पस्ते मृत्यो त्वतुल्याः सन्ति हि स्त्रिय
इति । यद्वा पर्यस्तापन्हुतिरवे ।
“अन्यत्र तस्याऽऽरोपाथैः पर्यस्तापन्हुतिश्च स
नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' ।


 इत्युक्तत्वातू ] ॥ ३७ ॥
 हे वैध्वर्जनपालनपरिव्ययगोचरीभूतानि लोकप्रसिद्धानि वित्तानि वित्तं परिखेदय


केचिद्धनं निदधते भुवि नोपभोगं
कुर्वन्ति लोभवशगा म विदन्ति केचित् ।
अन्येन गोपितमथान्यजना हरन्ति
तचेन्नदीपरिसरे जलमेव हर्तृ ॥ ३९ ॥
सर्वात्मना दुहितरो न गृहे विधेया
स्ताश्चेत्पुरा परिणयाद्रज उद्रतं स्यात् ॥
पश्येयुरात्मपितरौ बत पातयन्ति
दुःखेषु घोरनरकेष्विति धर्मशास्त्रम् ॥ ४० ॥
मा भूदयं मम मुता कलहः कुमारी
पृच्छाव सा वदति यं भविता वरोऽस्याः ।
एवं विधाय समयं पितरौ कुमार्या
अभ्याशमीपतुरितो गदितेष्टकायै ॥ ४१ ॥




न्ति खलु प्रसिद्धं यतो लौकिकवितानां चोरादिभ्यो भयमतो बालिशस्य विद्याहीन
स्य मूर्खस्य सुखसंज्ञको गुणः कदाऽपि नास्ति ॥ ३८ ॥
किंच केचिलोभवशवर्तिनो धनं भूमौ स्थापयन्ति न तूपभोगं कुर्वन्ति केचित्तु भूमौ
स्थापितं धनं भोगेच्छाकाले नैव लभन्ते किंचान्येन गोपितमथान्यजना इरन्ति तद्धनं
नद्याः परिसरे तीरे गोपितं चेत्तर्हि जलमेव हर्तृ । तथाचानेकदुःखसंमिश्रबाह्यविक्तव
तापेक्षया विद्याधनवत्त्वमेव श्रेष्ठमिति भावः ॥ ३९ ॥
किंच सर्वात्मना सर्वपकारेण दुहितरो गृहे नैव स्थापनीयाः। विपक्षे दोषमाह । ता
दुहितरो विवाहात्पूर्वं स्वस्मादुद्रतं रजः पश्येयुश्चेत्तदा दुःखेषु घोरनरकेषु स्वपितरौ
पातयन्तीति धर्मशास्त्रम् । तथाचोक्तम् ।

‘पितृगृहे तु या कन्या रजः पश्येदसंकृता ।
भूणहा तत्पिता ज्ञेयो वृषली सा च कन्यका' इति ।। ४० ।।


मा भूदयं मया सह तव कलहः कुमारीं पृच्छाव सा मम सुता यं वदति स तस्या
वरो भविष्यत्येवं संकेतं विधाय पितरावस्मात्स्थानाकुमार्याः समीपमीयतुर्जग्मतुर्गदितं
कथितमिष्टकार्य याभ्यां तौ ।। ४१ । [ समयं प्रतिज्ञाम् ।

'समयः शपथाचारसिद्धान्तेषु तथाऽधिपे ।
क्रियाकारे च निर्देशे संकेते कालभाषयोः' इति मेदिनी ] ॥ ४१ ॥



श्रीविश्वरूपगुरुणा प्रहितौ द्विजाती
कन्यार्थिनैौ सुतनु किं करवाव वाच्यम् ॥
तस्याः प्रमोदनिचयो न ममौ शरीरे
रोमाञ्वपूरमिषतो बहिरुञ्जगाम ॥ ४२ ॥
तेनैव सा प्रतिवचः प्रददौ पितृभ्यां
तेनैव तावपि तयोर्युगलाय सत्यम् ॥
आदाप विप्रमपरं पितृगेहतोऽस्या
स्तौ जग्मतुर्द्धजवरौ स्वनिकेतनाय ॥ ४३




 गत्वा यदुक्तवन्तौ तद्दर्शयति । श्रीविश्धरूपगुरुणा हिममित्रेण कन्यार्थिनौ द्वौ विौ
प्रेषितौ हे सुतनु सुदेहे किं करवाव वाच्यं यदावाभ्यां कर्तव्यं तत्त्वयैव वक्तव्यमित्य
। एव स्पष्ट श्रुतवत्यास्तस्याः शरीरे प्रमोदसमुदायो न ममैौ किंतु रोमाश्वव्याजेन
बहिरुजगाम ॥ ४२ ॥ [ अत्र श्रीशब्देनैहिकाद्याखिलसंपत्तिः सूच्यते । द्विजातौ
द्विजावित्यर्थः । ‘जातिर्जातं च सामान्यम्' इत्यमरः । अत्र रोमात्रेचेत्यादिकैतवापह्नत्यलं
कारापेक्षया विश्धरूपपण्डितालाम्बतः पितृकाथितनिरुक्तविप्रागमनश्रवणोद्दीपितः प्रोक्त
रोमाञ्चानुभावितः प्रमोदसंचारितः प्रकृतसरस्वत्यारूयकन्यकानायिकनिष्ठः परिपुष्टो
रत्यारूयः स्थायिभाव एव शृङ्गाररसः प्राधान्येन ध्वन्यते । अलंकारलक्षणं तूक्त कुव
लयानन्दमूले ।
 'कैतवापह्नतिव्र्यक्तौ व्याजाथैर्निह्नतेः पदैः ।
 निर्यान् िस्रनाराचा कान्तादृक्पातकैतवात्' इति ] ॥ ४२ ॥
 तेनैव रोमाञ्चमिषेण बहिरुद्रतेन प्रमोदनिचयेन सोभयभारती पित्रे मात्रे च प्रत्यु
तरं प्रददौ पितरावपि तेनैव रोमाञ्चमिषेण बहिरुद्रतेन ममोदनिचयेन तयोर्विप्रयोर्युग
लाय सत्यं प्रत्युत्तरं ददतुरिति विपरिणामेन संबन्धस्तदनन्तरमस्याः पितृगेहादन्यं
विमादाय तौ द्विजवरौ स्वगृहाय जग्मतुः ॥ ४३ ॥[ तयोः सरस्वतीविश्धरूपयोः ।
युगलाय युग्मोपलक्षितदांपत्यार्थमित्यर्थः । सत्यं निश्चयजातं चक्रतुरित्यध्याहृत्या
न्वयः । ततः किं वृत्तमित्यत्राऽऽह । भादायेत्याद्युक्तरार्धेन । अस्याः प्रकृतायाः स
रस्वत्या इत्यर्थः । तौ विश्धरूपपितृप्रेषिताविति यावत् ] ॥ ४३ ॥


अस्माश्चर्तुशदिने भविता दशम्यां
यामित्रभादिशुभयोगयुतो मुहूर्तः ॥
एवं विलिख्य गणितादिषु कौशलास्या
व्याख्यापराय दिशति स्म सरस्वती सा ॥ ४४ ॥
तौ त्दृष्टपुष्टमनसौ विहितेष्ठकाय
श्रीविश्वरूपगुरुमुत्तममैक्षिषाताम् ॥
सिद्धं समीहितमिति प्रथितानुभावो
दृष्टवैव तन्मुखमसावथ निश्चिकाय ॥ ४५ ॥
अन्यः स्वहस्तगतपत्रमदात्स पत्रं
दृष्टा जहास सुखवारिनिधौ ममज ॥
विप्रान्यथोचितमपूपुजदागतांस्ता
मत्वांऽशुकादिभिरयं बहुवित्तलभ्यैः ॥ ४६ ॥




 गणितादिषु कुशलमेव कैौशलमास्यं मुखं यस्याः सा सरस्वत्यस्माद्वर्तमामदिना
चतुर्दशदिने दशम्यां तिथौ यामित्रनक्षत्रं लग्रनक्षत्राचतुर्दशमादिपदाचन्द्रालुग्रतो वा
सप्तमं स्थानं गृह्यते तस्मिञ्शुभानां चन्द्रादीनां योगस्तन युक्तो मुहूतों भविष्यतीत्येवं
विलिख्य व्याख्यापराय लग्रपत्रव्याख्यानक स्वब्राह्मणाय दिशाति स्मोपदिदेशा ॥४४॥
[ कौशलेति । गणितफलितादिविषयकचातुरीजातमास्ये मुख एव यस्याः सा तथे
त्यर्थः । एतेन लेखनाद्यायासवैधुर्य ध्वन्यते ] ॥ ४४ ॥
 विहितेष्टकायों त्दृष्टपुष्टमनसैौ तौ विमावुत्तमं विश्वरूपगुरुं दृष्टवन्तौ । अथान
न्तरं प्रथितः मरूयातोऽनुभावः प्रभावो यस्य स विश्वरूपगुरुस्तयोर्मुखं डैव
समीहितमभिलषितं सिद्धमिति निश्चयं कृतवान् ॥ ४५ ॥ [ उत्तमं सुपसत्रं यथा
स्यात्तथेत्यर्थः ] ॥ ४५ ॥
 अन्यो द्वाभ्यामितरो विष्णुमित्रप्रेषितो ब्राह्मणः स्वहस्ते स्थितं पत्रं दत्तवान् ।
श्मिमित्रः पत्रं दृष्टा जहास सुखसमुद्रे ममज्जाऽऽगतांस्तान्विमान्नत्वाऽयं हिममित्रो
बहुवित्तलभ्यै रत्रवस्त्रादिभिर्यथायोग्यं पूजितवान् ।। ४६ ।॥ [ अन्य इति । अदाद्द
तवानित्यर्थः । अदायि पत्रमिति त्वपपाठ एव तस्मा इत्यार्थिक मध्याहारो वा॥४६॥


पित्राऽनुशिष्टवसुधारशंसितेन
विज्ञापितः मुस्वमवाप स विश्वरूपः ॥
घकायाण्यथाऽऽह पृथगात्मजनान्समता
न्बन्धुभियः परिणयोचितसाधनाय ॥ ४७ ॥
मौहूर्तिकैर्बहुभिरस्य मुहूर्तकाले
संदर्शिते द्विजवरैर्बहुविद्भिरिटैः ॥
माङ्गल्यवस्तुसहितोऽस्विलभूषणाढ्यः
स प्रापदक्षततनुः पृथुशोणतीरम् ॥ ४८ ॥
शोणस्य तीरमुपयातमुपाशृणोत्स
जामातरं बहुविधं किल विष्णुमित्रः ॥
प्रत्युज्जगाम मुमुदे प्रियदर्शनेन
प्रावीविविशदृहममुं बहुवाद्यघोषेः ॥ ४९ ॥
दत्वाऽऽसनं मृदु वचः समुदीर्य तस्मै
पाद्य ददौ समधुपर्कमनैर्घपात्रे ॥
अध्यं ददावहमियं तनया गृहास्ते
गावो हिरण्यमखिलं भवदीयमूचे ॥ ५० ॥




 अनुशिक्षितब्राह्मणकथितेन पित्रा हिममित्रेण पबोधितो विश्धरूपः सुखमवापाथान
न्तरं विवाहे यदुचितं तस्य साधनाय समेतान्समागतान्बन्धुमियो विश्धरूपः कार्या
ण्यवश्यकर्तव्यानि पृथक्पृथग्यथायोग्यं माह ॥ ४७ ॥
 मुहूर्तशास्त्रविद्भिर्बहुभिरिट्रेद्विजवरैरागत्य संदशैिते मुहूर्तकाले माङ्गल्यवस्तुयुतः स
कलभूषणसंपन्नोऽविकलदेहो विश्धरूपो विशालं शोणतीरं प्राप्तवान् ॥ ४८ ॥ [ मा
ङ्गल्येति । दधिदूर्वादिमङ्गलदर्शनसहितः सन्नित्यर्थः ] ॥ ४८ ॥
 शोणतीरमुपागतं बहुपकारयुक्त जामातरं स विष्णुमित्र उपाशृणोत् । श्रुत्वा च
प्रत्युजगाम मियदर्शनेन मोदं च पाप । ततोऽमुं जामातरं बहुवाद्यघोषैर्गुहं प्रवेशित
वान् ॥ ४९ ॥ [ बह्निति क्रियाविशेषणम् ] [ मियेति । प्रियः स्वाभिलषितगुण
को यो जामाता तस्य दर्शनं साक्षात्कारस्तेनेत्यर्थः ] ॥ ४९ ॥
 भासनं दत्त्वा कोमलं वचनमुदीर्य तस्मै विश्धरूपाय पाद्य ददौ मधुपर्कसहितमध्यै
चामूल्यपात्रे ददौ । अहमियं तनया ते गृहा गावो हिरण्यमखिलं भवदीयमित्युक्त
वान् ॥ ५० ॥


अस्माकमद्य पवितं कुलमादृताः स्मः
संदर्शनं परिणयव्यपदेशतोऽभूत् ॥
नो चेद्भवान्बहुविदग्रसरः क चाहं
भद्रेण भद्रमुपयाति पुमान्विपाकात् ॥ ५१ ॥
यद्यद्रहेऽत्र भगवन्निह रोचते ते
तत्तन्निवेद्यमस्विलं भवदीयमेतत् ।
वक्ष्यामि सर्वमभिलाषपदं त्वदीयं
युक्तं हि संततमुपासितवृद्धपूगे ॥ ५२ ॥
एवं मिथः परिनिगद्य विशेषमृद्या
वाचा युतौ मुदमवापतुरुत्तमां तौ ॥
अन्ये च संमुमुदिरे प्रियसत्कथाभि
स्वेच्छाविहारहसनैरुभये विधेयाः ॥ ५३ ॥




 अद्यास्माकं कुलं पविात्रतं वयं चाऽऽद्दताः स्मो विवाहव्याजात्संदर्शनं जातं नो
चेद्वहुज्ञाग्रणीर्भवान्काहं च क तथाऽपि पुण्यकर्मणा कल्याणं विपाकात्पुमानुप
याति ॥ ५१ ॥
 किं बहुना यद्यदत्र गृहे हे भगवंस्तवाभिरोचते तत्तदेतदखिलं भवदीयं निवेद्य नि
चेदनीयमेवमुक्तवन्तं विष्णुमित्रं हिममित्र उवाच सर्वे त्वदीयमेव ममापि यदभिलाषा
स्पदं भविष्यति तद्वक्ष्यामि भवता त्वहमित्यादिना यदुक्तं तन्निरन्तरमुपापिता वृद्धस
मृहा येन तस्मिस्त्वयि युक्तमेवेत्यर्थः ।। ५२ ॥ [ ते तुभ्यमित्यर्थः । निवेद्य कथनीयं
भवतेति शेषः । सर्वमित्यादि । सर्वे त्वदीयमभिलाषपदं वस्त्वेतद्भवदीयमेवाखिलामि
त्यहं वक्ष्यामीति योजना । तत्रार्थान्तरन्यासेन हेतुं द्योतयति । युक्त हीति । इद
मिति शेषः । ‘पृगः क्रमुकवृन्दयोः' इत्यमरः ] ॥ ५२ ॥
 विशेषेण कोमलया वाचा युक्तौ तौ विष्णुमित्रहिममित्राववं परस्परमुक्त्वोत्तमां
मुदमवामतुः । अन्ये चोभये नियोज्याः प्रियसत्कथाभिः स्वेच्छाविहारहसनैः सम्यङ्
मोदं प्रापुः ॥ ५३ । [ स्वेच्छेति । स्वेच्छया कल्पिता ये विहारा जलयत्रादिली
लावलोकनादिव्यापारविशेषास्तैर्यानि इसनानि हर्षजातानि तैरित्यर्थः । उभये सरस्व
तीविश्धरूपपक्षीयजनसंघ इत्यर्थः । अभावधया इति चछन्दः । न विद्यते विवेयं कर्तव्यं
येषां ते तथा कृतकृत्या इत्यर्थः । सन्त इति योज्यम् ] ।। ५३ ॥

कन्यावरौ प्रकृतिसिद्धमुरुपवेषौ
दृष्टोभयेऽपि परिकर्म विलम्बमानाः ॥
चक्रुर्विधेयमिति कर्तुमनीश्वरास्ते
शोभाविशेषमपि मङ्गलवासरेऽस्मिन् ॥ ५४ ॥
एतत्प्रभाप्रतिहतात्मविभूतिभावा
दाकल्पजातमपि नातिशयं वितेने ॥
लोकप्रसिद्धिमनुसृत्य विधेयबुध्द्या
भूषां व्यधुस्तदुभये न विशेषबुध्द्या ॥ ५५ ॥
मौहूर्तिका बहुविदोऽपि मुहूर्तकाल
ममाक्षुरक्षतधियं खिलत सखीभिः ॥
पश्चात्तदुक्तशुभयोगयुते शुभांशे
मौहूर्तिकाः स्वमतितो जगृहुर्मुहूर्तम् ॥ ५६ ॥
जग्राह पाणिकमलं हिममित्रसूनु
श्रीविष्णुमित्रदुहितुः करपछवेन ।
भरामृदङ्गपट्टहाध्ययनाब्जघाष
र्दिङर्मडले मुपरिमूर्छति दिव्यकाले ॥ ५७ ॥




 स्वभावसिद्धसुरूपवेषौ कन्यावरौ दृष्टा तद्दर्शनासक्तचित्तत्त्वात्कर्तुमसमर्था अप्यव
श्थं विधेयमिति कृत्वा परिकर्माङ्गसंस्कारं तथाऽस्मिन्मङ्गलवासरे शोभाविशेषं च विल
म्बमानाः कृतवन्त इत्यर्थः ॥ ५४ ॥ [परिकर्म ‘प्रतिकर्म प्रसाधनम्' इत्यमराद्वधूवर
योर्मण्डनाभरणादिविरचनमिति यावत् ] [ शोभाविशेषोऽत्र तत्तद्वसनानलेपनाभरण
धूपनाविवासनप्रसाधनादिलक्षण एव बोध्यः ] ।। ५४ ।।
 अभाकल्पजातमपि भूषणनिचयोऽप्यतिशयं न कृतवांस्तत्र हेतुरेतयोः कन्यावरयोः
प्रभया कान्त्या प्रतिहताऽऽत्मविभूतिर्यस्य तत्त्वात् । नन्वेवं तर्हि किमर्थं तावलंकृतवन्त
इति चेत्तत्राऽऽह । लोकप्रसिद्धिमनुसृत्येदमवश्यं विधेयमिति बुद्धयोभये तयोभूषां
व्यधुरलंकारं चकुर्न तु भूषणैरेतयोः कश्चिद्विशेषो भविष्यतीति बुद्धया ॥ ५५ ॥
[आकल्पेति । ‘आकल्पवेषौ नेपथ्यम्' इत्यमराद्रत्नाद्याभरणजातमपीत्यर्थः] ।। ५५ ॥
 बहुज्ञा अपि ज्योतिर्विदो मुहूर्तकालमक्षताधियं सखीभिः क्रीडन्तीमुभयभारत पृष्ट
वन्तः पश्चात्तयोते शुभयोगयुक्त शुभग्रहस्य नवांशे मौर्तिकाः स्वबुद्धितो मुहूर्त
जगृहुः ॥ ५६ ॥ [ अक्षतेति । सार्वज्ञात्सर्वत्राप्रतिहतमतिमित्यर्थः ] ॥ ५६ ॥
 भेरीमृदङ्गपटहवेदाध्ययनशाङ्कघोषर्दिङ्गडले सुपरिमूर्छति सुषुव्याझे सात हिममित्र


यं यं पदार्थमभिकामयते पुमान्य
स्तं तं प्रदाय समतूतुषतां तदीडयौ ॥
देवदुमाविव महामुमनस्त्वयुक्तौ
संभूषितौ सदसि चेरतुरात्मलाभौ ॥ ५८ ॥
आधाय वह्निमथ तत्र जुहाव सम्य
ग्गृह्योक्तमार्गमनुसृत्य स विश्वरूपः ॥
लाजाञ्जुहाव च वधूः परिजिघ्रति स्म
धूमं प्रदक्षिणमथाकृत सोऽपि चाग्रिम् ॥ ५९ ॥
होमावसानपरितोषितविप्रवर्य
प्रस्थापिताखिलसमागतबन्धुवर्गः ॥
संरक्ष्य वह्निमनया सममग्रिगेहे
दीक्षाधरो दिनचतुष्कमुवास हृष्टः ॥ ६० ॥




सूनुर्विश्धरूपो हस्ताकिसलयेन श्रीविष्णुमित्रकन्यायाः सरस्वत्या हस्तकमलमुक्तलक्षणे
दिव्यकाले जग्राह ॥ ५७ ॥ [ हिममित्रविष्णुमित्रशब्दौ तत्तन्नामामपिद्धयैव देवद
तादिशब्दवत्प्रयुक्ताविति बोध्यम् ] [ दिव्येति । निरुक्तरीत्या सरस्वत्युक्तत्वेन लोको
तरे विवाहमुहूर्तसमय इत्यर्थः ] ॥ ५७ ॥
 यो यः पुमान्यं यं पदार्थे प्रार्थयते तस्मै तस्मै तं तं पदार्थ प्रदाय तदीव्यौ तैः
पुरुषैः स्तुत्यौ तयोः कन्यावरयोरीङौ पूज्यौ पितराविति वा । परितोषमवापतुः कल्प
वृक्षाविव बृहदुदारतायुक्तावलंकृतौ प्राप्तकाम सभायां चेरतुः ।। ५८ ।॥ [ महेति ।
“त्रियः सुमनसः पुष्पम्' इत्यमरान्महत्यः सुमनसः पुष्पाणि यस्य तस्य भावस्तेन युक्तौ ।
पक्षे 'सुपर्वाणः सुमनसः' इत्यमरादलौकिकवदान्यत्वान्महादेवत्वयुक्तौ । यद्वा महाद्व
शालमत एव शोभनमेतादृशं मनो यस्य परमविवेकिनः पुरुषधुरंधरस्य तद्भावयुक्ता
वित्यर्थः । अत्र चेरतुरित्यनेन व्यतिरेकालंकारो व्यज्यते ।

'यतिरेको विशेषश्रेदुपमानोपमेययो ।
शैला इवोन्नताः सन्तः किंतु प्रकृतिकोमला ' ।


 इति कुवलयानन्दमूलोक्तः ] ॥ ५८ ॥ अथानन्तरं स्वगृह्यसूत्रोक्तमार्गमनुसृत्य स
विश्धरूपो वह्निमाधाय तत्र सम्यग्घोमं कृतवान् । च पुनर्वधूलजान्भर्जितधान्यानि
हुहाव तडूमं च जिघ्रति स्माथ विश्वरूपोऽपि पश्चादमिं पदक्षिणं कृतवान् । अपि
शब्दादयेऽग्रि प्रदक्षिणं कुर्वन्त्या तया सह सोऽपि तथा कृतवानित्यर्थः ॥ ५९ ॥
 होमान्ते परितोषिता विप्रश्रेष्ठा येन प्रस्थापिताः सर्वे समागता बन्धुवर्गा येन स

प्रतिष्ठमाने दयिते वरेऽस्मि
लुपेत्य मातापितरौ वरायाः ॥
आभाषिषातां शृणु सावधानो
बालेव बाला न तु वेत्ति किंचित् ॥ ६१ ।।
बालैरियं क्रीडति कन्दुकाचै
जतक्षुधा गेहमुपैति दुःखात् ।।
एकेति बाला गृहकर्म नोक्ता
संरक्षणीया निजपुत्रितुल्या ॥ ६२ ॥
बालेयमङ्ग वचनैमृदुभिर्विधेया
कार्या नै रुक्षवचनैर्न करोति रुष्टा ॥
केचिन्मृदूक्तिवशगा विपरीतभावा
केचिद्विहातुमनलं प्रकृतिं जनो हि ॥ ६३ ॥




विश्वरूपोऽनया सरस्वत्या सह दीक्षाधरोऽग्रि संरक्ष्य हृष्टः सन्नग्रिगृहे दिनचतुष्टय
मुवास ॥ ६० ।।
 अस्मिन्विश्वरूपे पिये वरे प्रस्थानं कुर्वति सात वरायाः कन्याया माता पिता
चाऽऽगत्य प्रोचतुः सावधानो भूत्वा शृणु बाला स्तनंधयी यथा किंचिन्न जानाति
तथेयं बाला सुकुमाराङ्गयस्मत्पुत्री न तु किंचिजानाति । उपजातिवृत्तम् ॥ ६१ ॥
 इयं कन्दुकाचैः क्रीडोपस्करैबलैः सह क्रीडति जातक्षुवा दुःखाद्रेहमायाति ।
ननु भवद्भश्यां गृहकर्मणि कुतो नानुशिष्टति चेत्तत्राऽऽहतुरकेति कृत्वेयं बाला गृह
कर्म नोक्ता तस्मान्निजपुत्रितुल्या सम्यग्रक्षणीया । इन्द्रवज्रा वृत्तम् ॥ ६२ ॥
 किं तर्हि सर्वथैव गृहकर्मणि न नियोक्तव्या नेत्याहतुरङ्गेति संबोधनमियं बाला
मृदुभिर्वचनैर्नियोज्या कर्तव्या नतुं रुक्षवचनैर्यतस्तैः कुपिता न करोति । ननु रूक्ष
वचनैर्न करोति चेत्कथं मृदुवचनैः करिष्यतीति चेत्प्रकृतिवैचित्र्यादित्याहतुः । के
चिन्मृदूक्तिवशवर्तिनः केचिद्विपरीतस्वभावै रूक्षेोक्तिवशगा हि यस्मात्स्वभावं त्यतुं
कोऽपि जनः समर्थो न भवति । वसन्ततिलका वृत्तम् ॥ ६३ ॥ [ हेऽङ्गेति जामातरं
प्रति कोमलामश्रणम् । एतेन मृदुवचनसरणिरपि सूचिता ][ विधेया लौकिकादिकर्म
ण्याज्ञाप्येत्यर्थः । न रुक्षेति । तत्र हेतुः । नेत्यादिना । तदुभयमपि सामान्यनिदर्श
नेनोपपादयति । केचिदित्यादिपादाभ्याम् । विपरीतेति । यतो विरुद्धस्वभावा अपि
केचिजीवा मृदूक्तिवशगाः सन्तीत्यतो रूक्षवाक्यं विहाय मृदुवाक्यैरेवेयं कार्ये विनि


कश्चिद्विजातिरधिगम्य कदाचिदना
मुद्वीक्ष्य लक्षणमवोचदनिन्दितात्मा ॥
मानुष्यमात्रजननं निजदेवभावे
त्यस्माच्च वो वचनमुग्रमयोज्यमस्याम् ॥ ६४ ॥
सर्वज्ञतालक्षणमस्ति पूर्ण
मेषा कदाचिद्वदतोः कथायाम् ॥
तत्साक्षिभावं व्रजिताऽनवद्या
संदिश्य नावेवमसौ जगाम ॥ ६५ ॥
मुचुषाभिरंक्षाऽऽयतते हि तस्याम् ।
निक्षेपभूता तव सुन्दरीयं
काय गृहे कर्म शनैः शनैस्ते ॥ ६६ ॥




योज्येति प्रथमोपपत्तिः । यतः कश्चिज्जनः पकृतिं विहातृमनलमसमर्थ एव भवत्यत
इयमपि परुषवचनकुपिता सती नैव करोतीति द्वितीयोपात्तः ] ।। ६३ ।।
 नन्वेकाऽपि कन्या बालैः सह क्रीडनस्वभावौ रूक्षवचनैरपि यशोधनैः शिक्षणीया
तत्कुतो भवद्भद्यां न शिक्षितेति चेत्तत्राऽऽहतुः । कदाचित्कश्चिदनिन्दितात्मा ब्राह्मण
आगत्यास्या लक्षणमुद्वीक्ष्योक्तवान्मानुष्यमात्रजननं वस्तुतो निजदेवभावा निजं नित्यं
देवभावो देवत्वं नित्यो देवस्वभावो वा यस्याः ।
 ‘निजं स्वीये च नित्यच' । ‘भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 इति मेदिनी । इत्यस्मात्कारणादस्यां वो युष्माकमुग्रं वचनमयोज्यं योजनीयं न
भवति ॥ ६४ ॥
 किंचास्यां सर्वज्ञताया लक्षणं पूर्णमस्ति। किंच कदाचिदेषा वादं कुर्वतोर्वादिनोः कथायां
तयोः साक्षित्वं प्राप्स्यतीत्येवमावामुपदिश्यासँी विप्रो जगाम । इन्द्रवज्रा वृत्तम् ॥६५॥
 वराया दोषाविमुक्तकन्यायाः श्वश्रूग्स्मद्वचनेन वाच्या यत: स्नुषाया अभिरक्षाऽऽयत
ते तदधीनाऽस्ति तद्वचनं दर्शयति । इयं पुन्दरीं तव न्यामभृता तस्मात्तवेयं गृहे कर्म शनै
शनैः कर्तव्या शनैः शनैरनया कर्म कारथितव्यमियर्थः। उपजातिवृत्तम् ॥६६॥[भो
जामातः । वरायाः सर्वगुणवत्याः सरस्वत्याख्यमत्कन्यकायाः । श्वश्रूस्त्वन्मातेत्यर्थः ।
या पूर्वोक्तगुणा वनिता तस्यां त्वन्मातृविषये यतते यत्नशीला भवति । तस्या वचने
नेति वाच्येति यत्तच्छब्दावध्याहृत्यान्वयः । इतीति किं तत्राऽऽह । लुषेत्यादि
शेषेण । अयि विश्वरूपमातः । त्वयेयं लुषाऽभिरक्ष्याऽऽविभैौतिकादिभयात्पालनी


बाल्येषु बाल्यात्सुलंभोऽपराधः
स नेक्षणीयो गृहिणीजनेन ।
वयं सुधीभूय हि सर्व एव
पश्चादुरुत्वं शनकैः प्रयाताः ॥ ६७ ॥
दृष्टाऽभिधातुमनलं च मनोऽस्मदीयं
गेहाभिरक्षणविधौ नहि दृश्यतेऽन्यः ।
दृष्टाऽभिधानफलमेव यथा भवेन्नौ
बूयात्तथेष्टजनता जननीं वरस्य ॥ ६८ ॥
वत्से त्वमद्य गमिताऽसि दशामपूर्वा
तद्रक्षणे निपुणधीर्भव सुंभु नित्यम् ॥
कुर्यान्न बालविहृतिं जनतोपहास्यां
सा नाविवापरमियं परितोषयेत्ते।॥ ६९ ॥




येति योजना । तत्र हेतुः । निक्षेपेति तृतीयपादेन । निक्षेपभूता निक्षेप इव विश्वास
स्थानत्वेन गूढस्थाप्यचिन्तामण्यादिवस्तुविशेष इव बभूवेति तथेत्यर्थः। त्वत्पुत्रस्येत्यार्थि
कम् । अस्तीति शेषः ।

“पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रो रक्षति वार्धक्ये न स्त्री स्वातत्रयमर्हति'


 इति वचनाद्यावदुद्वाहं कौमारावस्थायामियं पित्रा मया परिराक्षता । इतः परमा
यौवनं पैौगण्डकैशोरावस्थयोर्भवत्या परिपालनीयेत्याशयः । एतदनन्तरं तु भर्तव
रक्षिष्यतीति तन्निक्षेपत्वमस्यां युक्तमेवेति तत्त्वम् । अत्र यतत इत्यादिना निरुक्तसं
देशकथने संभावितरोषादिदोषावमोषः सूच्यते ] ॥ ६६ ॥
 वयं सर्वेऽपि सुबुद्धिमन्तो भूत्वा पश्चाच्छनैरुत्कृष्टतां प्राप्ताः॥६७॥[बाल्येष्विति ।
बहुवचनं सर्वानुभूतव्याप्तिद्योतनार्थमेव । तदेवाऽऽह । वयमित्याद्युत्तराधेन] ॥६७॥
 ननु वरस्य जननीं दृष्टा भवद्भद्यां वक्तव्यमिित चेत्तत्राऽऽहतुः । वरस्य जननीं
दृष्टाऽभिधातुमस्मदीयं मनः शत्तं न भवति हि यस्माद्रेहाभिरक्षणविधावन्यो न दृश्य
ते । यद्यप्येवं तथाऽपि दृष्टा कथनस्य फलमेव यथाऽऽवयोर्भवेत्तथेष्टजनसमुदायो
वरस्य मातरं बूयात् । वसन्ततिलका वृत्तम् ॥ ६८ ॥
 अथेदानीं स्वपुत्रीं शिक्षयतो वत्स इत्यादिना। हे वत्सेऽद्य त्वमपूर्वी दशां प्राप्ताऽ
सि हे सुधु तद्रक्षणे तस्या अपूर्वदशाया रक्षणे नित्यं निपुणधीर्भव जनसमूहोपहा



पाणिग्रहात्स्वाधिपती समीरितौ
पुरा कुमार्याः पितरौ ततः परम् ॥
पतिस्तमेकं शरणं व्रजानिशं
लोकद्वयं जेष्यसि येन दुर्जयम् ॥ ७० ॥
पत्यावभुक्तवति सुन्दरि मा स्म भुङ्क्ष्व
याते प्रयातमपि मा स्म भवेद्विभूषा ।
पूर्वापरादिनियमोऽस्ति निमज्जनादौ
वृद्धाङ्गनाचरितमेव परं प्रमाणम् ॥ ७१ ॥
रुष्टे धवे सति रुषेह न वाच्यमेकं
क्षन्तव्यमेवै सकलं स तु शाम्यतीत्थम् ।।
तस्मिन्प्रसन्नवदने चकितेव वत्से
सिध्यत्यभीष्टमनघे क्षमयैव सर्वम् ॥ ७२ ॥




सयोग्यं बालानां व्यवहारं न कुर्या यतः सेयं ते बालविकृतिरावयोरिवापरं न परितो
षयेदिति नकारस्यानुषङ्गेण योज्यं काका वा ॥ ६९ ॥ [ अपूर्वा बाल्योत्तरभाविनीं
पैौगण्डारूयाम् । एतेन नवोढात्वं ध्वन्यते] [तद्रक्षणेऽपूर्वपदद्योतितलोकोत्तरनवोढात्व
परिपालन इत्यर्थः । तत्राङ्करितस्मरसद्भावाद्विचारपरिपाकाभावाचावश्यं धर्मादिभीत्या
भाव्यमिति भावः । नित्यं सर्वदैव । नतु क्षणमात्रम् । सुधु शोभने नन्ने ध्रुवौ यस्मिन्क
मणि यथा स्यात्तथेत्यर्थः । अहो यस्या मम पादतर्जन्यावपि स्वपतिभूतावङ्गष्टौ नैवा
तिक्रामत: सामुद्रिके पातिव्रत्यसूचकलक्षणत्वेन तथोक्तत्वात्तया मया स्वपतिपादपप्र अ
परागेतरनिरीक्षणमपि कथंकारं कार्यमिति समुद्वोधसिद्धयर्थे स्वाङत्रिनिरीक्षणमेव कार्य
मिति तात्पर्यम् ] ॥ ६९ ॥
 किंच पाणिग्रहणाद्विवाहात्पृवै कुमार्याः पितरौ स्वाधिपती समीरितौ तस्मात्पाणि
यहादूध्र्वे पतिः स्वाविपतिः समीरितो यस्मादेवं तस्मात्तं पतिमेकं शरणं व्रज येन शार
णगमनेन पत्या वा लोकद्वयं जेष्यसि । उपजातिवृत्तम् ॥ ७० ॥ [एकं केवलम्]॥७०॥
 किंच हे सुन्दरि पत्यावभुक्तवति मा भुङ्क्ष्व भोजनं त्वया न कर्तव्यं प्रयातं दीघ
ध्वानं पत्यौ गते सति तव विशेषेणालंक्रिया मा भवतु निमज्जनार्दैौ पृर्वपरादिनिय
मोऽस्ति । आदिपदेन भोजनादिकं ग्राह्यम् । तत्र निमज्जानादिकं पत्युः पूर्वं भोजनादिकं
तु पश्चाकर्तव्यमत्र वृद्धाङ्गनानामरुन्धतीलोपामुद्रादीनां चरितमेव परं प्रमाणमेतदेव तव
संौन्दर्यमिति संबोधनाशयः । वसन्ततिलका वृत्तम् ॥ ७१ ॥
 किंच पत्यौ कोपाविष्टे सति त्वया रोषेणैकमपि न वाच्यम् । एकमिति क्षन्तव्य


भर्तुः समक्षमपि तद्वदनं समीक्ष्य
वाच्यो न जातु सुभगे परपूरुषस्ते ॥
किं वाच्य एष रहसीति तवोपदेशः
शङ्का वधूपुरुषयोः क्षपयेद्धि हार्दम् ॥ ७३ ॥
आयाति भर्तरि तु पुत्रि विहाय कार्य
मुत्थाय शीघ्रमुदकेन पदावनेकः ॥
कायों यथाभिरुचि हे सति जीवनं वा
नोपेक्षणीयमणुमात्रमपीह कं ते ॥ ७४ ॥
धवे परोक्षेऽपि कदाचिदेयु
गृहं तदीया अपि वा महान्तः ॥
ते पूजनीया बहुमानपूर्व
नो चेन्निराशाः कुलदाहकाः स्युः ॥ ७५ ॥




मित्यनेन वा संबन्धनीयम् । केवलं क्षन्तव्यमेव स त्वित्थमनेन प्रकारेण स्वयमेव शाम्य
ति प्रसन्ने च तस्मिन्हे वत्से चकितेव स्याः किं बहुना हेऽनघे सर्वमभीष्टं क्षमयैव सि
ध्याति न चेतरथा ॥ ७२ ॥ [ प्रसन्नेति स्मितमुखे सतीत्यर्थः । त्वं चकितेव तं
पश्येति शेषः । तत्र हेतुः । सिध्यतीति ] ॥ ७२ ॥
 तद्वदनं पुरुषान्तरमुखं समीक्ष्य दृष्टा । एष परपुरुषो रहस्येकान्ते । यतः परपुरु
षस्नेहाभाववत्यामपि स्रियामियं परपुरुषस्नेहवतीति शङ्का हार्दमान्तरं स्नेहं नाशयेत्
॥ ७३ ॥ [ अथ सुम्ब्रिाति प्रथमपद्यक्रियाविशेषणसूत्रितमवलोकनभाषणादिनियमं
स्पष्टयतः । भर्तुरिति । जातु कदाचिदपीत्यर्थः । ते तव न वाच्यो नैव संभाष्य
इत्यर्थः । किं त्वधो मुखतयैव संभाषणीय इति भावः ] ॥ ७३ ॥
 यथाभिरुच्यभिरुचिमनतिक्रम्य पादावनेक: पादपक्षालनं हे सात जीवनमणुमात्रम
पीह लोके कं सुखं वा ते तव नोपेक्षणीयम् ॥ ७४ ॥ [ कार्य धानोपस्करादिकृत्यं
विहाय । उदकेनोष्णजलेन पदावनेकः पादप्रक्षालनविशेषः कार्यः । तस्य स्वहस्ता
भ्यामेवेति शेषः । किंच यथाभिमतं वस्तु जीवनमुदकं वा शिशिरसुरभिमधुरतरं तस्मै
देयमित्यध्याहृत्य संबन्धः । फलितमाह । नेति । इह संसारे कान्ते भर्तरि विषये ।
शिष्टं तु स्पष्टमेव ] ॥ ७४ ॥
 धवे पत्यौ परोक्षे बहिर्गते सति । उपजातिवृत्तम् ॥ ७५ ॥

पित्रोरिव श्वशुरयोरनुवार्तितव्यं
तद्वन्मृगाक्षि सहजेष्वपि देवरेषु ॥
ते त्रेहिनो हि कुपिता इतरेतरस्य
योगं विभिद्युरिति मे मनसि प्रतर्कः ॥ ७६ ॥
हितोपदेशे विनिविष्टमानसौ
वधूवरौ राजगृहं समीपतुः ॥
लब्धानुमानौ गुरुबन्धुवर्गतो
बभूव संज्ञोभयभारतीति ॥ ७७ ॥
सा भारती दुर्वसनेन दत्तं
पुनः प्रसन्नेन पुराऽऽत्तहर्षा ॥
शापावाधं संसदि वत्स्यते य
त्सर्वज्ञतानिर्वहणाय साक्ष्यम् ॥ ७८ ॥
स भारतीसाक्षिकसर्ववित्वोऽ
प्यात्मीयशक्त्या शिशुवद्विभातः ॥
स्वशैशवस्योचितमन्वकाङ्क्षी
त्स केशवो यद्वदुदारवृत्तः ॥ ७९ ॥




 पित्रोरिव धशुरयोरनुसरणं त्वया कार्य तथा सहजातेषु सहोदरेषु देवरेष्वपि हे
मृगाक्ष्यनुवर्तितव्यं यतः कुपितास्ते स्नेहवतोऽप्यन्योन्यस्य संयोगं विभिद्युनशयेयुरि
ति मे मनसि प्रतर्कः । सहजेष्वपीत्यत्र सहजेष्विवेति वा पाठः । वसन्ततिलका
वृतम् ॥ ७६ ॥ [ योगं प्रेमैक्यम् ] ॥ ७६ ॥
 हितोपदेशे विनिविष्टं मानसं ययोस्तौ वधूवरौ भारतीमण्डनैौ गुरुबन्धुवर्गतो लब्धा
नुमानौ प्राप्तसत्कारौ राजगृहं समीयतुः समागतौ बभूवेत्यादेरुत्तरेण संबन्धः । उप
जातिवृत्तम् ॥ ७७ ॥ [ गुरुर्भट्टपादः । उभयभारत्युभयत्र पितृकुले भर्तृनिलये च भा
रतीव सर्वज्ञत्वाद्भारतीति संज्ञाऽभिवा सकलशिष्टसंमता बभूवेति संबन्धः ] ॥ ७७ ॥
 योभयभारतीति संज्ञा बभूव सा भारती सरस्वती पुरा पूर्व पुनः प्रसन्नेन दुवाससा
दत्तं शापावधिं सभायां साक्ष्यं यस्य शंकरस्य सर्वज्ञताया निर्वाहाय वत्स्र्थते करि
यति ॥ ७८ ॥
 स भारतीसाक्षिकं सर्ववित्त्वं यस्य तथाभूतोऽपि श्रीशंकरः स्वीयशाक्त्या स्वाधीन.
या मायया शिशुवद्विभातः सन्स्वशैशवस्य बालभावस्योचितं क्रीडोपस्करणादिकमाका


शैशवे स्थितवता चपलाशे
शाङ्गिणेव वटवृक्षपलाशे ॥
आत्मनीदमखिलं विलुलोके
भाविभूतमपि यत्खलु लोके ॥ ८० ॥
तं ददर्श जनताऽदुतबालं
लीलयाऽधिगतनूतनदोलम् ।
वासुदेवमिव वामनलीलं
लोचनैरनिमिषैरनुवेलम् ॥ ८१ ॥
कोमलेन नवनीरदराजि
श्यामलेन नितरां समराज ॥
केशेवेशतमसाऽधिकमस्य
केशवेशचतुरास्यसमस्य ॥ ८२ ॥




ङ्क्षितवान् । तत्र दृष्टान्तो यथोदारचरितः स प्रसिद्धः केशवः श्रीकृष्णः स्वमायया
शिशुवद्विभातः सन्स्वशैशवस्योचितमन्वकाङ्क्षीत्तथेत्यर्थः ॥ ७९ ॥
 चपलाऽऽशा यस्मिन्नेवंभूतेऽपि शैशवे बाल्ये स्थितवता भावि भूतं च यदिदं ख
लु लोकेऽस्ति तदखिलमात्मानि विलुलोके सम्यगवलोकितम् । कर्मणि लिट् । तत्र
दृष्टान्तो यथा वटवृक्षस्य पलाशे पत्रे स्थितवता शाङ्गिणा श्रीविष्णुना यदिदं तदखि
लमात्मन्यवलोकितं तद्वदित्यर्थः । स्वागता वृत्तम् । ‘स्वागतेति रनभादुरुयुग्मम्’ इति
लक्षणात् || ८० ।।
 लीलयाऽविगतः प्राप्तो दोलो येन वामना कमनीया लीला यस्य तमदुतबालं
श्रीशंकरं निमेषोज्झितैर्नेत्रैरनुवेलमनिशं जनसमूहो ददर्श । लीलयाऽविगतदोलं वाम
नलीलमदुतबालं श्रीकृष्णमिव ॥ ८१ ॥
 केशवश्वेशश्च चतुरास्यश्च तैर्विष्णुशिवविधिभिः समस्य तुल्यस्यास्य श्रीशंकरस्य
केशपाशतमसाऽधिकं यथा स्यात्तथा समराजि सम्यक्शोभितं तद्विशिनष्टि कोमलेन
पुनश्च नवनीरदानां नवीनजलदानां या राजिः पङ्किस्तद्वच्छन्यामलेनातृिश्यामेनेत्य
थे: ॥ ८२ ॥


शाक्यैः पाशुपतैरपि क्षपणकैः कापालिकैवैष्णवै
रप्यन्यैरखिलैः स्वलैः स्वलु खिलं दुर्वादिभिर्वेदिकम् ॥
पन्थानं परिरक्षितुं क्षितितलं प्राप्तः परिक्रीडते
घोरे संसृतिकानने विचरतां भद्रकरः शंकरः ॥ ८३ ॥
इति श्रीमाधवीये तत्तद्देवावतरार्थकः ।।
संक्षेपशंकरजये तृतीयः सर्ग आभवत् ॥ ३ ॥


अथ चतुर्थः सर्गः ।


अथ शिवो मनुजो निजमायया
द्विजगृहे द्विजमोदमुपावहन् ।।
प्रथमहायन एव समग्रही
त्सकलवर्णमसौ निजभाषिकाम् ॥ १ ॥
द्विसम एव शिशुर्लिखिताक्षरं
गदितुमक्षमताक्षरवित्सुधीः ॥
अथ स काव्यपुराणमुपाशृणो
त्स्वयमवैत्किमपि श्रवणं विना ॥ २ ॥




 शाक्या बौद्धाः क्षपणका दिगम्बराः सर्वे: शाक्यादिदुर्वादिभिः खलु प्रसिद्धं खि
लमुच्छित्रं वैदिकं मार्ग परिरक्षितुं भूतलं माप्तो घोरे संसारारण्ये विचरतां भद्रं सर्वान
थेनिवृत्तिपुरःसरपरमानन्दमाप्तिलक्षणं मोक्षाख्यं कल्याणं करोतीति भद्रंकरोऽन्वर्थमंज्ञ
श्रीशंकरः परिक्रीडते स्म । शार्दूलविक्रीडितं वृत्तम् ॥ ८३ ॥ [ इति श्रीति । अव
वरोऽवतारः ॥ ८४ ॥ ]
 इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यदत्तवंशावतंस
 रामकुमारसूनुधनपतिसूरिकृते श्रीमच्छकराचार्यविजयडिण्डिमे तृतीयः सर्गः ॥३॥

अथ चतुर्थसर्गस्य टीका ।


 प्राकृतशिशुविलक्षणं तस्य चरितं दर्शयितुमुपक्रमते । अथेति । शिवो निजमाय
था मनुष्यः सन्विपगृहे द्विजस्य शिवगुरोः पीर्ति संपादयन्प्रथमवर्षे एव सर्वमक्षरं नि
जभाषां च सम्यग्गृहीतवान् । ‘हृतांवलम्बितमाह नौ भरौ' वसुयुगविरति ॥ १ ।।
[ प्रथमेति । ‘हायनोऽस्त्रीशरत्समाः' इत्यमरः ] ॥ १ ॥
 ततो द्वितीयवर्ष एव स बालकः सुबुद्धित्वादक्षरज्ञो िलखिताक्षरमुचारयितुं समर्थोऽ
मूत् । अथानन्तरं तृतीयवर्षे स शिशुः काव्यानि पुराणानि च श्रुतवान् । किमपि श्र

अजनि दुःस्वकरो न गुरोरसौ
श्रवणतः सकृदेव परिग्रही ॥
सहनिपाठजनस्य गुरुः स्वयं
स च पपाठ ततो गुरुणा विना ॥ ३ ॥
रजसा तमसाऽप्यनाश्रितो
रजसा खेलनकाल एव हि ॥
सकलाश्चापि लिपीरविन्दत ॥ ४ ॥
सुधियोऽस्य विदिद्युतेऽधिकं
विधिवचौलविधानसंस्कृतम् ।
ललितं करणं घृताहुतिज्व
लितं तेज इवाऽऽशुश्रुक्षणेः ॥ १५ ॥
उपपादननिव्र्यपेक्षधीः स
पपाठाऽऽत्दृतिपूर्वकागमान् ।
अधिकाव्यमरंस्त कर्कशेऽ
प्यधिकांस्तर्कनयेऽत्यवर्तत ॥ ६ ॥




वणं विना स्वयमेव ज्ञातवान् ॥ २ ॥ [शिशुः कुमारलीलः श्रीशंकरः । यतः सुधीः
कुशाग्रबुद्धिः । पक्षे शोभना वीर्यस्मात्स तथा ब्रह्मविद्याप्रद इत्यर्थः । अतोऽक्षरवि
लखनज्ञ इात यावत् । पक्षऽक्षरा मोक्षफलतोऽविनाशिनी विज्ज्ञानं यस्य स तथा मु
क्तिमदप्रमाविषयः ] ॥ २ ॥
 असॉ शिंशुर्गुरोर्तुःखकरो नाभूत् । यतः सकृदेव श्रवणात्परिग्रहणशीलः सहाध्यायिः
जनस्य स्वयं गुरुः स च श्रवणादनन्तरं गुरुणा विना पाठ ॥ ३ ॥
 रजोगुणेन तमोगुणेन चानाश्रितोऽधूल्या खेलनकाल एव हि प्रसिद्धं स शिशुः
कलाधरेभ्यः श्रेष्ठस्य सुतः सर्वा अपि लिपीज्ञतवान् । वियोगिनी वृत्तम् ॥ ४ ॥
[ कलाधरति । कलानां चतुःषष्टिकलानामुपलक्षणमिदमष्टादशविद्यानामपि । धरा
धारणकर्तारस्तेषु सत्तमः श्रेष्ठः शिवगुरुस्तस्याऽऽत्मजः पुत्र इत्यर्थः ] ॥ ४ ॥
 अस्य सुधियः श्रीशंकरस्य विधिवचूडाकर्मणो विधानेन संस्कृतं सुन्दरं करणं गात्रं
शारीरम् ।'करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमरः । विदिद्युते विशेषेण शुशुभे
घृतस्याऽऽछुतिभिज्र्वलितमग्रेस्तेज इव ॥ ५ ॥
 उपपादने निव्यैपेक्षाऽपेक्षारहिता धीर्यस्य स श्रीशंकरो भूमभृतिव्याहृतिपूर्वकान्वे


हरतस्त्रिदशेज्यचातुरीं
पुरतस्तस्य न वतुमीश्वराः ।
प्रभवोऽपि कथासु नैजवा
ग्विभवोत्सारितवादिनो बुधा ॥ ७ ॥
अमुकक्रमिकोक्तिधोरणी
मुरगाधीशकथावधीरिणीम् ।
मुहुर्निशमय्य वादिन
प्रतिवाक्योपहृतौ प्रमादिनः ॥ ८ ।।
कुमतानि च तेन कानिनो
न्मथितानि प्रथितेन धीमता ।।
स्वमतान्यपि तेन स्वण्डिता
न्यतियत्रैरपि साधितानि कैः ॥ ९ ॥




दान्पपाठ किंचाधिकाव्यमरंस्त काव्ये तु क्रीडां कृतवानपिच कर्कशेऽतिकठिनेऽपि त
कैनये येऽधिकास्तानतिक्रान्तवान् ॥ ६ ॥ ['आहृतेति । आहृत भागमशाब्दिताखि
लतश्रग्रन्थान्प्राति शासुमुद्युक्तायां गौर्या सत्यां शिवेन तेभ्यः सकाशादाकृष्य कक्षपुट्यां
निवेशितत्वात्कक्षपुटीति नाम्रा प्रसिद्धम्तत्रविशेषः स पृर्वः प्रथमो येषां ते च त भागमा
मत्रशास्त्रग्रन्थास्तानित्यर्थः । तथा अभधीति अधिकं काव्यं येन तत्तथा रसालंकारा
दिसाहित्यशास्त्रमित्यर्थः । एवं चाथ स काव्येति द्वितीयश्लोकोत्तरार्धगतकाव्यपदेन
सहास्य न पौनरुक्त्यम् । अरंस्त ज्ञातवानित्यर्थः ] ॥ ६ ॥
 नैजायाः स्वकीयाया वाचो वैभवेनोत्सारिता दूरीकृता वादिनो यैस्ते बुधाः पण्डि
ता वादजल्पवितण्डौख्यासु कथासु प्रभवः समर्था अपि देवानां पूज्यस्य गुरोर्वाचस्पते
श्रधातुरीं हरतस्तस्य शिवगुरोः कुमारस्य संमुखे वतुं प्रभवो न बभूवुरित्यर्थः ॥ ७ ॥
 किंच सपधीशस्य शेषस्य कथाया अप्यवधीरिणीं तिरस्करिणीमनुज्य क्रमेणोचा
रणस्य परिपाटीं श्रुत्वा वादिनो मुहुमऽहं प्रापुर्यत: प्रतिवचनस्य व्याहृतौ ममा
दवन्तः ॥ ८ ॥ [ अमुकेति । वादिनो यावद्वेदवादिनः । अमुकस्य पूर्वप्रकृतस्य
श्रीशंकराचार्यस्य क्रमिका कथा क्रमादागतैतादृशी योक्तिवाक्यव्यक्तिस्तस्या या धो
रणी संघातविशेषस्तामित्यर्थः ] ॥ ८ ॥
 किच मरूयातेन बुद्धिमता तेन श्रीशंकरेण कानि कुमतानि नोन्मथितान्यपितु स



मूले पपाठाऽऽहृतीत्यत्र ‘पपाठाऽऽहृति' पाठानुरोधेनेदम् ।




अमुना तनयेन भूषितं
यमुनातातसमानवर्चसा ॥
तुलया रहितं निजं कुलं
कलयामास स पुत्रिणां वरः ॥ १० ॥
शिवगुरुः स जरंख्रिसमे शिशा
वमृत कर्मवशः सुतमोदितः ॥
उपनिीषितसूनुरपि स्वयं
नहि यमोऽस्य कृताकृतमीक्षते ॥ ११ ॥
इह भवेत्सुलभं न सुतेक्षणं
न सुतरां सुलभं विभवेक्षणम् ॥
सुतमवाप कथंचिदयं द्विजो
न खलु वीक्षितुमैष्ट मुतोदयम् ॥ १२ ॥
मृतमदीदहदात्मसनाभिभिः
पितरमस्य शिशोर्जननी ततः ।।
समनुनीतवती धवस्खण्डितां
स्वजनता मृतिशोकहरैः पदैः ॥ १३ ॥




वर्वाण्येवोन्मथितानि तेन खण्डितानि स्वमतान्यतिप्रयत्नैरपि कैः साधितानि न कैरपी
त्यर्थः ॥ ९ ॥ [ धीमताऽलौकिकमज्ञावता ] ॥ ९ ॥
 स पुत्रवतां मध्ये श्रेष्ठः शिवगुरुः स्वीयं कुलं यमुनातातेन सूर्येण समानं वर्चस्ते
जो यस्य तेनामुना पूत्रेणालंकृतं तुलयेोपमया रहितं कलयामास चकार दशेति
वा ॥ १० ॥ [ कलयामास मेने ] ॥ १० ॥
 स शिवगुरुः सुतेन मोदं प्रापितः स्वयमुपनिीषित उपनयं कर्तुमिष्टः सूनुर्येन
तथाभूतोऽपि जरां गच्छञ्शिौ त्रिहायने सति कर्माधीनेोऽमृत मृतो हि यस्मादस्य
जन्तोः कृताकृतमिदमनेना कृतमिदमनेनाकृतमिति यमो न पश्यति । द्रुतविलम्बितं
वृत्तम् ॥ ११ ॥
 अस्मिन्संसारे सुतस्येक्षणं सुलभं न भवति सुतविभवस्येक्षणं तु सुतरां सुलभं न
भवतीत्यस्मिन्नर्थे शिवगुरुरेव निदर्शनमित्याशयेनाऽऽह । इहेति । अयं द्विजः सुतं
कथंचिदवाप परंतु सुतस्य वैभवं द्रष्टुं समर्थो नैवाभूत् ॥ १२ ॥
 तदनन्तरमस्य शंकरस्य पितरं शिशोर्जननी स्वसपिण्डैरदीदहत्ततो धवेन पत्या
खण्डितां रातिां सतीं स्वजनता मृतिशोकहरैः पदैनयमत्यन्तसंवासः कस्यचित्केन
चित्कचिदपि स्वेन शरीरेण किमुतान्यैः पृथग्जनैरित्यादिभिः समाश्वासितवती ॥ १३ ॥

कृतवती मृतचोदितमक्षमा
निजजनैरपि कारितवत्यसौ ।।
उपनिनीषुरभूत्मुतमात्मन
परिसमाप्य च वत्सरदीक्षणम् ॥ १४ ॥
उपनयं किल पञ्चमवत्सरे
प्रवरयागयुत मुहूतक ॥
द्विजवधूर्निपता जननी शिशो
व्र्यधित तुष्टमनाः सहबन्धुभिः ॥ १५ ॥
अधिजगे निगमांश्चतुरोऽपि स
क्रमत एव गुरोः सषडङ्गकान् ॥
अजनि विस्मितमत्र महामतौ
द्विजसुतेऽल्पतनौ जनतामनः ॥ १६ ॥
सहनिपाठयुता बटवः समं
पठितुमैशत न द्विजसूनुना ॥
अपि गुरुर्विशयं प्रतिपेदिवा
न्क इव पाठयितुं सहसा क्षमः ॥ १७ ॥




[ अस्य शिशोरिति देहलीदीपन्यायेन पितरमित्यत्रापि संबध्यते ] [ स्वेति । स्व
जनसंहृतिरित्यर्थः ] १३ ॥
 मृतस्य यद्विहितं स्वेन कर्तु शक्यं तत्स्वयं कृतवती यत्रासमर्था तत्स्वजनैरप्यौ
सती कारितवती किंच संवत्सरदीक्षां परिसमाप्य स्वस्य सुतमुपनिनीषुरभूत् ॥ १४ ॥
[ भक्षमा शोकातिशायादसमर्थाऽपि । मृतेति । वपनस्नानादिकं मृतोद्देशेन विहितं
कर्मेत्यर्थः ] १४ ॥
 प्रवरयोगयुते श्रेष्ठयोगयुक्त नियता नियमयुक्तोपनयं व्याधित कृतवनी ॥ १५ ॥
[ द्विजेति । निरुक्तशिवगुरुपत्नी । नियता विधवाधर्मनियमयुक्ता सतीत्यर्थः । यतो
जनन्यतो बन्धुभिः संबन्विभिः सह । तुष्टेति । एतादृशी च सती । शिशोः श्री
शाकराचायोरूयस्वपुत्रस्य ] ॥ १५ ॥
 शिक्षादिभिः षड्राभरडैः सहितांश्चतुरोऽपि वेदान्क्रमेण स गुरोः सकाशादविजगेऽ
ध्ययनेनावाप । अत्रास्मिन्द्विजसुतेऽल्पशरीरे महामतैौ सति विषये वा जनताया हृद
विस्मितमजायतात्रास्मिलोक इति वा ॥ १६॥ [ क्रमत एवर्गद्यनुक्रमेणैव] ॥१६॥
 सहनिपाठ: सहाध्ययनं तेन युक्ता बटवो द्विजपुत्रेण सह पठितुं समर्था नाभूव-इ
। किंच सहसा पाठयितुं कः समर्थ इति संशयं गुरुरपि प्राप्तवानिव ॥ १७ ॥

अत्र किं स यदशिक्षत सर्वा
श्चित्रमागमगणाननुवृत्तः ॥
द्वित्रमासपठनादभवद्य
स्तत्र तत्र गुरुणा समविद्यः ॥ १८ ॥
वेदे ब्रह्मसमस्तदङ्गनिचये गाग्र्योपमस्तत्कथा
तात्पर्यार्थविवेचने गुरुसमस्तत्कर्मसंवर्णने ।।
आसीजैमिनिरेव तद्वचनजमोद्धोधकन्दे समो
व्यासेनैव स मूर्तिमानिव नवो वाणीविलासैर्तृतः ॥ १९ ॥
आन्वीक्षिक्यैक्षि तत्रे परिचितिरतुला कापिले काऽपि लेभे
पीतं पातञ्जलाम्भः परमपि विदितं भाट्टंघट्टार्थतत्त्वम् ॥
यत्तेः सौख्यं तदस्यान्तरभवदमलाद्वैतविद्यासुखेऽस्मि
न्कूपे योऽर्थः स तीर्थे मुपयसि वितते हन्त नान्तर्भवेत्किम् ॥२०॥




 यो द्वित्रमासपठनात्तत्र तत्र शास्त्रे गुरुणा तुल्यविद्योऽभवत्स गुरुमनुसृतो यत्सर्वा
नागमगणाञ्शिक्षितवानत्र किं चित्रं न किमपीत्यर्थः । स्वागतावृत्तम् ॥ १८ ॥
वेदे ब्रह्मसमश्चतुर्मुखतुल्य आसीत् । वेदाङ्गसमुदाये शिक्षादौ गाग्र्यसदृश आसी
त् । वेदतदङ्गकथातात्पर्यविवेचने वाचस्पतितुल्य आसीत् । वेदोक्तकर्मसंवर्णने जैमि
निरेवाऽऽसीत् । वेदवचनजन्यतत्त्वज्ञानस्य मूले व्यासेनैव तुल्यः । किंच स मूर्तिमान्न
वनिो व्यास इव वाणीविलासंवृतः संयुत आसीत् । शार्दूलविक्रीडितम् ॥१९॥ [ मू
तति । लोकदृशाऽऽकृतिशालीव सन्नित्यर्थः । एतेन स्वदृष्टया तत्राद्वैतब्रह्मात्मत्वमे
वेति द्योत्यते ] [ शिक्षाद्यङ्गेषु गाग्र्यस्यातिपाटवं पुराणादितो ज्ञेयम् ] ॥ १९ ॥
 अान्वीक्षिकी तर्कविद्या तेनैक्षि सम्यगीक्षिता कापिले तत्रे कपिलप्रणीते सांख्यशास्त्रेऽ
नुपमा काऽपि परिचितिः परिचयो लेभे । कर्मणि लिट् । तेन लब्धेत्यर्थः । पतञ्जलिपणी
तशास्त्रात्मकं जलं तेन पीतं भाट्टस्य भट्टपादप्रणीतस्य वार्तिकस्य घट्टानां प्रघट्टकाना
मर्थस्य तत्त्वं परमपि तेन विदितं परमपीत्यस्य पूर्वेण वा संबन्धः । किंच यतैस्तर्क
शास्त्रादिभिः सुखं तदस्य श्रीशंकरस्यामलं च तदद्वैतं च तस्य या विद्याऽमला चासा
वद्वैतविद्येति वा तस्याः सुखेऽस्मिन्नपरोक्षेऽन्तरभवत् । कूपे यो जलपानादिरूपोऽर्थः
स शोभनजले विस्तृते गङ्गादौ तीर्थे किमन्तर्न भवेदपि तु भवेदेव । तथाच स्मृतिः ।
{{block center|'यावानथै उदपाने सर्वतः संमुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः' इति ।



स हि जातु गुरोः कुले वस
न्सवयोभिः सह भैक्ष्यलिप्सया ॥
धनहीनस्य विवेश कस्यचित् ॥ २१ ॥
तमवोचत तत्र सादरं
बटुवर्य गृहिणः कुटुम्बिनी ॥
कृतिनो हि भवादृशेषु ये
चरिवस्यां प्रतिपादयन्ति ते ॥ २२ ॥
विधिना खलु वञ्चिता वयं
वितरीतुं बटवे न शक्नुमः ।।
अपि भैक्ष्यमाकंचनत्वतो
धिगिदं जन्म निरर्थकं गतम् ॥ २३ ।।




स्रग्धरा वृत्तम् ॥ २० ॥ [ आन्वीक्षिकी ।
आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः'


 इत्यमरात्कणाद्गौतमोभयरचिततर्कविद्येत्यर्थः] [भाट्रेति । भट्टस्य प्रांगुंक्तकुमारिल
भट्टाचार्यस्येदं भाटं तत्प्रणीतद्वादशलक्षणीशाबरभाष्यवार्तिकं तस्य यानि घट्टानि
मामाण्यवादादिमघट्टानि तेषां यदर्थतत्त्वं तात्पर्यार्थरहस्यं तत्तथेत्यर्थः । विदितं कृप्त
मिति यावत् ] [ अमलेति । अखिलदृश्येन्द्रजालमलविहीनस्वपकाशाद्वैतब्रह्मा
स्मैक्यापरिच्छिन्नानन्द इत्यर्थः ] ॥ २० ॥
 एवंभूतः स भगवाञ्शैकरो गुरोः कुले वसन्कदाचिद्वैक्ष्यंप्राप्तीच्छयाँ वयस्यैः सह
धनहीनस्य कस्यचिद्विपस्य गृहं प्रविष्टवान् ।वियोगिनी वृतम् ॥ २१ ॥[ सवयोभिः
समानवयस्कैर्बह्मचारिभिः सहेत्यर्थः ] ॥ २१ ॥
 ये भवादृशेषु वरिवस्यां परिचयाँ प्रतिपादयन्ति ते कृतिनः कृतार्था ये पुण्यवन्तस्ते
भवादृशेषु वरिवस्यां प्रतिपादयन्तीति वा ॥ २२ ॥ [ ये कृतिनः कृतानन्तसुकृतास्त
एव भवादृशेषु भवत्समेष्वित्यर्थः । अवच्छेदकत्वं सप्तम्यर्थः । वरिवस्यां ‘वरिवस्या
तु शुश्रूषा' त्यमरादुचितोपचारैः सेवामिति यावत् । प्रतिपादयन्ति संपादयन्तीत्यन्वयः ।
एवं चोपचारानुकूलधनाद्यभावलिङ्गानुमितजन्मान्तरीयमुकृतव्यतिरेकाद्वयं तु नैव तथा
भवाम इति भावः ] ॥ २२ ॥
 वयं तु दैवेन वञ्चिता यतोऽकंचनत्वाद्वैक्ष्यमपि बटवे दातुं न शाकुमः ॥ २३ ॥



 * अत्र सर्वेष्वप्यादर्शपुस्तकेषु भैक्ष्यमित्येव पाठो दृश्यते स च स्वार्थेष्यत्रा कथंचिद्योज्यः। अद्वैतराज्यलक्ष्म्यनुसारेण तु भैक्षमिति यकारहित एव पाठो दृश्यते ।


इति दीनमुदीरयन्त्यसौ
प्रददावामलकं व्रतीन्दवे ।।
करुणं वचनं निशम्य सोऽ
प्यभवज्ज्ञाननिधिर्दयाद्रधीः ॥ २४ ॥
स मुनिर्मुरभित्कुटुम्बिनीं
पदचित्रैर्नवनीतकोमलैः ।।
मधुरैरुपतस्थिवांस्तवै
जिदारियदशानिवृत्तये ॥ २५ ॥
अथ कैटभजित्कुटुम्बिनी
तडिदुद्दामनिजाङ्गकान्तिभिः ।
सकलाश्च दिशः प्रकाशय
न्त्यचिरादाविरभूत्तदग्रतः ॥ २६ ॥
अभिवन्द्य सुरेन्द्रवन्दितं
पदयुग्मं पुरतः कृताञ्जलिम् ॥
ललितस्तुतिभिः प्रहर्षिता
तमुवाच स्मितपूर्वकं वचः ॥ २७ ॥




 इत्येवं दीनं कथयन्त्यसौ गृहस्थस्य कुटुम्बिनी व्रतिचन्द्राय श्रीशंकरायाऽऽमलकं
प्रकर्षेण भाक्तपूर्वकं ददौ । तदीयं करुणं वचनं श्रुत्वा ज्ञाननिधिः सोऽपि दया
बुद्धिरभवत् ॥ २४ ॥ [ वतीन्दवे व्रतिषु ब्रह्मचारिषु मध्य इन्दुरिव चन्द्र इव
शान्तं प्रकाशमानायेत्यर्थः] । २४ ।।
 स मुनिः श्रीशंकरः पदचित्रैर्नवनीतवत्कोमलैर्मधुरैः स्तवैर्मुरारूयासुरविदारकस्य वि
ष्णोः कुटुम्बिनीं लक्ष्मीं द्विजदारियदशानिवृत्तय उपासितवान् ॥ २५ ॥ [ पदेति ।
शब्दालंकारसंग्रहार्थम् । नवनीतेति । माधुर्याख्यगुणग्रहणार्थम् । मधुरपदेन रसार्थालं
कारयोर्यहः ] ॥ २५ ॥
 अथानन्तरं कैटभारूयासुरजितो विष्णोः कुटुम्बिनी विद्युद्वदुद्दामभिः स्वतश्राभिः स्वा
जुङ्गानां कान्तिभिः सकला अपि दिशः प्रकाशयन्ती सद्यः श्रीशंकररामे प्रादुरभूत् ॥२६॥
 देवेन्द्रवन्दितं पदद्वंद्वमभिवन्द्य कृताञ्जलिं पुरतः स्थितं श्रीशंकरं ललितस्तुतिभिः महर्षे
माप्ता स्मितपूर्वकं वचनमुवाच ॥ २७ ॥

विदितं तव वत्स् ह्र्द्रतं
कृतमेभिर्न पुराभवे शुभम् ॥
अधुना मदपाङ्गपात्रता
कथमेते महितामवाप्नुयुः ॥ २८ ॥
इति तद्वचनं सं शुश्रुवा
निजगादाम्ब मपीदमर्पितम् ।।
दयनीयो यदि तेऽहमिन्दिरे ॥ २९ ॥
अमुना वचनेन तोषिता
कमला तद्भवनं समन्ततः ।।
कनकामलकैरपूरय
जनताया हृदयं च विस्मयैः ॥ ३० ।।
अथ चक्रभृतो वधूमये
मुकृतेन्तार्धमुपागते सति ।
प्रशशंसुरतीव शंकरं
महिमानं तमवेक्ष्य विस्मिताः ॥ ३१ ॥




 पुराभवे पूर्वजन्मनि मदपाङ्गस्य मर्दीयकृपाकटाक्षस्य पात्रतालक्षणां पूज्यताम् ॥२८॥
[ शुभं सुकृतम् । महितां पूजिताम् । एतादृशीम् । मदपाङ्गेति । मत्कृपाकटाक्षविष
यतामित्यर्थः ] ॥ २८ ॥
 इति तद्वचनं श्रुत्वा स उवाच । हेऽम्ब यद्यप्येवं तथाऽप्यद्येदमामलकारूयं फलं
मय्यर्पितं तस्य फलं ददस्व ह इन्दिरे यद्यहं तवानुकम्प्यः ॥ २९ ॥
 अमुना तथाभूतेन वचनेन श्रीशांकरेण वा तोषिता लक्ष्मीः सुवर्णामलकैः समन्ता
द्विजगृहमपूरयत् । जनसमुदायस्य हृदयं च विस्मयैरपूरयत् ॥ ३० ॥ [ अमुनेति ।
तुल्ययोगितालंकारः । तदुक्तम् ।

ण्यनामितरेषां च धर्मेक्यं तुल्ययोगिता ।
संकुचन्ति सरोजानि स्वैरिणीवदनानि च' इति ] ॥ ३० ॥


 अथ चक्रधरस्य िवष्णोर्वधूमये पूण्येऽन्तर्धानं गते सति तथाभूतं महिमानमवेक्ष्य
विस्मयं प्राप्ता जनाः श्रीशंकरमत्यन्तं प्रशशंसुः ॥ ३१ ॥


दिवि कल्पतरुर्यथा तथा
भुवि कल्याणगुणो हि शंकरः ।
सुरभूमुरयोरपि प्रियः
समभूदिष्टविशिष्टवस्तुदः ॥ ३२ ॥
अमरस्पृहणीयसंपर्द
द्विजवर्यस्य निवेशमात्मवान् ।
स विधाय यथापुरं गुरो
सविधे शास्रवराण्यशिक्षत ॥ ३३ ॥
वरमेनमवाप्य भेजिरे
परभागं सकलाः कला अपि ।
समवाप्य निजोचितं पतिं
कमनीया इव वामलोचनाः ॥ ३४ ॥
सरहस्यसमग्रशिक्षिता
खिलविद्यस्य यशस्विनी वपुः ॥
उपमानकथाप्रसङ्गम
प्यसहिष्णु श्रियमन्वपद्यत ॥ ३५ ॥




 स्वर्गे कल्पवृक्षेो यथा तथा भूमौ कल्याणगुणः शंकर इष्टानि यानि श्रेष्ठानि वस्तू
नि तानि ददातीति तथाभूतः समभूत् । किंच स तु देवमियोऽयं तु देवस्य विप्रस्य
चत्र पियः ॥ ३२ ॥
 एवमाकृतं तचरितमुपवण्योपसंहरति । अमरैर्देवैः प्रार्थनीया संपद्यस्मिन्नेतादृशं
द्विजश्रेष्ठस्य गृहं विधाय स आत्मवान्यथापूर्वं गुरोः सविधे समीपे शास्त्रवराण्यशिक्षत
॥ ३३ ॥ [ अशिक्षताभ्यस्तवानित्यर्थः ] ॥ ३३ ॥
 वामलोचनाः कपटदृष्टयः स्त्रियः कमनीयाः सुन्दर्यः स्वोचितं पतिं प्राप्य यथा परं
भागं भाग्यं प्राप्नुवन्ति तथा सर्वाः कला अप्येनं श्रीशंकरं वरं माप्य परं भाग्यं
मापुरित्यर्थः ॥ ३४ ॥ [ कलाः संगीताद्याः । सकलाः संपूर्णाश्चतुःषष्टिसंख्याकत्वेन
शास्त्रान्तरप्रसिद्धा अपीत्यर्थः ] ॥ ३४ ॥
 सरहस्यं समयं यथा स्यात्तथा शिक्षिताऽखिला विद्या येन तथाभूतस्य यशस्विनः
श्रीशंकरस्य वपुः शारीरमुपमानकथायाः प्रसङ्गमप्यसहिष्ण्वपूर्वा शोभां प्राप्तवत् ॥ ३५॥



जयति स्म सरोरुहप्रभा
मदकुण्ठीकरणक्रियाचणम् ।।
द्विजराजकरोपलालितं
पदयुग्मं परगर्वहारिणः ॥ ३६ ॥
जलमिन्दुमाणिं स्रवेद्यदि
यदि पदं दृषदस्ततः सरः ॥
यदि तत्र भवेत्कुशेशयं
तदमुष्याङ्कघितुलामवामुपात् ॥ ३७ ॥




 अथ श्रीशांकरस्य पादाद्यवयवं वर्णयिष्यन्नादौ तदीयपदर्युग्मं वर्णयति । जयति
स्मेत्यादिना । सरोरुहस्य कमलस्य यः प्रभामदस्तस्य या कुण्ठीकरणक्रिया तया
वित्तं प्रतीतम् । ‘तेन वितश्रुप्चणपौ' इति सूत्रेण चणप्प्रत्ययः । यतो द्विजराजस्य
चन्द्रस्य करैः किरणैर्द्धिजराजानां विमाणां इस्तैश्चोपलालितं परेषां वादिनां गर्व हर्तु
शीलमस्यास्तीति तथा तस्य चरणयुग्मं जयति स्म ॥ ३६ ॥[ परेति । परे भेदवा
दिनस्तेषां यो गर्वो द्वैतस्थापनाभिनिवेशस्तं हरति तच्छीलस्तस्येत्यर्थः ] ॥ ३६ ॥
 यदि जलामिन्दुमणिं चन्द्रकान्तमाणिं स्रवेद्यदि च दृषदः कमलं भवेद्यदि च त
स्मात्कमलात्सरस्तडागो भवेद्यादि च तस्मिन्सरासि कुशेशायं भवेत्तदा तत्कमलममुष्य
पादसादृश्यं प्राप्नुयात् ।

‘संभावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये' ॥ ३७ ॥


 [अत्र भवेत्सरोरुहमिति त्यक्त्वा भवेत्कुशेशयमिति विशेषोक्त्या शयनं शयः कुशे
दर्मेषु शयो यस्य तत्तथेति व्युत्पत्तिसूचितश्लेषात्मकृतपदपक्षेऽपि योजनं ध्वन्यते
निरुक्तनायकस्य तदानीं ब्रह्मचारित्वेन दर्भशाय्यौचित्यादित्याशयः । अत्र औौढोक्ति
संभावनाश्लेषादयोऽलंकाराः । तदुक्तम् ।

‘प्रौढोक्तिरुत्कर्षाहेतौ तद्धेतुत्वपकल्पनम् ।
कचाः कलिन्दजातीरतमालस्तोममेचकाः ।।
संभावना यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये ।
यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव' इति ] ॥ ३७ ॥



पादौ पद्मसमौ वदन्ति कतिचिच्छीशंकरस्यानधौ
वक्त्रं च द्विजराजमण्डलनिभं नैतइयं सांप्रतम् ॥
प्रेष्यः पञ्चपदः किल त्रिजगति ख्यातः पदं दत्तवा
नम्भोजे द्विजराजमण्डलशतैः प्रेष्यैरुयास्यं मुखम् ॥ ३८ ॥
मुहुः सन्तो नैजं हृदयकमलं निर्मलतरं
विधातुं योगीन्द्राः पदकमलमस्मिन्निद्धति ॥
दुरापां शक्राचैर्वमति वदनं यन्नवसुधां
ततो मन्ये पमात्पदमधिकमिन्दोश्च वदनम् ॥ ३९ ॥




 केचिच्छूीशंकरस्यानघौ पादौ पद्मसमौ वदन्ति मुखं च चन्द्रमण्डलसमं वदन्ति
नैतद्वयं न्याय्यं यतः प्रेष्योऽनुचरो जगति रूयातः पञ्चपादः पद्ये पदं दत्तवांस्तथा
मुखं ब्राह्मणलक्षणचन्द्रमण्डलशतैः प्रेष्यैरुपास्यम् । अत्र नैतदित्यादिनोपमित्यनिष्पत्ते
रुद्धाटनात्प्रतीपालंकारः ।

वण्र्येनान्यस्योपमाया अनिष्पतिवचश्च तत्


 इत्युक्तेः । शार्दूलविक्रीडितं वृत्तम् ॥ ३८ ॥ [ भत्र पादवर्णनपकरणेऽपि मुख
वर्णनं तु कवेर्मनसि तत्कालावच्छेदेन मानसतन्मूत्र्याविर्भावेन तदाननानुसंधानादेवेति
ध्येयम् । अत्र प्रतीपविशेषो हेतुश्चालंकारः । तदुक्तम् ।

वण्र्येनान्यस्योपमाया अनिष्पतिवचश्च तत् ।
मुधापवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम् ।
हेतोर्हेतुमता सार्वे वर्णनं हेतुरुच्यते ।
असावुदेति शीतांशुर्मानच्छेदाय सुश्रुवाम्' इति ] ॥ ३८ ॥


 श्रीशंकरपादवदनयोः पत्रेन्दुभ्यामुत्कृष्टतां प्रकारान्तरेण दर्शयति । मुहुरिति ।
सन्तो योगीन्द्राः स्वीयं हृदयकमलं निर्मलतरं विधातुमस्मिन्हृदयकमले श्रीशंकरस्य प
दकमलं निदधति स्थापयन्ति । यद्यस्माचेन्द्राचैर्तुरापां दुष्पापां ब्रह्मलक्षणां नव्यां सु
धां मुखमुद्रिरत्युद्वमति । यद्यस्येति वा । ततस्तस्मात्पश्मात्पदं चन्द्राच मुखमुत्कृष्टं
मन्ये । शिखरिणी वृत्तम् ॥ ३९ ॥ [निदधति ध्येयतयाऽनुसंदधतीत्यर्थः । यद्यपीदं
जुगुप्साजनकत्वाद्ठीलमेव तथाऽपि प्रयोक्तुः कवेः श्रीमदाचार्यचरणादिचिन्तनरसावि
ष्टचेतस्त्वेन वदनवधानं तत्परिपोषकत्वादुणाधायकमेव नतु दोषावहमित्याकूतम्]॥३९॥


तत्त्वज्ञानफलेग्रहिर्घनतरव्यामोहमुष्टिंधयो
निःशेषव्यसनोदरंभरिघप्राग्भारकूलंकषः ॥
लुण्टाको मदमत्सरादिविततेस्तापत्रयारुंतुदः
पादः स्यादमितंपचः करुणया भद्रकरः शांकरः ॥ ४० ॥
पदाघातस्फोटव्रणकिणितकातन्तिकभुजं
प्रघाणव्याघातप्रणतविमतद्रोहबिरुदम् ।।
परं ब्रप्रैवासौ भवति तत एवास्य सुपदं
गतापस्मारातञ्जगति महतोऽद्यापि तनुते ॥ ४१ ॥




 तत्त्वज्ञानलक्षणं फलं गृह्यातीति तत्त्वज्ञानफलेग्राहिः 'फलेग्रहिरात्मंभरिश्च' इत्युप
स्यैदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । पुनश्च घनतरो यो व्यामोहोऽकत्रात्मास्फुरण
रूपस्तं मुष्टया निष्पीड्य धयाति पिबतीति तथा पुनश्च निःशेषेव्र्यसनैर्भक्तानां समस्त
दुःखैरुदरं बिभर्तीति तथा सर्वव्यसनभक्षकः पुनश्च तेषामघस्य पापस्य यः प्राग्भारोऽ
तिशयस्तस्य कृलं तटं कषति नाशयतीति तथाभूते । नदीवन्मूलोन्मूलकः पुनश्च मद्
मत्सरदम्भादिपङ्गेर्लण्टाकोऽपहारकस्तापानामाध्यात्मिकाधिदैविकाधिभौतिकानां त्रयं व
स्यारुंतुदो मर्मस्पृग्विनाशाकस्तथा मितंपचतीति मितंपचः कदर्यः ।

कदर्ये कृपणक्षद्रकिंपचानमितंपचा ।


 इत्यमरः । तद्विलक्षणोऽमितंपचोऽत्युदार एवंविधः शांकरः पादः कल्याणकरः
स्यात् । शार्दूलविक्रीडितम् ॥४०॥ [ तत्त्वेति । तत्त्वज्ञानमद्वैतबह्मात्मैक्यप्रत्यक्षमेव
फलं गृहाति स्वभक्तजनार्थं स्वनिकटे स्थापयतीति तथा । अत एव । घनेति । घन
तराऽतिगाढ एतादृशो यो व्यामोहस्तस्य मुष्टि धयतीति मुष्टिधयो भक्षक इत्यर्थः ।
तापेति । ‘अरुंतुदस्तु मर्मस्पृक्' इत्यमरात्तापत्रयमर्मोच्छेदकः इत्यर्थः ] ॥ ४० ॥
 यमकिंकरेभ्यो मार्कण्डेयस्य रक्षणसमये पदाघातेन वामचरणप्रहारेण यः स्फोट
स्तस्य ब्रणेन चिह्नितौ कार्तान्तिकौ कृतान्तस्य यमस्य संबन्धिनौ भुजैौ येन तत्प्रघा
णो द्वारबाह्यमकोष्ठः ‘अगाँरकदेशे प्रघणः प्रघाणश्च'इति मघाणशब्दनिपातनाव्युत्पाति
स्तु प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यत इति बोध्या । तत्र यो व्याघातः पादमहा
रस्तेन प्रणतस्य दीर्घनमस्कारवत्प्रकर्षेण नतस्य नम्रभूितस्य ये बाह्याभ्यन्तरा विमताः
शत्रवस्तेषां द्रोह इति बिरुदः प्ररूयातिकरं नामधेयं यस्य । बिरुदशब्दो देशीयश
ब्दः । तत्परं ब्रौवासै श्रीशंकरो भवति ततस्तस्मादेवास्य सुपदं शोभनं चरणं जगत्य
द्यापि महतोऽक्षुद्रस्वभावान्गताऽज्ञानलक्षणापस्माराख्यासुरस्तत्कर्तृकाऽऽर्तिर्येभ्यस्तथा
तांस्तनुने कुरुते । शिखरिणी वृत्तम् ॥ ४१ ॥ [ गतेति । अत्रापस्मारपदेन स्मरणं



प्राप्तस्याभ्युदयं नवं कलयतः सारस्वतोज्भणं
स्वालोकेन विधूतविश्वतिमिरस्याऽऽसन्नतारस्य च ॥
तापं नस्त्वरितं क्षिपन्ति घनतापमं प्रसन्ना मुने
राहूलादं च कलाधरस्य मधुराः कुर्वन्ति पादक्रमाः ॥ ४२ ॥




स्मारोऽपगतः स्मारो येन स तथेति व्युत्पत्त्या महामोह एव तेन याऽऽर्तिः संसारपीडा
सा गता येषां तादृशः प्रध्वस्तद्वैतानित्यर्थः । रोगविशेषपक्षेऽपि दक्षिणस्यां दिशि
व्याघ्रपुरक्षेत्रेऽदभ्रसभायां भगवता चिदम्बरनटेन स्वानन्दलीलानर्तनं कुर्वता चरणघा
तेनैवापस्मारनामा महादैत्यो मर्दित इति पुराणादिप्रसिद्धमेवेतीदानीमपि तद्धयानकर्तृ
णां निरुक्तरोगोपशमः स्यादेवेति भावः ] ॥ ४१ ॥
 नव्यमभ्युदयं प्राप्तस्य सारस्वतं सामुद्रमुज्नृम्भणमुलासं कुर्वतः स्वीयप्रकाशेन वि
धूतं विश्धस्य तिमिरं येन तस्याऽऽसन्नाः संनिधिं प्राप्तास्तारा यस्य तस्य कला
धरस्य षोडशकलस्य चन्द्रस्य पादक्रमाः किरपणचाराः प्रसन्नाः स्वच्छा यथा घनतां
प्राधं तापं शीमं क्षिपन्ति नाशयन्त्याहलादं च कुर्वन्ति तथा नवमभ्युदयं प्राप्तस्य स
रस्वतीप्रतिपाद्ययं सारस्वतं ब्रह्मतत्त्वं तस्योद्दीपनं कुर्वतः स्वस्य पत्यक्चैतन्यस्याऽऽलो
केन प्रकाशेन विधूतं विश्वस्याज्ञानलक्षणं तिमिरं येन तस्य सदैवकारजपाद्यभ्यासशी
लस्य समस्तकलाधरस्य मुनेः श्रीशंकरस्य प्रसन्नाश्चरणन्यासा नोऽस्माकं घनीभूतं सं
सृतिलक्षणं तापं नाशयन्त्याह्लादं ब्रह्मानन्दलक्षणं च प्रकटयन्तीत्यर्थः । शार्दूल
विक्रीडितम् ॥ ४२ ॥ [ सारस्वतेति । सरस्वत्या ऋगादिवेदत्रया इदं सारस्वतमे
तादृशं यदुज्जूम्भणं विकसनं भाष्यादिना तद्वद्याख्यानमित्यर्थः । तदपि नवमभिनव
मेवेत्यर्थः । कलयतः संपादयतः । स्वेति । स्वाद्वैतपबोधेनेत्यर्थः । विधूतेति।
निरस्तसंपूर्णाज्ञानस्येत्यर्थः । आसनेति । ‘एतद्धयेवाक्षरं श्रेष्ठमेतद्धयेवाक्षरं परम्'
इत्यादिना कठवलीवाक्येन प्रणवस्यैव सर्वमश्रश्रेष्ठत्वाभिधानादासन्नः सर्वदा ध्येयत्वेन
निकठस्तारः प्रणवो यस्य स तथेत्यर्थे । एतादृग्विशेषणचतुष्टयविशिष्टस्यात एव
कलाधरस्य कं ब्रह्मसुखं लात्यादत्त इति कला औद्वैतविद्या चतुःषष्टिकलास्तु प्रसिद्धा
एव तस्यास्तासां च धरो धारकस्तस्येत्यर्थः । एतादृशस्य मुनेर्मननशीलस्य श्रीशं
कराचार्यस्येति यावत् । प्रसन्नाः सुरम्याः पादक्रमाः पादमचाराः । नोऽस्माकम् ।
घनतापत्रं गाढतामाप्तम् । एतादृशं तापं भवतापं त्वरितं शीघ्धं क्षिपान्त नाशयन्ति ।
तथा मधुराः सन्तो घनतापन्नमाङ्लादमपि कुर्वन्तीति योजना । कलावरशब्दितचन्द्रपक्षे
तु । सरस्वान्सागरः' इत्यमरः । ‘भं तारा' इत्यपि । ‘पादा रश्म्यङ्धितुर्याशा
इति च। शिष्टं तु स्पष्टमेव । अत्र सारस्वतोऽनृम्भणे तावन्नवत्वमद्वैतमात्रपरत्वमेव ।

नतिर्दत्ते मुक्ति नतमुत पदं वेति भगव
त्पदस्य प्रागल्भ्याज्जगति विवदन्ते श्रुतिविदः ॥
वय तु बूमस्तद्भजनरतपादाम्बुजरज
परीरम्भारम्भः सपदि हृदि निर्वाणशरणम् ॥ ४३ ॥
धवलांशुकपलुवावृतं
विललासोरुयुगं विपश्चितः ॥
अमृतार्णवफेनमञ्जरी
छुरितैरावतहस्तशस्तिभृत् ॥ ४४ ॥




तेन वेदव्याख्यातृषु प्राचीनेषु भट्टभास्करभर्तृपपश्चादिषु भेदाभेदवादित्वेन रामानु
जवतुच्छत्वं व्यज्यते । श्लेषादयोऽलंकाराः ] ॥ ४२ ॥
 किं नतिर्नमस्कारो मुक्ति ददात्यथवा नमस्कृतं भगवत्पादस्य पदमिति श्रुतिविद
प्रागल्भ्याज्जगति विवादं कुर्वन्ति तत्र वयं त्वेवं बूमस्तस्य श्रीशंकरंचरणस्य भजने
सेवायां यो रतस्तस्य पादकमलस्य रजसो हृदय आलिङ्गनस्याऽऽरम्भस्तत्क्षणमेव
मोक्षाश्रयभूतो मुक्तिपद् इत्यर्थः । शिखरिणी वक्तम् ॥ ४३ ॥ [ श्रुतीति । वेदज्ञा
पुरुषाः । भगवदिति । भगं षड़णमैश्वर्ये विद्यते ययोस्तादृशे पदे यस्य स तथा तस्य
श्रीशंकराचार्यस्येत्यर्थः ] [ प्रागल्भ्यात्प्रौढत्वात् ] [ निर्णयादिरलंकार: ] ॥ ४३ ॥
 अथ तदीयमृरुयुगं वर्णयति । धेतवस्त्रलक्षणेन पलवेनाऽऽवृतं विपश्चित ऊरुद्वयं
विललास शुशुभे । तद्विशिनष्टि । अमृतार्णवस्य क्षीरसमुद्रस्य फेनमञ्जर्या छुरितस्य
व्याप्तस्यैरावतस्य हस्तस्य शुण्डायाः शस्ति प्राशस्त्यं बिभर्तीति तथा । वियोगिनी
वृत्तम् ॥ ४४ ॥ [ धवलेति । धवलः शुभ्रो योऽयमंशुकपलवो ब्रह्मचारिणां कौपी
नोपरिष्टात्कव्यां वेष्टनीयो बहिर्वासस्तेनाऽऽवृतं वेष्टितमित्यर्थः] [अमृनेति । अमृतहे
तुश्वासावर्णवश्चेति शाकपार्थिवादिवद्विगृह्य तस्य क्षीरसमुद्रस्य या फेनमञ्जरी फेनपरं
परा तया छुरितः परिवोष्टितत्वेन संबद्ध एतादृशो प ऐरावतहस्त ऐरावणशुण्डादण्ड
स्तस्य या शस्तिः पशस्तिस्तां बिभर्तीति तथेति ज्ञेयम् । एतेन समाप्तपुनरात्तत्वमपि
परास्तम् । अस्य कथं विललासेत्याकाङ्क्षापूरकत्वात् । विस्तरस्तु मदीये साहित्यसा
रादावेव बोध्यः । लुप्तोपमादिरलंकारः ] ॥ ४४ ॥


यदि हाटकवछरीत्रयी
घटिता स्फाटिककूटभृत्ती ॥
स्फुटमस्य तया कटीतटी
तुलिता स्यात्कलितत्रिमेखला ॥ ४५ ॥
आदाय पुस्तकवपुः श्रुतिसारमेक
हस्तेन वादिकृततद्वतकण्टकानाम् ॥
उद्धारमारचयतीव विबोधमुद्रा
मुद्धिभन्नतो निजकरेण परेण योगी ॥ ४६ ॥
सुधीरराजः कल्पद्रुमकिसलयाभौ करवरौ
करोत्येतौ चेतस्यमलकमलं यत्सहचरम् ।।
रुचेश्वोरावेतावहनि किमु रात्राविति भिया
निशादेराप्रातर्निजदलकवाटं शटयति ॥ ४७ ॥




 सुवर्णवीत्रयीयुक्ता स्फटिकमयस्य पर्वतस्य तटी यदि भवेत्तदा तया तादृशाया
कलिता संपादिता त्रिमेखला यस्यां साऽस्य श्रीशंकरस्य कटीतटी तुलिता स्यात्
॥ ४५ ॥ [ स्फाटिकेति । स्फटिकस्येमाने स्फाटिकानि तानि कूटानि “अयोधने
शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्' इत्यमराच्कृङ्गाणि तानि बिभर्तीति तथा तस्य तटी
नितम्बस्थलीत्यर्थः ][ संभावनादिरलंकारः ] ॥ ४५ ॥
 अथ तदीयकरौ वर्णयत्यादायेति द्वाभ्याम् । पुस्तकमेव वपुः शरीरं यस्य तच्छु
तीनां सारमेकहस्तेन वामकरेण योग्यादाय ज्ञानमुद्रां तर्जन्यङ्गष्ठसंयोजनरूपामुद्विभ्रता
परेण दक्षिणेन निजहस्तेन वादिकृतानां तस्मिञ्श्रुतिसारे स्थितानां कण्टकानामुद्धार
मारचयतीवेयुत्प्रेक्षा । वसन्ततिलका वृत्तम् ॥ ४६॥ [पुस्तकेति । पुस्तकरूपमि
त्यर्थः । श्रुतीति । उपनिषद्भागमिति यावत् ][ अत्रोत्प्रेक्षया वस्तुतः श्रुतिसारे क
ण्टकसंचारलेशोऽपि नैवास्तीति द्योत्यते ] ॥ ४६ ॥
 सुधीनां मध्ये राजत इति सुधीराट्तस्य श्रीशंकरस्यैतौ करवरौ कल्पद्रुमपलवतु
रुल्यावीत यदा यत्सहचरं यतुल्यममलकमलं चेतसि करोति तदा रुचेः कान्तेश्चोरा
वेतौ तत्रापि दिने किंवा रात्राविति भयेन रात्रौ चोराणामवकाश इति कृत्वा निशादेः
सूर्यास्तमारभ्य सूर्योदयपर्यन्तं स्वदलात्मकं कपाटं घटयति योजयति । शिखरिणी
वृत्तम् । ॥ ४७ ॥ [ पुनस्तावेव शिष्यादिमस्तकस्पर्शद्वारकयावत्तदभिलषितपूरकत्वेन
संवर्णयति । सुधीत्यादिशिखरिण्या ] [ कल्पेति । शिरस्पर्शमात्रेणैव यावदिष्टप्रदत्वा

रुचिरा तदुरःस्थली बभा
वरस्फालविशालमांसला ।
धरणीमणोदितश्रमा
त्पृथुशय्येव जयश्रिपाऽऽश्रिता ॥ ४८ ॥
परिघप्रथिमापहारिणौ
शुशुभाते शुभलक्षणौ भुजौ ।।
बहिरन्तरशत्रुनिग्रहे
विजयस्तम्भयुगीधुरंधरौ ॥ ४९ ॥
उपवीतममुष्य दिद्युते
बिसतन्तुक्रियमाणसौहृदम् ॥
शरदिन्दुमयूखपाण्डिमा
तिशयोछङ्घनजाइधिकप्रभम् ॥ ५० ॥




रक्तत्वादिना सुरवरुशिखराङ्कुरसुरुचिरावित्यर्थः ] [ करेति । आजानुलम्बमान
त्वात्करश्रेष्ठावित्यर्थः ] [ अत्र लुप्तोपमेोत्प्रेक्षादयोऽलंकाराः ] ॥ ४७ ॥
 अथ तस्योरःस्थलं वर्णयति । अरस्फालवत्कवाटफलकवद्विशाला चासौ मांसला
मांसव्याप्ता चातिमनोहरा तस्योरःस्थली बभौ शुशुभे। धरण्यां भूमौ भ्रमणेनोदिताच्छ
माब्जयलक्ष्म्याऽऽश्रिता शाययेवेत्यर्थः ।। ४८ ॥ [ तदिति । तस्य श्रीभगवत्पादस्यो
रःस्थली वक्षोलक्षणा कृत्रिमभूमिरित्यर्थः । अररेति । ‘कपाटमररं तुल्ये' इत्यमरादरव
त्कपाटवत्स्फाला रलयोः सावण्यत्स्फारा विस्तीर्णा चासौ विशाला दीघौ चासँौ मां
सला पुष्टा चेति तथेत्यर्थः ] [ तत्रोत्प्रेक्षते । धरणीत्याद्युत्तरार्धेन । पृथ्वीपरिभ्रमणसं
जातश्रान्तेरित्यर्थः । एतेन विजयलक्ष्म्याः पृथ्व्यां न कुत्रापि विश्रान्तिलाभ इति
ध्वन्यते ] [पृथ्विति । विपुलविमलमृदुलशाय्येव स्थितेति योजना । एतेन तत्र सितभ
सिदोदूलितत्वेन शुछत्वमपि सूचितम् ] [ लुप्तोपमेोत्प्रेक्षादयोऽलंकाराः]॥४८॥
 अथ तदीयभुजौ वर्णयति बहिरन्तरशत्रुनिप्रहे परिघमरूयात्तापहरणशीलौ परि
घादधिकतरपरूयातिमन्तौ विजयस्तम्भयुगलस्य धुरं धरत इति तै' ततुल्यौ शुभलक्ष
णयुक्तौ श्रीशंकरस्य भुजौ शुशुभाते ॥ ४९ ॥ [ परिघेति । परिघस्य द्वाररोधकका
शविशेषस्य यः मथिमा पुष्टत्वं तदपहारिणौ तद्वत्परिपुष्टावित्यर्थः ] [ तत्रोत्पेक्षते
वहिरित्याद्युक्तराधेन । बहिःशत्रवो भेदवादिनः । अन्तःशत्रवः कामादय: [॥४९॥
 अथ तदीयं यज्ञोपवीदं वर्णयति । बिमतन्तुभिमृणालतन्तुभिः क्रियमाणं सौहृदं



समराजत कण्ठकम्बुराडू
भगवत्पादमुनेर्यदुद्रवः ।
निनदः प्रतिपक्षनिग्रहे
जयशङ्खध्वनितामविन्दत ॥ ५१ ॥
शुशुभे तस्य हि दन्तचन्द्रिका ।।
नवविदुमवलुरीगता
तुहिनांशोरिव शारदी छविः ॥ ५२ ॥




येन तच्छरचन्द्रस्य किरणानां पाण्डम्रः श्धेतताया अतिशयस्योलङ्घने जाङ्धिकाऽ
तिवेगवती प्रभा यस्य ।
  ‘जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङधिकौ'
 इत्यमरः । तदमुष्य श्रीशंकरस्य यज्ञोपवीतं दिद्युते रेजे ॥ ५० ॥ [ बिसेति ।
एतेन तत्सौक्ष्म्यसारल्यसितत्वन्निग्धत्वानि सूच्यन्ते ] [ लुप्तोपमामतीपादयोऽ
लंकाराः ] ॥ ५० ॥
अथ तस्य कण्ठं वर्णयति । भगवत्पादमुनेः कण्ठात्मकशङ्खराजः सैम्यगराजत ।
तं विशिनष्टि । य उद्भवः कारणमस्येति यदुद्भवो यत्कारणको यस्मादुद्भव उत्पत्तिर्य
स्येति तथा यदुत्पन्न इति वा निनदो घोषः प्रतिपक्षाणां वादिरूपाणां शत्रूणां निग्रहे
जयशङ्खस्य ध्वनितां प्राप्तवान् ॥ ५१ ॥ [ भगवदिति । भगवन्तौ षड्गुणैश्वर्य
शालिनौ पादौ यस्य च चासौ मुनिर्मननशीलश्चेति तथा तस्येत्यर्थः । कण्ठेति ।
कण्ठ एव कम्बुराट् शङ्गश्रेष्ठः कण्ठः कम्बुराडिवेति वा रूपकलुप्तोपमादयोऽलं
काराः ] ॥ ५१ ॥
 अथ तस्य दन्तपङ्गिं वर्णयति । हि प्रसिद्धमरुणाधरसंगता तस्य दन्तचन्द्रिकाऽ
धिकं शुशुभे । तत्र दृष्टान्तो नवविदुमो नवीनो रत्नवृक्षः ।
  ‘विदुमी रत्नवृक्षेऽपि प्रवालेऽपि पुमानयम्’
 इति मेदिनी । तद्वलीगता हिमकिरणस्य शरत्कालिका छविः कान्तिर्यथा शोभते
तद्वदित्यर्थः ॥ ५२ ॥ [ अथास्य मन्दहासंस्तौति । अरुणेति । तत्रोत्प्रेक्षते ।
न वेति नूतनपवालमञ्जरीसंचरितेत्यर्थः । उत्प्रेक्षालंकारः ] ॥ ५२ ॥



मुकपोलतले यशस्विनः
शुशुभाते सितभानुवर्चसः ।।
वदनाश्रितभारतीकृते
विधिसंकल्पितदर्पणाविव ॥ ५३ ॥
समासीत्तस्याऽऽस्यं सुकृतजलधेः सर्वजगतां
पपःपारावारादजनि रजनीशो बहुमतात् ॥
सुधाधारोद्भारः सुसदृगनयोः किंतु शशभृ
त्सतां तेजःपुञ्ज हरति वदनं तस्य दिशति ॥ ५४ ॥




 अथ तदीयकपालतले वर्णयति । सितभानोः शुभ्रांशोश्चन्द्रस्य वर्च इव वर्चस्तेजो
यस्य तस्य यशस्विनः शोभने कपोलतले शुशुभाते । तथाभूतस्य वदनं मुखमाश्रिता
या सरस्वती तस्याः कृते तदर्थं ब्रह्मणा संकल्पिती संकल्पेनोत्पादितौ दर्पणाविव ॥५३॥
[ भिन्नलिङ्गत्वं तु ‘दर्पणे मुकुरादशै' इत्यमराद्दर्पणशब्दस्य पुंलिङ्गत्वाद्यद्यपि प्रतीयते
तथाऽपि--

'धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम्'


 इत्यादौ प्राचीनैरुत्प्रेक्षापकरणे तथैवोदाहृतत्वादुपमायामेव तस्य दोषत्वमिति
दिक् ] ॥ ५३ ॥
 अथ तस्य मुखं वर्णयति । सर्वजगतां पुण्यमेव समुद्रस्तस्माद्वठ्ठत्वेनाभिमताद्वहू
नामभिमताद्वा तस्य श्रीशंकरस्य मुखं समासीत् । पयःपारावारात्क्षीरसमुद्राद्वहुम
ताद्रजनीशश्चन्द्रोऽजायत । अनयोरास्यचन्द्रयोः सुधाधाराया उद्रार उद्वमन सुसट्टक
सुसदृशः । परंत्वयं विशेषः । शशभृचन्द्र सतां नक्षत्राणां तेजःपुत्रं हरति तस्य
मुखं सतां सज्जनानां तद्ददाति । उपमेयाधिक्याभिधानाद्यतिरेकः ।

'व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।


 इत्युक्तः । शिखरिणी वृत्तम् ॥ ५४ ॥ [ सर्वजगतामृध्र्वमध्याधोभुवनानाम् ।
सुकृतेति । पुण्यार्णवादित्यर्थः ] [ बहुमताद्विष्णुशाय्यास्थानत्वादिना सर्वसंमतादित्य
थैः ][ सतां मुमुक्षणां तेजःपुत्रं हरति कामिनीवदनस्मारकत्वादिना विनाशायतीत्यर्थः।
तस्य श्रीभगवत्पादस्य वदनं तु सतां तेजःपुञ्जमित्यनुकृष्यम् । दिशति दृश्यामिथ्यात्वा
दिविवेकबोधनद्वारा समर्पयतीति संबन्धः ] ॥ ४४ ॥


पुरा क्षीराम्भोधेरह तनया यद्विषयता
जुषो दीनस्याग्रे घनकनकधारा समकिरत् ।।
इदं नेत्रं पात्रं कमलनिलयामीतिवितते
र्मुनीशस्य स्तोतुं कृतवमुकृत एव प्रभवति ॥ ५५ ॥
दुर्वारमतिपक्षदूषणसमुन्मेषक्षितौ कल्पने
सेतोरप्यनघस्य तापसकुलैणाङ्कस्य लङ्कारयः ।।
आपन्नानतिकायविभ्रममुषः संसारिशास्वामृगा
न्पुष्णन्त्यच्छपयोब्धिवीचिवदलंकाराः कटाक्षाङ्कराः ॥ ५६ ॥




 अथ तदीयं नेत्रद्वं वर्णयति । पुरा । अहहेत्याश्च यस्य मुनीशानेत्रस्य विषयतां
गोचरतां जुषते सेवत इति तथा तस्य दीनस्य ब्राह्मणकलत्रस्याग्रे क्षीरसमुद्रकन्या लक्ष्मी
र्धनीभूतस्याऽऽमलकाकारस्य सुवर्णस्य धाराः समकिरत् । तदिदं कमलालया लक्ष्मी
स्तस्याः प्रीतिसंततेः पात्रं मुनीशस्य नेत्रं स्तोतुं कृतपुण्य एव समर्थो भवति ॥ ५५ ॥
[ इदं वण्यैतत्वेन बुद्धिस्थत्वात्साक्षिपत्यक्षम् । एतादृशं मुनीशस्य नेत्रं भगवत्पादलो
घनम् । एकवचनं तु सामुद्रिकशास्रोक्तसव्यापसव्याङ्गयोरत्यन्तसाम्यलक्षणावश्धव
न्द्यचिह्नत्वसूचनार्थमेव । हेत्वादयोऽलंकाराः ] ॥ ५५ ॥
 अथ मुनीशाकटाक्षान्वर्णयति । यथा दुर्वारः प्रतिपक्षः शत्रुर्यो दूषणारूयो राक्षस
स्तत्समुन्मेषस्य समुलासस्य क्षितौ क्षये ।

क्षितिर्निवासे मेदिन्यां कालभेदे क्षये स्त्रियाम्


 इति मेदिनी । तन्निवासो यस्मिन्समुन्ने तत्र सेतोः कल्पने चानघस्य दुःखसहितस्य
तापसगणशशाङ्कस्य तदाङ्गलादकस्य श्रीरामचन्द्रस्य लङ्काया राक्षसपुर्या अरयोऽ
च्छक्षीराब्धितरङ्गवदलंकारा अतिकायादिराक्षसजनितसाध्वसमुषः कटाक्षाङ्करा आ
पन्नान्मृतमायाञ्शाखामृगान्वानरान्पुष्णन्युज्जीवयन्ति । तथा दुर्वाराणां प्रतिपक्षाणां
यानि दूषणानि दुवारराणि च तानि प्रतिपक्षदूषणानीति वा तेषां समुन्मेषस्य क्षितौ
क्षये तन्निवासो यत्र यास्मिन्स्थाने वादिदूषणानि प्रसरन्ति तत्रेति यावत् । सेतो
जलविधारकसेतुवत्तद्विधारकसेतोः समाधानलक्षणस्य कल्पनेऽप्यनघस्य तापसकुल
चन्द्रस्य लङ्कानां शाकिनीनां कुलटानां वाऽरयः ।

लङ्का रक्षः पुरीशाखाशाकिनीकुलटासु च ।


 इति मेदिनी । तथाभूता अतिकाये स्थूलादिदेहे य आत्मभिमानलक्षणो विभ्रमो
भ्रान्तिस्तं मृष्णन्तीति तथाऽतिकायस्य यो विभ्रम इति वाऽतिकायो महांश्चासौ
विभ्रम इति वा तथाभूता अच्छपयोविवीविवदलंकाराः । कटाक्षाङ्करा भापन्नाञ्जरा


निःशङ्कक्षतैिक्षकण्टककुलं मीनाङ्कदावानल
ज्वालासंकुलमार्तिपङ्किलतरं व्यध्वं धृतिध्वंसिनम् ॥
संसाराकृतिमामयच्छलषलहुर्वारदुर्वारणं
पुण्णन्ति श्रममाश्रिता नवसुधावृष्टायिता दृष्टयः ॥ ५७ ॥




मरणादिलक्षणापतिव्याप्ताञ्शरणगतानिति वा संसारिलक्षणौञ्शाखामृगान्पुष्णन्ति ।
संसारारूयदुःखनिवृत्तिपूर्वकानन्दप्राप्तिलक्षणां पुष्टिसंपादयन्तीत्यर्थः । शार्दूलविक्री
डितम् ॥५६॥[सेतोरपि । भापना तन्निराकरणपूर्वकं संसारसमुद्रोलङ्घनार्थं सूत्रभाष्या
दिप्रस्थानत्रयलक्षणस्य सेतोरपि । कल्पने रचने । तापसेति । तापसास्तपस्विनस्तेषां
कुलं वृन्दं तस्यैणाङ्कस्तत्प्रकाशत्वाचन्द्रस्तस्य श्रीमच्छंकराचार्यस्येत्यर्थः । लङ्केति ।

‘राक्षसीमासुरीं चैव मकृर्ति मोहिनीं श्रिता


 इति श्रुतेर्लङ्काशब्देनात्र राक्षसी प्रकृतिरेव लक्षणया विवक्षिता तस्या अरय
शात्रव इत्यर्थः । अच्छेति । अच्छः कालकूटाविर्भावेतरकालावच्छिनत्वेनाति
निर्मलो यः पयोब्धिः क्षीरासन्धुस्तस्य या वीचयस्ततुल्यं यथा स्यात्तथेति
क्रियाविशेषणम् । अलंकारा अलं परमानन्दावाप्त्या निरतिशयतृप्ति कुर्वन्ति
ते तथेत्यर्थः । एतेन तत्र शुछत्वस्निग्धत्वशिशिरत्वादि द्योतितम् । क्षीरोदलहरी
णामपि तात्कालिकतृप्तिजनकत्वं युक्तमेव । कटाक्षेति । अङ्करोऽपि शुष्ठ
शिशिरः स्निग्धः कोमलश्चेति प्रसिद्धमेव । तथा च कटाक्षा एवाङ्कराः कटाक्षा अङ्करा
इवेति वा विग्रहः । तिर्यगवलोकनरुपापाङ्गदर्शनाभिधलोचनविलासा इत्यर्थः । सं
सारीति । संसारिण एव शाखामृगा मर्कटाः ‘शाखामृगवलीमुखाः' इत्यमरात्तानि
त्यर्थः । पुष्णन्यद्वैतात्मबोधेनापरिच्छिन्नतां नयन्तीति संबन्धः । पक्षे संसारीति ।
संसरन्ततिस्तत उद्वानं कुर्वन्ति ते तथा ते च ते शाखामृगाश्चेति तथा तान्बम्भ्रम
माणवानररानित्यर्थः । पुष्णन्त्यतिकायमारणेन परिझुष्टान्कुर्वन्तीति योजना । अत्र वण्र्य
ठेषोऽलंकारः ] ।। ५६ ।।
 नवसुधावृष्टिवदाचरन्त्यः श्रीशंकरस्य दृष्टय आश्रिताः सत्यः संसाराकारं श्रमं
मुष्णन्ति । तं विशिनष्टि । निःशङ्का आकस्मिकाः क्षतय एवं रूक्षकण्टकास्तेषां कुलानि
यस्मिन्पुनश्च कामलक्षणदावाग्ज्विालया व्याप्तमार्तिलक्षणकर्दमेनातिशयेन व्याप्त वि.
रुद्धो विकटो वाऽधर्मलक्षणोऽध्वा मागों यास्मिन्वृतिध्वंसिनं धैर्यनाशकमामया रोगा
स्वच्छलेन चलन्तो दुर्वारा वारणा गजा यस्मिस्तथाभूतं संसाराकृतिं श्रममित्यर्थः ।
॥ ५७॥ [ नवेति । नवाऽभिनवा सायुज्यमुक्तिप्रदत्वाद्विचित्रा चासौ सुधाऽमृतं



त्रिपुण्ड्र तस्याऽऽहुः सितर्भासितशोभि त्रिपथगां
कृपापारावारं कतिचन मुनिं तं श्रितवतीम् ॥
वयं त्वेतद्भमो जगति किल तिस्रः मुरुचिरा
स्त्रयीमौलिव्याकृत्युपकृतिभवाः कीर्तय इति ॥ ५८ ॥
असौ शम्भोलीलावपुरिति भृशं सुन्दर इति
द्वयं संप्रत्येतज्जनमनसि सिद्धं च सुगमम् ।।
यदन्तः पश्यन्तः करणमदसीयं निरुपमं
तृणीकुर्वन्त्येते सुषुममपि कामं मुमतयः ॥ ५९ ॥




तस्य वृष्टिवदाचरिता इत्यर्थः] [मीनाङ्केति । मीनो मत्स्योऽङ्के ध्वजे यस्य स तथा स
एव दावानलो मदनदावामिस्तस्य या ज्वालास्तरुणीलक्षणाः शिखास्ताभिः संकुलो
व्याप्तस्तमित्यर्थः उक्तं हि बृहद्योगवासिष्ठ ।

केशाकज्जलधारिण्यो दुस्पर्श लोचनपियाः ।
दुष्कृतान्निशिखा नायों दहान्त तृणवन्नरम्


 इति । आतति । आर्तिराध्यात्मिकादित्रिविधपीडा सैव पङ्कः कर्दमस्तत्र निरतो
निमग्रस्तमित्यर्थः । अत एव । व्यध्वं विगतोऽध्वा मागों यस्य स तथा तमित्यर्थः ।
धृतीति । धृतेधैर्यस्य यो ध्वंसः सोऽस्यास्तीति तथा तमित्यर्थः । पित्तज्वरविशेषे
हुक्तभ्रमो भवतीति प्रसिद्धमेव ] ।। ५७ ।।
 अथ त्रिपुण्डूं द्विधोत्प्रेक्षते । तस्य श्रीशंकरस्य सितभासितशोभि धेतभस्मना शोभमा
नं त्रिपुण्डं त्रिरेखात्मकं विभूतितिलकं कृपासिन्धुं तं मुनिमाश्रितवतीं त्रिमार्गगां गङ्गां
केचन कविवर्या आडुर्वयं त्वृग्यजुःसामाख्यवेदत्रयीशिरसामुपनिषदां व्याकृतयो व्या
रूयानानि तान्येवोपकृतय उपकारास्ततो भवा जाताः सुरुचिरा अतिसुन्दरास्तिस्रः
कीर्तय इति नूम इत्यर्थ । शिखरिणी वृत्तम् ॥ ५८ ॥ [ सितेति । सितभसितेन
शुछश्रौतभस्मना शोभते तत्तथा । एतादृशं कर्म । कृपेति । करुणासमुद्राम् । ए
तादृशीम्] [त्रयीति । त्रयीशब्दितनिखिलवेदमुकुटीभूतोपनिषत्तदुपयुक्तस्मृतिसूत्रव्यः
रूयानलक्षणोपकारजन्या इत्यर्थः । जगति त्रिलोक्याम् । एवं च कीर्तिस्तावदेकैव त
थाऽप्यवच्छेदकीभूतोध्र्वादिलोकभेदेनैव त्रैविध्यमापन्नेति भाव । सुरुचिरा अत्यन्ता
वदाताः । एतेन चन्द्रिकायामिव क्षयादिदोषो व्युदस्तः ] ।। ५८ ।।
 एवं प्रत्येकमङ्गान्युपवण्र्य तद्वपुर्वर्णनमुपक्रमते । असौ श्रीशंकरः शंभोः कामविज
1यना लीलाविग्रह इति भृशमतिशयेन सुन्दर इति चैतद्दयमिदानीं जनानां मनसि
सुगमं यथा स्यात्तथा सिद्धं यद्यस्मादसीयममुष्य निरुपमं करणं वपुरन्तःकरणे


अज्ञानान्तर्गहनपतितानात्मविद्योपदेशै
स्रातुं लोकान्भवदवशिस्वातापपापच्यमानान् ॥
मुक्त्वा मौनं वटविटपिनो मूलतो निष्पतन्ती
शम्भोर्मुर्तिश्चरति भुवने शंकराचार्यरूपा ॥ ६० ॥
उचण्डाहितवावदूककुहनापाण्डित्यवैतण्डिकं
जाते देशिकशेखरे पदजुषां सन्तापचिन्तापहे ॥
कातर्य हृदि भूयसाऽकृत पदं वैभाषिकादेः कथा
चातुर्य कलुषात्मनो लयमगाद्वैशेषिकादेरपि ॥ ६१ ॥




पश्यन्तो जनाः सुषमं सुन्दरमपि कामं मन्मथं तृणीकुर्वन्ति । कामविजयिशंभ्ववतार
भूतशंकरैशारीरस्यातिसुदरस्यान्तःसंदर्शनेन तृणवदतिक्षुद्रं कुर्वन्तीत्यर्थः ॥ ५९ ॥
[ असाविति । तत्र हेतुः । यदित्याद्युत्तरार्धेन । सुमतयो मुमुक्षवः । काव्यलिङ्ग
दिरलंकारः ] ॥ ५९ ॥
 किंचाज्ञानान्तर्गद्दनेऽज्ञानलक्षणकाननमध्ये पतितान्भवः संसार एव दवो दावामि
स्तस्य शिखानां पुत्रस्त्रीधनादिवियोगरूपाणां तापेन पापच्यमानन्भृशं दंदह्यमानाना
त्मविद्योपदेशैस्रातुं मौनं त्यक्त्वा वटवृक्षस्य मूलान्निष्पतन्त्यवतरन्ती शंकराचार्यरूपा
शंभोर्मूर्तिर्भवने विचरतीति योजना । मन्दाक्रान्ता वृत्तम् ॥ ६० ॥ [ अज्ञानमेवा
न्तर्गइनं ‘गहनं काननं वनम्' इत्यमररादभ्यन्तरारण्यम् । भवः संसार एव दवो
‘द्वदावौ वनानलौ' इति मेदिन्याः काननवह्निः । आविक्याभेदरूपकमलंकार:]॥६०॥
 किंच देशिकशेखरे श्रीशंकर उचण्डानामतिकोपनानामहितानां वावदूकानां जल्पन
शीलानां कुरुनाऽतत्व आचारभेदस्य संभावना । ‘कुहना लोभान्मिथ्येयार्पथकल्पना'
इत्यमरः । तस्यास्तया वा यत्पाण्डित्यं तद्वितण्डा स्वपक्षस्थापनहींना विजिगीषुकथा त
स्यां भवं वैतण्डिकं यथा स्यात्तथा पदसेविनां संतापचिन्ताविनाशके जाते सति वैभा
षिकादेर्हदि कातर्ये भूयसा बाहुल्येन पदं स्थानमकृत । तथा कलुषान्तःकरणस्य वैशे
षिकादेः कथाचातुर्ये लयमगात् । आदिपदं सौत्रान्तिकयोगाचार्थमाध्यमिकजैनचार्वा
कानाह । द्वितीयं तत्सांख्यमीमांसकपातञ्जलनैयायिकादीनाह । शार्दूलविक्रीडितं
वृत्तम् ॥ ६१ ॥



अमुना क्रतवः प्रसाधिताः
क्रतुवित्रंशकरः स शंकरः ॥
इयमेव भिदाऽनयोर्जित
स्मरयोः सर्वविदोबुधेड्ययोः ॥ ६२ ॥
कलयाऽपि तुलानुकारिणं
कलयामो न वयं जगत्रये ॥
विदुषां स्वसमो यदि स्वयं
भविता नेति वदन्ति तत्र के ॥ ६३ ॥
द्युवनान्त इवामरदुमा
अमरदुष्विव पुष्पसंचयाः ।
भ्रमरा इव पुष्पसंचये
ष्वतिसंख्याः किल शंकरे गुणाः ॥ ६४ ॥




 अमुना शंकराचार्यमूर्तिना शंकरेण वैदिकपथस्थापनेन ऋतवो यज्ञाः प्रकर्षेण सा
धिताः कलासनिलयः शंकरो दक्षयज्ञध्वंसकरत्वेन क्रतुविभ्रंशकरो यज्ञनाशकर इत
यमेवानयोर्भदाऽयमेव भेदोऽन्यत्तु सर्वे समानमित्येवकारव्यावत्र्यप्रदर्शनायाऽऽह ।
जितकामयोः सर्वविदोः सर्वज्ञयोर्बुधैः पण्डितर्देवैश्च स्तुत्ययोरित्यर्थः । वियोगिनी
वृत्तम् ॥ ६२ ॥ [ ऋतवः 'सप्ततन्तुर्मखः क्रतुः' इत्यमराद्यज्ञाः। प्रसाविता वेदप्रामा
ण्यमतिपादनद्वारा समर्थिता इत्यर्थः । रूपकविशेषोऽलंकारः ] ॥ ६२ ॥
 जगत्रये ये विद्वांसस्तेषां मध्ये कलयाऽपि तुलां सादृश्यमनुकरोतीति तुलानुकारी
तथाभूतं वयं न कलयामो न चिन्तयामो न मन्यामह इति वा ।

रामरावणयोर्युद्धं रामरावणयोरिव'


 इति स्वयमेव स्वसदृश इति चेत्तत्राऽऽह । यदि स्वयं स्वसमः स्यात्तर्हि तत्र
नेति के वदन्ति न केऽपीत्यर्थः ।
 'उपमानोपमेयत्वे एकस्यैवैकवाक्यगे ' । अनन्वयालंकारः ॥ ६३ ॥ [ अनन्वयोऽ
लकारः । तदुक्तम् ।

‘उपमानोपमेयत्वं यदेकस्यैव वस्तुनः ।
इन्दुरिन्दुरिव श्रीमानित्यादै तदनन्वये' इति ] ॥ ६३ ॥


 स्वर्गवनमध्ये यथा देवदुमा अमरदुपु देववृक्षेषु यथा पुष्पसंचयाः पुष्पसंचयेषु यथा
भ्रमरा एते सर्वे संख्यामतिक्रान्तास्तथा शंकरे गुणाः संख्यारहिताः केिलेोत प्रसिद्धम् ।


कामं वस्तुविचारतोऽच्छिनदयं पारुष्यहिंसाकुध
क्षान्त्या दैन्यपरिग्रहानृतकथालोभांस्तु संतोषतः ॥
मात्सर्थ त्वनसूयया मदमहामानौ चिरंभावित
स्वान्योत्कर्षगुणेन तृप्तिगुणतस्तृष्णां पिशाचीमपि ॥ ६५ ॥




‘गृहीतमुक्तरीत्याऽथैश्रेणिरेकावलिर्मता' ॥ ६४ ॥


[द्युवनान्त इवेति । नन्दनवनप्रान्त इत्यर्थः । एकावल्यनुप्राणितोपमालंकारः ।
तदुक्तम् ।

'गृहीतमुक्तरीत्याऽथैश्रेणिरेकावलिर्मता ।
नेत्रे कर्णान्तविश्रान्ते कणो दा:स्तम्भद्रोलिनौ ।
दो:स्तम्भौ जानुपर्यन्तप्रलम्बनमनोहरौ ।
जानुनी रत्नमुकुराकारे तस्य महीभुजः' इति ।


 अभन्तः प्रान्तेऽन्तिके नाशे' इत्यमरः ] ॥ ६४ ॥
 कामं विषयाभिलाषं वस्तुविचारतः काम्यवस्तुदोषविचागेणार्य श्रीशंकरोऽच्छिनत्।
तथा पारुष्यं कठोरभाषणं हिंसा वृत्तिछेदादिना परपंडा कुत्क्रोधम्तान्क्षान्त्या परं
रात्रुकुटे ताडितेऽप्यविकृतचित्तता क्षान्तिस्तयाऽच्छिनत् । दैन्यं पदार्थालाभं लब्वपरि
क्षये च दीनता परिग्रहः संचयोऽनृतकथा मृषाभाषणं लाभः परद्रव्येषु लुब्-वता ती
थेषु धनात्यागश्च तांस्तु संतोषेणाच्छिनत् । परंत्कर्षासहनं मत्मरस्तम्य भावो मात्म
यं तत्त्वनसूयया परगुणेषु दोषाविष्करणममृया तद्वर्जनेनाच्छिनत् । मदो गवं धर्मा
तिक्रमहेतुर्महामानः स्वस्मिन्नतिपूज्यत्वाभिमानस्तौ चिरं दीर्घकालं भावितश्चिन्तितः
स्वस्मादन्योत्कर्ष एव गुणस्तेनाच्छिनत् । इदं मे स्यादिदं स्यादित्येवंरूपां तृष्णाल
क्षणां पिशाचीमपि सम्यक्तृप्तिलक्षणेन गुणेनाच्छिनत्। शार्दूलविक्रीडितं वृत्तम् ॥६५॥
[ काममति । कामोऽत्र स्रीसंभेोगविषयेच्छाविशप एव तस्योच्छेदो हि तदालम्बन
भूतजीवत्स्त्रीशरीरलक्षणवस्तुविचारणेवत्यानभाविकमेव । तथाहि । सघातावशापस्यवा
क्तकामिनीव्यक्तित्वेन संघातिनां त्वगादिपदार्थानां बुद्धया पृथग्विवेचने कृते संघात
वैचित्र्याप्रतीत्या सद्य एव तदुपभोगेच्छाविच्छेद इति । विस्तरस्तु बृहद्वापिष्ठीयवैरा
ग्यप्रकरण एव बोध्यः । क्रम एवालंकारः ] ॥ ६५ ॥



या मूर्तिः क्षमया मुनीश्वरमयी गोत्रासगोत्रायते
विद्याभिर्निरवद्यकीर्तिभिरलं भाषाविभाषायते ॥
भक्ताभीप्सितकल्पनेन नितरां कल्पादिकल्पायते
कस्तां नान्यपृथग्जनैस्तुलयितुं मन्दाक्षमन्दायते ॥ ७० ॥
न बभूव पुरातनेषु त
त्सदृशो नाद्यतनेषु दृश्यते ॥
भविता किमनागतेषु वा
न मुमेरोः सदृशो यथा गिरिः ॥ ७१ ॥




बादरायणेः शुकस्य यशः काश्यै परं गाहतां प्राम्रोतु । किं बहुजल्पैर्मुनिशेखरस्य
अशकरस्य तुलामुपमां कुत्रापि न वीक्षामहे । अत्र त्यागस्य सकृद्वमस्य प्रतिपाद्
नातुल्ययोगिताऽलंकारः ।
 'नियतानां सकृद्धर्मः स पुनस्तुल्ययोगिता' इत्युक्तः ॥ ६९ ।।
 [मुनिशेखरस्य मननशीलसार्वभौमस्य श्रीशंकराचार्यस्येत्यपकृष्यात्रापि सर्वत्र यो
 किंच या मुनीश्वरमयी मूर्तिः क्षमया गोत्रासगोत्रायते गोत्राया भूमेः सगोत्रं सजा
तीयं तद्वदाचरति भूमिसाम्यं लभते । तथा या मुनीश्वरमयी मूर्तिनिरवद्या निर्दोषा
कीर्तियाभिस्तथाभूताभिर्विद्याभिरलमत्यन्तं भाषाविभाषायते भाषायाः सरस्वत्या विभाषा
विकल्पस्तद्वदाचरति विकल्पेन सरस्वतीभावं प्राप्तोतीव । तथा या मुनीश्वरमयी मूर्ति
भैक्तानामभीप्सितस्य साधनेनात्यन्तं कल्पादिकल्पायते कल्पवृक्षचिन्तामण्यादिसदृशव
दाचरति तत्साम्यं प्राम्रोति तां मुनीश्वरमयीं मुर्तिमन्यैः प्राकृतजनैस्तुलयितुं को वा
न मन्दाक्षमन्दायते मन्दाक्षेण लज्जया मन्दो मन्दाक्षमन्दस्तद्वदाचरत्यापितु सर्वोऽपी
त्यर्थः ।। ७० ।॥ [भाषेत्यादि । ‘ब्राह्मी तु भारती भाषा' इत्यमराद्भाषायाः सरस्वत्या
विभाषायते विकल्पवदाचरति तुल्यबलतया व्रीहिभिर्वा यवैर्वा यजेतेत्यादिवत्सरस्वती
कार्यकारिणी भवतीत्यर्थः ] [ लुप्तोपमाविशेषोऽलंकारः ] ।। ७० ।।
 पुरातनेष्वतीतेषु श्रीशंकरतुल्यो न बभूवाद्यतनेषु वर्तमानेषु नैव दृश्यतेऽनागतेषु
भविष्येषु किं वा भविताऽपितु नैव भविष्यति । यथा कालत्रयेऽपि सुमेरोः सदृशो
गिरिर्नास्ति तद्वत् । वियोगिनी वृत्तम् ॥ ७१ ॥ [ न बभूवेति । अनन्वयानुमाणि
तोपमालंकारः ] ।। ७१ ।।



समशाभत तन्न तत्कुल
स च शीलेन परं व्यरोचत ॥
अपि शीलमदीपि विद्यया
ह्यपि विद्याविनयेन दिद्युते ॥ ७२ ॥
मुयशःकुसुमाच्चयः श्रय
द्विबुधालिर्गुणपछवोद्रमः ।।
सुरशाखीव रराज सूरिराट् ।। ७२ ।।
न च शेषभवी न कापिली
गणिता काणभुजी न गीरपि ।।
फणितिष्वितरामु का कथा
कविराजो गिरि चातुरीजुपि ॥ ७४ ॥




 तेन श्रीशंकरेण तस्य कुलं सम्यक्शोभां प्राप्तवत्स च श्रीशंकरः शीलेन साधुस्व
भावेन शुचिचरितेन वाऽत्यन्तमशोभत शीलमपि विद्यया दीप्तिमद्भूद्विद्याऽपि विन
येन नम्रीभावेन शुशुभे ।। ७२ । [ समशोभतेति । दिद्युते दीप्ता बभूवेत्यर्थ . । एका
वल्यलंकारः ] ।। ७२ ।।
 किच सूरिराट्पण्डितराज: श्रीशंकरः कल्पवृक्षो यथा राजते तथा रराज यतः शोभन
यशेोलक्षणपुष्पाणामुचयो निचवयो यस्मिन् । श्रयन्त आश्रयन्तो विबुधाः पण्डिता
एवालयो भ्रमरा यस्मिञ्श्रयतां पाण्डितलक्षणानां देवानामालिः पङ्गिर्यत्रेति वा गुणलक्ष
णानां पलवानामुद्रम उद्भवो यस्मादवबोधस्तत्त्वज्ञानमेव फलं यस्मिन्क्षमैव रसो यस्मिन्नत
इत्यर्थः ।। ७३ ।॥ [ पूर्णोपमालुप्तोपमारूपकलपाश्चालंकारः ] ।। ७३ ।।
 किंच कविराजः श्रीशंकरस्य गिरि वाण्यां चातुरी पेवितवत्यां सत्यां पातञ्जली
वाणी न च गणिता न च कापिली गीर्गणिता नापि काणादी गार्गणिताऽन्यासु ना
स्तिकानां गीषु का कथा ॥ ७४ ॥ [ कवीति । कवीपु वाल्मीक्यादिषु मध्ये राजत
इति तथा तस्य सकलकविशिरोमणेः श्रीभगवत्पादभ्येत्यर्थः ] [ शेपेति । शेपानद
वतारात्पतॐलेर्भवो यस्थाः सा तथेत्यर्थः । योगशास्त्रं हि पतञ्जलिपणीतमिति तु
प्रसिद्धमेव] [काणेति । कणभुक्संबन्विनीत्यर्थः] [काव्यार्थापत्तिग्लंकारः । तदुक्तम् ।

‘कैमुत्येनार्थसंपत्तिः काव्यार्थापत्तिरुच्यते ।
स जितस्त्वन्मुखेनेन्दु: का वार्ता सरसीरुहाम्' इति ]।। ७४ ।।




 सर्वेष्वप्यादर्शपुस्तकेष्वेवमेव दृश्यते गौरादेराकृतिगणत्वाच डीपिति बोध्यम् ।



भट्टभास्करविमर्ददुर्दशा
मजदागमशिरःकरग्रहा ॥
हन्त शकरगुराागरः क्षर
न्त्यक्षरं किमपि तद्रसायनम् ॥ ७५ ॥
जाटोटङ्कजटाकुटीरविहरनैलिम्पकछेोलिनी
क्षेोणीशप्रियकृन्नवावतरणावष्टम्भगुम्फच्छिदः ॥
गर्जन्तोऽवतरन्ति शंकरगुरुक्षोणीधरेन्द्रोदरा
द्वाणीनिझेरिणीझराः क नु भयं दुर्भिक्षुदुर्भिक्षतः ॥ ७६ ॥




 किंच भट्टभास्करारूयेन सवैशंकरवादिना यो विमर्दस्तेन दुर्दशायां मज्जातामाग
मशिरसां वेदान्तानां करग्रहा हस्तावलम्बिन्य उद्धारिका इति यावत् । एवंभूता
श्रीशंकरगुरोर्गिरो हन्तेत्याश्वयें हर्षे वा किमपि वतुमशक्यं तत्प्रख्यातं परमरसाश्र
यभूतमक्षरं क्षरन्ति स्रवन्ति । रोनराविह रथोद्धता लगौ' ॥७५॥ [शंकरेति । श्रीमद्भ
गवत्पादाचार्यस्येत्यर्थः] [ किमप्यद्वैतब्रह्मात्मैक्यत्वादवाङ्मनसगम्यम् । एतादृशम् ।
तान्निरुक्ताद्वैतैक्यरूपम् । रसेति । रसस्य षड्रसवरतरस्य मधुररसस्याऽऽयनं स्थानं
तथा यावन्मधुरिमनिधिभूतममृतमित्यर्थः । पक्षे रसस्य पारदस्याऽऽयनमाश्रयी भूतं

‘रसायनं विषेऽपि स्याज्जराव्याधिभिदौषधे'


 इति मेदिन्याः प्रसिद्धमेवेति यावत् । अत एव । अक्षरमविनाशिफलमित्यर्थः ।
क्षरान्त वर्षन्तीति योजना । जलादौ मग्नस्योद्धरणोत्तरं तदुरवस्थोपशान्त्यर्थं प्रय
च्छन्तीति लोके प्रसिद्धमेवेति भावः । रुपकादिरलंकारः ] ॥ ७५ ॥
 जटाटङ्कस्य शिवस्य जटालक्षणेषु कुटीरेषु हस्वकुटीषु * कुटीशमीशुण्डाभ्योरः'
इति रः । विहरन्ति या नैौलिम्पकलोलिनी निलिम्पानां देवानामिदं नैलिम्पं त्रिविष्टपं
तत्तरङ्गिणी गङ्गा तस्याः क्षोणीशास्य राज्ञो भगीरथस्य प्रियकृद्यदपूर्वमवतरणं तेनाव
ष्टम्भगुम्फः स्तम्भानां ग्रन्थनं तं छिन्दन्तीति तथा ते गर्जनां कुर्वन्तः श्रीशंकर
गुरुलक्षणस्य भूमिधरेन्द्रस्य हिमालयस्योदराद्वाणीलक्षणाया निझंरिण्यास्तराङ्गण्या
नद्या झराः प्रवाहा भवतरन्ति यत एवमतो दुष्टभिक्षुलक्षणदुर्भिक्षतः क नु भयं कापि
भयं नास्तीत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ।। ७६ ॥ [ जाटाटङ्गेति । ‘कठमर्देरै
वतजटाटङ्काव्ययाः' इति त्रिकाण्डशेषे जटाटङ्गेति शिवनामपर्यायाजटाटङ्कः शंकर
स्तस्यायं जाटाटङ्कः स चासौ जटालक्षण कुटीरः ‘कुटीरोऽल्पकुटी स्त्रियाम्' इत्यभि



वारी चित्तमतङ्गजस्य नगरी बोधात्मनो भूपते
द्रुरीभूतदूर्वरन्तदूर्वदझरी हारीकृता सूरिभिः ।।
चिन्तासन्ततितूलवातलहरी वेदोछसचातुरी
संसाराब्धितरीरुदेति भगवत्पादीयवाग्वैस्वरी ॥ ७७ ॥




धानादल्पगृहविशेषश्चेति तथाऽत्र विहरन्ती या निलिम्पानां शोभा निलिम्पाद्युषदः'
इति त्रिकाण्डशेषाद्देवानामियं नैलिम्पा नैलिम्पी वा सा चासौ कलेोलिनी नदी चेति
तथा तस्याः स्वर्धन्याः क्षेोणाशो भगीरथाख्यः क्षितिपतिस्तस्य प्रियं सगरोद्धारणादि
तत्करोतीति तथा यन्नवं गौतमार्थे यत्प्राचीनमवतरणं गङ्गायाः समभूदेव तदपेक्षयाऽभि
नवमेतादृशं यदवतरणं भूलोकं प्रत्यागमनं तस्य योऽवष्टम्भोऽवलम्बस्तेन यो गुम्फः पर
मनिर्मलातिवेगविलोलशुक्रुशीतलसुमधूलीरसालजलकलोलकोलाहलकलनविशेषस्तं छि
न्दन्ति स्वसैौन्दर्येण तिरस्कुर्वन्तीति तथेत्यर्थः । एतादृशोऽत एव गर्जन्तः सन्तः
शंकरेति । शं कल्याणमैहिकादिनिखिलपुमथै करोतीति तथा स चासौ गुरुर्हितोप
देष्टा चेति तथा स एव क्षोणीधरेन्द्रः सुमेरुस्तस्योदरं तस्मादित्यर्थः । वाणीति । वा
क्तरङ्गिणी प्रवाहा इत्यर्थः । यद्यवतरन्त्याविर्भवन्ति । तर्हि । दुर्भिक्ष्विति । दुष्टाः
शाक्यादयो नास्तिका ये भिक्षवो भिक्षाचरणशीलास्तदूपं यदुर्भिक्षं महानर्थकाल
स्तस्मादित्यर्थः। भयं कनु नैव कुत्राचिदपि देशे काले भयं भवतीत्यन्वयः । निरुक्तवाणी
तरङ्गिणीनिराणामेवामृतमयत्वेनसकलानार्थनाशकत्वसंभवात्रैव भीसंभावनाऽपीति भावः।
मतीपरूपकादयोऽलंकाराः ] ॥ ७६ ॥
 किंच भगवत्पादीया वैखर्थकारादिक्षकारान्तवर्णमालारूपा वागुदेति जयति तां
विशिनष्टि । चित्तलक्षणस्य गतङ्गजस्य हस्तिनो वारी बन्धिनी ‘वारी स्याद्रजबन्धिन्याम्'
इति मेदिनी । तथा बोधात्मकस्य राज्ञो नगरी तथा दूरीभूता दुरन्तानां दुर्वेदतां
दुर्वादिनां झरी प्रवाहो यस्यास्तथा सूरिभिहरीकृताऽतिप्रेम्णा हारवत्कण्ठे कृता तथा
चिन्तासन्ततिलक्षणस्य तूलस्य कापसलवस्यापाकरणे वातस्य वायोर्लहरी प्रवाहस्तथा
वेदस्योलसन्ती चातुरी चित्तेतिपाठे चेतैनाया इति व्याख्येयम् । तथा संसारलक्षण
समुद्रस्य तर्युद्धारहेतुभूता नौका तथाचैवंभूता शंकरस्य वाणी सर्वोत्कर्षेण वर्तत
इत्यर्थः । अत्र चित्तादेर्भिन्नशब्दवाच्यमतङ्गजत्वाद्यारोपेण वैखर्या वारीत्वाद्यारोपबो
धनाद्वेदभाजे रूपकम् । वाचके भेदभानि वेत्युक्तः ॥ ७७ ॥ [ दूरीभूतेति । दूरी
भूता पराकृतत्वेन दिगन्तं गता दुरन्ता जीवकोटिनिविटैः कदाऽप्यनिरस्या एतादृशा
ये दुर्वेदा दुष्ट वदन्तीति दुर्वेदाश्चार्वाकादिसांख्यान्तनिखिलभेदवादिनस्तेषां वायूपिणी



कथादपात्सपत्कथकबुधकण्डूलरसना
सनालाधःपाते स्वयमुदयमत्रो ब्रतिपतेः ।
निगुम्फः सूक्तीनां निगमशिखराम्भोजमुरभि
जर्जयत्यद्वैतश्रीजयबिरुदघण्टाघणघणः ॥ ७८ ॥
कस्तूरीघनसारसौरभपरीरम्भमियंभावुका
स्तापोन्मेषमुषो निशाकरकराहंकारकूलंकषाः ॥
द्राक्षामाक्षिकशर्करामधुरिमग्रामाविसंवादिनो
व्याहारा मुनिशेखरस्य न कथंकारं मुदं कुर्वते ॥ ७९ ॥




या झरी प्रवाहसरणिर्यया सा तथेत्यर्थः । अत एव । सूरिभिः पण्डितः । हारीकृता
कृदि मुक्ताहारवन्निहितेत्यर्थः । तरीरिति च्छेदः ।

'अनवीतश्रीतरीलक्ष्मीहीधीश्रीणामुदाहृतः ।
सप्तस्त्रीलिङ्गजातीनां सोलापो न कदाचन'


 इति वचनात् । वागिति । वागिव साक्षात्सरस्वतीव वैखरी तुरीयवाणीत्यर्थः ।
लुप्तोपमारूपकादयोऽलंकाराः ॥ ७७ ॥
 किंच ब्रातिपतेः श्रीशंकरस्य सूक्तीनां निगुम्फो ग्रन्थनं जयति यः कथागर्वेणोत्स
पैतामुचलतां कथकानां मध्ये ये बुधौस्तेषां कण्ड्रा व्याप्ता या जिव्हा तस्या नाभिस्थ
नालेन सहावःपाते स्वयमुदयमत्रो वेदवत्स्वयं प्रादुर्भूतो वादिजिह्वास्तम्भनादौ विनियु
क्तः षटत्रिंशद्वर्णात्मको बगलामुख्यारूयो मम्रः पनश्च निगमशिखराणि वेदान्तास्तल
क्षणकमलानां सुरभिः सुगन्धिः पुनश्चाद्वैतलक्ष्म्या जयस्य बिरुद्घण्टायाः पख्यातिक
राया घण्टाया घणघणस्तदात्मकः शब्द इत्यर्थः ।

'निद्धारोपणोपायः स्यादारोपः परस्य यः ।
तत्परंपरितं श्लिष्टे'


 इत्युक्तपरंपरितरूपकान्तर्गतं मालारुरूपकमत्र द्रष्टव्यम् ॥ ७८ ॥ [ कथेति ।
ब्रतिपतेर्बह्मचर्याश्रमशालिशिखामणेः घणेत्याद्यनुकरणम् । जयतीति योजना । तत्र
हेतुः । कथादर्येत्यादि । कथाऽनेकवतृकः पूर्वोत्तरवाक्यपरंपरा सैव दरी दुष्प्रवे
श्यत्वादिना कन्दरा तया हेतुभूतयेत्यर्थः । उदिति । उत्कर्षेण तारध्वन्यादिना
सर्पन्ती पक्षे प्रतिध्वन्यादिना मसरणशीला रूपकलुप्तोपमापरिकरादयोऽलं
काराः ] || ७८ ॥
 किंच कस्तूरीघनसारयोः कस्तुरीकर्परयोः सौरभं सुरभिस्तस्य परीरम्भः परिष्वङ्ग



अद्वैते परिमुक्तकण्टकपथे कैवल्यघण्टापथे
स्वाहंपूर्वकदुर्विकल्परहितमाज्ञाध्वनीनाकुले ॥
प्रस्कन्दन्मकरन्दवृन्दकुसुमस्रक्तोरणप्रक्रिया
माचार्यस्य वितन्वते नवसुधासिक्ताः स्वयं सूक्तयः ॥ ८० ॥




स्तद्वत्प्रियंभावुकाः प्रियंभविष्णवस्तापस्याऽऽध्यात्मिकादितापत्रयस्योन्मेषमुलासं मुष्ण
न्तीति तथा तऽऽत एव बाह्यतापनिवारकाणां निशाकरस्य चन्द्रस्य कराणामंशूनां य
स्तापविनाशनाहंकारस्तस्य कूलंकषाः समूलोन्मूलनसमर्थास्तथा द्राक्षादीनां मधुरिम्णां
माधुर्याणां ग्रामेण समुदायेनाविसंवादिनस्ततुल्या मुनिशेखरस्य श्रीशंकरस्य व्याहारा
उक्तयो मुदं प्रीतिं कथंकारं कथं न कुर्वतेऽपितु कुर्वन्त्येव । ‘अन्यथैवंकथमित्थंसु सि
द्धाप्रयोगश्चेत्’ इत्यनर्थकादेव करोतेर्णमुल् । शार्दूलविक्रीडितं वृत्तम् ॥ ७९ ॥ [ क
स्तूरीति। ‘घनसारस्तु कर्परः' इति मेदिन्युक्तः कस्तूरीकर्परयोर्यत्सौरभं सौगन्ध्यं तस्य
यः परीरम्भ मालिङ्गनं तेनेव प्रियं हितं भावयन्ति संपादयन्ति ते तथेति यावत् ।
एतेन व्यञ्जनयाऽऽनन्दजनकत्वं सूचितम् । यतः । तापेति । शान्तिदाः । अतः । नि
शेति । चन्द्रकिरणाभिमानविनिवर्तका इत्यर्थः । एतेन लक्षणयाऽपि तद्वन्यते । द्रा
क्षेति । द्राक्षादीनां ये मधुरिमाणस्तेषां ग्रामः समुदायस्तं न विसंवदन्ति विरुद्वा भव
न्ति वे तथा द्राक्षादिसमाधुर्या इति थावत् । एतेन शक्त्याऽपि तदावेदितम् । वृ
त्तित्रयेणाप्यानन्दका एव तद्वाक्यकल्पद्रुमकारका इत्याशय । लुप्तोपमामतीपपरिक
राद्योऽलंकाराः ] ॥ ७९ ॥
 किंच परिमुक्तो विनिवृत्तो भेदवादिलक्षणः कण्टकमागों यस्मात्तथाभूतेऽद्वैत एव कै
वल्यघण्टापथे कैवल्यस्य मोक्षस्य घण्टापथे संसरणे राजमार्गे स्वाहंपूर्वेकैः स्वीयाहंका
रपूर्वकैर्दूर्विकल्पै रहिताः प्राज्ञा विद्वांस एवाध्वनीनाः पान्थास्तैराकुले व्यांझे। पाठान्त
रेऽहंपूर्वेकेणाहंकारेण तदादिभिर्वा सह वर्तमानैरिति व्याख्येयम् । स्वयं नवसुवासि
क्ताः शंकराचार्यस्य सूक्तयः प्रस्कन्दन्मस्रवन्मकरन्दानां पुष्परसानां वृन्दं निचयो ये
भ्यस्तथाभूतानां कुसुमानां पुष्पाणां याः स्रजो मालास्तासां यानेि तोरणानि तेषां प
क्रियां रचनां वितन्वते विस्तारयन्ति ॥ ८० ॥ [साहंपूर्वेकेति ।

‘अहं पूर्वमहं पूर्वमित्यहंपूर्विका मता


 इत्यमरात्तया सहिताः साहंपूर्विकास्ते च ते दुर्विकल्पाश्चेति तथा सगर्वदुर्वितर्क
कुशलाः सकलभेदवादिनस्तै रहितास्तत्संपर्कशून्या ये प्राज्ञाः साधनचतुष्टयविशिष्टा
पण्डितश्रेष्ठास्तएवाध्वनीना * अध्वनीनोऽध्वगोऽध्वन्यः' इत्यमरात् । पान्था



दूरोत्सारितदुष्टपांसुपटलीढुनतियोऽनीतयो
वाता देशिकवाङमयाः शुभगुणग्रामालया मालयाः ।
मुष्णन्ति श्रममुछसत्परिमलश्रीमेदुरा मे दुरा
यासस्याऽऽधिहविर्भुजो भवमये धीप्रान्तरे प्रान्तरे ॥ ८१ ॥




स्तैराकुलो व्याप्तस्तस्मिन्नित्यर्थः। प्रस्कन्ददित्यादि । प्रस्कन्दति मकर्षेण क्षरति मकर
न्दवृन्दं पुष्परसानिकुरम्बं येभ्यस्तानेि तथैतादृशानि यानि कुसुमानि पुष्पाणि तेषां
याः स्रजो मालास्ताभिर्या तोरणप्रक्रिया मार्गशोभाजनकपुष्पवितानलम्बमानगुच्छविशे
षरचना तामित्यर्थः]'तोरणेोऽस्त्री बहिद्वरम्' इत्यमरालाक्षणिकमेव प्रकृते तोरणपदम् ।
लुप्तोपमारूपकादयोऽलंकाराः] ॥ ८० ॥
 किंच दूरमुत्सारिता दुष्टानां पांसुपटलीतुल्या दुनतयो दुष्टनया यैस्तेऽनीतयो न
विद्यन्त ईतयोऽतिवृष्टयादिरूपा बाधा येभ्यस्ते शुभगुणाः प्रसादादयस्तलक्षणानां शै
त्यादिशुभगुणानां ग्रामस्यालयभूता माया लक्ष्म्याश्चाऽऽलयभूता उलसत्परिमलश्रिया च
मेदुराः स्निग्धादेशिकवाङ्मया वाता भवमये संसारमये पान्तरे विपिने कथंभूते धीप्रान्तरे
बुद्धिलक्षणानि प्रान्तराणि कोटराणि बुद्धिलक्षणो दूरः शून्यो मागों वा यस्मिस्तत्राऽऽ
विर्मनः पीडा प्रत्याशा वा तलक्षणाद्धविर्भुजो दावामेहंतोयों मे मम दुरायासस्तस्य
श्रमं मष्णन्त्यपनयन्तीत्यर्थः ।

‘मान्तरं विपिने दूरशून्यमार्गे च कोटरे ।
आधिः पुमांश्चित्तपडिापत्याशाबन्धकेषु च'


 इति मेदिनी ॥ ८१ ॥ [ दूरेति । दूरमुत्सारिता दुष्टपांसुपटलीरूपा निन्द्यधू
लिसंघातात्मका दुनतयो भेदवादिकल्पितासन्याययुक्तयो यैस्ते तथा । पक्षे दूरो
त्सारिता दुष्टपांसुपटल्य इव दुनीतयो यैस्ते तथेत्यर्थः । अत एव । अनीतय
इतिच्छेदः । न विद्यत ईतिरतिवृष्टयादिरूपा यैस्ते तथेत्यर्थः । पक्षेऽप्युत्पादहरत्वा
देवमेव बोध्यम् । एतादृशाः । यतः । शुभेति । शुभाः परमरम्या ये गुणाः
शीतमन्दसुगन्वादिलक्षणाः पवनसद्धर्माः शास्त्रे लोके च प्रसिद्धा एव तेषां ये ग्रामा
समुदायास्तेषामालया

गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालया


 इत्यमराष्ट्रहा एवेत्यर्थः । पक्षे शुभाः सुमङ्गला ये गुणाः प्रसादादयो धर्मास्ते
षामालया इवेत्यर्थः । अत एव मालयाः शोभाश्रया इति पक्षद्वयेऽपि । अत एव ।
उछसदिति । उलसन्ती विकसमाना या परिमलश्रीर्नानाविधकुसुमसंपर्कसंजातलो
कोत्तरसुगन्ध लक्ष्मीस्तया मेदुरा मांसलाः पुष्टा इति यावत् । पक्षे उलसत्परिमल इव
मनोहरा श्रीः शोभा तया मेदुरा इत्यर्थः । “ सान्द्रलिग्धस्तु मेदुरः' इत्यमरः ।


वृत्यन्त्या रसनाग्रसीमनि गिररां देठयाः किमडूघिकण
न्मञ्जीरोर्जितसिञ्जितान्युतनितम्बालम्बिकाञ्चीरवाः ।
किं वल्गत्करपद्मकङ्कणझणत्कारा इति श्रीमत
शङ्कामङ्करयन्ति शंकरकवेः सद्युक्तयः सूक्तयः ॥ ८२ ॥
वर्षारम्भवितृम्भमाणजलमुग्गम्भीरघोषोपमो
वात्यातूर्णविघूर्णदर्णवपयःकलोलदपपहः ।
उन्मीलन्नवमलुिकापरिमलाहंतानिहन्ता निरा
तङ्कः शंकरयोगिदेशिकगिरां गुम्फः समुज्तृम्भते ॥ ८३ ॥




एतादृशाः सन्तोऽत एव । आधीति । आधिरेव 'पुंस्याधिर्मानसी व्यथा' इत्यमरान्म
नोव्यथैव हविर्भुग्दावानलो यस्य स तथा तस्य मानसव्यथादावानलवलयितस्येत्यर्थः।
एतादृशस्य । अत एव । भवेति । संसाररूप इत्यर्थः । स्वार्थ एव मयट् । दुराया
सस्य दुष्ट आयासो यस्य स तथा तस्येत्यर्थः। दुरित्युपसर्गस्तु सुखव्याप्ये सुरतायासे
सुखफलके सत्कर्मायासे चानादरवारणायैवेति ध्येयम् । श्रमं भ्रमणखेदम् । मुष्ण
न्त्यपहरन्तीत्यन्वयः । लुप्तोपमारूपकयमकादयोऽलंकाराः ] ॥ ८१ ॥
 किंच श्रीशंकरजिह्वाग्रलक्षणे रैङ्गे नृत्यन्त्या गिरां देव्याः शारदायाः किमङ्घ्यो
श्रधरणयोः कणतोः शब्दं कुर्वतोर्मञ्जीरयोनूपुरयोरुर्जितसिञ्जितान्युछसत्वनितानि
किंवा नितम्बालम्बिन्याः कट्याः पश्चाद्भागमालम्बिन्याः काञ्च्या मेखलाया रवा
शब्दाः किंवा वल्गतोरितस्ततश्चलतोः करकमलकङ्कणयोझैणत्कारा इति शङ्कां श्रीमत
शंकरस्य कवेः समीचीना युक्तयो यासु ताः सुष्क्तयोऽङ्करयान्तजनयन्तीत्यर्थः ॥८२॥
[ श्रीमतः षडुगैश्वर्यवतः । शंकरेति । श्रीशंकराचार्यमंज्ञककवीन्द्रवरस्येत्यर्थः ]
[वकल्पत्रयबजिं तु निरुक्तसृक्तिषु शक्तिलक्षणाव्यञ्जनाख्यशाब्दवृतित्रयमृलकध्वनित्र
यवैजात्यमेव]] [संदेहानुप्राणितोत्प्रेक्षाविशेषादिरेवालंकारः । तदुक्तम् ।

'पङ्कजं वा सुवांशुर्वेत्यस्माकं तु न निर्णय:’ इति ।
धूमस्तोमं तमः शङ्गे कोकीविरहशुष्मणाम्' इति च ] ॥ ८२ ॥


 वर्षारम्भे विनृम्भमाणानां जलमुचां मेघानां गम्भीरघोष उपमा यस्य स पुनश्च
वात्यया वायुसमुदायेन तूर्णमत्यन्तं शीघ्र वा विघूर्णतां समुद्रपयसां कलोलानां बृहत्त
रङ्गाणां दपॉपहो गर्वनाशकः पुनश्चोन्मीलन्तीनां विकसन्तीनां मालतीनां परिमलाहं
ताया विमर्दोत्थजनमनोहरगन्धस्याहंभावस्य निहन्ता नाशक: पुनश्च निरातङ्को निर्भयः
शंकरयोगिदेशिकस्य गिरां गुम्फो ग्रन्थनं समुजूम्भते समुलपति ॥ ८३ ॥ [ वर्षेति ।



हृद्या पद्यविनाकृता प्रशमिताविद्याऽमृषोद्या सुधा
स्वाद्या माद्यदरातिचोद्यभिदुराऽभेद्या निषद्यायिता ।।
विद्यानामनघोद्यमा सुचरिता साद्यापदुद्यापिनी
पद्या मुक्तिपदस्य साऽद्य मुनिवाहूनुद्यादनाद्या रुजः ॥ ८४ ॥




वृष्टिकाल एवात्र वर्षाशब्दार्थः] वात्येति। ‘स्याद्वात्या वातमण्डले' इति त्रिकाण्डशेषा
द्वात्याशब्दितचक्रवातेन तूर्णमतिसत्वरम् ‘सत्वरं चपलं तूर्णम्' इत्यमरः । लुप्तोपमाम
तीपविशेषाद्योऽलंकाराः ] ॥ ८३ ॥
 सा मसिद्धा भाष्यादिरुपा मुनिवागद्यानाद्या रुजोऽज्ञानादिलक्षणाबोगांचुद्यान्ना
शयतु । तां विशिनष्टि । पद्यविनाकृता गद्यरूपाऽपि हृद्या मनोज्ञा । पाठान्तरे दो
षविनाकृता । पुनश्च पशमिताऽविद्याययासा पशमिताविद्या । पुनश्च मिथ्यावाच्या न
भवतीत्यमृषोद्या यथार्थेत्यर्थः । राजसूयसूर्यमृषोद्य' इत्यादिना वदेः क्यबन्तो निपातः ।
प्रशमिता विद्यामृषेोद्या ययेति वा । पुनश्च सुधास्वाद्याऽमृतवदास्वादनीया पुनश्च माद्यतां
मदेन घूर्णतामरातीनां वादिलक्षणारीणां यानि चोद्यानि कुतकॉद्भाविताः शङ्कास्तेषां
भिदुरा नाशका स्वयं तु तैरभेद्या भेत्तुमशक्या पुनश्च सर्वासां विद्यानां निषद्यायि
ताऽऽपणवदाचरिता पुनश्चानघोऽनवद्य उद्यमो यस्याः सा पुनश्च शोभनं चरितं यस्याः
सा पुनश्चै साद्यानां जन्यानां सकारणानां वाऽऽपदामाध्यात्मिकादिदुःखानामुद्यापिन्यु
मूलिनी पुनश्च मुक्तिपदस्य पद्या पद्धतिरेवंभूता सा मुनिवागद्यानाद्या रुजोपनुद्यादित्यर्थ
॥ ८४ ॥ [ हृद्या रमणीयेत्यर्थः । एतन कुतार्किकादिकण्टकशाङ्कापाकरण सूच्यत ।
तत्र हेतुः । पद्येति । पचैः श्लोकैर्विनाऽकृताऽनिर्मिता प्रायः श्लोकरूपेणैवाऽऽविर्भव
नस्वभावेत्यर्थः । अहो यत्र नैसर्गिकमेव श्लोकरूपेण निःसरणं वाल्मीक्यादेरिव वाच
स्तत्र क नामोक्तकुतार्किकादिकण्टकशङ्कासंभवावकाश इत्याशयः ] [ मृषेति । मृषा
मिथ्यावस्तु प्रत्युदुत्कर्षेण याति विमतं मिथ्यादृश्यत्वाच्छुक्तिरजतवदित्यादियुक्त्या
अतोऽन्यदार्तम्’ इत्यादिश्रुत्या च पसरतीति तथेति यावत् । यावत्कल्पितवस्तुबाविके
त्यथेः । तत्र हेतुः । मुधेति । सुधेवाद्वैतब्रह्मात्मैक्यावबोधनत आस्वाद्यते रसास्वाद
विषयीक्रियत इति तथेत्यर्थः ] [माद्यन्तो विद्यामदोन्मत्ता येऽरातयो द्वैतवादिनः शा
त्रवस्तेषां यानि चोद्यानि पूर्वपक्षास्तान्येव भिदुराणि ‘कुलिशं भिदुरं पविः' इत्यमरा
द्वत्राणि तैरभद्या कालत्रयेऽप्यखण्डयेत्यर्थः][अनघेति । निर्दष्टव्यापारा सफलेत्यर्थः]
[ अत्र लुप्तोपमारूपकानुप्रासादयोऽलंकाराः ] ॥ ८४ ॥



आयासस्य नवाडुरं घनमनस्तापस्य बीजं निजं
छेशानामपि पूर्वरङ्गमलघुप्रस्तावनाडिण्डिमम् ।।
दोषाणामनृतस्य कार्मणमसचिन्ताततेर्निष्कुटं
देहादौ मुनिशेस्वरोक्तिरतुलाऽहंकारमुत्कृन्तति ॥ ८५ ।।
तथागतपथाहतक्षपणकमथालक्षण
प्रतारणहतानुवत्र्यखिलजीवसंजीविनी ॥
हरत्यतिदुरत्ययं भवभयं गुरुक्तिर्तृणा
मनाधुनिकभारतीजरठश्रुक्तिमुक्तामणिः ॥ ८६ ॥




 मुनिशेखरोक्तिरतुला देहादौ योऽहंकारस्तमुत्कृन्तत्युन्मूलयति । तं विशिनष्टि ।
आयासस्य खेदस्य नव्यमङ्कुरं पुनश्च घनीभूतो यो मनस्तापो मानसं दुःखं तस्य
निजमसाधारणं बीजं क्रेशानामपि पूर्वरङ्गं प्रथमं नर्तनस्थानं दोषाणां रागद्वेषादीनाम
लध्वी महती या प्रस्तावना नाटककथामारम्भस्तस्या डिण्डिममनृतस्य कार्मणं मूलकर्म
'मूलकर्म तु कार्मणम्' इत्यमरः । असचिन्तासंततेर्निष्कुटं गृहोद्यानं केदारं वा ।

‘निष्कुटस्तु गृहोद्याने स्यात्केदारकपाटयो


 इति मेदिनी । एवंभूतं देहादिनिष्ठमहंकारमित्यर्थः ॥ ८५ ॥ [ देहादावादिना
माणादिः ] [अतुलेत्येकपदम्। निरुपमतादात्म्यात्मकाहंकाराध्यासमित्यर्थः][अतुलेति
विभिन्ने पदे तु यतोऽहंकारमुत्कृन्तत्यतोऽतुलाऽस्तीति योजना । ननु देहादावहं
कारमात्रोच्छेदनदक्षत्वेन किं निरुक्तोक्तौ निरुपमत्वं वण्र्यते निरुक्ताहंकारस्य सिद्धा
न्तेऽपीदंवृत्तिरहंवृत्तिरित्यन्तःकरणं द्विधा ।

विज्ञानं स्यादहंवृत्तिरिदंवृत्तिर्मनो भवेत्'


 इति प्राचां वचनादुद्धिविशेषत्वेन ज्ञानत्वात्तस्य च स्वोत्तरगुणनाश्यत्वानयमादि
त्याशङ्कय ज्ञानरूपस्य तस्य तथात्वेऽप्यनिर्वचनीयस्यार्थलक्षणतस्तस्य सर्वानर्थ
नदानत्वेन परमदुरुद्धरत्वात्तदुच्छेदकब्रह्मात्मैयविषयतत्त्वसाक्षात्कारार्थमेव निखिल
शब्दबहाप्रवृत्तेश्चेत्याशयेन समादधंस्तं विशिनष्टि । आयासस्येत्यादि षड़िर्विशेषणैः ।
दाषाणामलघु विपुलमेतादृशाम् । प्रस्तावनेत्यादियोज्यम् । कार्मणमिति ।

“कार्मणं मत्रतत्रादियोजने कर्मठेऽपि च'


 इति मेदिनी । निष्कुटमिति । ‘गृहारामास्तु निष्कुटाः' इत्यमरः । अपरं तु
सरलमेव । रूपकविशेषोऽलंकारः ] ॥ ८५ ॥
 वथागता बौद्धास्तेषां पथा मार्गेणाऽऽहताः क्षपणकानां वैनैाशिकानां प्ररूयातिल



झंझामारुतवेलुितामरधुनीकल्लोलकोलाहल
प्राग्भारैकसगभ्र्यनिर्भरजरीजूनृम्भद्वचोनिईराः ॥
नैकालीकमतालिधूलिपटलीमर्मच्छिदः सदुरो
रुद्यदुर्मतिधर्मदुर्मतिकृताशान्ति निकृन्तन्ति नः ॥ ८७ ॥
उन्मीलन्नवमछिसौरभपरीरम्भप्रियंभावुका
मन्दारदुमरन्दवृन्दविलुठन्माधुर्यधुर्या गिरः ॥
उद्रीणां गुरुणा विपारकरुणावाराकरेणाऽऽदरा
त्सचेतो रमयन्ति हन्त मद्यन्त्यामोदयन्ति द्रुतम् ॥ ८ ॥




क्षणेन पतारणेन वञ्चनेन हताश्चानुवर्तिनो विप्रादयोऽखिला जीवास्तेषां संजीविनी
पुनश्चानावुनिकाऽनादिभूता या वेदवाणी तलक्षणाया अतिप्राचीनशुतेर्मुक्तामणिरेवं
भूता गुरोः श्रीशंकरस्योक्तिर्नराणामतिदुरत्ययं संसारभयं हरतीत्यर्थः । पृथ्वी वृत्तम्
॥ ८६ ॥ [ गुरूक्तिः श्रीभगवत्पादाचार्यवाणीत्यर्थः । अतिदुरत्ययं परमदुर्निरसम्]
[ रूपकाद्योऽलंकाराः ] ॥ ८६ ॥
 सदुरोः श्रीशंकरस्य झंझामारुतेन बृहद्वायुना वेलितायाः कम्पिताया देवधुन्या
गङ्गायाः कलोलानां बृहत्तरङ्गाणां यः कोलाहलस्तस्य यः प्राग्भारोऽतिशयस्तदेकस
गभ्यैनिर्भरास्तदेकातिसदृशा जरीनृम्भन्तो भृशमुलसन्तो वचोलक्षणा निरा नैकान्य
नेकानि यान्यलीकान्यसत्यानि मतानि तेषामालिः पङ्गिः सैव धूलीपटली धूलीसमूहस्त
स्या ममैच्छिदो विनाशका नोऽस्माकमुद्यदुर्मतिलक्षणधर्माद्या दुःखिता बुद्धिस्तत्कृता
याऽशान्तिस्तां निकृन्तन्त्युन्मूलयन्ति । शार्दूलविक्रीडितं वृत्तम् ॥ ८७ ॥ [ लुप्तोप
मारुपकाद्योऽलंकाराः ] ॥ ८७ ॥
 उन्मीलन्तीनां विकसन्तीनां नवमालदीनां यत्सौरभं तस्य परीरम्भ आलिङ्गनं त
स्मादपि तद्वद्वा प्रियंभावुकाः प्रियंभविष्णवस्तथा मन्दारणां मन्दारारूयदुमाणां मकर
न्दनिकाये लुठतो माधुर्यादुर्याः श्रेष्ठाः श्रीशंकराचार्येण गुरुणाऽऽदरादुद्रीण उद्ध
मिता उच्चारिता गिरः सतां चेतो रमयन्ति इन्तेति हर्षे मद्यन्ति तथा दुतमविलम्बि
तमामोदयन्तिं ममोदयन्ति । गुरुं विशिनष्टि । विपारायाः पारविमुक्तायाः करुणाया
वाराकरेण जलनिधिना समुद्रेण । दीपकालंकारः ।

'सैव क्रियासु बह्वीषु कारकस्यति दीपकम्


 इत्युपेः । सैव सकृदृत्तिः ॥ ८८ ॥ [ विपारेति । विगतः पारो यस्य स तथै
तादृशो यः करुणाया अवारो भामेत्यादिवन्नामैकदेशग्रहान्नामग्रह्णन्यायेन 'पारावार



धारावाहिमुखानुभूतिमुनिवाग्धारासुधाराशिषु
क्रीडन्द्वैतिवचःसु कः पुनरनुक्रीडेत मूढेतरः ॥
चित्रं काश्चनमम्बरं परिदधचित्ते विधत्ते मुहु
कचित्कचरदुष्पटचरजरत्कन्थानुबद्धादरम् ॥ ८९ ॥
तत्तादृक्षमुनिक्षपाकरवचःशिक्षासपक्षाशय
क्षारं क्षीरमुदीक्षते बुधजनो न क्षौद्रमाकाङ्क्षति ॥
क्षां क्षेपयति क्षितौ खलु सितां नेझुं क्षणं प्रेक्षते
द्राक्षां नापि दिदृक्षते न कदलीं क्षुद्रां जिघृक्षत्यलम् ॥ ९० ॥




सरित्पतिः' इत्यमरात्समुद्रः स एवाऽऽकरः सूक्तिरत्नखनिस्तनेत्यर्थः][उन्मीलदिति ।
एतेन व्यङ्गन्याद्यथैसौष्ठवं व्यज्यते] [ मन्दारेति । मन्दारदुः कल्पद्रुमस्तस्य ये
मरन्दा मकरन्दास्तेषां यद्वन्दं तस्य यद्विलुठन्माधुर्यं तेन धुर्याः श्रेष्टा इति यावत् ।
एतेन शब्दसौष्ठवमपि तत्र सूचितम्] [ अत्र लुप्तोपमादयोऽलंकाराः]॥८८ ॥
 किंच धारावाह्यनवच्छिन्नं यत्सुखं तस्यानुभूतिरनुभवो याभ्यस्तथाभूतमुनिवाग्धारा
लक्षणसुधाराशिषु क्रीडन्सन्द्वैतेनां वचनेषु विषकल्पेषु पुनर्खदन्यः कः क्रीडेदपितु
मूढ एव तत्र क्रीडां कुर्यात्तत्र दृष्टान्तः । चित्रं विचित्रं सुवर्णमयं वस्त्रं परिदधत्पुनः
कचराणां मलदूषितानां दुष्टानां पटचराणां जीर्णवस्राणां या जर्जरीभूता कन्था तस्या
मनुबद्धो य आद्रस्तं कचिन्मनसि धत्तेऽपितु नैव धत्त इत्यर्थ । पाठान्तरे तामनुब
द्वादरं यथा स्यात्तथेति व्याख्येयम्।'कचरं मलदूषितम्’ ‘पटचरं जीर्णवस्रम्' इत्यमरः
॥ ८९ ॥ [ क्रीडजीवन्मुक्तिजलक्रीडासुखमनुभवन्सन्नित्यर्थः ] [ रूपकार्थान्तरन्या
सादयोऽलंकाराः ] ॥ ८९ ॥
 कच तत्तादृक्षेस्तथाभूतैर्मुनिनिशाकरवचोभिर्मुनिचन्द्रवचनैर्या शिक्षा तया सपक्षोऽ
६वरूपस्वपक्षसहितस्तदवलम्ब्याशयोऽन्तःकरणं यस्य शिक्षायाः सपक्षोऽधिकरण
भूत आशयो वा यस्य स बुवजनः क्षीरं पयः क्षारं पश्यति क्षौद्रं माक्षिकं नाऽऽका
क्षति तथा सितां शर्करां बुद्ध्वा भूमौ क्षेपयति पातयति तथेक्षं क्षणमात्रमपि
न मक्षते तथा क्षुद्रां कदलीं न जिघृक्षति धातुमपि नेच्छति ॥ ९० ॥ [ तदिति ।
तत्तस्माद्धेतोः । तादृक्षेति । तादृक्षं तादृशं निरुक्तानन्तगुणमेतादृशं यन्मुनिक्षपाकर
वचः श्रीशंकराचार्थरूपचन्द्रवाक्यामृतं तस्य या शिक्षा पूजितोपदेशस्तेन स पक्षी
नश्चितसाध्यवानाशयोऽन्तःकरणं यस्य स तथा तद्वागमृतपरितृप्त इत्यर्थः ] [ प्र -
तपादिरलंकारः ] ॥ ९० ॥



विक्रीता मधुना निजा मधुरता दत्ता मुदा द्राक्षया
क्षीरैः पात्रधियाऽर्पिता युधि जितालुब्धा बलादिक्षुतः ॥
न्यस्ता चोरभयेन हन्त सुधया यस्मादतस्तद्विरां
माधुर्यस्य समृद्धिरद्रुततरा नान्यत्र सा वीक्ष्यते ॥ ९१ ॥
करेण ऋणीकृतं मृगमदेनाधीत्य संपादितं
मछीभिश्विरसेवनादुपगतं क्रीतं तु काश्मीरजैः ॥
प्राप्त चौरैतया पटीरतरुणा यत्सैौरभं तद्रिरा
मक्षय्यं महि तस्य तस्य महिमा धन्योऽयमन्यादृशः ॥ ९२ ॥
अप्सां द्रप्सं मुलिप्सं चिरतरमचरं क्षीरमद्राक्षमिक्षु
साक्षाद्राक्षामजक्ष मधुरसमधयं प्रागविन्दैमरन्दम् ।।
मोचामाचाममन्यो मधुरिमगरिमा शंकराचार्यवाचा
माचान्तो हन्त किं तैरलमपि च सुधासारसीसारसीन्ना ॥ ९३ ॥




 किंच यस्मान्मधुना माक्षिकेण स्वकीया मधुरता यासु विक्रीता यस्माच द्राक्षया
निजा मधुरता मुदा याभ्यो दत्ता यस्माच दुग्धैर्निजा मधुरता पात्रबुद्धया यास्वर्पिता
यस्माच युधि जितादिक्षुतस्तदीया मधुरता बलाद्याभिर्लब्धा हन्तेति हर्षे यस्माच
सुधयाऽमृतेन चोरभयेन निजा मधुरता यासु न्यस्ता न्यासतया स्थापिता त एतस्मा
तस्य श्रीशांकरस्य गिरां तथाभूतानां गिरां वा माधुर्यस्य साऽदुततरा समृद्धिरन्यत्र
नैव दृश्यत इत्यर्थः ॥ ९१ ॥ [ गम्योत्प्रेक्षादिरलंकारः ] ॥ ९१ ॥
 किंच यदीयं सौरभं करेणीकृतमृणतया गृहीतम् । वाक्यत्वेन संहिताया अ
विवक्षणादसंधिः । तथा यदीयं सौरभं मृगमदेन कस्तुरिकयाऽधीत्य संपादितं तथा
मलीभिर्मालतीभिश्विरसेवनादुपगतं प्राप्त तथा काश्मीरजैस्तु तदीयं सौरभं क्रीतं मौ*-
ल्येन गृहीतं तथा पटीरतरुणा चन्दनवृक्षेण तत्सौरभं चैौरतया प्राप्त तस्य श्रीशंकर
स्य गिरां तथाभूतानां गिरां वाऽक्षय्यं मह्यक्षयं माहात्म्यं तस्मात्तस्य श्रीशंकरस्य तस्य
गिरां सौरभस्य महिमाऽयमन्यादृशाः सर्वलोकविलक्षणो धन्य इत्यर्थः ॥ ९२ ॥
[ महितस्य पूजितस्य । अन्यादृशो लोकोत्तर एव । प्रतीपविशेषगम्योत्पेक्षादयोऽ
लंकाराः ] ॥ ९२ ॥
 किंच सुलिप्सं सुरुच्यं द्रप्सं घने तरंदध्यप्साम् । भक्षणार्थस्य प्साधातोर्लडि
रूपम् । तथा क्षीरं चिरतरं बहुकालमचरम्। भक्षणार्थस्य चरधातोर्लङि रूपम् । तथे



 सर्वेष्वादर्शपुस्तकेष्वेवमेवोपलभ्यते स च प्रज्ञाद्यणा कथंचिद्योज्यं मूल्यमिति तु सम्यक् ।



संतप्तानां भवदवथुभिः स्फारकर्तृरवृष्टि
र्मुक्तार्याष्टिः प्रकृतिविमला मोक्षलक्ष्मीमृगाक्ष्याः ॥
अद्वैतात्मानवधिकसुखासारकासारहंसी
बुद्धेः श्रुध्यै भवतु भगवत्पाददिव्योक्तिधारा ॥ ९४ ॥
आम्रायान्तालवाला विमलतरसुरेशादिसूक्ताम्बुसिक्ता
कैवल्याशापलाशा विबुधजनमनःसालजालाधिरुढा ॥
तत्त्वज्ञानप्रसूना स्फुरदमृतफला सेवनीया द्विजैर्या
सा मे सोमावतंसावतरगुरुवचोवछिरस्तु प्रशस्त्यै ॥ ९५ ॥




क्षुमद्राक्षं तथा प्रत्यक्षेण द्राक्षामजक्षं भक्षितवान्। ‘जक्षभक्षहसनयोः' इति स्मरणात् ।
तथा मधुरसं माक्षिकरसमधयं पीतवांस्तथा मरन्दं मकरन्दं प्रागविन्दं पूर्वं लब्धवांस्तथा
मेोचा कदली ।

‘कदली वारणबुसा रम्भा माचाऽशुमत्फला '


 इत्यमरः। तामाचामं भक्षितवान्। अदनार्थस्य चमुधातोर्लङि मिपि ‘ष्ठिवुझमुचमाम्’
इति दीधे च रूपम् । इदानीं त्वन्योऽतिविलक्षणः श्रीशंकराचार्यवाचां मधुरिम्णो
माधुर्यस्य गरिमाऽऽचान्तो हन्तेति हर्षे तैप्सादिभिः किं यतः सुधाया अमृतस्य
सारसी सारस्यं तस्याः सारस्य सीम्राऽप्यलं कृत्यं नास्ति । स्रग्धरा वृत्तम् ॥ ९३ ॥
[ सुलिप्समिति सर्वत्रसंबध्यते । सुतरां लिप्सा लब्धुमिच्छा यत्र विषये तत्तथेत्यर्थः ]
[ तथा मागिति सर्वत्र । वक्ष्यमाणवाणीरसास्वादात्पूर्वमित्यर्थः ] [ प्रतीपविशेषादि
रलंकारः ] ॥ ९३ ॥
 किंच ‘दवथुः परितापः स्यात्' इत्यमराद्रवदवथुभिः संसारपरितापैः संतप्तानां स्फारा
विशाला कपूरस्य वृष्टिः पुनश्च मोक्षलक्ष्म्या मृगाक्ष्या अङ्गनायाः प्रकृतिविमला स्वभा
वतो विमला मुक्तायष्टिर्मुक्तामयी हारलतिका पुनश्चाद्वैतात्मैवानन्तसुखस्याऽऽसारेण
प्रसरणेन कासारस्तडागस्तस्य हंसी ।

'अभासारः स्यात्पसरणे वेगवृष्टौ सुहृद्वले'


 इति मेदिनी । एवंभूता भगवत्पादस्य श्रीशंकरस्य दिव्योक्तिधारा बुद्धेः शुद्धयै
भवतु । मन्दाक्रान्ता वृत्तम् ।। ९४ ॥ [मुत्तेति । मौक्तिकलतिकेति यावत् ।
अद्वैतेति । अद्वैतात्मनोऽनवधिकं यत्सुखं तदनुसंधानानन्दः स एवाऽऽसारो ‘धारा
संपात आसारः' इत्यमराद्धारासंघाविनिपातस्तत्पूरितो यः कासारो जीवन्मुक्तावित
पद्माकरस्तस्य हंसीत्यर्थः । रूपकलुप्तोपमादयोऽलंकाराः ] ॥ ९४ ॥
 आाम्रायान्ता वेदान्ता एवाऽऽलवालं सर्वतोरक्षा भित्तिर्यस्याः पुनश्चः विमलतर



नृत्यद्भदूतेशवल्गन्मुकुटतटरटत्स्वर्धनीस्पर्धिनीभि
वर्वाग्भिर्निर्भिन्नकूलोचलदमृतसरःसारिणीधोरणीभिः ॥
उद्वेलद्वैतवादिस्वमतपरिणताहंक्रियाहुंक्रियाभि
भर्भाति श्रीशंकरार्यः सततमुपनिषद्वाहिनीगाहिनीभिः ॥ ९६ ॥
साहंकारमुरासुरावलिकराकृष्टमन्मंदर
क्षुब्धक्षीरपयोब्धिवीचिसचिवैः सूतैः सुधावर्षणात् ॥
जङ्घालैर्भवदावपावकशिवाजालैर्जटालात्मनां
जन्तूनां जलदः कथं स्तुतिगिरां वैदेशिको देशिकः ॥ ९७ ॥




सुरेश्वरपद्मपादादिसूक्तिलक्षणैर्जलैः सिक्ता कैवल्यस्य मोक्षस्याऽऽशैव पलाशाः पत्राणि
यस्यां पुनश्च विबुधजनो देवजनः पण्डितजनश्च तस्य मैन एव सालाख्यवृक्षसमुदाय
स्तत्राधिरूढा तत्त्वज्ञानलक्षणं मसूनं पुष्पं यस्यां स्फुरत्स्वयंप्रकाशमानममृतं ब्रह्मानन्द
स्तदेव फलं यस्यामेवंभूता या द्विजैः सेवनीया सोमावतंसस्य चन्द्रशेखरस्य शिव
स्यावतारस्य गुरोः श्रीशंकरस्य वचोलक्षणा वलिर्मे मम प्रशस्त्या अस्तु ॥ ९५ ॥
[ रूपकश्लेषादयोऽलंकाराः । स्रग्धरावृत्तम् ] ॥ ९५ ॥
 ऋत्यतो भूतेशस्य श्रीशंकरस्य वल्गति स्फुरति मुकुटतटे रटन्ती या स्वर्णदी गङ्गा
तया स्पर्धिनीभिः पुनश्च निर्मित्रतटा उचलन्त्यो या अमृतसरसः सारिण्यः स्वल्पनं
द्यो निर्भिन्नकूलादुचलतोऽमृतसरसो वा सारिण्य स्तद्धोरणीवद्धोरणी परिपाटी यासां
ताभिः पुनश्चोद्वेला उलङ्घतवेदमर्यादा ये द्वैतवादिनस्तेषां स्वमतेन परिणता या
अहंक्रियास्तासां हुँक्रियाभिस्तिरस्क्रियाभिः । उद्वेलेत्यहंक्रियाविशेषणं वा । पुनश्च
सततमुपनिषलक्षणासु नदीषु गाहिनीभिर्वाग्भिः श्रीशंकराय भाति राजते ॥ ९६ ॥
[ नृत्यदिति । 'भूतेशः खण्डपरशुः' इत्यमरः । वल्गञ्चलदेतादृशं यन्मुकुटतटं तत्र
रटन्ती शब्दविशेषं कुर्वाणेत्यादि ] [ एतादृशीभिर्वाग्भिः श्रीशंकरार्यः श्रीशंकराचार्यो
भातीति संबन्धः। नन्वेवमप्युक्तवाचां कथं द्वैतवादिमात्रतिरस्कारकारित्वमित्यत्राऽऽह।
सततमित्यादि शेषेण । निरन्तरम् । उपनिषदिति । उपानेिषद एव वाहिन्यो ‘ध्वजिनी
वाहिनी सेना' इत्यमरात्सेनास्ता गाहन्ते प्रविशन्तीति तथा ताभिरित्यर्थः ।
व्यज्यते ] ॥ ९६ ॥
 साइंकाराणां सुरासुराणां याऽऽवलिः पङ्किस्तस्याः करैस्तैराकृष्टेन भ्रमता मन्द
रेण क्षुब्धस्य क्षीरसमुद्रस्य वीचयस्तरङ्गास्तत्सचिवैस्ततुल्यैः सूतैरमृतवर्षणाज्जङ्घालै
र्वेगवद्भिः संसारारूयान्निशिखाजालैर्जटैलात्मनां व्याप्तात्मनां जन्तूनां जलदो देशिको




कलशाब्धिकचाकचिक्षमं
क्षणदाधीशगदागदिमियम् ॥
रजताद्रिभुजाभुजिक्रिय
चतुरै तस्य यशः स्म राजते ॥ ९८ ॥
परिश्रुद्धकथा निर्जितो
यशसा तस्य कृताङ्नः शशी ।।
स्वकलङ्कनिवृत्तयेऽधुनाऽ
प्युदधौ मज्जति सेवते शिवम् ॥ ९९ ॥




गुरुः श्रीशंकरः स्तुतिगिरां वैदेशिको विदेशोऽगोचरः कथं न कथमपीत्यर्थः । शार्दू
लविक्रीडितं वृत्तम् ॥९७॥ [साहंकारेति । वैदेशिको विदेशादागतो वैदेशिक अा
त्मदेशीय एव हि लोके दानादिपात्रं प्रायो भवति न त्वन्यदेशीय इतेि लोके प्रसिद्ध
मेव । तथा च जलद इत्यन्तविशेषणविशिष्टो देशकः श्रीशंकराचार्यः। स्तुतिगिराम्।
वैदेशिको निरुक्तरीत्याऽपात्रं कथं स्यादपि तु नैव स्याकि तु स्तुतिगिरां पात्र
मेव स्यादिति योजना । * जङ्घालोऽतिजवः ' इत्यमरः । लुप्तोपमारूपकादयोऽ
लंकाराः ] || ९७ ।।
 अथ श्रीशंकरस्य यशो वयति । कलशेति । कचेपु कचेषु केशेषु केशेषु गृहीत्वेदं
युद्धं प्रवृत्तं कचाकवि । तत्र तेनेदमिति सरूप इति समासः । अन्येषामपि दृश्यत इति
पृर्वपदान्तस्य इीर्ध । 'इच्कर्मव्यतिहारे’ इतीच्पमासान्तः । कलशा.िवः क्षगिन्विम्तेन
कचाकचियुद्धे क्षमं शान्तं पुनश्च गदाभिश्च गदाभिश्च पट्टत्येदं युद्ध प्रवृत्तं गदागदि
क्षणदावीशेन निशाध-धरेण चन्द्रेण गदागदि धियं यस्य पुनश्च भुजैश्च भुजंश्च पहृत्येदं
युद्धं प्रवृत्तं भुजाभुजि रजताद्रिणा कैलासगिरिणा भुजाभुजयुद्दलक्षणा क्रिया यस्य
तत्तस्य श्रीशंकरस्य चतुरं यशो राजते स्म । वियोगिनी वृत्तम् ॥९८॥ [ कलशेति ।
अत्र मञ्चाः क्रोशन्तीत्यादिवजहत्स्वार्थलक्षणया कलशपदेन तद्रतं क्षीरं लक्ष्यते ।
तथैव कानोटकादीनां प्रायः प्रयोगदर्शनादन्यथोक्तमयोगनिर्वाहाभावादमरममेदिन्या
घखिलनानार्थकोशेषु कुत्रापि क्षारवाचकत्वादर्शनाच । एवं च क्षीराकलशशाब्दस्य
ब्धिना सह यत्कचाकचि कचेषु कचेपु गृहीत्वेदं युद्धं प्रवृत्तं कचाकवि तत्र क्षमं दक्ष
क्षीराब्धितिरस्कारसमर्थमित्यर्थः । क्षणदेति । क्षाराविकुमारीभूनामृतकरस्यापि निरा
सचतुरामति यावत् । प्रतीपमलंकार: ] ॥ ९८ ।।
 कः परिशुद्ध इति परिशुद्धानां कथामु चन्द्रः परिशुद्ध इति केनचित्कथिते सक
लङ्कात्तस्मान्निष्कलङ्गं श्रीशंकरैयशः परिशुद्धमित्यपरेणोक्त तस्य यशसा नितरां जित:



धम्मिछे नवमछिवछिकुसुमस्रकल्पनाशिल्पिनो
भद्रश्रीरसचित्रचित्रितकृतः कान्ते ललाटान्तरे ॥
तारावल्यनुहारिहारलतिकानिर्माणकर्माणुका
कण्ठे दिक्समुदृशां मुनीश्वरयशःपूरा नभःपूरकाः ॥ १०० ॥
उत्सङ्गेषु दिगङ्गना निदधते ताराः कराकार्षिका
रागाद्यौरवलम्ब्य चुम्बति वियद्रङ्गा समालिङ्गति ॥
लोकालोकदरी प्रसीदति फणी शेषोऽस्य दत्ते रातिं
त्रैलोक्ये गुरुराजकीर्तिशशिनः सौन्दर्यमत्यदुतम् ॥ १०१ ॥




कृताङ्कनः शशी सकलङ्कश्चन्द्रः स्वकलङ्कनिवृत्तयेऽधुनाऽप्युदधौ समुद्रे मज्जाति शिवं
च सेवते ॥ ९९ ॥ [ परीति । परिशुद्धवार्तास्वित्यर्थः । अवच्छेदकत्वं सप्तम्यर्थः ।
गम्योत्प्रेक्षाविशेषोऽलंकारः ] ॥ ९९ ॥
 नभःपूरकाः मुनीश्वरयशःपूरा दिक्सुदृशां दिगङ्गनानां धम्मिले धम्मिलः संयताः
कचास्तस्मिन्नवीना या मलिवलिमलतीलता तस्याः कुसुमानि तेषां स्रजां मालानां
कल्पने शिल्पिनस्तथा दिक्सुदृशां कान्ते ललाटान्तरे भद्रश्रीश्चन्दनम् ‘भद्रश्रीश्चन्द्
नोऽस्त्रियाम्' इत्यमरः। तस्य रसेन चित्रमालेख्यं चित्रितं कुर्वन्तीति भद्रश्रीरसचित्रचि
त्रितकृतस्तथा दिक्सुदृशां कण्ठे तारावल्येकावल्येकयष्टिका 'सैव नक्षत्रमाला स्यात्सप्त
विंशतिमौक्तिकैः' इत्यमरोक्ता नक्षत्रमालाख्याऽनुहारिणी मनोहरा हारलतिका
तस्या निर्माणकर्मण्यणुका निपुणाः। ‘अणुको निपुणाल्पयोः' इति मेदिनी । शार्दूलविक्री
डितं वृत्तम् ॥ १०० । [ ललाटेति । भालमध्य इत्यर्थः । भद्रेति । भद्रः कल्या
णकरो यः श्रीरसः श्रीखण्डारूयचन्दनरसस्तेन यचित्रमदुतमेतादृशं याचित्रितं चित्र
काख्यातिलकरचनाजातं तत्कुर्वन्तीति तथेत्यर्थः । शृङ्गारशास्त्रे ज्योत्स्नाभिसारिकाणां
भाले चन्दनतिलकमपि प्रसिद्धमेवेति भाव । अत एवोक्तं गीतगोविन्दे ।

'अत्रान्तरे च कुलटाकुलवत्र्मपात
संजातपातक इव स्फुटलाञ्छनश्रीः ।
वृदावनान्तरमदीपयदंशुजालै
र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः’ इति ।


 रूपकाद्योऽलंकाराः ] || १०० ।।
 गुरुराजस्य श्रीशंकरस्य कीर्तिर्यशास्तलक्षणस्य चन्द्रस्य त्रैलोक्ये सौन्दर्यमत्यदुत
मस्ति यतो दिगङ्गनास्तत्कीर्तिचन्द्रमुत्सङ्गेऽङ्के निदधते धारयन्ति प्रसिद्धचन्द्रं तु सर्वा
दिगङ्गना नैवं कुर्वन्ति तथा ताराः किरणात्मकैर्हस्तैराकर्षिकाः प्रसिद्धचन्द्रस्तु नैवंविध
स्तस्य क्रमेण तारासु गमन प्रसिद्धेस्तथा द्यौस्तं रागाद्वलम्ब्य सदैव चुम्बति नतु


धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।
संप्राप्ता मुनिशेखरस्य हरितामन्तेषु सांकाशिनं
कलोला यशसः शशाङ्ककिरणानालक्ष्य सांहासिनम् ॥
कुर्वन्ति प्रथयन्ति दुर्मदसुधावैदग्ध्यसांलोपिनं
सम्यग्न्नन्ति च विश्वजाडूघिकतमःसंघातसांघातिनम् ॥ १०२ ॥
सोत्कण्ठाकुण्ठकण्ठीरवनस्वरवरश्रुणमत्तेभकुम्भ
प्रत्यग्रोन्मुक्तमुक्तामणिगणसुषमाबद्धदोर्युद्धलीला ॥
मन्थाद्रिक्षुध्घदुग्धार्णवनिकटसमुल्लोलकछोलमैत्री
पात्रीभूता भूता जयति यतिपतेः कीर्तिमाला विशाला ॥१०३॥




प्रसिद्धं तं तस्य तत्र सर्वदा स्थित्ययोगात्तथाऽवियद्भङ्गा तं सम्यगालिंगति नतु प्रसिद्धं
तं तथा लोकालोकाभिधपर्वतदरी तेन प्रसीदति नतु प्रसिद्धचन्द्रेण तस्य तत्र
गुत्यभावात्तथा शेषारूयः फणी सपऽस्य रतिं प्रीतिं दत्ते नतु प्रसिद्धस्योक्तहेतोस्तथा
चैवंभूतस्य तस्य लोकत्रये सौन्दर्यमत्यदुतमित्यर्थः ।। १०१ ॥ [ उत्सङ्गेष्विति ।
गुरुराजकीर्तिशशिनमित्यार्थिकम् । निद्वते प्रेम्णा स्थापयन्तीत्यर्थः । गुर्विति । षष्ठय
न्तमेव । रागादित्यादि । गुर्वेिति द्वितीयान्तमेवात्र प्राग्वदार्थिकम् । एवमेव वियदि
त्यादावपि । लोकालोकेति । अत्र गुर्वित्यादिसप्तम्यन्तमध्याहार्यम् । शेष एतन्नामा
फणी नागः । अस्य निरुक्तशशिनः । इयं षष्टी चतुथ्र्यर्थिका ज्ञेया अभत्र दिगङ्गना
दिनायिकापञ्चकानुरागादुक्तनायकसैौन्दर्यवर्णनध्वनितः शृङ्गारोऽपि रसः । काव्यलि
ङ्गादयोऽलंकाराः ] ।। १०१ ॥
 किंच मुनिशेखरस्य यशोलक्षणस्य क्षीरनिधेः कलेोला हरितां दिशामन्तेषु मांकाशिनं
समन्तात्प्रकाशं प्राप्ताः संशब्दोऽभिविविद्योतकः । 'अभिविधै। भाव इनुष्’ इत्यनेने
नुण्प्रत्ययः । एवमग्रेऽपि तथा शशाङ्ककिरणानालक्ष्य सांहाभिनं समन्ताद्धापंकुर्वन्ति
तथा दुर्भदाया दुर्गर्ववत्याः सुधाया वैदग्ध्यस्य चातुर्थस्य सांलोपिनं समन्तालापं मथ
यन्ति तथा विश्धजाङ्घकस्य जगति व्याप्तस्याज्ञानलक्षणस्य तमसः संघातस्य सांघा
तिनं समन्ताद्धातं सम्यग्न्नन्ति कुर्वन्ति पाकं पचतीतिवत्पुनः पयोगः ॥ १०२ ॥
[ मुनीति । मननशीलशिरोमणेः श्रीशंकराचार्यस्येत्यर्थः । अत्र यशसः कलेोला
इत्युक्त्या तस्य क्षीरार्णवत्वं व्यज्यते । एवं च रुपकादिरलंकारः ।। १०२ ।।
 सोत्कण्ठमुत्कण्ठया सह वर्तमानोऽकुण्ठोऽनिवार्यः कण्ठीरवः सिंहस्तस्य नखरवरा
नखश्रेष्ठास्तैर्हतान्मत्तगजकुम्भात्प्रत्ययोन्मुक्ता नवोन्मुक्तानां सद्यः पनितानां मुक्ता
ख्यमणिगणानां सुषमा सौन्दर्य तेनाऽऽबद्धा बाहुयुद्धलीला यया पुनश्च मथनाद्रिणा
मन्दराचलेन क्षुब्धस्य क्षीरसमुद्रम्य निकटवर्तिनः सम्यक्चञ्चला ये बृहत्तरङ्गास्तैः



लोकालोकदरि प्रसीदसि चिरात्कि शंकरश्रीगुरु
प्रोद्यत्कीर्तिनिशाकरं प्रियतमं संश्लिष्य संतुष्यसि ॥
त्वं चाप्युत्पलिन प्रहृष्यसि चिरात्कस्तत्र हेतुस्तयो
रित्थं प्रश्रगिरां परस्परमभूत्स्मेरत्वमेवोत्तरम् ॥ ४ ॥
दुर्वारास्वर्वगर्वाहितबुधजनतातूलवातूलवेगो
निबधागाधबोधामृतकिरणसमुन्मेषदुग्धाम्बुराशिः ॥
निष्प्रत्यूहं प्रसर्पद्रवदवदहनोदूतसंतापमेघो
जागर्ति स्फीतकीर्तिर्जगति यतिपतिः शंकराचार्यवर्यः ।। ५ ।।




सह या मैत्री तस्याः पात्रीभूता ततुल्या प्रभूता विशाला यातिपतेः कीर्तिमाला जयति
सर्वोत्कर्षेण वर्तते। स्रग्धरा वृत्तम् ॥१०३॥ [ सोत्कण्ठेति । उत्कण्ठयोत्साहेन साहेि
तस्तथा स चासावकुण्ठकण्ठीरवश्चेति तथा परमोत्साहशाल्यप्रतिहतशक्तिसिंह इत्यर्थः ।
सिंहः कण्ठीरवः' इति त्रिकाण्डशेषः । प्रतीपलुप्तोपमादयोऽलंकाराः ] ।। १०३ ॥
 कमलिनी लोकालोकारूयपर्वतकन्दरां पृच्छति हे लोकालोकदार त्वं विरात्प्रसीद
सि किं शंकराख्यश्रीगुरोः प्रोद्यत्कीर्तिलक्षणचन्द्रमेव प्रियतमं सम्यगालिङ्गन्य संतुष्य
स्येवं पृष्टा लोकालोकदरी कमालिनीं पृच्छति ह उत्पालानि त्वं चापि चिरात्प्रहृष्यसि
तत्र महर्षे को हेतुरितीत्थं तयोर्दरीकमलिन्योः प्रश्रगिरां स्मेरत्वं विकसितवदनत्वमे
वोत्तरमभूत् ॥४॥ [ हे लोकालोकदरि त्वम् । शंकरेति । एतादृशम् । पियतमं चि
रात्संश्लिष्य प्रसीदसि किंवा संतुष्यसीति वदेत्यन्वयः । त्वं चेत्यादि तु सरलमेव ।
इहातिशयोक्तिलुप्तोपमारूपकोत्प्रेक्षादयोऽलंकाराः । अदुतानुप्राणितः शृङ्गारोऽपि
रसः । शार्दूलविक्रीडितं वृत्तम् ॥ १०४ ॥
 दुर्वाराऽनल्पगर्वाऽहिता पण्डितजनैतैव तूलः कापसकणस्तस्य वातूलवेगो वात्यावेग
स्लथा बाधरहितो योऽगावो बोधस्तत्त्वज्ञानं स एवाभृतकिरणश्चन्द्रस्तदुन्मेषे' तदाविर्भावे
क्षीरसमुद्रस्तथा निष्प्रत्यूहं निर्वित्रं पसर्पतः संसारदावामेरुदूतस्य संतापस्य मेघ एवं
भूतः । स्फीता विशाला कीर्तिर्थस्य स शंकरश्चासावाचार्यवयों यातिपतिर्जगात जागर्ति ।
स्रग्धरा वृत्तम् ॥ १०५ ॥ [ दुर्वारेति । दुर्वारो दुर्निरस एतादृशो योऽखर्वग
वऽतिमहाभिमानस्तत्राऽऽहिता दैवादाभिषिक्ता यद्वा तेनाहितमनिष्टं यस्या एतादृशी
या बुधजनता भेदवादिपण्डितजनजातिः सैव तूलं नीरसत्वात्फल्गुत्वात्पेलवत्वाच तूलं
कापसाद्य कृत्रिमतन्तुजालं प्रसिद्धमेव तस्य वा तूलो वातसमूह एतादृशो यो वेगो
वात्याविशेष इत्यर्थः । तथा । निबधेति । निबधः कालत्रयेऽप्यविनाश्यत एवागा
धोऽतलस्पशोऽनन्त इति यावत् । एतादृशः । अत एव । बोधेति । बोधो ब्रह्मात्मै



इतिहासपुराणभारत
स्मृतिशास्त्राणि पुनः पुनर्मुदा ।।
विबुधैः मुबुधो विलोकय
न्सकलज्ञत्वपदं प्रपेदिवान् ॥ ६ ॥
स पुन: पुनरैक्षताऽऽदरा
द्वरवैयासिकशान्तिवाक्ततीः ।
समगादुपशान्तिसंभवां
सकलज्ञत्ववदेव शुद्धताम् ।। ७ ।।
असत्प्रपञ्चश्चतुराननोऽपि स
न्न भोगयोगी पुरुषोत्तमोऽपि सन् ।
अनङ्गजेताऽप्यविरुपदर्शनो
जयत्यपूर्वे जगदद्वयीगुरुः ॥ ८ ॥




क्यसाक्षात्कारः स एवामृतकिरणः पीयूषभानुश्चन्द्र इत्यर्थः । तस्य पम्यगुन्मे" अभावि
भवो यस्मात्स तथा । रूपकलुप्तोपमादयोऽलंकाराः ॥ १०५ ।।
 इतिहासपदबोध्यानि महाभारतादीनि पुराणानि ब्राह्मादीनि भारतम्मृतयः सन
त्सुजातीयगीतासहस्रनामाख्याः शास्त्राण्युत्तरमीमांसादीनि । भारतस्मृतीनामितिहासम
हणेन ग्रहेऽपि पृथगुपादानं ब्राह्मणपरिव्राजकन्यायेन समाधेयम् । भारतस्यैव वा पृथ
गुपादानं बोध्यम् । स्मृतयो मन्वादिस्मृतयः । इतिहासादीनि पुनः पुनर्मुदा विबुधै
पण्डितैः सह सुबुधः पण्डितायणीः श्रीशंकरो विलोकयन्सर्वज्ञत्वपदं प्राप्तवान्विबुवै
सकलज्ञत्वपदं प्राप्तवानिति वा संबन्धः । वियोगिनी वृत्तम् ॥ ६ ॥ [ एवं श्रीमद्भगव
त्पादवाण्याद्यभिवार्य तस्य सार्वज्ञत्यमाह । इति हासेति ] | १०६ ॥
 स श्रीशंकरः पुनः पुनरादराद्वराः श्रेष्ठा वैयासिकः शान्तिवानकतः शान्तिपर्वस्था
वाक्पङ्गीरैक्षत सर्वज्ञत्वं यथा प्राप्तवांस्तद्वदेवंपशान्तिसंभवां शुद्धतामपि पमगात्स
म्यगाप्तवान् । तथाच केवलं सकलज्ञतैव न तेनाऽऽप्ताऽपि तु मुग्यफलं शुद्धत्वम
पीति भावः॥ १०७ ॥ [ वरेति । वरा: सकलत्रय्यन्ततात्पर्यसूत्रणादत्युत्कटा एता
दृश्यो वैयासिक्यो व्याससंबन्धिन्यो याः शान्तवाचस्तासां ततीः पङ्गीरित्यर्थः । अा
दरात्प्रेम्णा ] ॥ १०७ ॥
 किंच चतुरमाननं मुखं यस्य स चतुराननोऽपि सन्नपत्पपञ्चः प्रपञ्चरहितः पास
द्वश्चतुराननश्चतुर्मुखो हिरण्यगर्भस्तु सत्मपश्चस्तथा पुरुषेभ्य उत्तमोऽपि सान्वपयभ
गसंबन्धवान्न भवति प्रसिद्धस्तु पुरुषोत्तमो विष्णुः शेषशारीरयोगित्वाद्भोगयोगी तथाऽ
नङ्गस्य कामस्य जेताऽपि विरुपं दर्शनं यस्य स विरूपदर्शनो न भवति प्रसिद्धस्त्व-


आलोक्याननपङ्कजेन दधतं वाणीं सरोजासनं
शश्वत्संनिहितक्षमाश्रियममुं विश्वंभरं पूरुषम् ।।
आर्याराधितकोमलाडूधिकमलं कामद्विषं कोविदा
शङ्न्ते भुवि शंकरं व्रतिकुलालंकारमङ्कागताः ॥ ९ ॥




नङ्गजेता महादेवो विरूपदर्शनस्तथाचैवंभूतोऽपूर्वोऽद्वयीगुरुः श्रीशंकराचार्यो जगज
यतीत्यर्थः । अत्र श्लेषमूलको विरोधाभासः ।

'आभासत्वे विरोधवस्य विरोधाभास इष्यते'


इत्युक्तेः ॥ १०८ ॥ [ अथ संक्षेपेण श्रीशैकराचार्य सर्गान्ते परममङ्गलरूपत्वालो
कोत्तरत्वेन वर्णयति ] [ चतुरेति । चत्वार्याननान्यस्येति चतुराननो ब्रह्मा स
तावत् । असदिति । असन्नलीकः प्रपञ्चो यस्य स एतादृशो न भवति । किंतु
व्यावहारिकसत्तापन्नप्रपञ्चकर्तव भवतीति विरोधः । एतदाभासस्त्वेवम् । चतुरेति ।
चतुरं वतुं कुशलमाननं मुखं यस्य स तथेत्यर्थः ] [ अभोगेत्यादि । पुरुषोत्तमोऽपि
विष्णुरपि सन् । अधोगयोगी

‘भोगः सुखेस्यादिभृतावहेश्च फणकाययो।


इत्यमराद्भोगशब्दितशेषशारीरं तस्य योगः शय्याकालिकः संयोगः सोऽस्यास्तीति
भोगयोगी तथा न भवतीति तथेति विरोधः। पक्षे भोगशब्देन स्रयादिभृतिः सा नास्त्य
स्येत्यभोगः स चासौ योगी चेति तथा । भोगविशिष्टयोगिनो हि वसिष्ठादयः प्रसिद्धा
एव । अयमाचार्यस्तु पुरुषोत्तमोऽपीश्वरत्वात्सकलजीवश्रेष्ठोऽपि सन्नभोगयोग्येवेत्यर्थः]
तथा । अनङ्गेति । अनङ्गस्य कामस्य जेता हि शिवो विरूपदर्शनो विरूपाक्षो भवति
न त्वविरुपदर्शनः । अयं त्वनङ्गस्य कामस्य जेता निग्रहीताऽप्याविरूपदर्शनो वेिरू
पाक्षो न भवति किंत्वद्वैतात्मत्वेन सर्वत्र सुरूपदर्शन एव भवतीति भावः ] [ जग
दिति । जगतोऽद्वया न विद्यते द्वयं द्वैतं यस्यां विषयतया सा तथाऽद्वैतब्रह्मविद्या
तस्या गुरुपदेष्टा श्रीभगवत्पादाचार्यः जयति सर्वोत्कटत्वेन वर्तत इत्यन्वयः ।
अत्रातुतो रसः । धीरोदात्तो नायकः । विरोधाभासोऽलंकार । तदुक्तम् ।

'आभासस्य विरोधत्वे विरोधाभास इष्यते ।
विनाऽपि तन्विहारेण वक्षोजौ तव हारिण’ इति ।
वंशस्थं वृत्तम् । तदुक्तम् ।
'जतैौ तु वंशस्थमुदीरितं जरौ' इति ] ॥ १०८ ।।


किंच मुखपङ्कजेन वाणीं सरस्वतीं दधतं ब्रह्मचारिकुलालंकारं श्रीशंकरमालोक्या
ङ्कमन्तिकं समीपमागता विद्वांसः कमलासनं ब्रह्माणं शङ्कन्ते । तथा सततं संनिहिता
क्षमा लक्ष्मीर्यस्य तथाभूतं तं दृष्टा विश्वंभरं पुरुषं श्रीविष्णु शङ्कन्ते । तथाऽऽयैरारा


एकस्मिन्पुरुषोत्तमे रांतिमतीं सत्तामयोन्युद्रवां
मायाभिक्षुहृतामनेकपुरुषासक्तिन्नमान्निष्ठुराम् ।।
जित्वा तान्बुधवैरिणः प्रियतया प्रत्याहरद्यश्चिरा
दास्ते तापसकैतवाविजगतां त्राता स नः शंकरः ॥ ३८४ ॥
इति श्रीमाधवीये तदाशुद्धाष्टमवृत्तगः ॥
सक्षपशकरजय चतुथः सग अभवत् ॥ ४ ॥




धिते कोमले चरणकमले यस्य तं कामद्विषं महादेवं शङ्कन्ते । शार्दूलविक्रीडितं वृत्तम्
॥१०९॥ [ संनिहितेति । संनिहिते निकटगते क्षमाश्रियी पृथ्वीलक्ष्म्यौ यस्य स तथा
तामित्यर्थः । ‘क्षितिक्षान्त्योः क्षमा' इत्यमरः । पूरुषं 'पृरुषाः पुरुषाः' इत्यमरः। ‘अार्या
दाक्षायणी' इत्यमरः । पक्षे । सरोजेति । पद्मासनस्थितमालोक्येति यावत् । क्षमा क्षान्ति
श्रीः शोभैश्वर्यसंपत्तिर्वा । आयः श्रेष्ठा ब्राह्मणाः । कुलेति । शिवगुरुकुलभूषणम्। एतादृशं
शंकरं श्रीशशंकराचार्य पत्यङ्कागता निकटप्राप्ताः कोविदाः सरोजासनं विश्वंभरं कामद्विषं
च पूरुषं शङ्कन्त इति संबन्धः । श्लेषसंदेहादयोऽलंकाराः ] ॥ १०९ ।।
 किंचैकस्मिन्पुरुषोत्तमे भगवति रामचन्द्र रतिमतीमयोन्युद्भवां सीतालक्षणां सत्तां
मायाभिक्षुणा रावणेन हृतां तान्बुधवैरिणो देवद्विषो राक्षसाञ्जित्वाऽनेकपुरुषेऽश्रेष्ठपुरुषे
राक्षसे रावण आसक्तिंभ्रमाद्रावणेऽस्या आसक्तिरिति रामचन्द्रनिष्ठाद्रमान्निधुरां नैषु
येण वर्हि प्रविष्टमश्रेष्ठपुरुषस्य रावणस्य स्वस्मिन्नासाक्तिभ्रमात्तं प्रति निष्ठरामिति वा
श्रेष्ठपुरुषस्य रामचन्द्रस्य स्वस्मिन्नासक्त्यभावभ्रमान्निष्ठुरामिति वा यो रामचन्द्रात्मनाऽ
वतीर्णः शिवचिराप्रियतया प्रत्याहरत्स त्रिजगतां त्राता नोऽस्माकं सुखकरस्तापस
कैतवाद्यतिवेषमिषादास्ते नस्त्रिजगतां त्राता शंकर इति वा शिवस्य रामचन्द्रात्मनाऽऽ
वतरणप्रकारस्तु स्कन्दपुराणादवगन्तव्यः । पक्ष एकस्मिन्न द्वितीये पुरुषोत्तमे क्षराक्षरातीते
परमात्मनि रतिमतीं जन्मादिशून्यां सत्तां मायाभिक्षुभिः क्षणिकविज्ञानवद्यादिभिताम
नेकात्ममसक्तिभ्रमान्निष्ठुरां तान्विवेकिवैरिणो जित्वा यश्चिरात्प्रत्याहरत्समानमन्यत् ॥
॥११०|[इह निरुक्त एव नायकः। वीरो रसः शान्तोऽपि । श्लेषादयोऽलंकाराः]॥११०॥
 [ इति श्रीति । तदा शुद्धेति । शुद्धाष्टममा मर्यादीकृत्येत्या शुद्धाष्टमं तस्याऽऽ
शुद्धाष्टमं यदृत्तं तद्रच्छाति प्रतिपादकत्वेनेति तथेत्यर्थः । सप्तमवर्षान्तश्रीशंकराचार्थवर्ण
नपर इति यावत् ] ॥ १११ ।।
 इति श्रीमत्परमहंसपरिवाजकाचार्थबालगोपालतीर्थश्रीपृज्यपादशिष्यदत्तवंशा
 वतंसरामकुमारसूनुधनपतिसूरिकृते श्रीशंकराचार्यविजयडिण्डिमे चतुर्थः सर्गः ॥४॥



       अथ पज्चमः सर्गः।
इति सप्तमहायनेऽखिल
श्रुतिपारंगततां गतो बटुः ॥
परिवृत्य गुरोः कुलाद्रहे
जननीं पर्यचरन्महायशाः ॥ १ ॥
परिचरजननीं निगमं पठ
न्नपि हुताशरवी सवनद्वयम् ।
मनुवरैर्नियतं परिपूजय
ञ्शिशुरवर्तत संस्तरणिर्यथा ।। २ ।।
शिशुमुदीक्ष्य युवाऽपि न मन्युमा
न्दिशति वृद्धतमोऽपि निजासनम् ।।
अपि करोति जनः करयोर्युगं
वशगतो विहिताञ्जलि तत्क्षणात् ॥ ३ ॥




 एवं प्राकृतजनविलक्षणं तस्य बालचरितमुपवण्र्य तुर्याश्रमस्वीकृतिमुपवर्णयितुं
प्रस्तौति । इतीति । इत्युक्तप्रकारेण सप्तमवर्षे सर्ववेदपारंगततां प्राप्तो बटुर्बह्मचारी
गुरोः कुलात्परिवृत्य परिवर्तनं समावर्तनं विधाय गुरुकुलवासं समाप्य महायशा गृहे
जननीं पर्यचरत्सम्यक्सेवितवान् । वियोगिनी वृत्तम् ॥ १ ॥ [ इतीति । 'हायनोऽ
स्त्री शरत्समाः' इत्यमरः । महायशाः सन्पर्यचरदित्यन्वयः । तेन न समाप्तपुनरात्त
त्वम् । चन्द्रवद्यशःपूर्वकगुरुकुलतः परावृतिवारकत्वेनोक्तविशेपणस्य सार्थक्यादि
त्याशाय: ] | १ ॥
 मातरं परिचरन्वेदं पठंश्च मनुश्रेष्ः स्वायंभुवादिभिरन्निसूर्यसंपजायां नियमितं प्रात
सवनं तृतीयसवनमित्येवंरूपं सवनद्वयं वह्निसूयै परिपूजयन्सञ्शिशुर्भानुवद्वर्तत ।
[सवनद्वयं-
मनुवैरर्मत्रवरैर्नियतं यथा स्यात्तथा परिपूजयान्निति वा । दुतविलम्बितं वृत्तम् ॥ २ ॥

'सवनद्वयं सवनं त्वध्वरे स्नाने सोमानिदैलनेऽपि च'


इति मेदिन्याः सायं प्रातरमिकायस्ख्यं यज्ञवाचकसवनपदवाच्यहेमद्वयं मती
त्यर्थः ] [ शिशुः

'कौमारं पञ्चमाब्दान्तं पैोगण्डं दशामावधि'


 इति वचनात्पौगण्डवयाः श्रीशंकराचार्यः ] [ उपमादिरलंकारः ] ॥ २ ॥
 किंच शिशु श्राशंकरं दृष्ट्रा क्रोधाद्यालयो युवाऽपि कोपवान्न भवति । तथा वृद्ध



मृदु वचश्चरितं कुशंलां मतिं
वपुरनुत्तममास्पदमोजसाम् ।
सकलमेतदुदीक्ष्य मुतस्य सा
सुखमवाप निरर्गलमम्बिका ॥ ४ ॥
जातु मन्दगमनाऽस्य हि माता
स्रानुमम्बुनिधिगां प्रति याता ॥
आतपोग्रकिरणे रविबिम्बे
सा तपःकृशतनुर्विललम्बे ॥ ५ ॥




तमोऽत्यन्तमादरणीयोऽपि स्वासनं ददाति । अपिच तत्क्षणाद्दर्शनक्षण एव वशं प्राप्तः
सर्वोऽपि जनो हस्तयोर्युगलं विहिताञ्जलि करोति ॥ ३ ॥ [ तस्य सर्वमान्यता
माह । शिशुमिति ] [ जनः सामान्यतः सर्वलोकः ] [ विहितेति । विहितो विधेि
चोदितोऽञ्जलिर्निर्मुक्ताङ्गष्ठकरद्वयसंयोजनमित्यर्थः ] ॥ ३ ॥
 मृद्विति चरिंतस्यापि विशेषणं मृदु कोमलं वचो यस्मिस्तचरितमिति वा । ओजसां
मन भादिबलानामास्पदमाश्रयभूतं वपुः शारीरं सुतस्यैतत्सर्वमवेक्ष्य सा सती कुमारजननी
निरर्गलमप्रतिबन्धं सुखमवाप ॥ ४ ॥ [अनुत्तमं न विद्यत उत्तमं यस्मात्तत्तथा निरुप
ममित्यर्थः । तत्र हेतुः । आस्पदमित्यादि ][ निरर्गलम् ।

‘कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना
इत्यमरान्निर्गतमर्गलं प्रतिबन्धकं यस्मात्तत्तथेत्यर्थः ] ॥ ४ ॥


 कदाचिदस्य श्रीशंकरस्य माता हि प्रसिद्धं मन्दं गमनं यस्याः सा समुद्रगां नदीं
मति स्नानार्थं गता सूर्यमण्डल आतपेनेोग्राः किरणा यस्यैतादृशे मति तपसा कृशा
तनुः शरीरं यस्याः सा सती विलम्बं कृतवतीत्यर्थः । स्वागता वृत्तम् ॥ ५ ॥
[ आतपेति । अभातपेन ‘प्रकाशो द्योत आतपः' इत्यमरात्प्रकाशविशेषेणोग्राः क्रूराः
किरणा यस्य तत्तथेत्यर्थः ] [ तप इति । तपसा भर्तृवियोगवशात्समनुष्ठितचान्द्राय
णादितपसा कृशा शुष्का तनुः शरीरं यस्याः सा तथेत्यर्थः । एतादृश्यत एव सा
विललम्ब इत्यन्वयः ] ॥ ५ ॥



शंकरस्तदनुशङ्कितचित्त
पङ्कजैर्विगतपङ्कजलाद्वैः ॥
वीजयनुपगतो गतमोहां
तां जनेन सदनं सह निन्ये ॥ ६ ॥
सोऽथ नेतुमनवद्यचरित्रः
सअनोऽन्तिकमृषीश्वरपुत्रः ।
अस्तवीजलधिगां कविहृचै
वैस्तुतः स्फुरदलंकृतपचैः ॥ ७ ॥
ईहितं तव भविष्यति काल्पे
यो हितं जगत इच्छसि बाल्पे ॥
इत्यवाप्य स वरं तटिनीतः
सत्यवाक्सदनमाप विनीतः ॥ ८ ॥




 तत्तदा विगतकर्दमेन जलेनाद्रेः पङ्कजैवजयनुपगतो जनेन जनसमुदायेन सह
सदनं माति निन्ये । हेत्यव्ययं स श्रीशंकर इति वा ॥ ६ ॥
 अथ नयनानन्तरं दोषरहितचरित्र ऋषीणामीश्धरस्य शिवगुरोः पुत्रः श्रीशंकरो
गृहस्य समीपं नेतुं समुद्रगां नदीं कवीनां मनोशैर्वस्तुतः स्फुरन्त्यलंकृतानि च तानि
पद्यानि च तैर्नत्वाऽऽपाततः स्फुरदलंकृतपथैरस्तुवीत || ७ || [ ऋषीति । ऋषीणां
मश्रद्रष्ट्रणां मध्य ईश्वरः शिवावतारपात्रत्वेन श्रेष्ठो यः शिवगुरुस्तस्य पुत्र इत्यर्थः ।
अत एव । अनवद्येति ] [ अथ निरुक्तमातृछेशावेक्षणानन्तरम् । जलविगां
समुद्रगां प्रागुक्तपूर्णाभिधां नदीम् ] [वस्तुतः पारपारमार्थिकब्रह्मत्वेनेति यावत् ]॥ ७ ॥
 तेन स्तुता संतुष्टा नद्युवाच । तवेहितमभिलषितम् । कलयति चेष्टामिति । काल्ये
प्रातःकाले भविष्यति । ‘अध्न्यादयश्च' इति कलयक ततः प्रज्ञाद्यणि रुपम् । ‘प्रत्यू
षोऽहर्मुखं कल्यम्' इत्यमरः । यस्त्वं बाल्यावस्थायां जगतो हितमिच्छसीत्येवंप्रकारेण
नदीतो वरं प्राप्य सत्यवचनः श्रीशंकरः सदनं प्राप । एतादृशसामथ्र्यवत्वेऽपि विन
ययुक्तः ॥ ८ ॥ [ सत्येति । सत्यब्रह्मप्रतिपादिका वाग्यस्य स तथा । एतेन तत्स्तुते
सगुणब्रह्मतात्पर्यं नैवास्तीति सूचितम् । स्तुतिवरपदानयोः कार्यकारणभावलीला
तु लोकानां प्रायो निर्गुणब्रह्मानधिकारित्वात्तादृशसगुणभक्त्यादिपवृत्तिसिद्धयर्थमेवेति
भावः । एतादृशाः स श्रीमच्छंकराचार्यः । विनीतो वरलाभगर्वशून्यः सन्सदनं स्वगृ
हम्][ काव्यलिङ्गपरिकराद्योऽलंकारः ] ॥ ८ ॥


प्रातरेव समलोकत लोक
शीतवातहृतशीकरपूतः ।
नूतनामिव धुनीं प्रवहन्तीं
माधवस्य समया सदन ताम् ।। ९ ।।
एवमेनमतिमत्र्यचरित्र
सेवमानजनदैन्यलवित्रम् ।
केरलक्षितिपतिर्हि दिदृक्षु
प्राहिणोत्सचिवमादृतभिक्षुः ॥ १० ॥
सोऽप्यतन्द्रितमभीरुपदाभि
प्राप्य तं तदनु सद्विरदाभिः ।।
शक्तिभृत्सममजिज्ञपदाभिः ॥ ११ ॥




 शीतेन वायुनाऽऽहृतैर्जलकणैः पवित्रितो लोकः प्रातरेव माधवस्य लक्ष्मीपतेर्विष्णोः
समया सदनं मन्दिरस्य समीपे प्रवहन्तीं तां धुनीं नदीं नूतनामिव समलो
कत ॥ ९ ॥ [ लोको जन । प्रातरेव । शीतेति । एतादृशः सन् । सदनं श्रीमद्भ
गवत्पादगृहं प्रति । समया ‘समया निकषा हिरुकू' इत्यमरान्निकटप्रदेश इत्यर्थः ।
नूतनामभिनवामेव । माधवस्य विष्णोः । धुनीमिव ‘तटिनी द्वादिनी धुनी' इत्यमरा
द्विष्णुचरणसंभूतां भगीरथीमिवेत्यर्थः । एतादृशीं तां पूर्वोक्तस्वकृतमार्थनया दत्तवरां
पूर्णानदीमिति यावत् । समलोकत सम्यक्प्रमयैव व्यालोकयामासेति संबन्धः] ॥ ९ ॥
 एवमनेन प्रकारेण मत्र्यानतिक्रान्तानि चरित्राणि यस्य तं सेवमानानां जनानां
मनोरथपूरणेन दैन्यस्य लवित्रं छेदकमेनं श्रीशंकरं द्रष्टुमिच्छुराटता भिक्षवो येन स
केरलक्षितिपती राजशेखरारूयः सचिवममात्यं प्रेषितवान् ॥ १० ॥ [ सेवमानेति ।
दात्रं लावित्रम्' इत्यमराद्भक्तजनदैन्यच्छेदकमित्यर्थः ] [ ननु किमुक्तभूपेन साधिवप्रेषण
तच्छलार्थं कृतम् । नेत्याशयेन तं विशिनष्टि । आदृतेति । सत्कृतभिक्षुक इत्यर्थः ।
एतेन समाप्तपुनरात्तत्वं प्रत्युक्तम् । विशेषणस्याऽऽकाङ्क्षापूरकत्वात् ] ॥ १० ॥
 सोऽमात्योऽपि तं सममतन्द्रितमनलसमतन्द्रितं यथा स्यात्तथेति वा । अभीर्भयवजित
उपदीयत इत्युपदोपायनम् । ‘डुदाठ्दाने’ ‘आतश्चोपसर्गे' इत्यङ् ।
 'उपायनमुपग्राह्यमुपहारस्तथोपदा ' इत्यमरः । उपदाभिरुपायनभूताभिः समीची
नाभिरिदाभिः करेणुभिः सह तं श्रीशंकरं प्राप्य तदनु ततः प्राप्तः पश्चात्सरसानि
मनोज्ञानि पदानि यासु सरसानामिति वा । एवंविधाभिराभिरुक्तिभिः शक्ति शिवां



यस्य नैव सदृशो भुवि बोद्धा
दृश्यते रणशिरःसु च योद्धा ॥
तस्य केरलनपस्य नियोगा
दृश्यसे मम च सत्कृतियोगात् ॥ १२ ॥
पूजिताः सदसि यस्य वसन्तः ॥
पण्डिताः सरसवादकथाभिः
खण्डितापरगिरोऽवितथाभिः ॥ १३ ॥




सामथ्र्य वा बिभर्तीति शक्तिभृत्सचिवोऽजिज्ञपत्समं यथा स्यात्तथाँ विज्ञापितवौनितिवा
॥ ११ ॥ [ तदनु निरुक्तराजाज्ञोत्तरमेव । सेति । संपदवधीभूतदिव्यगजोपलक्षित
नानाविधरत्नसहिताभिरिति यावत् ][ सरसेति । रम्यशब्दार्थाभिरित्यर्थः । एतादृ
शीभिः । आभिर्वक्ष्यमाणाभिरुक्तिभिः समं सार्धम् । अजिज्ञपद्विज्ञापयामासेत्यन्वयः ।
परिकरादिरलंकारः ] ॥ ११ ॥
 ता एव दर्शयति । यस्य सदृशो बोद्धा रणमूर्धसु युद्धकर्ता च भुवि नैव दृश्यते
तस्य केरलदेशाधिपतेराज्ञातस्त्वं सर्वोत्तमो दृश्यसे । नन्वन्य एव तन्नियोगादागत्य मां
कुतो न दृष्टवान्भवानेव वा पूर्वमित्याशङ्कयाऽऽह । मम सत्कृतेः पुण्यस्य योगात् ।
ममेत्यन्यव्यावृत्तिः । योगादिति पूर्वकालव्यावृतिः ॥ १२ ॥ [ अत्र ऋपस्येत्यन्तं
सरलमेव । सत्कृतीति । सत्कृतेस्त्वत्सत्कारस्य योगो योजनं यास्मिन्स तथा तस्मा
दित्यर्थः । एतादृशान्नियोगादाज्ञाविशेषादित्यर्थः । भो भगवन्निति शेषः । मम च ममा
१ीति यावत् । एतेन स्वानधिकारित्वध्वनने स्वस्मिन्नमानित्वं सूच्यते । त्वमित्यार्थि
कम् । दृश्यसे चाक्षुषीभवसीति संबन्धः । एतेन समाप्तपुनरात्तत्वं सत्कृतीत्यस्य प्रत्यु
क्तम् । निरुक्तविशेषणस्य पकृतागमनपयोजनाकाङ्क्षापूरकत्वात् ] ॥ १२ ॥
 अथ राज्ञः प्रार्थितमदानपात्रतासूचनाय तं स्तुवन्प्रार्थयते । राजितेतिद्वाभ्याम् ।
राजितदीप्तिमद्भिराभैः सुवर्णमयैर्वत्रैर्विलसन्तः शोभमानाः पूजिताः पूजां प्राप्ता अवि
तथाभिरव्यर्थाभिः सरसा रसयुक्ताश्च ता वादकथाश्च ताभिः खण्डिता अपरेषामन्येषां
गिरो वाचो यैस्ते पण्ड़िता यस्य सदसि सभायां वसन्तो वसन्तीत्यर्थः ।

'अभ्रं मेघे च गगने धातुभेदे च काश्चने


 इति मेदिनी ॥१३॥[पूजिताः । राज्ञेति शेषः । अत एव । विलसन्तः]॥१३॥



सोऽयमाजिजितसर्वमहीप
स्तूयमानचरणः कुलदीपः ॥
पादरेणुमवनं भवभाजा
मादरेण तव विन्दतु राजा ॥ १४ ॥
एष सिन्धुरपरो मदपूणों
दोषगन्धरहितः प्रवितीर्णः ॥
अस्तु तेऽद्य रजसा परिपूतं
वस्तुतो नृपगृहं शुचिभूतम् ॥ १५ ॥
इत्युदीर्य परिसाधितदौत्यं
प्रत्युदीरितसदुक्तिमात्यम् ॥
अत्युदारमृषिभिः परिशस्तं
प्रत्युवाच वचनं क्रमशस्तम् ॥ १६ ॥




 आजौ संग्रामे जिताः सर्वे महीपा भूमिपाला येनात एव स्तूयमानौ चरणैौ यस्यात
एव कुलस्य दीपो दीपवत्पकाशकः सोऽयं राजा भवभाजां संसारं भजतामवनं पालकं
तव चरणरेणुमादरेण विन्दतु लभताम् । अभ्यर्थनायां लोट् ॥ १४ ॥
 तत्राऽऽनीतासूपदासु मुख्यमेकं गजं दर्शयति । एष सिन्धुरपरो हस्तिश्रेष्ठो मदेन
पूणों दोषस्य गन्वेनापि वर्जितः प्रवितीणों राज्ञा प्रेम्णा दत्तस्तस्माद्वस्तुतः शुचिभूतमपि
ऋपगृहं तव चरणरजसा परित आसमन्तात्पूतं पवित्रमस्तु ॥ १५ ॥ [एष इति ।
एषोऽङ्गलिनिर्देश्यः पुरोवतीत्यर्थः । सिन्धुरेति ।

'कुम्भीकुञ्जरवारणेभरदिनः सामोद्भवः सिन्धुरः ।


 इति हलायुधाद्रजश्रेष्ठ इत्यर्थः ] ॥ १५ ॥
 एवं युक्तियुक्त सचिववाक्यमुदाहृत्य तदुत्तररूपं श्रीशंकरवाक्यमुदाहर्तुमाह ।
इत्यवंप्रकारेणोदीयक्त्वा परिसाधितं दृतकृत्यं येन प्रत्युदीरिताः प्रत्युच्चारिताः सतामु
क्तियः समीचीना उक्तयो वा येन तमात्यं सचिवं पति क्रमशः क्रमेण वचनमुवाच ।
तद्विशिनष्टि । अत्युदारमत एवर्षिभिः परिशास्तं संस्तुतम् ॥ १६ ॥ [प्रत्युदीरितेति ।
भगवत्पादवाक्यश्रवणोत्तरं मध्ये मध्ये प्रत्युदीरिताः प्रत्युत्तरीकृताः सदुक्तयो येन स
तथा तमित्यर्थः । एतेन सोऽपीत्येकादशश्टोकोक्ततत्प्राप्त्युत्तरमभिवादने तेन कृते सति
कस्त्वं कुत आगतोऽसीत्यादिर्भगवत्पादयः प्रश्रः सूचितः । परिशस्तं स्तुतभि
त्यर्थः ] ॥ १६ ॥


१४६

भैक्ष्यंमन्नमजिनं परिधानं रूक्षमेव नियमेन विधानं । कम दातृवर शास्त बटूना शर्मदायिनिगमाप्तिपटूनाम् ॥ १७ ॥ कर्म नैजमपहाय कुभोगैः कुर्महेऽह किमु कुम्भिपुरोगैः ॥ इच्छया सुखममात्य यथेतं गच्छ नैर्थमसकृत्कथयेत्थम् ॥ १८ ॥

तदुदाहरति । भैक्ष्यं भिक्षया लब्धमत्रं परिधानमाच्छादनमजिनं मृगचर्म विधानं कर्तव्यं नियमेन रूक्षमेव कष्टसाध्यमेव त्रिकालन्नानादि कर्म कर्मप्रातिपादकं वेदादि शास्त्रं हे दातृवर शार्मदायिनां दृष्टादृष्टसुखदायिनां वेदानां प्राष्ट्रौ पटूनां कुशलानां बटूनां ब्रह्मचारिणां शास्ति । यद्वा विधानं श्रुतिस्मृत्यादिनियमेन रूक्षमेव कर्म तत्रापि नियमेनेति वा शास्तीत्यर्थः । शार्मदायीति कर्मणो वा विशेषणम् ॥ १७ ॥ [ आििजनं कृष्णाजिनम् । रूक्षमेवेत्यन्नपरिधानयोरुभयोरपि विशेषणम् । विधानं संध्यावन्द नाभिकार्यवेदाध्ययनगुरुशुश्रूषाद्यनुष्ठानामित्यर्थः ] ॥ १७ ॥ तथाचैवंविधा ब्रह्मचारिणो वयं नैज स्वीयं कर्म विहाय कुम्भिपुरोगैः कुभोगैभों ग्यन्त इति भोगा विषयास्तैरिभपुरःसरैः कुत्सितैर्विषयसंभोगैः किं कुर्महे । अहेति । प्रसिद्धार्थकमाश्चर्यार्थकं वाऽव्ययम् । तर्हि मया किं विधेयमित्याकाङ्क्षायामाह । हे सविवेच्छया सुखं यथा स्यात्तथा यथेतं यथागतं तथा गच्छ । इत्थममुना प्रकारेणा सकृदर्थे न कथय ॥ १८ ॥ [ कुम्भीति । प्रकृतत्वदानीतदन्तिपतिमुख्यैरित्यर्थः । एतादृशैः कुभोगैः स्वधर्मविरुद्धविषयोपभोगैरिति यावत् ] [ किं कुर्महे न किमपीति संबन्धः । वयमिति शेषः । अत एव । इच्छयेत्यादि । इच्छया निरुक्तगजान्तसंप त्युपभोगवाञ्छयाऽपि किं सुखं कुर्महे संपादयामो न किमपीति माग्वदेव । अतः । हे अमात्य त्वं यथेच्छं नाथं स्वस्वामिनं प्रति गच्छ ततोऽसकृदित्थं कथयेत्यन्वयः । नाथं प्रतीत्यार्थिकमेव ] ॥ १८ ॥

  • भैक्षमिति तु समीचीनम् ।

[सर्गः ५]

क. नाथम'। २ ख. ग. "दि कर्मप्र'। ३ क. ख. *च्छ । यत इ'।


प्रत्युत क्षितिभृताऽस्खिलवर्णा
तृत्युपाहरणतो विगतणः ॥
धर्मवत्र्मनिरता रचनीयाः
कर्म वज्र्यमिति नो वचनीयाः ॥ १९ ॥
इत्यमुष्य वचनादकलङ्कः
प्रत्यगात्पुनरमात्यमृगाङ्गः ।
वृत्तमस्य स निशम्य धरापः
सत्तमस्य सविधं स्वयमाप ॥ २० ॥
भूसुरार्भकवरैः परिवीतं
भासुरोडुपगभस्त्युपवीतम् ॥
अच्छजाह्नसुतया विलसन्तं
मृच्छविं नगमिव द्रुमवन्तम् ॥ २१ ॥




यत्त्वयोक्तं तद्राज्ञः कर्तव्यं न भवति प्रत्युत भूमिपेन सर्वे वर्णा ब्राह्मणाद्या वृत्त्युपाह
रणतस्तत्तद्वणॉचितशुद्धजीविकासंपादनेन विगतानेि देवर्षिपितृणानि येभ्यस्तथाविधा
धर्ममार्गे निरता रचनीयाः स्वीयं कर्म वज्र्यमिति नैो वचनीया नैव वक्तव्याः ॥१९॥
[ वृत्तौति ।

'वृत्तिर्विवरणाजीवकौशिक्यादिप्रवर्तने'


 इति मेदिन्याः समुचितजीवनोपायोपसमर्पणेनेत्यर्थः ] ॥ १९ ॥
 ततः किं वृत्तमित्याकाङ्क्षायामाह । इत्येवंविधादमुष्य शंकरस्य वचनादमात्यच
न्द्रश्चन्द्राद्यतिरेकसूचकं विशेषणमकलङ्कः पुनः पत्यगात्स्वस्वामिनं प्रति गमनं कृतवा
न्स भूमिपोऽस्य वृत्तं श्रुत्वाऽत्युत्कृष्टस्य श्रीशंकरस्य सविधं समीपं स्वयं पाप ॥२०॥
 इतश्चतुर्थश्लेोकस्थं मुनिवरस्य कुमारं विशिानाष्टि । भूसुराणां भूमिदेवानां ब्राह्मणा
नामभैकवरैबलकश्रेष्ठः परिवीतं परितो व्याप्त भाँसुरैर्ददीप्यमानैर्भाम्चरस्य वोडुपस्य
चन्द्रस्य गभस्तिभिः किरणैस्तुल्यमुपवीतं यज्ञोपवीतं यम्याच्छा स्वच्छा या जह्नसुता
गङ्गा तया विलसन्तं दृमवन्तं नगं हिमालयमिव मुच्छवि सुष्ठच्छविः कान्तिर्यस्य
तम् ॥ २१ ॥ [ कीदृशास्तेन राज्ञा भगवाञ्श्रीभगवत्पादो दृष्ट इत्यत्राऽऽत् । भूसु
रेत्यादि चतुर्भिः कालापकेन । तदुक्तम् ।

'द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः ॐौकैर्विशेषकम् ।
कालापकं चतुर्भिः स्यात्तदूध्वै कुलकं स्मृतम्



चर्म कृष्णहरिणस्य दधानं
कर्म कृत्स्रमुचितं विदधानम् ॥
नूतनाम्बुदनिभाम्बरवन्तं
पूतनारिसहजं तुलयन्तम् ॥ २२ ॥
छातरूपकटिमदुतधान्ना ॥
नाकभूजमिव सत्कृतिलब्धं
पाकपीतलतिकापरिरब्धम् ॥ २३ ॥
सस्मितं मुनिवरस्य कुमारं
विस्मितो नरपतिर्बहुवारम् ॥
संविधाय विनतिं वरदाने
तं विधातृसदृशं भुवि मेने ॥ २४ ॥




 इति । भामुरेति । भासुरः शरद्राकाभवत्वेनातिपकाशमान एतादृशो य उडुप
‘तारकाऽप्युडु वा स्त्रियाम्' इत्यमरादुडुनि नक्षत्राणि पातीत्युडुपश्चन्द्रस्तस्य ये
गभस्तयोः 'गभस्तिघृणिरश्मयः' इत्यमरात्किरणास्तद्वन्निर्मलं शुष्कमुपवीतं यज्ञसूत्रं
यस्य स तथा तमित्यर्थः ] ॥ २१ ॥
 कृष्णहरिणस्य चर्म दधानं सर्वमुचितं कर्म विदधानं नृतनमेघतुल्यमम्बरमस्यास्तीति
तथा तं पूतनायाः कंसप्रेषिताया आरिः शत्रुः कृष्णस्तस्य सहजं भ्रातरं बलभद्रं
तुलयन्तं ततुलां दधानम् ॥ २२ ॥[ चर्मेति । तत्रापि मथमपतीपमाह । नूतनेति ।
तुलयन्तं स्वात्मसमं कुर्वाणमिति यावत् । प्रतीपलक्षणं तूक्तं चन्द्रालोककारकासु ।

प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् ।
त्वलोचनसमं पत्रं त्वद्वक्त्रसदृशो विधुः' इति ] ॥ २२ ॥


 जातरूपस्य सुवर्णस्य रुचिरिव रुचिर्थस्य तस्य मुञ्जसंज्ञकस्य तृणविशेषस्य सुधाम्रा
सुषुतेजसाऽऽश्वर्थमन्दिरेण च्छातं छत्रं रूपं यस्यास्तथाभूता कटिः श्रोणिर्यस्य
सत्कृतिः सुकृतं तया लब्धं पाकेन परिणत्या पीता या लातिकाः सूक्ष्मलतास्तार्भि
परिरब्धमालिङ्गितं स्वर्गभूमिजं कल्पद्रुममिव ॥ २३ ॥[ सदिति । सती या कृति
ज्योतिष्टोमादिक्रिया तया लब्धः प्राप्तस्तमित्यर्थः । एतादृशम् । पाकेति । पाकः
परिपाकस्तेन पीताः पीतवर्णा या लातिका ‘वली तु व्रततिर्लता' इत्यमराद्वलन्यस्ताभिः
परिरब्धः संवेष्टितस्तामित्यर्थः । नाकभूजमिव स्वर्गभूमिरुहमिव कल्पद्रुममिवोति यावत् ।
एते नाऽऽचार्ये समीहितदातृत्वं ध्वन्यते । पूर्णोपमालंकारः ] ॥ २३ ॥
 स्मितेन मन्दहसितेन सहितं मुनिवरस्य शिवगुरोः कुमारं नरपतिर्बहुवारं मणतिं


तेन पृष्टकुशलः क्षितिपालः
स्वेन सृष्टमथ शात्रवकालः ॥
नाटकत्रयमवोचदपूर्वम् ॥ २५ ॥
तद्रसाद्रगुणरीतिविशिष्टं
भद्रसंधिरुचिरं सुकवीष्टम् ॥
संग्रहेण स निशम्य मुवाचं
तं गृहाण वरमित्यमुमूचे ॥ २६ ॥




विधाय तं भुवि वरदाने ब्रह्मणा समं मेने । भुवीत्यस्य विनांतमित्यनेन वा संबन्धः ॥२४॥
[ नरपतिः पूर्वोक्तकेरलेश्वरः । भुवि पृथिव्याम् । बहुवारम् । वनात साष्टाङ्गत्वलक्ष
णविशेषण या नतिर्दmडवत्प्रणतिस्तामित्यर्थ । संविधाय । सस्मितं नैसर्गिकमन्दहास्प
युक्तम् ] [ वरदानेऽभीप्सितवितरणविषये विधातृसदृशं भुव्यपि मेन इति संबन्धः ।
अदुतो रसः । उदात्तो नायक । लुप्तोपमालंकारः ] ॥ २४ ॥
 तेन श्रीशंकरेण पृष्टं कुशलं यस्मै स शात्रवस्य शत्रुसमूहस्य शत्रुसंबन्धिनो वा
कालोऽन्तको भूमिपालो दशसहस्रसंख्याकपुवर्णमुद्रासमर्पणपूर्वकं स्वेन रचितमपूर्वं ना
टकानां त्रयमवोचत् ॥ २५ ॥ [ शात्रवेति ।
 ‘द्विििड़पक्षाहितामित्रदस्युशात्रवशत्रवः' इत्यमराद्विपक्षान्तक इत्यर्थः । एतादृशः ।
अत एव । क्षितीति । निरुक्तनृपतिः । अवोचन्निवेदयामासेत्यन्वयः । एतन्न स्वस्य
काव्यनाटकादिपाटवं व्यज्यते ] ॥ २५ ॥
  नाटकत्रयं विशिनष्टि तदित्यर्धेन । तन्नाटकत्रयं

'शृङ्गारहास्यकरुणारौद्रवीरभयानकाः ।
बीभत्सादुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृता:
इत्युक्त रसैरागुणैः ।
‘ये रसस्याङ्गिनो वर्माः शैौर्यादय इवाऽऽत्मनः ।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ।
माधुयैज:मसादाख्यास्रयस्ते च पुनर्दशा ।
आल्हादकत्वं माधुर्य शृङ्गारे दुतिकारणम् ।
करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ।
दीप्त्यात्मविस्तृतेर्हतुरोजो वीररसास्थितः ।
बीभत्सरौद्ररसयोस्तस्याऽऽधिक्यं क्रमण च ।
शुष्केन्धनामिवत्स्वच्छजलवत्सहसैव यः ।

व्याप्रोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः’ इत्युक्तैर्गुणैः ।
‘रीतिर्नाम गुणाश्लिष्टा वर्णसंघट्टना मता' ।


 ‘वैदर्भ गौडी पाञ्चाली’ इत्युक्ताभी रीतिभिश्च विशिष्टं युक्तं तथा भद्रसंधिभिः श्रेष्ठ
संधिभिः सुन्दरं संधिर्नामैकेन प्रयोजनेनान्वितानां कथांशानामवान्तरप्रयोजनसंबन्धः ।
तम्र पञ्च संधयस्तदुक्तं दशरूपके ।

मुखं प्रतिमुखं गर्भः सावमशॉऽपसंहृतिः ।
मुखं बीजसमुत्पतिर्नानार्थरससंभवा ।
लक्ष्यालक्ष्यस्य बीजस्य शक्तिः प्रतिमुखं मतम् ।
गर्भस्त्वदृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ।
हेतुना येन केनापि विमर्शः संधिरिष्यते ।
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।
ऐक्यार्थमुपवण्र्यन्ते यत्र निर्वहणं हि तत्


 इत्यादि संधिषु भद्रत्वं ग्राम्यचेष्टादिविनिर्मुक्तत्वमत एव शोभनकवीनामिष्टं कविषु
शोभनत्वं रसग्राहित्वम् । एवंविधनाटकत्रयं स श्रीशंकरः संग्रहेणाऽऽकण्र्य सुषु वाक्यं
तममुं राजानं वरं गृहाणेत्युवाच ॥ २६॥ [ तदिति । स श्रीशंकराचार्यः । रसेति ।
रसैर्वेक्ष्यमाणलक्षणैर्नवरसैराद्रं सुस्निग्धं तच तद्रुणरीतिविशिष्टं गुणैर्वेक्ष्यमाणै रीतिभिश्च
बक्ष्यमाणाभिर्विशिष्टं चेति तथा यावत्काव्यधर्मधुरीणमित्यर्थः । रसादयस्तु तत्सामा
न्यलक्षणपूर्वकं प्रपञ्चताः साहित्यसार एवास्माभिः । तत्र रससामान्यलक्षणं यथा ।

'विभावाचैरपाज्ञानचिद्वेद्यस्थायसॉ रसः ।
यद्वा तत्संयुदिव्यक्तस्थाय्युपाधिश्चिदेव सः' ।


 विभावाद्या विभावानुभावव्यभिचारिभावाः । अथ तद्वेदाः ।

‘शान्तशृङ्गारकरुणाहास्यादुतभयानकाः ।
वीरबीभत्सरौद्राश्च लोके नवरसाः स्मृताः ।
त्रयस्त्रयः क्रमादेते विज्ञेयाः सात्विकादयः ।
जाग्रदादिवदेकैकत्रिकेऽपि च पुनस्तथा' ।
अथ तत्स्थायिभावा ।
“निर्वेदोऽथ रतिः शोको हासोऽथो विस्मयो भयम् ।
उत्साहोऽथ जुगुप्सा च क्रोधश्चेति पुरातनैः ।
स्थायिभावाः क्रमादेते शान्तादीनां प्रकीर्तिताः ।
स्थायित्वं वासनात्वेऽपि मुहुव्र्थक्तत्वमिष्यताम्' ।
अथ सामान्यतो विभावादिस्वरूपम् ।


‘एतेषां कारणानि स्युर्विभावा द्विविधा अपि ।
अनुभावास्नु कार्याणि सहाया व्यभिचारिणः ।
आलम्बनविभावाश्च तथैवोद्दीपनाभिधाः ।
अनुभावा अथ तथा क्रमाद्वोध्याश्चतुर्विधाः ।
कायिका मानसास्तद्वदाहार्याः सात्त्विका अपि ।
श्रवणाद्याः प्रमोदाद्या रामत्वाद्या नटे क्रमात् ।
इत्यसंख्यास्रयोऽथाष्टौ स्तम्भाश्रुस्वरभङ्गकाः ।
कम्पवैवण्यैरोमाञ्चलयस्वेदा इमेऽन्तिमाः' ।
अथ गुणलक्षणादि ।
'सात्विकैकस्सस्थो यो धर्मो धीधृतिकार्यसौ ।
माधुर्ये भोगकरुणाऽयोगशान्तेऽधिकं क्रमात्' ।
अयोगो विप्रलम्भशृङ्गारः ।
'तामसैकरसस्थो यो धर्मो धीदीप्तिकार्यसौ ।
अभोजो वीरे च बीभत्से रौद्रे चक्रमशोऽधिकम् ।
राजसेषु तु तेषु स्यात्प्राधान्यमुभयोरपि ।
यः सर्वरसगोऽपीन्दं दीपवचीनमम्बुवत् ।
ओोजोमाधुर्ययोद्वैत्तं नयेद्राक्स प्रसादकः' ।


 इन्दु कर्परम् । चीनं सूक्ष्मवस्रम् । ओजोमाधुर्ययोः सतोः । तं शृङ्गारादिरसम् ।
द्राक्शीघ्रम् । मनः प्रतिनयेत् । स गुणः प्रसादकः प्रसादाभिध इत्यर्थः । अथ रीतयः।

“तत्तद्रसादै पदसंघटनारीतिरीरिता ।
वैदर्भ च तथा गौडी पाञ्चाली चेति तत्क्रमात् ।


 माधुर्यादिव्यङ्गयगुणक्रमेण' इत्यर्थ इति । विस्तरस्तु व्यभिचारिभावादिलक्षणादि
स्तत्र तट्टीकायां च द्रष्टव्यो गौरवान्नहे पतन्यत इति दिक् । एतादृशम् । तथा ।
भद्रेति । भद्राः सुमङ्गला याः संधयो वक्ष्यमाणास्ताभी रुचिरं रम्यम् । तदुक्तं दारु
पकेंऽतरेकार्थसंबन्धः संधिरिति सामान्यलक्षणमुपक्रम्य सोद्देशं संविजातम् ।

'मुखं प्रतिमुखं गर्भः सावमशॉऽपसंहतिः' ।
अथोक्तसंधीनां पञ्चानामपि क्रमालक्षणानि ।
मुखं बीजसमुत्पतिनांनार्थस्ससंभवा ।
लक्ष्यालक्ष्य इवोद्वेदस्तस्य प्रतिमुखं भवेत् ।
गर्भस्त्वदृष्टनष्टस्यबीजस्यान्वेषणं मुहुः ।
क्रोधेनावमृशेद्यत्र व्यसनाद्वा विलोभनात् ।


तां नितान्तहृदयंगमसारां
गां निशम्य तुलितामृतधाराम् ॥
भूपतिः स रचिताञ्जलिबन्धः
स्वोपमं सुतमियेष सुसंधः ॥ २७ ॥
नो हिताय मम हाटकमेत
देहि नस्तु गृहवासिजनाप ॥
ईहितं तव भविष्यति शीघ्र
याहि पूर्णमनसेत्यवदत्तम् ॥ २८ ॥





गर्भनिर्भिन्नबीजार्थः सोऽवमर्श इति स्मृतः ।
बीजवन्तो मुखाद्यथ विप्रकीर्णा यथायथम् ।
एकार्थमुपनीयन्ते यत्र निर्वहणं हि तत्' ।


 लक्ष्येति । तस्य बीजस्य । किंचिलक्ष्यः किंचिदलक्ष्य इवोद्वेदः प्रकाशानं तत्प
तिमुखम् । निर्वहणमुपसंहृतिरिति बोध्यम् । एतादृशं च । अत एव । सुकवीष्टम् ।
एतादृशं च । तदुक्तनाटकत्रयम् । संग्रहेण संक्षेपेण । निशम्य श्रुत्वा । अत एव ।
सुवाचं शोभनवाग्वन्तम् । एतादृशम् । तं पूर्वोक्तम् । अमुं केरलनरपतिं प्रति त्वं वरं
स्वाभिलषितार्थम् । गृहाण याचय । इत्यूच उवावेत्यन्वयः ] ॥ २६ ॥
 नितान्तमत्यन्तं हृदयंगमो मनोहरः सारो यस्यां तुलिताऽमृतधारा यया तां गां
वरं गृहाणेति वाचं निशम्य रवितोऽञ्जलिबन्धो येन स बद्धाञ्जलिः सुषु संधा प्रतिज्ञा
यस्य स भूपतिः स्वोपमं स्वसदृशं पुत्रमियेषेच्छति स्म ॥ २७॥ [ ततः स राजा कं
वरं वत्र इत्यत्राऽऽह । तामिति । सुसंधः । ‘संधा स्थितिप्रतिज्ञयोः' इति मेदिन्या।
शोभना संधा स्थितिर्थस्य स तथेत्यर्थः । एतेन वक्ष्यमाणाञ्जलिकरणे हेतुद्योतितः ।
डिण्डिमकारस्तु सुषु संधा प्रतिज्ञा यस्येति व्याचष्ट । एतादृशः । अत एव । रचि
तेति ]॥ २७ ॥
 एवं प्रार्थितः श्रीशंकरस्तं राजानमुवाच । एतद्दशासहस्रसंख्याकं हाटकं मम हिताय
नास्ति तर्हि कथं विधेयमिति तत्राऽऽह । नोऽस्माकं गृहवासिजनाय तु देहि तवे
हितं मनसाऽभिलषितं शीघ्र भविष्यति तस्मात्पूर्णमनसा शीघं याहि गच्छेति ।
मध्यमाणिन्यायेन शीघ्रपदमुभयत्र संबन्धनीयम् ॥ २८ ॥


राजवर्यकुलवृद्धिनिमित्तां
व्याजहार रहसि श्रुतिवित्ताम् ॥
इष्टिमस्य सकलेष्टविधातु
स्तुष्टिमाप हि तया क्षितिनेता ॥ २९ ॥
स विशेषविदा सभाजित
कविमुख्येन कलाभृतां वरः ।।
अगमत्कृतकृत्यधीर्निजां
नगरीमस्य गुणानुदीरयन् ॥ ३० ॥
बहवः श्रुतिपारदृश्चनः
कवयोऽध्यैषत शंकराद्ररोः ॥
महतः मुमहान्ति दर्शना
न्यधिगन्तुं फणिराजकौशलीम् ॥ ३१ ॥




 एवं जनसमाज उक्त्वा पुना रहस्येकान्ते राजवर्यकुलस्य वृद्धेर्निमित्तभृतां श्रुति
वित्तां श्रुतिप्रसिद्धाम् ।

'वित्तं कृीबे धने वाच्यलिङ्ग ख्याते विचारिते'


 इति मेदिनी अस्य राज्ञः सकलेष्टानां विधाता परमात्मा तस्येटिं पूजां व्याजहार
तत्प्रकारमुक्तवान् । तयेष्टया भूमिनेता राजा तुष्टिमापेत्यर्थ ।। २९ ।॥ [ राजेति ।
स्पष्टम् । इष्टि पुत्रेष्टिमस्य मछतनृपस्य । कर्मणि षष्ठीयम् । रहसि व्याजहारेति
योजना । क्षितीति । “आधिभूर्नायको नेता' इत्यमराढूपतिरित्यर्थः । अत्र तेन निरुक्त
व्याहारेणेत्यार्थिकम् । परामुत्कृष्टाम् । तुष्टिमापेत्यन्वयः । ‘तुष्टिमाप हितया क्षिति
नेता' इति डिण्डिमपाठः ] ॥ २९ ॥
 विशेषज्ञेन कविमुख्येन श्रीशंकरेण सभाजितः पूजितः कलाभृतां मध्ये श्रेष्ठः कृतं
कृत्यं यया सा बुद्धिर्यस्य स राजाऽस्य गुणान्वर्णयन्स्वीयां नगरीमगमद्रतवान् ।
वियोगिनी वृत्तम् ॥ २० ॥
 एवं केरलभूमिपतेर्वरप्रदानादिकमुपवण्र्य वृत्तान्तान्तरं वर्णयितुमुपक्रमते । बहव
श्रुतिपारदृश्धनो वेदपारं दृष्टवन्तः कवयः । श्रीशंकरान्महतो गुरोर्महान्ति दर्शनानि
शास्राणि फणिराजस्य शेषस्य कुशलतामधिगन्तुमध्यैषताध्ययनं कृतवन्त इत्यर्थः ।
॥ ३१ ॥ [ बहवोऽनेकशः । कवयः एतेन तन्निकटेऽध्ययनेऽधिकारसमृद्विध्र्वन्यते ।
सुमहान्ति महाभाष्याद्यातिविस्तृतानि । फणीति । शेषपाण्डित्यचातुरीमित्यर्थः ।
श्रुतीति । वेदपारगात् । एतेन शब्दब्रह्मनिष्णातत्वं व्यज्यते । तथा । महतः ।

'महान्तं विभुमात्मानं मत्वा धीरो न शोचती' इति श्रुतेः


पठितं श्रुतमादरात्पुन
पुनरालोक्य रहस्यनूनकम् ॥
प्रविभज्य निमज्जतः सुवे
स विधेयान्विदधेतमां सुधीः ॥ ३२ ॥
सर्वार्थतत्त्वविदपि प्रकृतोपचारै
शास्रोक्तभक्तयतिशयेन विनीतशाली ।
संतोषयन्स जननीमनयत्कियन्ति
संमानितो द्विजवरैर्दिवसानि धन्यः ।। ३३ ।।
अन्योन्ययोगविरहस्त्वनयोरसाः ।।
नो वोढुमिच्छति तथाऽप्यपमनुष्यभावा
न्मेरुं गतः किमभिवाञ्छति दुष्प्रदेशम् ॥ ३४ ॥




 परब्रह्मरूपेश्वरावतारादिति यावत् । एतेनैश्वर्य द्योत्यते । एतादृशातू । शंक
रादुरोः ॥ ३१ ॥
 पठितं श्रुतमनूनकमखण्डमाराद्रहस्येकान्त भालोक्य प्रविभज्य च सारासारविभाग
विधाय निजसुखे निमज्जतो विधेयाञ्शिष्यान्स सुधीः श्रीशंकरो विदधेतमां सम्यक्कृ
तवान् ॥ ३२ ॥ [ भादरात्पठितं श्रद्धयाऽधीतम् । श्रुतं शास्त्रम् । रहसि पुनः पुन
रालोक्य संचिन्त्य । प्रविभज्य विषयविभागेनाविरुद्धं कृत्वाऽत एव । सुपखेऽद्वैता
नन्दे । निखिलतच्छिष्याः परापरब्रह्मनिष्ठा एव बभूवुरिति भावः ] ॥ ३२ । ।
 विनीतशाली विनयवान् । वसन्ततिलका वृत्तम् ॥ ३३ ॥ [ विनीतेति । शाक
पार्थिवादिवत्समासेन विनीतचित्तशालीत्यर्थः ।
 'घस्रो दिनाइनी वा तु झीबे दिवसवासरौ' इत्यमरः ] ।। ३३ ।।
 अन्योन्ययोगस्य परस्परसंयोगस्य विरहस्त्वनयोः शंकरतजनन्योरसह्यो यद्यपि
तथाऽपि वोढुं परिणयं कर्तुनो इच्छति स्म । तत्र हेतुमाह। अमनुष्यभावाद्देवाधिदेव
त्वात् । मेरुं प्राप्तः किं दुष्पदेशं दुष्टस्थानमभिवाञ्छति नैव वाञ्छतीत्यर्थः ।। ३४ ।।
[अथास्य विवाहकाले माझेऽपि संन्यासेन जननीविरहासहिष्णुत्वेऽपि च तेन नैवो
द्वाहेच्छाऽप्यकारीत्याह । सेति । शरणं संरक्षणसाधनमित्यर्थः । ‘शरणं गृहरक्षित्रो:
इत्यमरः । दुष्पदेशं मर्वादिदुष्टदेशविशेषम् । वाञ्छति किमपितु नैव वाञ्छतीत्यर्थः ।
तस्मादुरुकुलात्परावृत्तत्वेन विद्यास्नातस्य तस्य संन्यासकरणे मातृवियोगभीतस्या



कृतविद्यममुं चिकीर्षवः
श्रितगार्हस्थ्यमथाऽऽप्तबन्धवः ॥
अनुरुपगुणामचिन्तय
न्ननवद्येषु कुलेषु कन्यकाम् ॥ ३५ ॥
अथ जातु दिदृक्षवः कला
ववतीर्ण मुनयः पुरद्विषम् ।
उपमन्युद्धीचिगौतम
त्रितलागस्त्यमुखाः समाययुः ॥ ३६ ॥
प्रणिपत्य स भक्तिसंनतः
प्रसविञ्या सह तान्विधानवित् ॥
विधिवन्मधुपर्कपूर्वया
प्रतिजग्राह सपर्यया मुनीन् ॥ ३७ ॥
विहिताञ्जलिना विपश्चिता
विनयोक्तयाऽर्पितविष्टरा अर्मी ॥
ऋषयः परमार्थसंश्रया
अमुना साकमचीकरन्कथाः ॥ ३८ ॥




 पीश्धरावतारत्वेन विषयसुखादौ तुच्छत्वधीस्वाभाव्याद्विवाहानिच्छुत्वमुचितमेवेति
भावः ]।। ३४ ।।
 आप्ताश्च बन्धवश्च त आप्ताश्च ते बन्धवश्चेति वा । कृता संपादिता विद्या येन
तममुं श्रितं गार्हस्थ्यं येनैवंविधं चिकीर्षवः कर्तुमिच्छवोऽनुरूपा गुणा यस्यास्तथाभूतां
कन्यकां दोषवर्जितेषु कुलेष्वाचिन्तयन् । वियोगिनी वृत्तम् ।। ३५ ।॥ [ अथ तदुद्वा
हकालमाप्त्यनन्तरम् ] ।। ३५ ।।
 अथानन्तरं जातु कदाचित्रिपुरद्रं महादेवं कलियुगे श्रीशंकरात्मनाऽवतीर्ण द्रष्ट
मिच्छव उपमन्युपमुखा मुनयः समाययुः ।। ३६ ।।
 भक्त्या सम्यङ्नतो नम्रः प्रसवित्र्या जनन्या सह मणामपूजादिविधानवित्स श्रीशं
करस्तान्मुनीन्प्रणिपत्य प्रकर्षेण नत्वा मधुपर्कः पूर्वमादौ यस्यास्तया सपर्यया पूजया
प्रतिजग्राह स्वागतं कृतवानित्यर्थः ।। ३७ ।।
 विहिताञ्जलिना विपश्चिता विदुषा श्रीशंकरेण भगवन्त एतान्यासनानि परिगृह्यन्ता
मिति विनयपूर्विकयोक्त्याऽर्पिता विष्टरा भासनानि येभ्यस्ते परमार्थस्य संश्रयो येषां


निजगाद कथान्तरे मुनी
अञ्जननी तस्य समस्तदर्शिनः ॥
श्रीमच्छकरदिग्विजयः ।
भगवन्तो यदुपागता गृहान् ॥ ३९ ॥
६क कलिर्बहुदोषभाजनं
क च युष्मचरणावलोकनम् ।.
तदलभ्यत चेत्पुराकृतं
मुकृतं नः किमिति प्रपञ्चये ॥ ४० ॥
शिशुरेष किलातिशैशवे
यदशेषागमपारगोऽभवत् ॥
महिमाऽपि यद्दुतोऽस्य त
द्वयमेतत्कुरुते कुतूहलम् ॥ ४१ ॥




ते मोक्षनिष्ठा अमी ऋषयोऽमुना श्रीशंकरेण सह कथाः कृतवन्तः । मेोक्षसंश्रया
इति कथानां वा विशेषणम् ॥ ३८ ॥ [ परमार्थति । अद्वैतमात्रपर्यवसायिनीरि
त्यर्थः ] ॥ ३८ ॥
 कथानामन्तरेऽन्तराले तस्य सर्वज्ञस्य जननी मुनीनुवाच । यदुवाच तदाह । वय
मद्य कृतार्थतां प्राप्ता यद्यस्माद्भगवन्तो गृहानुपागताः ॥ ३९ ॥
 भगवदागमनं न केवलं कृतार्थताया एव संपादकमपितु जन्मान्तरीयानन्तसुकृतसू
चकमपीत्याशयेनाऽऽह । केति । बहुदोषभाजनं कलिः क । क च युष्मचरणावलो
कनं तथाच समस्तदोषाश्रये कालियुगेऽत्यन्तालभ्यं तद्युष्मचरणावलोकनमलभ्यत चे
तर्हि नोऽस्माकं पुराकृतं पुण्यं किमिति प्रपञ्चये तद्वर्णनमशक्यमित्यर्थः ॥४०॥ [ ननु
कोऽत्र विस्मयः सुब्राह्मणानां गृहान्पति हि सुब्राह्मणाः समायान्त्येवेत्यत्राऽऽह ।
केति । तदिति । निरुक्तकल्पवच्छेदनापि श्रीमचरणावलोकनमित्यर्थः ] [ अल
भ्यत चेत्ताई तन्मूलीभूतं पुराकृतं जन्मान्तरार्जितम् । निरुक्तकार्यलिङ्गानुमितम् ।
नोऽस्माकं सुकृतमेवास्तीति संबन्धः। अथ ‘धर्मः क्षरति कीर्तनात्' इति स्मरणाज्झटिति
सावधाना सत्याह । किमितीत्यादिशेषेण । तत्सुकृतमहं किमिति प्रपश्चये कस्माद्धेतो
वैर्णयामि तत्फलस्य संजातत्वादवशिष्टस्य तस्य वर्णनेन नाशसंभवादमानत्वभङ्गापाताच
नैव वर्णयामीत्यन्वय ] ॥ ४० ॥
 एवं स्तुत्याऽभिमुखीकृतान्मुनीन्किचित्प्रष्टुमारभते । शिशुरिति । एष भवदमे
स्थितः शिशुरतिबाल्ये सर्वागमपारगो यदभवन्महिमाऽप्यस्य यददुतोऽभवदेतद्भयं कु



करूणादृशाऽनुगृह्यते
स्वयमागत्य भवद्भिरप्ययम् ॥
वदतास्य पुराकृतं तपः
क्षममाकर्णयितुं मया यदि ॥ ४२ ॥
इति सादरमीरितां तया
गिरमाकण्र्य महर्षिसंसदि ।।
प्रतिवक्तुमभिमचोदितो
घटजन्मा प्रवयाः प्रचक्रमे ॥ ४३ ॥
तनयाय पुरा पतिव्रते
तव पत्या तपसा प्रसादितः ॥
स्मितपूर्वमुपाददे वचो
रजनीवल्लभस्वण्डमण्डनः ॥ ४४ ॥




तूहलं कुरुते ॥ ४१ ॥ [ ततः सा जन्माऽऽरभ्य स्वकुमारमाहात्म्यं स्त्रीस्वाभाव्यात्सं
क्षिप्य सूचयति शिशुरित्यादिसार्वेन । आगमशब्दोऽत्र शब्दब्रह्मपरः । महिमा
प्रागुक्तनद्याः स्वगृहनिकटानयनादिरूपः । तदेतद्वयमिति योज्यम् ] ॥ ४१ ॥
 भवदागमनमप्येतददुतमाहात्म्यसूचकमित्याशयेनाऽऽह । भवाद्भिरप्यत्यन्तालभ्यद
शैनैरपि तत्रापि स्वयमागत्य तत्रापि करुणादृशाऽयमनुग्रह्यते तस्मादस्य पुराकृतं
तपो वदत मयाऽऽकर्णयितुं यदि क्षमं योग्यं तर्हि बूतेत्यर्थः ॥ ४२ ॥
 इत्येवंप्रकारेण सादरं यथा स्यात्तथा सत्योचारितां वाचमाकण्र्य सादरमाकण्येति
वा। महर्षीणां संसदि सभायां तैरेव प्रेरितोऽतिवृद्धोऽगस्त्यः प्रतिवतुं प्रचक्रमे ॥४३॥
 साक्षाच्छिव एव तव पत्याऽतितपसा समाराध्य लब्धो न त्वयं कश्चित्तपस्वीत्या
शयेनाऽऽह । तनयायेति त्रिभिः । हे पतिव्रते पूर्वे तव पत्या पुत्रार्थं तपसा पसा
दितो रजनीवलभस्य चन्द्रस्य खण्डो मण्डनमलंकारो यस्य स निशाकरकलाशेखरो
भगवाञ्शंकरो वचनमुपाददे प्रोक्तवान् । त्वया सदैव तव पत्या तपस्तप्तमिति द्योत
नाय संबोधनम् ॥ ४४ ॥ [ किं तदगस्त्यकृतं पत्युत्तरमित्यपेक्षायां पुरा तया पत्या
सह तपःकालावच्छेदेन तद्वचसा ज्ञातमपि पुत्रैश्वर्यवीक्षणानन्दभराद्विस्मृतं तदेव पुनः
स कथयामासेत्याह । तनयायेत्यादित्रिभिः । अयि पतिव्रते । एतेन त्वयाऽपि
पत्यासह पुत्रार्थे तपः कृतमिति द्योत्यते ] ॥ ४४ ॥



वरयस्व शतायुषः मुता
नपि वा सर्वविदं मितायुषम् ॥
मुतमेकमितीरितः शिवं
सति सर्वज्ञमयाचताऽऽत्मजम् ॥ ४५ ॥
तदभीप्सितसिद्धये शिव
स्तव भाग्यात्तनयो यशस्विनि ॥
स्वयमेव बभूव सर्ववि
न ततोऽन्योऽस्ति यत: मुरेष्वपि ॥ ४६ ॥
इति तद्वचनं निशम्य सा
मुनिवर्यं पुनरप्यवोचत ॥
कियदायुरमुष्य भो मुने
सकलज्ञोऽस्यनुकम्पया वद ॥ ४७ ॥
शरदोऽष्ट पुनस्तथाऽष्ट ते
तनयस्यास्य तथाऽप्यसौ पुनः ।
निवसिष्यति कारणान्तरा
दुवनेऽस्मिन्दश षट्च वत्सरान् ॥ ४८ ॥




 शैवं वचनमुदाहरति। वरयस्वेति । असर्वविदः शतायुषः सुतान्वरयस्वापि वा सर्वज्ञ
मल्पायुषमेकं सुतं वरयस्वेतीरितस्तव पति सति सर्वज्ञमात्मैजं शिवादयाचत ॥४५॥
 तस्य तव पत्युरभिलषितस्य सिद्धये स्वयमेव शिवो भाग्यात्तव तनयो बभूव । हे
यशस्विनीति संबोधयंस्तव बभूवेतियशःरूयापनार्थ सूचयति । ननु सवैज्ञमन्यमेव पुत्र
कुतो न दत्तवानिति चेत्तत्राऽऽह । यतः कारणाद्देवेष्वपि तस्माच्छिवादन्यः सर्वज्ञेो
नास्ति तत इत्यर्थः ॥ ४६ ॥ [ तदिति । तस्य तव पत्युर्यदभीप्सितं सर्वशैक
पुत्रप्राप्तिलक्षणं वाञ्छितं तस्य या सिद्धिस्तस्यै ] [ अपिना मनुष्यादिषु तदभावकै
मुल्यं द्योत्यते ] ॥ ४६ ॥
 इत्येवंप्रकारेण तस्याऽऽगस्त्यस्य वचनं मितायुषमित्यादिरूपं श्रुत्वा सा सती मुनि
श्रेष्ठ पुनरप्युवाच । भो मुने यतः सकलज्ञोऽस्यतोऽमुष्याऽऽयुः कियत्परिमितमस्ति
तत्करुणया वद यतो मितायुषमिति श्रुत्वा मम त्रासो जात इति भावः ॥ ४७ ॥
[ अमुष्य निरुक्तसर्वज्ञशिवावतारस्य मत्पुत्रस्येत्यर्थः ] ॥ ४७ ॥
 एवं पृष्टो मुनिरुवाच । शारदः संवत्सरा अष्ट तथा पुनरष्ट मिलित्वा षोडशोति
यावत् । अस्य तव पुत्रस्याऽऽयुर्यद्यपि तथाऽप्यसौ ते तनयः कारणान्तरादस्मिन्भुः



इति वादिनि भाविनीं कथा
मृषिमुख्ये घटजे निवार्य तम् ।।
समुपामञ्य ययुर्यथागतम् ॥ ४९ ॥
सृणिना करिणीव साऽर्दिता
शुचिना शैवलिनीव शोषिता ।।
मरुता कदलीव कम्पिता
मुनिवाचवा सुतवत्सलाऽभवत् ।। ५० ।।
अथ शोकपरीतचेतनां
द्विजराडित्थमुवाच मातरम् ।।
अवगम्य स संस्मृतिस्थितिं
किमकाण्डे परिदेवना तव ॥ ५१ ॥




वने षोडशसंवत्सरान्पुनर्निवासिष्यति वासं करिष्यति ॥ ४८ ॥ [ शरदो 'हायनोऽस्त्री
शरत्समाः' इत्यमराद्वर्षाणि । अस्य पुरोवर्तिनस्ते तनयस्य । आयुरिति शेषः । किम
तावदेव नेत्याह । तथाऽपीत्यादिशेषेण। एतदनुरोधेन पूर्वे यद्यपीत्यध्याहार्यम्]॥४८॥
 इत्येवंप्रकारेण भाविनीं भविष्यां कथां. कुम्भजेऽगस्त्ये वादिनि सति मुनयस्तं
निवार्य श्रीशंकरं समुपामश्रय तेन घटजेन सह यथागतं जग्मुः ।। ४९ ।॥ [इतीति ।
तं घटजं निवार्य देवतागुह्यमिदं नैव प्रकाशनीयमिति नेत्रादिना संसूच्य । तेनास्त्येन
सहर्षयः शंकरं श्रीशंकराचार्यम् । उपामध्य वयं गच्छाम इत्यनुज्ञाप्य ] ॥ ४९ ॥
 अतिकष्टदां मुनिवाचं श्रुतवतीं सदीं वर्णयति। सृणिनाऽङ्कुशेन हस्तिनीव सा मुनि
वाचाऽर्दिता पीडिताऽभवत् । शुविनाऽऽषाढेन शैवलिनी शैवलं पद्मप्रकाष्ठं तत्संबन्धिनी
पुष्करिणवि सा शोषिताऽभवत् । वायुना कदलीव कम्पिताऽभवत् । यतः पुत्रव
त्सला ॥ ५० ॥ [ सृणिनेति । ‘अङ्कशोऽस्त्री सृणियोः' इत्यमरादङ्कशेनेत्यर्थः ।
शुचिना । ‘शुचिस्त्वयम् । भाषाढे' इत्यमरादाषाढमासेनेत्यर्थः । शैवलिनीव.‘तरङ्गिणी.
शैवलिनी' इत्यमरान्नदीव भीष्मर्तुवशाच्छोषितेत्यर्थः ] ॥ ५० ॥
 एवमतिकष्टवतीं मातरं श्रीशंकरो यदुक्तवांस्तद्वक्तुमुपक्रमते । अथ मातुर्मुनिवाचाऽ
तिदुःखमाप्त्यनन्तरं शोकेन परीता व्याप्ता चेतना बुद्धिर्यस्यास्तां संसारस्य स्थिति
क्षणभङ्गररूपामवगम्याकाण्डेऽसमये परिदेवनां शोकस्तव किमर्थमपार्थेत्यर्थः ।। ५१ ॥
[अथ निरुक्तमुनिवाक्यश्रवणानन्तरम् ।शोकेति। शोकेन परीता व्याप्ता चेतना ‘प्रति



ध्वजचीनांशुककोटिचवश्वले ।
अपि मूढमतिः कलेवरे
कुरुते कः स्थिरबुद्धिमम्बिके ।। ५२ ।।
कति नाम सुता न लालिता
कति वा नेह वधूरभुञ्जि हि ।
कनु त क च ताः ६ वा वय
भवसङ्गः खलु पान्थसंगमः ॥ ५३ ॥




पज्ज्ञप्तिचेतना' इत्यमरदुद्धिर्यस्याः सा तथा तामित्यर्थः । एतादृशीं मातरं प्रति ।
द्विजराट्च्छूीशंकराचार्यः । संमृतिस्थिति संसारव्यवस्थाम् । चोऽप्यर्थे । अवगम्यापि ।
तवाकाण्डे

काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु


 इत्यमरादनवसर इत्यर्थः । किमिति परिदेवना शोचनाऽनुचितैवेति भावः] ॥५१॥
 अतिचञ्चले शरीरे मूढमतिरपि स्थिरबुद्धिं न कुरुते त्वं त्वतिसुज्ञा तत्र तां कर्तु
मत्ययोग्येति बोधयन्नाह । प्रबलो योऽनिलो वायुस्तस्य वेगेन वेलितोऽतिकम्पितो
यो ध्वजस्तस्य यचीनदेशीयमतिसूक्ष्मं वस्त्रं तस्य कोटिरग्रभागस्तद्वचञ्चले कलेवरे
शरीरे स्थिरबुद्धिं मूढमतिरपि कः कुरुते न कोऽपीत्यर्थः । उक्ताशयसूचकं संबोधनम
म्बिक इति । तथाचास्मदम्बिकाऽतिसुज्ञाऽतिचञ्चले कलेवरे स्थिरबुद्धित्वेनैवं शोचि
तुमनहऽसीत्यर्थः ॥ ५२ ॥ [ स्थिरबुद्धिमिदमनश्वरमेवेति मतिं कुरुते न कोऽपि
करोतीत्यर्थः ] ॥ ५२ ॥
 किंच तत्तजन्मन्यनुभूतानां पुत्रादीनामानन्त्यात्सर्वेषां शोकासंभवादेते शोच्या एते
नेत्यस्मिन्विनिगमकाभावान्न केऽपि शोच्या इत्याशयेनाऽऽह । कतीति । इहास्मि
न्संसारे कति वधूर्ललना नाभुञ्जि हि न भुक्तास्ते सुताः क ता वधूश्च क वयं च क
तथाच भवसङ्गः पान्थानां तत्तद्दिग्भ्य आगतानां पथिकानामेकस्मिन्प्रपादैौ यथा संग
मस्तद्वद्भवसङ्गोऽप्यनियतः क्षणभङ्गरचेत्यर्थः । प्रसिद्धं चेदमित्याह । स्खल्विति ।
तस्मात्केऽपि शोच्या न भवन्तीत्याशयः ॥ ५३ ॥ [ननु स्वशरीराथै तदनौचित्येऽपि
पुत्राद्यथै तदौचित्यमेवेतिचेन्न । तत्तजन्मावच्छेदेनानुभूतानां तेषामानन्त्येन शोका
नईत्वात् । न चातीतानां तेषां तथात्वेऽपि वार्तमानिकानां तदर्हतैवेति वाच्य
म् ! पुत्रत्वाद्यविशेषणातीतत्ववार्तमानिकत्वयोरशोच्यशोच्यत्वाप्रयोजकत्वात्केषांचिदेव



न हि किंचित्सुखमम्ब लक्षये ॥
तदवाप्य चतर्थमाश्रमं
प्रयतिष्ये भवबन्धमुक्तये ॥ ५४ ॥
इति कर्णकठोरभाषण
श्रवणाद्राष्पपिनद्धकण्ठया ॥
द्विगुणीकृतशोकया तया
जगदे गद्भदवाक्यया मुनिः ॥ ५९ ।।
त्यज बुद्धिमिमां शृणुष्व मे
गृहमेधी भव पुत्रमामुहि ॥
यज च क्रतुभिस्ततो यति
र्भवितास्याङ्ग सतामयं क्रमः ॥ ५६ ॥




शोच्यत्वे विनिगमनाविरहाद्वैषम्यापत्तेश्च । तस्मान्न केऽपि शोच्या इत्याशयेनाऽऽह ।
कतिनामेति । अस्माभिरिति शेषः कतिनाम सुताः पुत्रा न लालिता अपि तु
तत्तच्छरीरावच्छेदेनासंख्यता अपि पुत्राः संलालिता एवेत्यर्थः । एवं च त्वयाऽऽत्म
पुत्रीभूतमदर्थं मद्विवाहाद्यभावेन मम पुत्राभावात्तदर्थं च शोचनं कर्तुमनुचितमेवेति
सूचितम् । नन्वेवमपि त्वया विवाहाकरणाद्भार्हस्थ्यसुखं नानुभूतमिति प्रत्यक्षमेवातस्त
दर्थमहं शोचामीति शङ्कां शमयितुमाह । कति वेत्यादिद्वितीयपादेन । विशेष्यीभूतव
धूवाचकपदस्य द्वितीया बहुवचनान्तत्वेन विशेषणीभूतकतिपदस्यापि तथात्वं बोध्यम् ।
इहानादिसंसारे । वधूः कान्ताः ततस्तदर्थमपि शोकानवसर एवेति भावः ] ॥ ५३ ॥
 एवं शोकापहारकैर्वाक्यैर्मातरं प्रबोध्य स्वेन यदवश्यं कर्तव्यं तदाह । भ्रमता
मिति । संसारमार्गे भ्रमादज्ञानाद्भमतां किंचिदपि सुखं न लक्षयेऽपितु जननीजठर
वासादिरूपं दुःखमेवेति सूचयन्संबोधयति । अम्बेति । हि यस्मादेवं तत्तस्माचतुर्थ
संन्यासाश्रममवाप्य संसारलक्षणाद्वन्धाद्विमुक्त्यर्थं प्रकर्षेण यत्नं करिष्यामि ॥ ५४ ॥
 एवं श्रीशंकरवाक्यमुदाहृत्य तद्वचनेन द्विगुणीकृतशोकायाः सत्या वचनमुदाहर्तु
माह । इत्येवंप्रकारेण यत्कर्णयोः कठोरं दुःस्पर्श भाषणं चतुर्थमाश्रममित्यादिरूपं तस्य
श्रवणाद्वाष्पैरश्रुभिः पिनद्धः पिहितः कण्ठो यस्या द्विगुणीकृतः शोको यस्या भत
एव गद्वदं वाक्यं यस्यास्तया मुनिः श्रीशंकरो जगदे । कर्मणि प्रत्ययः । एवंभूता सा
मुनिं जगादेत्यर्थः ।। ५५ ॥
 यदुवाच तदाह । त्यजेति । इदानीमेव चतुर्थाश्रमं प्राप्य मयतिष्य इतीमां


कथमेकतनूभवा त्वया
रहिता जीवितुमुत्सहेऽबला ॥
तनयैव शुचौध्र्वदैहिकं
प्रमृतायां मपि कः करिष्यति ।। ५७ ।।
त्वमशेषविदप्यपास्य मां
जरठां वत्स कथं गमिष्यसि ॥
द्रवते हृद्यं कथं न ते
न कथंकारमुपैति वा द्याम् ॥ ५८ ॥




बुद्धिं त्यज । तर्हि किं कर्तव्यमिति चेतत्राऽऽह । मे मम वचनं श्रृणु । किं तदिति
तत्राऽऽह । गृहमेधी गृहस्थो भव । किं तत इत्यत आह । पुत्रं प्राप्नुहि क्रतुभिर्यजनं
च कुरु ततस्तदनन्तरं यतिर्भवितासि भविष्यस्यङ्ग हे पुत्र सतां शास्त्रोक्तोऽयमेव क्रम
इत्यर्थः । तथाच स्मृतिः ।

शरणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्’ इति ॥ ५६ ॥


 [ हे अङ्ग इति कोमलामम्रणेऽये पुत्रेत्यर्थः । इमां संन्यासकरणविषयिणीम् ।
सतामिति । तथाच श्रूयते । ब्रह्मचर्यं समाप्य गृही भवेट्टही भूत्वा वनी भवेत्तत
प्रव्रजेदिति । स्मर्यते च ।

“अधीत्य विधिवद्वेदान्पुत्रानुत्पाद्य धर्मतः ।
इष्ट्रा च शाक्तितो यशैर्मनो मोक्षे निवेशयेत्' इति ] ॥ ५६ ॥


 किचैकस्तनुभवः पुत्रो यस्यास्तथाविधाऽबलाऽहं त्वया विरहिता शुचा शोकेनैव
जीवितुं कथमुत्सहे । पुत्रस्य तवैवंविदुःखदातृत्वमनुचितमिति सूचयन्संबोधयति ।
तनयेति । तनयेनेति पाठान्तरे त्वयेत्यनेन संबन्धनीयम् । किंच यदर्थं त्वमुत्पादि
तस्तदौध्दैहिकमपि प्रमृतायां कः करिष्यतीत्यर्थः ॥ ५७ ॥
 किंचाल्पविदाऽपि वृद्धा जननी न परित्यज्यते यदि केनचिदतिमूढेन त्यज्यते
तर्हि त्यज्यतां त्वं त्वशेषज्ञोऽपि मां स्वमातरं तत्रापि वृद्धां त्यक्तमत्ययोग्यां परित्यज्य
कथं गमिष्यासि मामपास्य गन्तुमत्यन्तायोग्योऽसीत्यर्थः । वत्सगमनं यथा गो
पडिाकरं तथा तव गमनं ममेति द्योतयन्ती संबोधयति । वत्सेति । एवमुक्तमप्यद्रवी
भूतान्तःकरणं पुत्रमालक्ष्याऽऽह । द्रवत इति । ननु वास्तवसंबन्धाभावविदो मम
कापि ममत्वाभावात्नेहवशात्कथं मे हृदयं द्रवीभूतं भवेदित्याशङ्कय तत्त्वविदामविद्या
लुत्वश्रवणात्ते हृदयं दयां कथं न प्राम्रोतीत्याह । न कथमिति वा ॥ ५८ ॥ [ त्वां
सर्वज्ञ मत्यपि मया किं कथनीयमथापि पुत्रमोहात्किचिद्वक्ष्यामीत्यभिप्रेत्य कारुण्यः
काष्ठां सोपालम्भं व्यनक्ति । त्वमिति । अयि वत्स त्वमशेषविदपि सर्वज्ञोऽपि । जरठां


एवं व्यथां तां बहुधाऽऽश्रयन्ती
मपास्तमोहैर्बहुभिर्वचोभिः ॥
अम्बामशोकां व्यदधाद्विधिज्ञ
शुद्धाष्टमेऽचिन्तयदेतदन्तः ॥ ५९ ॥
मम न मानसांमिच्छति संस्मृतिं
न च पुनर्जननी विजिहासति ।
न च गुरुर्जननी तदुदीक्षते
तदनुशासनमीषदपेक्षितम् ॥ ६० ॥
इति विचिन्त्य स जातु मिमङ्क्षया
बहुजलां सरितं समुपायऽऽयौ ।।
जलचरश्चरणे जलमीयुषः ॥ ६१ ॥




वृद्धां मामपास्य त्यक्त्वा कथं गमिष्यसीति संबन्धः । तस्मात्सर्वज्ञस्त्वं वृद्धां मां
त्यक्त्वा नैव संन्यासं करिष्यसीत्यपालभ्भ । एवमपि तदनुत्तरमेवालक्ष्याऽऽक्षिपति
द्रवत इत्याद्युत्तरार्धेन । द्रवत इत्यादिनैव चारिताथ्र्ये चरमचवरणस्त्वतिकारुण्यसूचनार्थ
 एवेति ध्येयम् । तस्मात्त्वया मत्यागो नैव कार्यः संन्यासेनेत्याशयः ] ॥ ५८ ॥
एवंप्रकारेण बहुधा व्यथां पीडामाश्रयन्तीं तां मातरमपास्तस्तिरस्कृतो मोहोऽविवेकी
यैस्तैर्बहुभिर्वचोभिर्विधिं शोकनिवृत्तिमकारं जानातीति विधिज्ञः श्रीशंकरः शोकरहितां
व्यदधादकृत ततश्च शुद्धेऽष्टमवर्षेऽन्तर्मनस्येतद्वक्ष्यमाणमचिन्तयत् । अष्टमवर्षात्मकस्य
कालस्य शुद्धत्वं कालमलशून्यत्वम् । उपजातिवृत्तम् ॥ ५९ ॥ [ विविज्ञो विधि
तत्तद्देशकालाद्यवच्छेदेन कर्तव्यांशं जानातीति तथा । सर्वव्यवहारचतुरः श्रीशंकरभ
गवत्पादः ] [तामम्बां स्वमातरम् । अशोकां शान्तशोकाम् । शुद्वाष्टमे संभावितकलि
मलकालुष्यविकले स्ववयोऽष्टमवर्ष इत्यर्थः । व्यदधादकरोदित्यर्थः । ततोऽन्तोऽभ्य
न्तरे । एतद्वक्ष्यमाणम् । अविन्तयचिन्तयामासेति संबन्धः ] ॥ ५९ ॥
 यदचिन्तयत्तद्दर्शयति । ममेति । मम मनः संसृर्ति संसृतिसाधनं प्रवृत्तिमार्ग नेच्छ
ति जननी पुनर्न च जिहासात हातुं त्यक्तुं नैवेच्छति मामिति विपरिणामेन संसृतिपदं
वाऽनुषञ्जनीयम् । ननु जननी संसृत्यनभिवाञ्छिनं त्वां तव मनसाऽनिष्टां संसृतिं वा
कुतो न जिहासतीत्याशङ्कय तस्यास्तदीक्षणाभावादित्याह । न चेति । तत्तां संसृर्ति
तन्मानसमिति वा । ननु त्वया मसह्य प्रबोधनीयेति चेत्तत्राऽऽह । गुरुरिति । अत
एव संन्यासाश्रयणे तस्या ईषदनुशासनमाज्ञाऽपेक्षितम् । दुतविलम्बितं वृत्तम् ॥६०॥
एबं मनसि श्रीशंकरकृतां चिन्तामुपवण्थेषदनुशासनं ग्रहीतुं तत्छतं चरित्रं वर्ण


स च रुरोद जले जलचारिणा
धृतपदो ह्रियतेऽम्ब करोमि किम् ॥
चलितुमेकपदं न च पारये
बलवता विवृतोरुबुखेन ह ॥ ६२ ॥
गृहगता जननी तदुपाशृणो
त्परवशा बुतमाप सरितटम् ॥
मम मृतः प्रथम शरण धव
स्तदनु मे शरणं तनयोऽभवत् ॥ ६३ ॥
स च मरिष्यति नक्रवशं गतः
शिव न मेऽजनि हन्त पुरा मृतिः ॥
इति शृशोच जनन्यपि तीरगा
जलगतात्मजवक्त्रगतेक्षणा ॥ ६४ ॥




यति । इत्येवं प्रकारेण विचिन्त्य स कदाचिन्मज्जनेच्छया बहुजलां नदीं समुपाऽऽ
ययौ गत्वा जलमगाहत तत्र नद्यां जलं प्राप्तवतश्चरणे जलचरः सम्यगयहीत्।॥६१॥
[ सरितं स्वगृहनिकटानीतप्रागुक्तपूर्णाभिधनदीमिति यावत् । समुपाययावित्यन्वयः ।
ततस्तज्जलमप्यगाहत स्नातुं प्राविशादित्यर्थः । चरणे पादे । समग्रहीत्पादावच्छेदेन तं
जयाहेति संबन्धः ] ॥ ६१ ॥
 स च रुरोद रोदनं कृतवान्बलवता विवृतमुरु बृहन्मुखं यस्य तेन जलचारिणा
प्राहेण धृतो गृहीतः पादो यस्य स हे अम्ब जले ह्रियतेऽतः किं करोमि । ननु जला
हिः कुतो नाऽऽयासीत्याशङ्कयाऽऽह । एकं पदं चलितुं न च पारये समर्थो न
भवामि हेति खेदे ॥ ६२ ॥ [ जलचारिणा ग्राहविशेषेण । यतो बलवता प्रबलेन ।
धृतपदः सन् । एकपदं पदमात्रमपि । चलितुं न च पारथे। चोऽवधारणे नैव शक्रोमि ।
अतः किं करोमीति योजना] ॥ ६२ ॥
 तत्स्वसुतरोदनं गृहस्था जनन्युपाशृणोव्छूत्वा च परवशाऽतिविकैला दुतमाशु
सरितटमवाप तीरं गता सा जनन्यपि जलगतस्य पुत्रस्य मुखं गते प्राप्त ईक्षणे नेत्रे
यस्याः सेति शुशोच । कथमित्यत आह । मम मृतेरिति । मरणात्प्रथमं मम शरणं
पतिस्ततः पतिमृत्यनन्तरं पुत्रो मे शारणमभवत् । स च तनयो मरिष्यति यतो
नक्रस्य जलजन्तोर्वशं गतो हन्तातिकष्टं हे शिव पुरा पूर्वमुविता मम मृतिर्मरणं
नाजानि नाभूत् । शिवोपासकाया ममाशिवप्राप्तिरत्यन्तानुचितेति संबोवनाशयः ।इत्येवं
शुशोचेत्यर्थः ॥ ६३ ॥ ६४ ॥ [ शिवेति । हे शिव कल्याणमूर्ते शंभो । इन्तेति


त्यजति नूनमयं चरणं चंलो
जलचरोऽम्ब तवानुमतेन मे ।।
सकलसंन्यसने परिकल्पिते
यदि तवानुमतिः परिकल्पये ॥ ६५ ॥
इति शिशौ चकिता वदति स्फुटं
व्यधित साऽनुमतिं हुतमम्बिका ।।
सति सुते भविता मम दर्शनं
मृतवतस्तदु नेति विनिश्चयः ॥ ६६ ॥




खेदे । मे मृतिः पुराभर्तृमरणात्प्रागेव कुतो नाजनि न समुत्पन्नेत्यन्वयः । अत्र
शिवेति संबोधनात्कल्याणमूर्तिभक्ताया ममैवंविधभर्तृमरणपुत्रमरणावेक्षणाकल्याणमयुक्त
मेवेति भावः ] ॥ ६४ ॥
 एवमतिशोकपरीतां मातरमालक्ष्याऽऽह । त्यजतीति । हे अम्ब मे चरणमयं
चञ्चलो जलचरस्तेऽनुमतेन सकले संन्यसने परिकल्पिते सति त्यजति तथाच
यदि तवानुमतेिस्तद्येहं परिकल्पये सकलसंन्यसनमिति विपरिणामेन संबन्वनी
यम् ॥ ६५ ॥ [ अय्यम्बायं प्रत्यक्षः ] [ अयं भाव । दुःखं हि पापैकफलमिति
निर्विवादम् । तच्च पापं ‘धर्मेण पापमपनुदति' इति श्रुतेभोंगेनेव धर्मेणापि नश्यति । स
च धर्मः सत्यं परमित्याद्युपक्रम्य न्यास एवात्यरेचयदित्युपसंहारेण संन्यासैकावधिक
इति तेन सद्य एवालौकिकपुण्योत्पत्या निखिलपापनाशात्तन्मूलकपकृतदुःखनाशो भवि
ष्यत्येवेति । तत्र यदि तवानुमतिरनुमोदनमस्ति तर्हहं सकलसंन्यसनं यथाविििवप्रे
षोच्चारणाभयदानादिलक्षणातुरसंन्यासविधिना परिकल्पयेऽनुतिष्ठामीति संबन्धः ।
तस्मात्त्वयाऽत्रानुमतिर्देयैवेति भावः ] ॥ ६५ ॥
 इत्येवंप्रकारेण स्फुटं यथा स्यात्तथा शिशैौ वदति सति चकिता साऽम्बिका दृवं
शीघ्रमनुमतिमनुमोदनं व्यविताकृत । स्फुटमिति मध्यमणिन्यायेनात्रापि संबन्धनीयम् ।
शीघानुमतिकरणे हेतुं तत्कृतं निश्चयं दर्शयति । सति सुते सुतस्य दर्शनं मम
भविष्यति मृतवतस्तु तद्दर्शनं न भविष्यतीति विशेषेण निश्चयोऽस्तीत्यर्थः ॥ ६६ ॥
['उ' इत्यवधारणेऽव्ययम् ] ॥ ६६ ॥



तदनु सन्यसन्न मनसा व्यधा
दथ मुमोच शिशु स्वलनक्रकः ॥
शिशुरुपेत्य सरित्तटमत्रस
न्प्रसुवमेतदुवाच श्रुचाऽऽवृताम् ॥ ६७ ॥
मातर्विधेयमनुशाधि पदन्न कार्य
संन्यासिना तदु करोमि न संदिहेऽहम् ।।
वस्राशने तव यथेष्टममी पदेयु
ह्नन्ति ये धनमिदं मम पैतृकं यत् ॥ ६८ ॥
देहेऽम्ब रोगवशगे च सनाभयोऽमी
द्रक्ष्यन्ति शक्तिमनुसृत्य मृतिप्रसङ्गे ॥
अर्धग्रहाजनभयाञ्च यथाविधानं
कुर्युश्च संस्कृतिममी न विभेयमीषत् ॥ ६९ ॥




 तस्या मातुरनुमतेः पश्चाच्छूीशंकरो मनसा संन्यसनं व्यधादथ संन्यसनानन्तरं
दुष्टजलचरः शिशु मुमोच । संसाराख्येनाज्ञानजलचरेण दुष्टनक्रेण गृहीतस्य संन्यासं
विना न मोक्ष इत्याशयः । ततः किं वृत्तमित्यपेक्षायामाह । शिशुरत्रसन्नदीतटमुपेत्य
शोकेन व्याप्तां जननीमेतद्वक्ष्यमाणमुवाच ॥ ६७ ॥ [मनसा संन्यसनं व्यधाचकारे
त्यन्वयः ‘यद्यातुरः स्यान्मनसा वाचवा वा संन्यसेतू’ इत्याम्रायत एव । रवलेति ।
दुष्टनक्रकः ] [ अत्रसन्नेव दुःखमननुभवन्नेवेत्यर्थः । एतेनोक्तग्राहग्रदादेर्मायिकत्वं
व्यज्यते ] [ मसुवं 'जनयित्री मसूर्माता' इत्यमराजनीम् ] ॥ ६७ ॥
 यदुवाच तदाह । हे मातर्विवेयमाज्ञापयात्रास्मिलोके यत्संन्यासिना कर्तु योग्यं
तन्निश्चयेन करोमि नाहं संदिहे संशययुक्तो न भवामि। ननु संन्यासिना संग्रहशून्येन
त्वयाऽकर्तव्यं भोजनाच्छादनप्रदानं कः करिष्यतीति चेत्तत्राऽऽह । वत्रेति । ये
धनमिदं गृह्णन्त्यमी वस्राशने तव यथेष्टं मदेयुर्यद्यस्माद्धनं मम पितृसंबन्धि तस्मादि
त्यर्थः। यन्मम पैतृकं वदिदमिति वा । वसन्ततिलका वृत्तम् ॥६८॥ [ ननु विवाहा
देवदाज्ञापितमपि त्वया नैवानुष्ठितं चेकि मदनुशासनफलमित्याशङ्कां प्रत्याह ।
तदित्यादिपूर्वार्धशेषेण । ‘उ:' अवधारणे ॥ ६८ ॥
 ननु संन्यस्य त्वयि गते रोगावीने मद्दे सति मरणप्राप्तौ च के द्रक्ष्यन्तीति
चेत्तत्राऽऽह । देह इति । हे मातस्तव देहे रोगवशेंगे च पुनर्मरणप्रसक्तावमी सनाभय
सापण्डाः शक्तिमनुसृत्य दर्शनं करिष्यन्ति मरणानन्तरं दाहादिसंस्कारं यथाविधानं
कुर्युस्तत्र हेतुद्वयमाह । अर्थस्य मम पैतृकधनस्य ग्रहणाज्जनानां भयाच । तस्माद


यजीवितं जलचरस्य मुखात्तदिष्टं
संन्याससंगारवशान्मम देहपाते ॥
संस्कारमेत्य विधिवत्कुरु शंकर त्वं
नो चेत्प्रसूय मम किं फलमीरय त्वम् ॥ ७० ॥
संचिन्तय स्ववशगाऽवशगाऽथ वा माम् ॥
एष्यामि तत्र समयं सकलं विहाय
विश्वासमामुहि मृतावपि संस्करिष्ये ॥ ७१ ॥
संन्यस्तवाञ्शिशुरयं विधवामनाथां
क्षिस्वेति मां प्रति कदाऽपि न चिन्तनीयम् ।
यावन्मया स्थितवता फलमापनीयं
मातस्ततः शतगुणं फलमापयिष्ये ॥ ७२ ॥




ल्पमपि भयं त्वया न कर्तव्यमित्यर्थः ॥ ६९ ॥ [ अमी प्रत्यक्षाः । जनेति । लोका
पवादभयादित्यर्थः । कुर्युः करिष्यन्त्येवेति यावत् । अतस्त्वयाऽन्नाच्छादनव्याध्या
दिपरामर्शनौध्र्वदैहिकविषयेऽत्रेषदपि नैव चिन्ता कार्येत्याह नेत्यादिना ] ॥ ६९ ॥
 संस्कृतिं चामी कुर्युरिति सुतोक्तमसहमाना सत्युवाच । यदिति । संन्यासस्य
संगरोऽङ्गीकृतिस्तद्वशाजलचरस्य मुखाद्यजीवितं तव यज्जीवनं तदिष्टम् । ‘संगरोऽ
ङ्गीकृतौ युधि' इति विश्धपकाशः। तथाऽपि मम देहस्य पाते सति यत्र कापि स्थित
स्त्वमागत्य विधिवन्मम दाहादिसंस्कारं कुरु । ननु संन्यासिनो मम दाहादिकर्मण्यधि
काराभावात्कथमेवं वदसीति चेत्तत्राऽऽह । हे शंकर परमेश्वरस्य तव न किंचिदपि
दोषावहमिति भावः । ननु तथाऽपि लोकविरुद्धत्वात्कमर्थमेवं विधेयमिति तत्राऽऽह ।
नोचेदिति । मरणानन्तरं दाहसंस्कारस्याप्यलाभे सति त्वामुत्पाद्य मया किं फलं
लब्धामिति त्वमेव कथय ॥ ७० ॥
 एवं स्वैकर्तृकदाहसंस्कारेऽतिनिर्बन्ववतीमतिदुःखितां मातरमालक्ष्य श्रीशांकर उवाच।
हे अम्बाह्नि दिवसे स्ववशगा स्वाधीना रोगादिना पराधीनाऽवशगा वा मां चिन्तय तत्र
तव चिन्तनसमये सर्व समयमाचारं विहायाऽऽगमिष्यामि।'समयः शापथाचारासिद्धान्तेषु'
इति मेदिनी । मदुक्त विश्वासं पामुहि मृतावपि संस्कारं करिष्ये ॥ ७१ ॥ [ भी
अम्ब । त्वमह्वयथवा रात्रिसमये । यद्वा समयान्तरे संध्यासमये ] ॥ ७१ ॥
 संन्यासिना कर्तुमयोग्यमप्यङ्गीकुर्वतो ममैका प्रार्थना त्वयाऽऽप्यवश्यं स्वीकर्तव्ये
त्याशयवानाह । अयं शिशुर्विधवामनाथां मां त्यक्त्वा संन्यासं कृतवानिति मां प्रति


इत्थं स मातरमनुग्रहणेच्छुरुक्त्वा
प्रोचे सनाभिजनमेष विचक्षणापः ॥
संन्यासकल्पितमना व्रजितोऽस्मि दूरं
तां निक्षिपामि जननीमधवां भवत्सु ।। ७३ ।।
एवं सनाभिजनमुत्तममुत्तमाय
श्रीमातृकार्यमभिभाष्प करद्वयेन ।
संप्रार्थयन्स्वजननीं विनयेन तेषु
न्यक्षेपयन्नयनजाम्बुनिषिञ्वमानां ॥ ७४ ॥




कस्यांचिदप्यवस्थायां त्वया न चिन्तनीयम् । ननु त्वया परित्यक्तत्वादतिकष्टवत्या
मया कथं न चिन्तनीयमिति तत्राऽऽह । स्थितवता मया यत्परिमितं फलं त्वया
प्राप्तव्यं हे मातस्तस्माच्छतगुणं फलमहं प्रापयिष्ये ॥ ७२ ॥ [ मां प्रति मदुद्देशेन ]
॥ ७२ ॥
 अनेन प्रकारेण मातरमुक्त्या सगोत्रजनमुवाचेत्याऽह । इत्थमिति । यदुवाच
तदाह । संन्यासेति । संन्यासाय कल्पितं मनो येन सोऽहं दूरं गन्तुमुद्यतोऽस्मि
तस्मात्पतिरहितां तां जननीं भवत्सु रक्षार्थं स्थापयामि ॥ ७३ ॥ [ विचक्षणाङयो विवे
किचक्रवर्ती स श्रीभगवत्पादः। एष प्रकृत:। सनाभीति । ‘सपिण्डास्तु सनाभयः' इत्य
मरः । दूरं व्रजितश्चेतसः स्वाभिमतस्थानं प्रति गतत्वादूतार्थकः प्रयोगः । एतेन तद
नुष्ठान औौसुक्यातिशयात्वरोत्कर्षः सूच्यते । अतस्तां गृहान्तस्थत्वेन परोक्षाम् ।
अधवां पतिहीनां जननीम् । भवत्सु संरक्षकत्वेनाऽऽवारीभूतेषु युष्मास्वित्यर्थः । निक्षि
पामि समभिरक्षणार्थं स्थापयामीति योजना ] ॥ ७३ ॥
 एवं प्रकारेणोत्तमं सनाभिजनमुत्तमाम्रयः श्रीशंकरः श्रीमातृका सम्यगुक्त्वा मुकु
लितेन हस्तद्वयेन सम्यक्प्रार्थयन्सन्नेत्र जाम्बुभिर्निषिश्चमानां मातरं स विनयेन तेषु
सनाभिजनेषु न्यक्षेपयत् ॥ ७४ ॥ [एवं परोक्षतया तानुक्त्वा तत्समक्षमपि तां सवि
नयं तेषु संरक्षणार्थं स्थापितवानित्याह । एवमिति । अत्रोत्तमपदेन तन्निक्षेपयोग्यत्वं
व्यज्यते । उत्तमायपदेन परीक्षकत्वं च सूच्यते । करद्वयेन संप्रार्थयानित्यादरातिशय
स्तेनावश्यसंरक्षणीयत्वमपि तस्यां द्योत्यते । नयनेत्यनेन कारुण्यानुभावो ध्वन्यते ।
अत्र भर्तृहीनजरजनन्यालम्बितः संन्याससिद्धयथै स्वदूरगमनावसरोद्दीपितः प्रकटा
श्रुपातानुभावितः पूर्वोक्तयष्णीवितमित्यादिसप्ततिलोकेरिततद्वाक्यस्मृतिसंचारितः शो
कारूयः स्थायिभाव एव श्रीभगवत्पादानेष्ठः करुणरस एव ] ॥ ७४ ॥

आत्मीयमन्दिरसमीपगतामथाऽसौ
चक्रे विदूरगनदीं जननीहिताय ।
तत्तीरसंश्रितयदूद्वहधाम किंचि
त्सा निम्रगाऽऽरभत ताडयितुं तरङ्गः ॥ ७५ ॥
वर्षासु वर्षति हरौ जलमेत्य किंचि
दन्तःपुरं भगवतोऽपनुनोद मृत्साम् ॥
आरब्ध मूर्तिरनघा चलितुं क्रमेण
देवोऽबिभेदिव न मुञ्चति भीरुहिंसाम् ॥ ७६ ॥




संन्यासग्रहणाय श्रीशंकरस्य गमनं वर्णयिष्यन्गमनसमये स यत्कृतवांस्तद्वर्णयितु
मारभते । आत्मीयेति । अथानन्तरमसौ यां विदूरगां नदीं मातुर्हिताय स्वीयमन्दिर
समीपगतां चक्रे तस्यास्तीरं संश्रितस्य यदुश्रेष्ठस्य श्रीकृष्णस्य धाम स्थानं किंचित्सा
नदी तरझैस्ताडयितुमारभत ॥ ७५ ॥ [ अथ मातृसंरक्षणव्यवस्थाविधानानन्तरम् ।
इत्थं तदीयं गमनावसरे चरितमासीदित्यार्थिकम् । तदेवाऽऽह । असैौ श्रीशंकराचार्यः ।
याम् । विदूरेति । पूर्वोक्तामति दूरस्थां पूर्णाभिधनदीमित्यर्थः । जननीति । आत्मी
येति । चक्रे । सा निम्नगा । एतेन वक्ष्यमाणकर्मणि नीचगत्वं हेतुद्योतितः] ॥७९॥
 किंच वर्षासु हरौ देवेन्द्रे वर्षति सति । ‘इन्द्रो दुश्यवनो हरिः’ इति हलायुधः ।
किंचिजगलं भगवतो विष्णोरन्तःपुरमागत्य मृत्सां प्रशस्तां मृत्तिकामपनुनोद ततश्चान
वद्या कृष्णमूर्तिः क्रमेण चलितुमारब्ध प्रवृत्ता । ननु तबगलं तद्धिंसां कुतो म मुक्तव
दिति तत्राऽऽह । देवोऽबिभेदिव भयं प्राप्त इवाभवत् । भीरुहिंसां च कोऽपि न
त्यजतीत्यत इत्यर्थः ॥ ७६ ॥ [ भगवतो निरुक्तश्रीकृष्णस्य । अन्तःपुरमन्तर्रह
मेत्य । किंचिन्मृत्सां ‘प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका' इत्यमरात्पशास्तमृदमित्यर्थः।
अपनुनोद दूरीचकारेत्यन्वयः । ततः किं तत्राऽऽह । भारब्धेत्यादिना । अतोऽनघा
निर्दोषाऽपि श्रीकृष्णमूर्तिः क्रमेण चलितुम् । आरब्ध प्रवृत्ताऽऽसीदिति संबन्धः ।
नन्वेवं तहश्धरेण श्रीकृष्णेन सा नद्येव किमिति सेतुस्थलीयसमुद्रवन्न शिक्षितेत्याशङ्कय
समाधत्ते । देव इत्यादिचरमचरणेन । यतो देवः श्रीकृष्णः । अबिभेदिव न परमे
धरावतारेण श्रशिशंकराचार्येण साक्षात्स्वमात्रनुग्रहार्थमियं नदी स्वगृहनिकटमानीता
मया कथं वा तिरस्कार्येति केवलं भयमेवाऽऽपेवोति न किंतु भीरुहिंसाम् । ‘विशे
षास्त्वङ्गना भीरुः' इत्यमरान्नद्याः स्त्रीत्वाद्वीरोर्नदरूिपायात्रिया हिंसामपि मुञ्चति
ऋतत्वेनाखण्डं त्यजतीति योजना । उत्प्रेक्षावाचकेव शब्देन वस्तुतो हरिहरयोरुभ
योरपि परबह्मत्वेनाभेदाद्भक्तानुग्रहार्थ लीलानाव्य मेवोक्तभयादिवि द्योत्यते ] ॥७६॥



प्रस्थातुकाममनघं भगवाननङ्ग
वाचाऽवदत्कथमपि प्रणिपत्य मातुः ॥
पादारविन्दयुगलं परिगृह्य चाऽज्ञां
श्रीशंकरं जनहितैकरसं स कृष्णः ॥ ७७ ॥
आनेष्ट दूरगनदीं कृपया भवान्यां
सा माऽतिमात्रमनिशं बहुलोर्मिहस्तैः ।
छिश्नाति ताडनपरा वद कोऽभ्युपायो
वस्तुं क्षमे न नितरां द्विजपुत्र यासि ॥ ७८ ॥
आकण्र्य वाचमिति तामतर्नु गुरुर्न
प्रोदृत्य कृष्णमचलं शनकैर्भुजाभ्याम् ।
प्रातिष्ठिपन्निकट एव न पत्र बाधा
नद्येत्युदीर्य मुखमास्वचिराय चेति ॥ ७९ ॥




 एवं नद्या छेशितो भगवाञ्श्रीकृष्णोऽनङ्गयाऽशरीरया वाचा श्रीशंकरमवददुक्तवान् ।
तं विशिनष्टि मातुश्चरणकमलद्धं मणिपत्य केनापि प्रकारेण मातुराज्ञां च परिगृह्य गंतु
कामं सकलदोषविनिर्मुक्तमेतेन स्वस्याज्ञानादिदोषनिवत्यर्थे तस्य गमनेच्छा वारिता
तर्हि किमर्थं तस्य गमनेच्छेत्यत आह । जनानां हितमेको मुरूयो रसो यस्य तं तथाच
लोकोपकाराय तस्य गमनसंन्यासग्रहणादिकमिति भावः ॥ ७७ ॥ [ स पूर्वोक्तः ।
भगवान्षड़णैश्वर्यवान्कृष्णः । अत एव । अनङ्गेति । अशरीरवाण्येत्यर्थः । कथमपि
यथाकथंचिदपि । एतेन प्रेमातिशयः सूचितः ] ॥ ७७ ॥
 यदुवाच तदाह । यां दूरगनदीं भवान्कृपयाऽऽनीतवान्साऽत्यन्तं निरन्तरमनन्तो
र्मिरूपैर्हस्तैस्ताडनपरा मां छिश्राति छेशनिवृत्तौ वद कोऽभ्युपायो यतो वस्तुं न समर्थो
भवामि हे द्विजपुत्र त्वं यास्यतः सुतरां वस्तुं न क्षम इत्यर्थः ॥ ७८ ॥ [ बहुलेति ।
विपुलकलोलकरैरित्यर्थः ] ॥ ७८ ॥
 श्रीकृष्णोक्तं श्रुत्वा किं कृतवानित्यपेक्षायामाह । आकर्णेति । इत्येवं तामतनुम
शारीरां वाचं श्रुत्वानोऽस्माकं गुरुरिति ग्रन्थकारोक्ति । अचलमपि कृष्णं शनकैर्भ
जाभ्यां प्रकर्षेणाङ्गभङ्गादिकं विनेवाँदृत्य समीप एव प्रकर्षेण पुनश्चलनं यथा न स्यात्तथा
स्थापितवान् । ननु निकटस्थापनेन पुनरपि नदीबाधा भविष्यतीति चेत्तत्राऽऽह ।
यस्मिन्स्थाने नद्या बाधा नास्ति तत्रेत्यर्थः । चिरकालं सुखमुपविशेत्युक्त्वा च प्राति
धिपदित्यन्वयः ॥ ७९ ॥ [ अचलमपि कृष्णं प्रकृतमूर्तिभूतं श्रीकृष्णमित्यर्थः । मोटू
त्य । अवयवभङ्गभावरूपप्रकर्षेणोद्धरणकमकृत्येत्यर्थः । यत्र नद्या नदीकर्तृका ।

तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा
मादाय संसृतिमहाब्धिविरक्तिमान्सः ॥
गन्तं मनो व्यधित संन्यसनाय दूरं
किं नौस्थितः पतितुमिच्छति वारिराशौ ॥ ८० ॥
इत्थं सुधीः स निरवग्रहमातृलक्ष्मी
शानुग्रहो घटजबोधितभाविवेदी ।
एकान्ततो विगतभोग्यपदार्थतृष्ण
कृष्णे प्रतीचि निरतो निरगान्निशान्तात् ॥ ८१ ॥




षाधा पीडा । न तत्र निकट एव । भो भगवंस्त्वं चिराय सुखमास्स्वोपविशेत्युदीय
चार्य प्रतिष्ठिपत्प्रतिष्ठापितवानिति योजना ] ॥ ७९ ॥
 तस्माच्छूीकृष्णाद्भक्तिवशात्स्वमातुरप्यनुज्ञां गृहीत्वा स संसारमहासमुद्राद्विरक्तिमा
न्संन्यसनाय दूरं गन्तुं मनोऽकृत । किमर्थमित्यत आह । किमिति । नौकायां स्थित
समुद्रे किं पतितुमिच्छति नैवेच्छति तद्वद्वैराग्यादिलक्षणनौस्थितः संसारसमुद्रे पतितुं
नैवेच्छतीत्यर्थः ॥ ८० ॥
 इत्थमनेन प्रकारेण स सुधीर्निशान्तात्सदनान्निरगान्निर्गतवानिति योजना ।

निशान्तपस्त्यसदनं भवनागारमन्दिरम्


 इत्यमरः । तं विशिनष्टि । माता च लक्ष्मीशश्च मातृलक्ष्मीशौ निरवग्रहो निरव
धिर्मातृविष्ण्वोरनुग्रहो यस्मिन्नेतेन मातृश्रीकृष्णाभ्यां प्रसन्नतापूर्वकं प्रेषित इति बोधि
तम् । नन्वतिशीघ्र किमर्थं गतवानित्यत आह । घटजेनागस्त्येन बोधितं भविष्यं
जानातीति तथा । ननु जीवनोपायमेव कुतो न कृतवानित्यत आह ।
 अत्यन्तं विगता निवृत्ता भोग्यपदार्थेभ्यो देहादिभ्यस्तृष्णा यस्य सः । यतः ।

कृषिभूवाचकः शब्दो णश्च निवृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्य भिधीयते


 इत्युक्तत्वात्कृष्णे प्रतीचि प्रत्यगभिन्ने ब्रह्मणि नितरां रत इत्यर्थः ॥ ८१ ॥
[ सुधीः शोभना सार्वेदिकविवेकवती धीबुद्धिर्यस्य स तथा । सर्वविषयकसार्वकालिक
विचारवानित्यर्थः । तत्र पाथेयार्थं तं विशिनष्टि । निरवग्रहेति ।

वृष्टिर्वर्ष तद्विघाते वग्राहावग्रहौ समौ


 इत्यमरादवग्रहशब्देन वृष्टिप्रतिबन्धकवत्मष्ठतेऽपीष्टवृष्टिप्रतिबन्धकः प्रत्यूहविशेष
एवाच्यते । तथा च निर्गतोऽवग्रह इष्टवस्तुवृष्टिबन्धकपत्यूहविशेषोयस्मात्स तथा
तादृशो मातृलक्ष्मीशयोर्जननीजनार्दनयोरनुग्रहो यस्य स तथा । एवं च मातृलक्ष्मी
पतिभ्यां यत्मसन्नतया गमनायानुमोदनं दत्तं तदेवास्य सकलेष्टपुष्टिकरं मार्गे पाथेयमि

कामेन नास्थीयत दृक्पथेऽपि ॥
तन्मूलकः संसृतिपाशबन्धः
कथं प्रसज्येत महानुभावे ॥ ८२ ॥
स्मरेण किल मोहितौ विधिविधू च जातूत्पथौ
तथाऽहमपि मोहिनीकचकुचादिवीक्षापरः ॥
अगामह मोहिनीमिति विमृश्य सोऽजागरी
द्यतीशवपुषा शिवः स्मरकृतार्तिवातज्झितः ॥ ८३ ॥




त्यर्थः । नन्वेतावत्त्वराया अपि किं कारणमित्याशङ्कय तत्सूचयितुं तं विशिनष्टि । घटजेति । अगस्त्यसूचितद्वात्रिंशद्वर्षपर्यन्तमेव भूलॉके स्वलीलाविग्रहावस्थित्या ताव: त्कालमध्य एव निखिलवैदिकमार्गप्रतिष्ठापनतत्परिपान्थनिरसनं च कर्तव्यमिति ज्ञान
बानित्यर्थः । नन्वेवमप्यायुवृद्धयथै योगाभ्यासादिकमेव कुतो नाकरोदितः पुनर्विशि नष्टि । एकान्तत इत्यादिना तृतीयपादेन । एकान्ततोऽभिचारित्वेन । विगतेति विगताभोग्यपदार्थेष्वणिमाथैश्धयद्यखिलेष्टदृश्यवस्तुषु तृष्णा लालसा यस्य स तथे त्यर्थः । अत्र संस्कारात्मनाऽपि रागो निराकृत इति न पूर्वपद्योक्तन संसृतीत्यादिवि शेषणेन सह पौनरुक्त्यमस्येति ध्येयम् । प्रतीचि पञ्चकोशसाक्षित्वोपलक्षितचिन्मात्रे । निरतः सर्वदा तदेकनिष्ठ इत्यर्थः ॥ ८१ ॥
 तस्मित्रैतचित्रामित्याह । यस्य त्रीणि नेत्राणि कामदाहकाग्सिोमसूर्यात्मकानि
यस्य सोऽपरो विग्रहो यस्य तस्यापरविग्रहस्येति वा । दृष्टिपथेऽपि कामेन नास्थीयत कामः स्थातुं न शक्तस्तस्मिन्महानुभावे काममूलकः संसृतिपाशबन्धः कथं प्रसज्येत । उपजातिवृत्तम् ॥ ८२ ॥ [ यस्येति । त्रीणि नेत्राणि यस्य तादृशः पार्वतीपतिल क्षणोऽपरविग्रहोऽन्यशरीरं यस्य स तथा तस्येत्यर्थः । यद्वा त्रिनेत्रस्य पार्वतीपतेयोऽ परविग्रह आजन्मोध्वरेतस्त्वशाल्यन्यलीलावतारविशेषस्तस्येत्यर्थः । अत्र प्रथमपक्षे
यदीयात्रिनेत्रारूयलीलावग्रहइटक्पथेऽपि कामेनावस्थातुं न शक्तं ततः साक्षात्तास्मिन्नेव तत्संचाराभावः कैमुत्यसिद्ध इति द्योत्यते । द्वितीयपक्षेऽपि यस्य गार्हस्थ्यानुभववतोपि दृक्पथेऽपि कामोऽवस्थातुं न शक्तस्तस्याऽऽजन्मोध्वैरेतस्त्वशालिलीलाविग्रहविशेषे
तत्संचाराभावः किमु वक्तव्य इति ध्वन्यत इति बोध्यम् । तन्मूलकः काममूलकः । तथा चाऽऽन्नायते । ‘काममय एवायं पुरुषः' इति । स्मर्यते च ।

“आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरुपेण कौन्तेय दुष्पूरेणानलेन च' इति ] ॥ ८२ ॥


 ननु नित्यमुक्तस्य शिवस्य संन्यासेन किमाधिक्यमिति चेत्तत्राऽऽह । स्मरणेति ।


निष्पत्राऽकुरुतासुरानपि सुरान्मारः सपत्राऽकरो
दप्यन्यानिह निष्कुलाऽकृततरां गन्धर्वविद्याधरान् ॥
यो धानुष्कवरो नराननलसात्कृत्वोदलासीदलं
यस्तस्मिन्नशुशूरतैष मुनिभिर्वण्र्यः कथं शंकरः ॥ ८४ ॥
शान्तिश्चावशयन्मनो गतिमुखा दान्तिन्र्यरुन्द्ध क्रिया
आधात्ता विषयान्तरादुपरतिः क्षान्तिमृदुत्वं व्यधात् ॥
ध्यानैकोत्सुकतां समाधिवितिितश्चक्रे तथाऽऽस प्रिया
श्रद्धा हन्त वसुमथाऽस्य तु कुतो वैराग्पतो वेमि नो ॥ ८५ ॥




विधिर्बह्मा विधुश्चन्द्रस्तौ कामेन मोहितौ जातु कदाचिदुत्पथौ च सुतानुधावनेनताराग्रहेण चोन्मागै च तथाऽहं शिवोऽपि कामेन मोहितो मोहिन्याः केशास्तनादिनिरीक्षणपरः । अहहेत्यत्यन्ताश्चर्ये । मोहिनीमगामनुगतवानिति विचार्य स शिवोयतीशास्य वपुषा कामेन कृतायाः पीडाया वार्तयाऽप्युज्झितोऽजागरीदतिशयेन जागर्ति
स्मेत्यर्थः । पृथ्वी वृत्तम् ॥ ८३ ॥
 किंच यो धानुष्कवरो धनुष्मच्छेष्ठो मारः कामोऽसुरान्निष्पत्राऽकुरुत सपुंखानांशाराणामपरपाश्र्वेषु निर्गमनान्निष्पत्रान्कृतवान् । तथा सुरानपि सपत्राऽकरोत्सपुंखशरप्रवेशानेन सपत्रान्कृतवान् । ‘सपत्रनिष्पत्रादतिव्यथने' इति डाच् । तथाऽन्यानपिगन्धर्वविद्याधरानिह जगति निष्कुलाऽकृततरां निर्गतं कुलमन्तरवयवानां समूहो येभ्यस्तथाभूतानत्यन्तं कृतवान् ‘निष्कुलान्निष्कोषणे' इति डाचू । तथानराननलसात्साकल्येनाभिरूपान्कृत्वा भृशं दग्ध्वाऽलमुदलासीत्सम्यग्दीप्तिमानभूतास्मिन्कामे योऽशुशूरत
शूरतां कृतवान्स एष श्रीशंकरो मुनिभिः कथं वण्यों न कथमपीत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ ८४ ॥
 किंचास्य श्रीशंकरस्य कुतो वैराग्यतः कस्माद्वैराग्यात्परैवैराग्यादपरवैराग्यादा
शान्तिःश्रवणाद्यतिरिक्ताखिलबुद्धिव्यापारेभ्यःस्वाधिकारानुपयुक्तभ्योऽफलत्वज्ञानपूर्वेकश्चित्तनिरोधः सामनोऽवशयद्वशमनयत्।तथादान्तिस्तथाभूतबाह्यव्यापारेभ्यो
बाह्यकरणनिरोधः सा गतिमुखाः क्रिया न्यरुन्द्धगमनादानवदनविसर्गानन्दश्रवणस्पर्श नदर्शनास्वादनाम्राणात्मिकाः क्रिया वाक्पाणिपादपायूपस्थश्रेोत्रत्वक्चक्षुरसनम्राणाख्ये
न्द्रियव्यापारान्संरुद्धवती तथोपरातिः सत्त्वशुद्धौ नित्यानामपि विधित एव त्यागः सा विषयान्तराष्ट्रवणादिव्यतिरिक्तविषयात्ता उक्तक्रिया अाधात्तासां धारणं स्तम्भनं छतवतीतथा क्षान्तिः स्वाधिकारापेक्षितजीवनविच्छेदकातिरिक्तानां शीतोष्णादिद्वानां सहिष्णुता
सा मृदुत्वं कोमलतां व्यवाद्विहितवती तथा समाधिविततिविधित्सितश्रवणादिविरोधिनि



विजनतावनितापरितोषितो
विधिवितीर्णकृतात्मतनुस्थितिः ॥
परिहरन्ममतां गृहगोचरां
हृदयगेन शिवेन समं ययौ ॥ ८६ ॥
गच्छन्वनानि सरितो नगराणि शैला
न्ग्रामाञ्जनानपि पशून्पथि सोऽप्यपश्यन् ।
नन्वैन्द्रजालिक इवादुतमिन्द्रजालं
ब्रहौवमेव परिदर्शयतीति मेने ॥ ८७ ॥
वादिभिर्निजनिजाध्वकर्शितां
वर्तयन्पथि जरद्रव निजे ॥
दण्डितास्विलकदध्वमण्डलः ॥ ८८ ॥




द्रादिनिरोधेन चेतसोऽवस्थानं समाविस्तस्य संततिध्यनैकोत्सुकतां चक्रे । भात्मति वा पाठ । तथा श्रद्धावित्तोभूत्वेति श्रुतौ वसु वित्तमिति पथा यस्याः सा श्रद्धा गुरुवेदान्तवाक्येषु विश्वासरूपा पियाऽऽस बभूवेति नो घेद्ययेतत्सर्वं कस्माद्वैराग्या रुजातमिति न जानामीत्यर्थः ।। ८५ ।।
 एवं श्रीशंकरमुपवण्यै तस्य गमनं वर्णयति। विजनतेति जनसमूहशून्यतालक्षणया वनितयाऽङ्गनया तोषं प्रापितो विधिना दैवेन वितीर्णेन दत्तेन भोगेन कृता स्वश रीरस्य स्थितिर्येन स गृहविषयां ममतां परिहरन्हृदयगेन शिवेन समं ययौ परमा त्मानं हृदि ध्यायन्यावित्यर्थः । दुतविलम्बितं वृत्तम् ॥ ८६ ॥ [ जनसंघशून्यता रूपवनितया कान्तया परितोषितः संजातानन्दः सन्नित्यर्थः । एतेन मात्राज्ञप्तगा ईस्थ्यमकृत्वैव कथमहं संन्यासाथं प्रस्थितोऽस्मीति चेतसि पश्चात्तापशून्यत्वं सूचि
तम् ] [ 'शिवेन शिवमद्वैतम्’ इति श्रुतेरद्वैतब्रह्मणैव समं सार्ध ययौ जगामेति योजना ] ॥ ८६ ॥
 अथ स गच्छन्वनादीनि पश्यन्नपि यथेन्द्रजालिको मायाव्यदुतमिन्द्रजालं दर्श यत्येवमेव मायावच्छिन्नं ब्रह्म वनादिरूपमिदमदुतमिन्द्रजालं दर्शयतीति मेने । वस न्ततिलका वृत्तम् ॥८७॥ [गच्छन्स्वग्रामादुदीचीं प्रति गमनं कुर्वन्सन्नित्यर्थः] ॥८७॥ कुत्सितोऽध्वा मागों येषां ते दण्डितं सर्वेषां कदध्वनां मण्डलं समुदायो येन स



 * सर्वेष्वप्यादर्शपुस्तकेष्वेवमेवोपलभ्यते । कुत्सितो मार्गः कदध्वा दण्डितमित्यादि तु समीचीनं तत्पुरुष एब कदादेशविधानात् ।



सारङ्गा इव विश्वकडुभिरहं कुर्वद्भिरुच्छूङ्कलै
जर्जल्पाकैः परमर्मभेदनकलाकण्डूलजिह्वाञ्चलैः ॥
पॉखण्डैरिह कांदिशीकमनसः कं नाऽऽपुयुर्वेदिका
छेशं दण्डधरो यदि स्म न मुनिस्राता जगद्देशिकः ॥ ८९ ॥




जगद्रुरुर्वादिभिः चे स्वे मार्गे कर्शितां जरद्रर्वी कर्शितत्वाच्छिाथिलावयवां श्रुतिलक्षणां
वृद्धां गां निजेऽद्वैतलक्षणे पथि प्रवर्तयन्दण्डमेकमवहत् । तस्य दण्डधारणमेतदर्थमि
त्यर्थः । ' रो नराविह रथोद्धता लगौ ? ॥ ८८ ॥ [ जरद्रवीम् । जरती चासौ गौश्च
तामनादिवेदवाणीमिति यावत् । पक्षे वृद्धधेनुम् । निजे तदभिमतेऽद्वैते पथि मार्गे वर्त
यन्परावर्तयन्सन्नित्यर्थः । एकं वैणवं दण्डमवहत्करे दधारेति योजना । बालैर्द्धर्मार्गप्र
वर्तितत्वेन कृशीभूतां वृद्धधेर्नु सन्मार्गे प्रवर्तयितुं प्रौढः करे वेणुदण्डं दधातीति
लोकेऽपि प्रसिद्धमेव तद्वदयमपीति । श्लेषसूचितोपमालंकारोऽपि ] ॥ ८८ ।॥
 किचाहंकुर्वाद्रेः शृङ्खलारहितैर्जल्पनशीलैः परमर्मभेदनकलालक्षणया कण्ड्रा व्याप्त
जिह्वाञ्चलं जिह्वापान्तभागो येषां तैर्विश्धकदुभिः खेटसारमेयैर्भयदुतमनसः सारङ्गा मृगा
इव विश्वकदुभिः खलैरहंकुर्वद्भिस्तथाभूतैः पौखण्डैरिह भयदुतमनसो वैदिकाः कं केशं
नाऽऽपुयुरपि तु सर्वमपि प्रापुयुर्यदि जगद्देशिको दण्डधरो मुनिर्न त्राता स्म त्राणं
न कुर्यात् ।

'विश्धकदुस्त्रिषु खले ध्वानखेटशुनोः पुमान् ।
सारङ्गः पुंसि हरिणे' इति मेदिनी ।


 शार्दूलविक्रीडितं वृत्तम् ॥ ८९ ॥ [ वैदिका इलेोके । पाषण्डैर्नास्तिकादि
भेदवादिभिः । विश्धकदुभिः खेटश्धभिः सारङ्गा इव हरिणा इव कांदिशीकमनसः
कांदिशीको भयदुतः' इत्यमराद्भयदुतचेतसः सन्तः कं छेशं नाऽऽपुयुरपि सर्वमपि
छेशमापुयुरित्यन्वयः । पाषण्डत्वे हेतुः । विश्चेति । यतः खलैरतः पाषण्डैरित्यर्थः ।
अथाऽऽखेटसारमेयान्पाषण्डानपि निखिलछेशादानदक्षत्वाथै विशिनष्टि । अहमित्यादि
पूर्वार्धान्तचतुर्भिः । तत्राऽऽयं साभिमानैरित्युभयत्रापि समानम् । तत्रापि । उच्छ्
ङ्गलैरिति चपक्षे निर्मुक्तलोहशृङ्गलैरित्यर्थः । अन्यत्र त्यक्तवेदमार्गमर्यादैरित्यर्थः ।
एतेन दुःसहत्वं ध्वन्यते । तत्रापि । जल्पाकैः 'स्याज्जल्पाकस्तु वाचवालः' इत्यमराच्छ
ब्दकारिभिरिति पक्षद्वयेऽपि । एतेन भयजनकत्वं व्यज्यते । तत्रापि । परेति । परेषां
यन्मर्मग्रीवादिस्थानं पक्षे रहस्यं तस्य यद्वेदनं छेदनं तद्विषयिणी या कला युक्तिस्त
लक्षणया कण्ड़ा व्यासं जिह्वाञ्चलं रसनाग्रं येषां ते तथा तैरित्यर्थः । एतेन प्राणहर



दण्डान्वितेन धृतरागनवाम्बरेण
गोविन्दनाथवनमिन्दुभवातटस्थम् ॥
तेन प्रविष्टमजनिष्ट दिनावसाने
चण्डत्विषा च शिखरं चरमावलस्य ॥ ९० ॥
गोविन्दनाथवनमध्यपतलं कुलोके ।।
शंसन्ति यत्र तरवो वसतिं भुनीनां
शाखाभिरुज्ज्वलमृगाजिनवल्कलाभिः ॥ ९१॥




णप्रवीणत्वं द्योत्यते । परंतु कदैतदित्यत्राऽऽह । दण्डेत्यादिशेषेण । यदि स्म
जगद्देशिको विश्धगुरुः श्रीमद्भगवत्पाद: । दण्डधरः । एतादृशो मुनिर्मननशीलः परम
हंसः संन्यासी त्राता न स्याबेदिति योजना । तस्माच्छूीमद्भगवत्पादावतारप्रसादेन
शुद्धवैदिकानां नैव भेदवादमात्रभीतिरिति भावः ] ॥ ८९ ॥
 एवंभूतः श्रशिांकरो गोविन्दनाथस्य वनं प्रविष्ट इत्याह । दण्डसंयुक्तेन धृतरागं रञ्जितं
नवीनमम्बरं वस्त्रं यस्य धृतानुरागश्चासौ नवाम्बरश्चेति वा । तेन श्रीशंकरेणेन्दुभवाया
नर्मदाख्याया नद्यास्तटे स्थितं गोविन्दनाथवनं दिनान्ते प्रविष्टमजानिष्टाभूदस्ताचलस्य
शिखरं च चण्डमभेण भानुना प्रविष्टमभूदित्यर्थः । वसन्ततिलका वृत्तम् ॥९०॥ [इन्दुभ
वेति । इन्दुभवाया नर्मदाख्याया नद्यास्तटे स्थितामिति डिण्डिमकृत् । ‘रेवा तु नर्मदा
सोमोद्भवा' इति पदे रामाश्रमास्तु सोमात्सोमवंशजात्पुरूरवस उद्भवति । तेनावता
रितत्वात् । यद्वा सोमोऽमृतमुद्भवत्यस्याः । स्वर्गमदत्वात् । अप् । सोमादुद्रादुद्भवति ।
पवाद्यच् । इति व्याचक्षते । सर्वथाऽपि रेवातीरस्थमिति यावत्] [उत्तेऽर्थे समुचितोपमां
सूचयंस्तुल्ययोगितामाह । चण्डेत्यादिशेषेण । चण्डा तिग्मा त्विटुन्तिर्यस्य तेन
सूर्येणेत्यर्थः । श्रीमदाचार्यपक्षेऽपि । तपस्तिग्मतेजसेत्यर्थः । धृतेति । धृतो राग
संध्यारागो येन तादृशं नवमाभिनवमम्बरमाकाशं येन स तथा तेनेत्यर्थः । एतादृशेन
सता । चरमाचलस्यास्ताचलस्य । शिखरं तदन्तिकं नभ इत्यर्थः । प्रविष्टमजनिष्ठति
संबन्धः । चः समुचये । तुल्ययोगिता ठेषोपमादयोऽलंकाराः ] ॥ ९० ॥
 तीरवृक्षेभ्यं भागतेन वायुना विशेषेणापगतः श्रमो यस्य स तथाविधः सन्गोविन्दना
थवनस्य मध्यतलं लुलोके ददर्श । दर्शनार्थस्य लोकृधातोळिंव्यभ्यासहस्वे रूपम्। यत्र
यस्मिनुज्ज्वलानि मृगचर्मकौपीनाच्छादनानि यासु ताभिः शाखाभिवृक्षा मननशीलानां
यतीनां निवासं बोधयन्ति तदित्यर्थः ॥९१॥[ उज्जवलेति । उज्ज्वलानि मृगाजिनानि
वल्कलानेि वृक्षविशेषत्वङ्निर्मितमावरणानि च यासु तास्तथा ताभिरित्यर्थः] ॥ ९१ ॥



आदेशमेकमनुयोत्कुमयं व्यवस्य
न्मादेशमात्रविवरप्रतिहारभाजम् ।
तत्र स्थितेन कथितां यमिनां गणेन
गोविन्ददैशिकगुहां कुतुकी ददर्श ॥ ९२ ॥
तस्य प्रपन्नपरितोषदुही गुहायाः
स त्रिप्रदक्षिणपरिक्रमणं विधाय ।
द्वारं प्रति प्रणिपतञ्जनतापुरोगं
तुष्टाव तुष्टहृदयस्तमपास्तशोकम् ॥ ९३ ॥
पर्यङ्कतां भजात यः पतगेन्द्रकेतोः
पादाङ्गदत्वमथवा परमेश्वरस्य ।
तस्यैव मूर्थेि धृतसाब्धिमहीधभूमे
शेषस्य विग्रहमशेषमहं भजे त्वाम् ॥ ९४ ॥




 आदेशमुपदेशमेकमनुयोतुं मधुमयं श्रीशंकरो व्यवस्यनिश्चयं कुर्वन्प्रादेशमात्रं छि
द्रमेव द्वारपालं भजतीति तथा तां यमिनां समूहेन कथितां गोविन्दनाथगुहां कौतुक
युक्तः सन्ददर्श ॥ ९२ ॥ [ एकमद्वैतात्मरूपम् । आदेशामुपदेशम् । अनुयोतुं
प्रष्टम् ] ॥ ९२ ॥
 दृशा यत्कृतवांस्तदाह । तस्य प्रपन्नानां शरणागतानां संतोषं दोग्ध पूरयतीति
तथा तस्य शरणागतसंतोषपदस्य श्रीगोविन्दनाथस्य गुहाया वारत्रयं प्रदक्षिणं परि
क्रमणं विधाय द्वारं प्रति प्रणिपातं दीर्घनमस्कारं कुर्वञ्जनसमूहस्य समक्ष तुष्टहृदयः
श्रीशंकरोऽपास्तः शोकोपलक्षितः संसारो यस्मात्तं निरस्तसंसृतिचक्रमपास्तो दूरीकृतः
शिष्याणां वा शोको येन तं श्रीगोविन्दनाथं तुष्टाव ॥ ९३ ॥
 स्तिमेव वर्णयाति चतुर्भिः । यो गरुडध्वजस्य श्रीविष्णोः पर्यङ्कतां भजति ।
अथवेत्यस्य तथैवेत्यर्थः । परमेश्वरस्य महादेवस्य यः पादाङ्गदत्वं भजति पुनश्च शिरसि
धृता समुद्रपर्वतैः सहिता भूमिर्थेन तस्यैव शेषस्याशेषं सर्वं विग्रहमनुग्रत्वाद्वा शेषवि
लक्षणमशेषं सर्वात्मत्वाद्वाऽशेषं त्वामहं भजे ॥ ९४ ॥ [ शेषस्य विग्रहं तदनुगृही
तत्वात्तत्समकक्षविद्यत्वाद्वा तत्स्वरूपमित्यर्थः । अत्र शेषस्य विग्रहमित्यनेन श्रोत्रिय
त्वमशेषमित्यनेन ब्रह्मनिष्ठत्वं च तत्र द्योतितम् । अवशिष्टत्रिपाद्या शेषमाहात्म्यात
त्मतिमत्वेन तत्र ततुल्यैश्वर्यमपीति । एवं च सर्वाऽपि गुरुत्वसामग्री व्यज्यते]॥९४ ॥


दृष्टा पुरा निजसहस्रमुखीमभैषु
रन्तेवसन्त इति तामपहाय शान्तः ॥
एकाननेन भुवि यस्त्ववतीर्य शिष्या
नन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ॥ ९५ ॥
उरगपतिमुखादधीत्य साक्षा
त्स्वयमवनेर्विवरं प्रविश्य येन ॥
प्रकटितमचलातले सयोग
जगदुपकारपरेण शब्दभाष्यम् ॥ ९६ ॥
तमस्विलगुणपूर्ण व्यासपुत्रस्य शिष्या
दधिगतपरमार्थ गौडपादान्महर्षेः ॥
अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वां
प्रसृमरमहिमानं प्रापमेकान्तभक्तया ॥ ९७ ॥




 एवं शेषात्मकत्ववर्णनेन श्रीगोविन्दनाथं स्तुत्वा तदवतारभूतपतञ्जल्यात्मना तं
स्तौति । दृष्टेति । यः पूर्वं स्वीयां सहस्रमुखीं मूर्ति दृष्टाऽन्ते समीपे ये वसन्तोऽन्तेवा
सिनः शिष्या अभैषुर्भयमापुरिति हेतोस्तां भयजनका मूर्ति परित्यक्त्वा शान्तो निर्विषः
सन्नेकमुखेन भुव्यवतीर्य शिष्यानन्वग्रहीदनुगृहीतवान्स पतञ्जलिर्ननु निश्चयेन त्वमेवे
त्यर्थः ॥ ९५ ॥,[ अन्तेवसन्त: ‘छात्रान्तेवासिनौ शिष्ये' इत्यमराच्छिष्या इत्यर्थः ]
[ यः शिष्यानन्वग्रहीदनुजग्राह । तु पुनः स पतञ्जालः । यागसूत्रमहाभाष्यचरक
परमार्थसारकारस्त्वमेवासीति संबन्धः । उत्प्रेक्षानुपाणितरूपकमलंकारः ] ॥ ९५ ॥
 जगदुपकारकता वर्णयन्नाह । स्वयं भूमेश्छिद्रं पातालं पविश्योरगपतेः शेषस्य
मुखात्साक्षादधीत्य जगदुपकारपरेण येन योगशाखेण सहितं व्याकरणभाष्यं भूमितले
प्रकटितं तमित्युत्तरेण संबन्धः ।
 'अयुाज नयुगेरफतो यकारो युजे च नजौ जरगाश्च पुष्पिताग्रा' ॥९६॥ [ येन
स्वयमेव योगैश्धर्यसामथ्र्यात् । भवनेः पृथ्व्याः । विवरं पातालारूयं बिलं प्रविश्य ।
साक्षादव्यवधानेन । उरगेति । शेषवदनादित्यर्थः । अधीत्य । जगदिति । विश्धो
पकारपरायणेन सतेति यावत् । अचलेति । ‘भूमिरचलाऽनन्ता' इत्यमरात्पृथ्वीतल
इत्यर्थः । सयोगं योगशास्त्रसहितमित्यर्थः । उपलक्षणमिदं तदीयस्य चरकपरमार्थ
साराख्यस्य वैद्यकाद्वैतशास्त्रीयग्रन्थद्वयस्येति ध्येयम् । एतादृशं शब्दभाष्यमष्टाध्या
थ्यभिधपाणिनीयशब्दशास्त्रीयभाष्यमित्यर्थः ] ॥ ९६ ॥
 ते सर्वगुणैः पूर्ण व्यासपुत्रस्य शुकाचार्यस्य शिष्याद्रौडपादान्महर्षेरधिगतो लब्ध


तस्मिमिति स्तुवति कस्त्वमिति झुवन्तं
दिष्टया समाधिपदरुद्धविसृष्टचित्तम् ।
गोविन्ददेशिकमुवाच तदा वचोभि
प्राचीनपुण्यजनितात्मविबोधचिन्हैः ॥ ९८ ॥
स्वामिन्नहं न पृथिवी न जलं न तेजो
न स्पर्शनो न गगनं न च तद्रणा वा ।
नापीन्द्रियाण्यपि तु विद्धि ततोऽवशिष्टो
यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥ ९९ ॥




परमार्थो येन तं प्रसृमरः प्रसरणशीलो महिमा यस्य तं त्वां ब्रह्मनिष्ठामधिजिगमिषुर
धिगन्तुमिच्छुरेषोऽहमनन्यया भक्त्या मापं प्राप्तोऽस्मि ।

‘ननमयययुतेयं मालिनी भोगिलोकैः’ ॥ ९७ ॥


 तस्मिष्ठश्रीशंकर एवं स्तुवति स्तुतिं कुर्वात सति कस्त्वमिति बुवन्तं भाग्यवशात्स
माविपदे निरुद्धमपि विसृष्टं व्युत्थापितं चित्तं येन तं गोविन्ददेशिकं प्रावीनैः पुण्यै
र्जनितस्याऽऽत्मविबोधस्य चिह्न येषु तैर्वचोभिस्तस्मिन्काले श्रीशंकर उवाचेत्यर्थः ।
वसन्ततिलका वृत्तम् ॥ ९८ ॥ [ दिष्टया ‘दिष्टया समुपजोषं चेत्यानन्दे' इत्यमरादा
नन्दोत्कर्षेणेत्यर्थः । तन्मूलं त्वग्रे मूल एव शंकरेत्यादिना तद्वाक्य एव स्पष्टीभविष्यति ।
तस्मादय भगवाञ्शिव एवाद्वैतविद्यापतिष्ठापनार्थमवतीर्ण इति समाधावनुभूयू
तद्दर्शनेच्छाहर्षेणेत्याशयः । समाधीति । समाधेरसंपज्ञातसमाधेर्यत्पद्मद्वैतात्मस्थानं तत्र
पूर्वं निरुद्धं पश्चान्निरुक्तनिमित्तेन निसृष्टं व्युत्थापितं चित्तं येन स तथा तमित्यर्थः ।
प्राचीनेति । प्राचीनानां तत्र तत्कालावच्छेदेन स्थितानामस्मदाद्यपेक्षया प्राचीनानां
पुरातनानां कथितां यमिनां गणेनेति जनता पुरोगमिति च मूल एव प्रसिद्धानां संय
मीन्द्राणां यानि पुण्यानि सुकृतानि तैर्जनितानि । प्रकटितान्यात्मविबोधचिह्नान्यद्वैत
ब्रह्ममालक्ष्माणि येषु तानि तथा तैरित्यर्थः । एतादृशैः । वचोभिर्वाक्यैरेव । नतु

‘राधा हरिं दृशैवाचे निश्येवैौहि गृहानिति'


 इत्यादिवचेष्टाविशेषैरित्यर्थः । तेषां तत्रोपयुक्तत्वेऽपि प्रकृतेऽनुपयुक्तत्वात् ।

'स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया'


 इति श्रीमदाचार्थचरणैरेव दक्षिणामूर्तिस्तोत्रे तस्य दक्षिणकराङ्गष्ठाग्रतर्जन्यग्रमे
लनलक्षणचिन्मुद्रारूयचेष्टाविशेषेणैव मुमुक्ष्णामद्वैतात्मपबोधकतत्त्वमस्यादिमहावाक्यार्थ
कथकत्ववर्णनेनतद्वयुदासावश्यकत्वाच ] ॥ ९८ ॥
 तद्वचनमुदाहरति । स्वामिन्निति । उपनिषत्प्रातिपाद्यमात्मानं दर्शयितुमितरवा

द्यभिमतं तं निराकरोत्यहं न पृथिवीत्यादिना । तत्र स्थूलोऽहं जानामीत्यादिप्रतीत्या ज्ञातृत्वप्रतीतेर्देहाकारेण परिणतं भूम्यादिभूतचतुष्टयमात्मेति चार्वाकेषु केषां चिदभिमतमात्मानं निराकरोति । या पृथिवी साऽहं न मवामि योऽहं स पृथिवी न भवतीति परस्परतादात्म्यनिषेध एवमप्रेऽपि । ननु वादिना संघातस्यैवाऽऽत्मत्वाभ्यु पगमात्प्रत्येकं पृथिव्यादेस्तत्त्वनिराकरणं कोपयुज्यत इति चेद्वादिना द्विगुणगुरुत्वभि याऽतिरिक्तावयव्यनभ्युपगमाभ्यादीनि चत्वारि तरवानीति वदता पञ्चमतत्वाभ्युप गममसक्तिभिया संयोगादिसंबन्धानभ्युपगमात्संघातकर्तुरभावाच । संघातानुपपत्त्या प्रत्येकभूतनिराकरणं भौतिकदेहात्मत्ववादनिरास इति गृहाण । स्पर्शनो वायुस्तथा चाऽऽत्मनो देशकालाद्यपरिच्छिन्नत्वात्तत्परिच्छिन्नानां घटादिवदनात्मत्वात्पृथिव्यादि रहं नेत्यर्थः । एवं देहात्मवादं निराकृत्य शून्यवादिमाध्यमिकस्य मतं निराचष्टे । न गगनं यच्छून्यं तदहं न भवामि योऽहं स शून्यं न भवति । अस्तीत्येवोपलब्धव्य इत्यादिश्रुतेः । निरधिष्ठानकश्रमानुपपत्तेः स्तनपानादिप्रवर्तकजन्मान्तरीयसंस्कारोपल ब्धेश्च भूतनिराकरणेन ‘आपोमयः पाणोऽन्नमयं हि सोम्य मनः' इति श्रुत्या भूतकार्य त्वेनाङ्गाकृतयोः प्राणमनसोः क्रियाशक्तिज्ञानशक्तिप्रधानयोर्निरासः । मनोनिराकरणेन च मनोवृत्तेः क्षणिकविज्ञानस्य न तावत्प्राणात्मवादः साधुः । सुषुप्तौ तस्य भोक्तृ त्वादर्शनान्नापि मन आत्मवादस्तस्य करणत्वानुभवात् । नापि क्षणिकावज्ञानात्मवादः । सैौगताभिमतः कर्तृत्वमोत्कृत्वयोवैयधिकरण्यापत्तेः यद्वा न गगनामित्यनेनाऽऽका शास्य पञ्चमभूतस्य निरासः । यद्यपि भूतचतुष्टयतत्त्ववादिनो मत आवरणाभावत्वेना भिमतस्य स्थिरस्यासत आकाशस्य देहानुपादानत्वं तथाऽपि तस्य सिद्धान्ते भावत्व देहेोपादानत्वाद्यभ्युपगमात्तत्राप्यात्मत्वमसक् त्या तन्निराकृतम् । एवं देहोपादानाना भूतानामात्मत्वं निराकृत्य तदुपादानभूतानां गन्धरसरूपस्पर्शशाब्दारूयानां तदुणत्वेन प्रसिद्धानां पञ्चतन्मात्राणामात्मत्वं निराचष्टे । न च तद्रुणा वा वाशब्दस्तथाशब्दार्थ इदानीं पश्यामि शृणोमीत्याद्यनुभवात्प्रत्येकमिन्द्रियाण्यात्मेति केचिद्विनिगमकाभावान्मि लितानीत्यपरे तन्निराचष्टे । नापीन्द्रियाणीति । पत्येकमिन्द्रियाणामात्मत्वे योऽ मश्रौषं सोऽहं पश्यामीति प्रत्यभिज्ञानुपपत्तिर्भलितानां तथात्व एकेन्द्रियनाशा आत्में विनाशापातः । तस्मादिन्द्रियाण्यप्यहं नापि तु ततस्तस्मात्सर्वेषां बाधाद्योऽवशिष्ट सर्वेद्वैतबाधेऽप्यबाधितः केवलः कर्तृत्वभोकृत्वादिविनिर्मुक्तः परमः सर्वोत्तमः शिवधि दानन्दोऽस्ति सोऽहमस्म्यवशिष्ट इत्यनेन शून्यमतनिरासः । कर्ता भोक्ता चेति वैशेषि कतार्किकप्राभाकरा भोक्तैवेति सांरूयाश्च केवलपदेन निराकृताः । शिव इत्यनेन वैशे षिकाद्यभिमतमात्मनः सुखादिगुणकत्वं पैराकृतम् । परम इत्यनेन निरतिशयत्वेन पर



आकण्र्य शंकरमुनेर्वचनं तदित्थ
मद्वैतदर्शनसमुत्थमुपात्तहर्षः ॥
स प्राह शंकर स शंकर एव साक्षा
ज्जातस्त्वमित्यहमवैमि समाधिदृष्टया ॥ १०० ॥
तस्योपदर्शितवतश्चरणौ गुहाया
द्वारे न्यपूजपदुपेत्य स शंकरार्यः ॥
आचार इत्युपदिदेश स तत्र तस्मै
गोविन्दपादगुरवे स गुरुर्यतीनाम् ॥ १०१ ॥




मपुरुषार्थत्वं तस्य बोधितं यद्वा पदार्थशोवनपुरःसरोऽखण्डार्थोऽत्रोक्तस्तत्र पृथिव्या
दिनिषेधेन त्वंपदार्थः शोवितः केवलः परमः शिवो योऽस्तीति शोधितत्पदार्थानु
वादः सोऽहमस्मीत्यखण्डार्थः । वसन्ततिलका वृत्तम् ॥ ९९ ॥ [ स्वामिन्निति । इदं
हि पद्य न भूमिर्न तोयमित्यादिशश्लोक्याद्यश्लोकच्छायमेवेति श्रीमधुसूदनसरस्वती
कृतासिद्धान्तबिन्द्वारूयतद्वद्याख्यानेनैव व्याख्यातमिति नैवात्र मया लेखनीयमवशिष्यते ।
डिण्डिमकृता तु बहुशास्तान्येव वाक्यानि विलिखितानीति तथा लेखने मन्दाक्ष
मेव ममेति क्षन्तव्यं विद्वद्भि । भोः स्वामिंस्त्वं शिवोऽहमस्मीति विद्धि जानीहीति
योजना ] ॥ ९९ ॥
 इत्थमेवंभूतमद्वैतसाक्षात्कारात्समुत्थितं शंकरमुनेर्वचनं श्रुत्वा संप्राप्तहर्षः स गोवि
न्दनाथः पोवाच । हे शंकर स प्रसिद्धः शंकर एव साक्षात्त्वं प्रादुर्भूत इत्यहं जानामि
कथमित्यत आह । समाधिदृष्टयेति ॥ १०० ॥ [ समाधिदृष्टया समाधौ कृतवार
णाविशेषेणेत्यर्थः । अवैमि ऋतंभरा तत्र प्रज्ञेत्यादियोगसूत्रात्प्रमिनोमीति तं प्रति
माहेत्यन्वयः ] ॥ १०० ॥
 सस्यैवमुक्तवत उक्त्वा च चरणौ गुहाया द्वारे दर्शितवतो गोविन्दनाथस्य स
शंकराचार्यः समीपे आगत्य चरणौ न्यपृजयत्किमर्थं न्यपूजयदित्यत आह । स शंक
रौचार्यस्तत्र तेषु यतिषु तस्मिन्काल इति वा गुरुचरणपूजनमाचार इत्युपदिदेश ।
गोविन्दपादो गुरुर्यस्य तस्मै शंकराचार्याय स गोविन्दनाथ उपदिदेशेत्यनुषङ्गः ॥१०१॥
[ न्यपूजयन्नितरां श्रद्धाभक्तिभ्यामभ्यर्चयामासेति संबन्धः । ननु तेनापि किमिति
चरणावुपदार्शतौ किं मानित्वेन पूजाद्यर्थे तथाचेदनेनापि किमिति तावर्पिताविति
प्रत्याहाऽऽचार इतीत्याद्युक्तराधेन । स गोविन्दभगवत्पूज्यपादारूयः । यतीनां परम
हंससंन्यासिनाम् । गुरुराचार्यः । अतः । तस्मै पूर्वपकृतश्रीशंकराचार्यारूयाय । गोवि
न्देति । गोविन्दभगवत्पूज्यपादो गुरुराचार्यो यस्य तस्मै निजशिष्याय । आचारः



शंकरः सविनयैरुपचारै
रभ्यतोषयदसौ गुरुमेनम् ॥
ब्रह्म तद्विदितमप्युपलिप्सु
संप्रदायपरिपालनबुद्धया ॥ १०२ ॥
भक्तिपूर्वकृततत्परिचर्या
तोषितोऽधिकतरं पतिवर्यः ।।
बह्मतामुपदिदेश चतुर्भि
र्वेदशेखरवचोभिरमुष्मै ॥ १०३ ।।




शिष्येण हि मुरोः पादौ पूजनीयाविति शिष्टाचारः । इत्युपादेश संप्रदायं सूचया
मास नतु किंचिदप्यन्यदिति प्रथममश्रसमाधानार्थे योजना । तथा स श्रीशंकराचा
योऽपि तत्र तेषु पूर्वोक्ततत्रस्थसंयमिषु मध्ये । आचार इत्युपदिदेशेति प्राग्वदेवेति
द्वितीयप्रश्रोपशान्त्यर्थं योजनीयम् ] ॥ १०१ ॥
 असैौ शंकरो विनयसहितैरुपचारैरेनं गोविन्दनाथं गुरुमभ्यतोषयत् । किमिच्छ
न्नित्यत आह । तदुपनिषत्मसिद्धमखण्डैकरसं ब्रह्म सम्यग्ज्ञातमप्युपलब्धुमिच्छुः । ननु
विदितोपलिप्सायां को हेतुरिति तत्राऽऽह । संप्रदायेति । तद्विज्ञानार्थ ‘स गुरुमे
वाभिगच्छेत्’ ‘आचार्यवान्पुरुषो वेद' इत्यादिश्रुत्युक्तगुरूपसदनादिलक्षणसंप्रदायस्य
भरिपालनबुद्धयेत्यर्थः । स्वागता वृत्तम् ॥ १०२ ॥ [ विदितमपीधरत्वेनाऽऽवरणा
भावादनवरतं ज्ञातमपीत्यर्थः ] [ विदितेऽप्युपलिप्साऽनुचितैवेत्यत्राऽऽह । संप्रदाये
त्यादिशेषेण । तद्विज्ञानार्थ 'स गुरुमेवाभिगच्छेत्’ इति श्रुत्याद्युपदिष्टसंप्रदायसं
रक्षणबुद्धयैव विदितमपि तद्वह्मोपलिप्सः सान्नित्यादियोजना । तस्माद्वरुभक्तिरेव मुक्ति
मूलमित्याशयः ] ॥ १०२ ॥
 भक्तिपूर्व कृता या तस्य परिचय तत्कृता सेवा त्याऽधिकतरं यथा स्यात्तथा पार
तोषितो यातिश्रेष्ठो गोविन्दनाथो वेदानामृग्यजुःसामाथर्वणाख्यानां यानि शिरांस्युपनिषद
स्तेषां वचोभिः क्रमेण ‘प्रज्ञानं ब्रह्म' 'अहं ब्रह्मास्मि' 'तत्त्वमसि’ ‘अयमात्मा बह्म'
इति चतुर्भिर्वचनैरमुष्मै श्रीशंकराय ब्रह्मभावमुपदिदेश ॥ १०३ ॥ [ यतिवयों याति
श्रेष्ठः श्रीगोविन्दभगवत्पूज्यपादः । अत्र डिण्डिमकारः पञ्चदश्युक्तमूलकारैककृतमहावा
क्यविवेकानुसारेणगर्गादिवेदानां क्रमेण ‘मज्ञानं ब्रह्म’ ‘अहं ब्रह्मास्मि’ ‘तत्वमासि’ ‘अय
मात्मा ब्रह्मा' इति चत्वारि महावाक्यान्युदाजहार तत्समीचीनमेव । सांप्रदायिकेत्याद्यु
तरपद्योक्तनिरुक्तोपदेशमात्राकलितचतुर्लक्षणोत्तरमीमांसारहस्यत्ववर्णानातू । तथा हि ।
मज्ञानं ब्रह्म' इत्यूग्वेदमहावाक्ये स्वप्रकाशचिन्मात्रवस्तुन एवाव्यावृत्ताननुगतं वस्तु
ब्रहेति भण्यते ।

ब्रह्मार्थो दुर्लभोऽत्र स्याद्वितीये सति वस्तुनि' इति

 वार्तिकोक्तलक्षणं त्रिविधपरिच्छेदवैधुर्यं ब्रह्मत्वमेवोक्तमिति तु निर्विवादमेव । समन्वयाध्याये हि ‘अथातो ब्रह्मजिज्ञासा’ इति प्रतिज्ञाय ब्रह्मण्येव सर्ववेदान्तानां तात्पर्यपर्यवसानं वर्णितमिति निरुक्तवाक्योक्ततदभेदाचिन्मात्र एव समन्वयः सुघट एवेति युक्तमेव प्रथमवाक्योपदेशेन प्रथमाध्यायार्थाकलनम् । एवम् ‘अहं ब्रह्मास्मि' इति यजुर्वेदमहावाक्येऽप्यहंकारोपलक्षितात्मन एव ब्रह्मत्वं पमीयते । तथा चाविरोधाध्याये सर्वेप्रमाणाविरोधो योऽभिहितसमन्वयेन सहोक्तः स तावद्यावत्प्रमाणानां प्रत्यक्षेक मूलकत्वात्तस्यापि नित्यापरोक्षस्वप्रकाशात्ममात्रायत्तत्वात्तद्रह्मत्वावबोधेनाक्गन्तुं सुकर एवेति समुचितमेव द्वितीयवाक्येन द्वितीयाध्यायार्थाकलनमपि । तथा ‘तत्त्वमसि’ इति सामवेदमहावाक्ये तु जीवस्य ब्रह्माभेदोपदेशः स्फुट एव । तेन साधनेषु सर्वेषु मध्ये साक्षादुपकारकं ब्रह्मज्ञानमेव मोक्षसाधनामिति साधनाध्यायस्य तृतीयस्य तृतीयवाक्ये नाऽऽकलनं युक्तमेव । एवम् ‘अयमात्मा ब्रह्म' इत्यथर्ववेदमहावाक्येऽपि नित्यापरोक्षस्या ऽऽत्मनो ब्रह्मत्वोक्तमोक्षाख्यफलस्याविद्याध्वंसरूपस्यापि तद्नतिरेकाचतुर्थवाक्येनापि तेन चतुर्थाध्यायस्य फलाभिवम्योचितमेवाऽऽकलनमिति । अन्यथा यदि चतुर्लक्षण्यर्था वगमाथै चत्वारि महावाक्यानि निरुक्ताचार्यः प्रकृते कथंचिदपि नैवोपदिदेशा किं त्व तब्रह्मात्मैक्यसाक्षात्कारार्थमेवेति बूषे चेत्सांप्रदायिकेत्याद्यव्यवहितोत्तरपद्ये निरुक्तोप देशस्य कृत्स्नोत्तरमीमांसाशास्त्रार्थावबोधलक्षणं फलं नैव वर्णितं स्यात्कित्वविद्याध्वं सोपलक्षितदृश्योच्छेदरूपमेव तदभिहितं स्यात् । किंच श्रीमच्छंकरभगवत्पादस्य हि कुलक्रमागता शाखा तैत्तिरीयैवेति तु मागेवोपपादितं प्रसिद्धमेव च तथा लोकेऽपि। तस्य सर्वज्ञत्वेऽपि लोकसंग्रहार्थानुष्ठेयगुरूपसतिपूर्वकसंन्यासानुष्ठानादिसहिताद्वैत ब्रह्मसाक्षात्कारफलकमहावाक्योपदेशे स्वशाखीयमेव तदुपदेष्टव्यम् । ततु नैवास्ति निरुक्तचतुष्वपि । ननु कोऽयं निर्बन्धो यत्वशाखीयमेव महावाक्यमुपदेष्टव्यम धिकारिणे ब्रह्मात्मैक्यसाक्षात्कारार्थमितिचेतुल्यः पर्यनुयोगोऽयं वेदशिरोवाक्येऽपि । जीवबौक्यावबोधस्य स्मृत्यादिवाक्येभ्योऽपि संभवात्तादृशवाक्यानाम् क्षेत्रज्ञ चापि मां विद्धि’ इति स्मृत्यादिष्वपि दर्शनाच। न च ‘वेदान्तविज्ञानसुनिश्चितार्थाः' इत्यादिश्रु तिभिः 'श्रोतव्यः श्रुतिवाक्येभ्यः' इत्यादिस्मृतिभिश्च श्रुतिशिरोवाक्यमात्रगम्यत्वस्या विकारिविशेषसाध्यब्रह्मात्मैक्येऽभिहितत्वान्निरुक्तस्मृत्यादिमहावाक्यानां तदुपबृहकत्वेन तदेकानुग्राहकत्वाच वेदशिरोवाक्यमेवावश्यमुक्तबोधेऽपेक्षितमिति वाच्यम् । एवं शास्त्र सत्त्वस्य तदीयस्वशाखीयत्वेऽपि तुल्यत्वात् । तथा चोक्तं संक्षेपशारीरके ।

'स्वाध्यायधर्मपठितं निजवेदशाखा वेदान्तभूमिगतमाद्रपालितं च. ॥


प्रोक्तमत्रमतगत्यनुरोधात् ।।
शास्रगूढहृदयं हि दयालो
कृत्स्रमक्षमबुद्ध सुबुद्धिः ।। १०४ ।।




संन्यासिना परदृशा गुरुणोपदिष्टं
साक्षान्महावचनमेव विमुक्तिहेतु


 इति । विस्तरस्तु मदीये मारब्धध्वान्तविध्वंपन एव ज्ञय इति दिक । न चैव
ताहं श्रीमद्रोविन्दभगवत्पृज्यपादैः श्रीशंकराचार्ये पति ब्रह्मात्मैक्यविषयकसाक्षात्कार
जनकं 'स यश्चायं पुरुषे । यश्चासावादित्य । म एकः' इति तैत्तिरीयारूयस्वशाखा
पनिषन्महावाक्यं तु नैवोपदिष्टम् । तथा चाधिांजगामपु : 'एष त्रह्मसंस्थामहं त्वाम्'
इति तत्प्रार्थनानर्थक्यमेवेति वाच्यम् । ब्रह्मसंस्थापदेन पारमहंस्यपूर्वकत्रह्मनिष्ठाया
एव विवक्षितत्वाद्रह्मात्मैक्यसाक्षात्कारम्य त्व-धरत्वेन स्वभावपिद्धस्य तेन कस्त्वमिति
प्रश्रोत्तरे स्वामिन्नित्यादपद्य एव स्फुटीकृतत्वाच । अत एव चतुर्लक्षण्युपकारको
क्तवाक्यचतुष्टयमेव तैस्तान्प्रत्युपदिष्टं नतु स्वशाखापनिषन्महावाक्यमिति ध्येयं धरैः ।
एतद्रहस्यानभिज्ञा इदानींतना अपि प्रायम्तैत्तिरीयशाखिनमपि पंन्यापिनं शिाप्यं प्रति
यजुर्वेदीयत्वेन काण्वादिशाखीयम् 'अहं ब्रह्माम्मि' इत्येव महावाक्यमुपदिशान्ति
पश्चात्तानि त्रीण्यपीति केन ते निवारयितुं शक्या इत्युपेक्ष्यन्त इति ] ॥ १०३ ॥
 एवं गुरुणोपदिष्टः सकलं विज्ञातवानित्याह । संप्रदाये भवन पराशरपुत्रेण व्यासेन
प्रोक्तेषु 'अथातो ब्रह्मजिज्ञापा' इत्यादिमृत्रेषु यन्मतं ब्रहाद्वैतलक्षणं तस्य गतिः सृति
स्तस्या अनुरोधाद्दयालोव्यपस्य शाखे गृढं यद्भदयमभिप्रायस्तत्सर्वमपि सुबुद्धिरयं
श्रीशंकरो विज्ञातवान् ॥ १०४ । [ अत एव श्रशिकराचार्य: श्रीगोविन्दभगवत्पृज्य
पादोपदिष्टचतुर्वेदशिरोनिविष्टवाक्यचतुष्टयोपदेशामात्रेणैव चतुर्लक्षणोत्तरमीमांसारहस्य
मपश्यदित्याह । सांप्रदायिकेति । सुबुद्धिः सुषु ब्रह्मात्मैक्यविषयत्वादतिरमणीया
बुद्धिः 'दृश्यते त्वद्रयया बुद्धया' इति श्रुते

'ददामि बुद्धियोगं तं येन मामुमयान्ति ते' इति


 इति च स्मृतेरपि विचारितमहावाक्यकरणकब्रह्मविद्यास्याद्वैतस्थितिफलकबरमाच
लवृत्तिरविकारिणां येन स तथाऽद्वैतविद्यादेशिक इति यावत् । एतादृशः । सांप्र
दायिकेति । प्रकृष्टो निरुपमो यो दायः पितृवनं‌-
 त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयामि’ इति श्रुतेः पितृशा
ब्दितसदुरोर्धनमिव प्रकृष्टत्वं ह्यम सर्वस्वीभूतमद्वैतब्रह्मात्मैक्यविषयकं ज्ञानमेव । तस्य


व्यासः पराशरमुतः किल सत्यवत्यां
तस्याऽऽत्मजः शुकमुनिः प्रथितानुभावः ॥
तच्छिष्यतामुपगतः किलगौडपादो
गोविन्दनाथमुनिरस्य च शिष्यभूतः ॥ १०५ ॥
शुश्राव तस्य निकटे किल शास्रजालं
यश्चाशृणोद्धजगसद्यगतस्त्वनन्तात् ॥
शब्दाम्बुराशिमखिलं समयं विधाय
यश्चाखिलानि भुवनानि बिभर्ति मूर्धा ॥ १०६ ॥




तिबद्धत्वेन सद्य:फलजनकत्वान्निरुपमत्वमेव । स सम्यगपरोक्षो येनेश्वरादिगुरुपारं
पर्येण स संप्रदायः सदुरुपरंपराविशेषस्तत्र भवः सांप्रदायिक एतादृशो यः पराश
रस्तस्य यः पुत्रः सत्यवत्यां समुत्पन्नो बादरायणस्तेन प्रोक्तानि यानि सूत्राणि
अथाता ब्रह्माज्जज्ञासा ’ इत्यादि ‘अनावृत्तिः शब्दात्' इत्यन्तानि चतुरध्या
यात्मकान्यद्वैतब्रह्मसूचकवाक्यानीत्यर्थस्तेषां यन्मतं संमतमद्वैतं ब्रह्म तद्विषयिणी या
गतिः सरणिः प्रक्रियेति यावत्तस्या योऽनुरोधेोऽनुसारस्तस्माद्धेतोरित्यर्थः । `हृदया
लोः ‘हृदयालुः सहृदयः' इत्यमरात्सहृदयस्य भगवतो वेदव्यासस्येत्यर्थः][अत्र सांपदा
यिकेत्यनेन सूत्रे भ्रमप्रमादविमलिप्साशून्यत्वं ध्वन्यते] [सुबुद्धिपदेनाऽऽचार्येऽद्वैतावि
द्याप्रतिष्ठापकत्वं व्यज्यते । शास्त्रेत्यनेन तत्तात्पर्यस्य तदितरदुरवगाह्यत्वं द्योत्यते ।
छत्नपदेनैकदेशित्वं व्युदस्यते ] ॥ १०४ ।।
 संप्रदायबोधनाय गुरुपरंपरां दर्शयति । व्यास इति । सत्यवत्यां पराशरमुनेः पुत्रो
व्यासस्तस्य मथितानुभावः शुकमुनिः सुतस्तस्य शिष्यतां प्राप्तो गौडपादोऽस्य गोविं
न्दनाथमुनिः शिष्यभूतः । वसन्ततिलका वृत्तम् ॥ १०५ ॥
 तस्य गोविन्दनाथमुनेः समीपे शास्त्रकदम्बं श्रीशंकरः शुश्राव यश्च गोविन्दनाथः
शेषालयं गतो भवदीयं शास्त्रं भूतले प्रवर्तयिष्य इति संकेतं विधाय शब्दशास्त्रसमुद्र
शेषादशृणोत् । यश्चानन्तो निखिलानि भुवनानि शिरसा धारयाति ॥ १०६ ॥
[ शुश्रावेति । श्रीशंकराचार्य इत्यार्थिकम् । प्रकृतत्वात् । किलेत्यवधारणे । तस्यैव
निकटे । शास्त्रजालं शुश्राव महावाक्यचतुष्टयश्रवणमात्रेणैव संपूर्णोत्तरमीमांसामवबुद्ध
वानित्यर्थः । तच्छब्दाकाङ्कक्षितं पूरयति । यश्चेत्यादिपादाभ्याम् । यस्तु भुजगेति ।
पातालगतः सन्ननन्ताच्छेषात् । समयं-



सोऽधिगम्य चरमाश्रममार्यः
पूर्वपुण्यनिचपैराधिगम्पम् ॥
स्थानमर्चमपि हंसपुरोगै
रुन्नतं ध्रुव इवैत्य चकाशे ॥ १०७ ॥
छन्नमूर्तिरतिपाटलश
पह्लवेन रुरुचे यतिराजः ॥
वासरोपरमरक्तपयोदा
च्छादितो हिमगिरेरिव कूटः ॥ १०८ ॥




'समया शापथाचारकालसिद्धान्तसंविदः।


 इत्यभिधानाद्युष्मच्छास्त्रं भूलोके प्रवर्तयिष्यामीति प्रतिज्ञाम् । विधाय । अखिलं
शाब्दाम्बुराशिं तस्मादशृणोदिति संबन्धः । तस्मादित्यध्याह्नताकाङ्क्षितं संक्षिपति ।
यश्चेत्यादिचरमचरणेन । एतेन श्रीगोविन्दभगवत्पूज्यपादमाहात्म्यं ध्वन्यते]॥१०६॥
 एवं प्राप्तसंन्यासं श्रीशंकरं वर्णयितुमुपक्रमते । स इति । पूर्वपुण्यसमूहैः प्राप्यं
सर्वोत्कृष्टं यतिप्रमुखैरप्यच्र्यमन्त्यं संन्यासाश्रमं स आर्यः श्रीशंकरो लब्ध्वा तथाभूतं
सूर्थप्रमुखैरप्यच्र्यमुन्नतं स्थानमागत्य ध्रुव इव रराज । स्वागता वृत्तम् ॥ १०७ ॥
[ पूर्वेति । अनन्तजन्मीयसुकृतसंधैरित्यर्थः ] [अधिगम्य प्राप्य । यत उन्नतमत्यु
चम् । पक्षे परममान्यम् । अत एव । हंसपुरोगैः

“इंस:स्यान्मानसैौकसि ।
निलमनृपविष्ण्वकैपरमात्मविमत्सरे'


 इति मेदिन्याः सूर्यममुखैरित्यर्थः । पक्षे इंसारूयसंन्यासविशेषस्य प्रसिद्धत्वात्स
पुरोगो मुख्यो येषामेतादृशैर्बह्मचर्याद्यखिलाश्रमैरिति यावत् । अपिना तदन्यैः
पूज्यमिति किं वाच्यमिति सूच्यते । अच्यै मदक्षिणीकरणादिना पूज्यमित्युभ
यत्रापि । एतादृशं स्थानं धुवलोकारूयं स्थलम् । पक्षेऽन्तिमाश्रमरूपं स्थलम् । एत्य
प्राप्य ध्रुव इव चकाशे शुशुभ इति संबन्धः। अत्र लेषघटितपूर्णोपमालंकार:]॥१०७॥
 अत्यन्तं पाटला धेतरक्ता या शाटी पटी तलक्षणेन पलवेन च्छन्नाऽऽच्छादिता
मूर्तिर्यस्य स यातिराजो रुरुचे शुशुभे । तत्र दृष्टान्तमाह । वासरस्य दिवसस्योपरम
उपरमाद्वा रक्तो यो मेघस्तेन च्छादितो हिमगिरेः कूटः शृङ्गमिव ॥ १०८ ॥ [पूर्णो
मालंकारः ] | १०८ ॥


एष धूर्जटिरबोधमहेर्भ
संनिहत्य रुधिरापुतचर्म ।
उद्यदुष्णकिरणारुगशाटी
पलुवस्य कपटेन बिभातें ॥ १०९ ॥
श्रुतीनामाक्रीडः प्रथितपरहंसोचितगति
निजे सत्ये धानि त्रिजगदतिवर्तिन्यभिरतः ।
असौ ब्रप्रैवास्मिन्न खलु विशये किंतु कलये
बृहेरर्थ साक्षादनुपचरितं केवलतया ॥ ११० ।।




 यथा स धूर्जटिः शिवो गजासुरं निहत्य रुधिराठुतं तदीयं चर्म बिभर्ति स्म तथैष
शंकरोऽज्ञानात्मैकमहागज सम्यङ्कनिहत्योद्यत्सूर्यवदरुणशाटीपलवस्य व्याजेन रुचि
रामुतं महेभस्य चर्म बिभर्ति ॥ १०९ ॥ [ रूपकलुप्तोपमाकैतवापहुत्यादयोऽलं
काराः ] ॥ १०९ ॥
 ब्रह्मविष्णुशिवेभ्यो व्यतिरेकप्रदर्शनपूर्वकं श्रीशंकरस्य निगमप्रतिपाद्यत्वं दर्शयति
श्रुतीनामित्यादिना । श्रुतीनां मध्य आासमन्तात्क्रीडा यस्य पथितैः प्ररूयातैः परमहंसै
परमहंसपरिव्राजकैः सहोचिता गतिर्गमनं यस्य निजे स्वस्वरूपभूते सत्येऽबाध्ये
धान्नि तेजसि त्रिजगदतिवर्तिनि सर्वबाधावविभूतेऽभिरतः सदैव रतोऽसौ श्रीशंकरो
ब्रौव यतः परब्रह्मापि ‘सर्वे वेदा यत्पदमामनन्ति’ इत्यादिश्रुतेः श्रुतीनामासमन्ताक्रीडा
यस्मिन्प्रथितानां परमहंसानां तत्त्वविदामुचिता मोक्षाख्या गतिः ‘र्बह्मविदामोति परम्
इत्यादिश्रुतेः। पथितेति गतेर्वा विशेषणम्'स भूमा क प्रतिष्ठितः स्वे महिन्नि' इति श्रुतेरु
क्तधाम्न्यभिरतं हिरण्यगर्भस्तु नैवंविधो यतस्तस्योपवनादौ क्रीडा तथा हंसैर्गतिस्तथा
त्रिलोकिपक्षाश्रयणेन त्रिजगतश्चतुर्दशभुवनात्मकस्य ब्रह्माण्डस्यान्तर्वर्तिनि बाध्ये स्वीये
जडे लोकेऽभिरतस्तस्मादस्मिञ्श्रीशंकरे किल बृद्दिधातोरर्थमनवच्छिन्नबृहस्वरूपं साक्षा
दुपचाररहितं केवलतया निर्णीततया कलये जानामि नतु संदिहे ।

‘केवलः कुहनेऽपि च ।
‘नपुंसकं तु निर्णीते वाच्यवचैककृत्लयो


 इति मेदिनी । तथाच 'ब्रह्मविद्रोव भवति' इत्यादिनिगम गतब्रह्मशब्दप्रतिपाद्यत्वं
श्रीशंकरस्य निरुपचारेणेत्यर्थः । शिखरिणी वृत्तम् ॥ ११० ॥ [ एवं शिवरूपके
णोपमानस्योपमेयापेक्षयाऽऽधिक्यदर्शनात्तत्राऽऽधिक्येऽस्य तदवतारत्वमौपचारिकमे.
वेत्याशङ्कय तस्य ब्रह्मविष्णुरुद्राख्यगुणमूर्तिभ्योऽप्याधिक्यं शुद्धाद्वैतब्रह्मत्वेनैवोपनि


षत्प्रतिपादिततया द्योतयति । श्रुतीत्यादिशिखरिणीभिं: । ‘ब्रह्म वेद् ब्रौव भवति'

इति श्रुत्या ब्रह्मवित्वेन शुद्धबहारूपत्वस्यैवाऽऽचार्ये प्रतिपादनात्सकलश्रुतीनां समन्वयाधिकरणन्यायेनात्रैव तात्पर्यपर्यवसानाचायं संपूर्णश्रुतीनां ‘पुमानाक्रीड उद्यानम्' इत्यमराद्विलासस्थानं भवतीति भावः । विग्रहविशिष्टत्वपक्षेऽपि सर्व ज्ञत्वात्तत्त्वमुचितमेवेति बोध्यम् । चतुरास्यपक्षे तु चतुर्वेदाधिकरणत्वं प्रसिद्धमेव । प्रथितेति । 'ब्रह्मसंस्थोऽमृतत्वमेति' इति श्रुतेः प्रथिता शास्त्रप्रसिद्वा परमहंसानां परमहंसपरिव्राजकानामुचिता पुनरावृत्तिविरहाद्योग्या गतिर्विदेहकैवल्यमुक्तियेने त्यर्थः । यद्यपि सिद्धान्ते मुक्तिर्बह्मरुपैव तथाऽपि चरमवृत्तिप्रतिबिम्बितत्वेन तस्या विद्याध्वंसं प्रति करणत्वाद्युक्त एव तृतीयाघटितत्रिपदबहुव्रीहिरित्याकूतम् । पक्षे जगद्विरूयाता ये श्रीपद्मपादाचार्यश्रीमत्सुरेश्चराचार्यादयः परमहंसाः परमहंसारूयसै न्यासिनस्तेषामुचितगति

'गति स्त्री मार्गदशयोज्ञने यात्राभ्युपापयोंः'

 इति मेदिन्यास्तत्त्वसाक्षात्कारो यस्मात्स तथेत्यर्थः । पक्षान्तरे तु

'वेदान्तविज्ञानसुनिश्चितार्था संन्यासयोगाद्यतयः शुद्धसत्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे'

 इति श्रुतेः प्रसिद्धा परमहंसानां क्रममुक्तीच्छूनां संन्यासिनामुचितगतिस्तत्त्वज्ञानं यस्मात्स तथेत्यर्थः । तथा प्रथिता पुराणपसिद्धा परहंसै राजहंसैरुचितगतिर्विमाना रुतूढत्वेन योग्यगमनं यस्य स तथेति यावत् । तथा । निज इत्यादि । निजे स्वात्मरूपे । सत्ये त्रैकालिकाबाध्ये । धान्नि स्वपकाशे तेजसि । अत एव । त्रिजगत्रैकालिकं द्वैतं तदतिक्रम्य वर्तत इति तथेति यावत् । तत्र । अभिरतः स्वमहिमप्रतिष्ठितत्वाद त्याशयः । पक्षे जीवन्मुक्तत्वेन रममाण इत्यर्थः । पक्षान्तरे निजे स्वकीये । एतादृशे । त्रिजगदिति । विलोक्यूध्र्वस्थ इत्यर्थः । एतादृशे सत्ये सत्यारूये । धान्नि

'धाम देहे गृहे रश्मै स्थानजन्मपभेदयोः।

 इति मेदिन्याः स्थान इत्यर्थः । अभिरतोऽभिविहरमाण इति यावत् । एतादृ. इोऽसै प्रकृतः श्रीशंकराचार्यो नौवास्मिन्विषये नैव विशये नैव संदेह्निः । किंत्वस्मिन्पकृत आचार्ये । बृहेर्धातोरर्थ केवलतयाऽद्वैततया । साक्षादव्यवधानेन । नतु परंपरया । अनुपचरितमगौणम् । कलये वेग्रीति योजना । पक्षे

‘दर्शनादर्शने हित्वा स्वयं केवलरूपतः । यस्तिष्ठति स तु ब्रह्मन्ब्रह्म न ब्रह्मवित्स्वयम्'

</poem>

मितं पादेनैव त्रिभुवनमिहैकेन महसा
विशुद्धं यत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् ॥
दशाकारातीतं स्वमहिमनि निर्वेदरमणं
ततस्तं तद्विष्णोः परमपदमाख्याति निगमः ॥ १११ ।।




 इति स्मृतेर्युक्तमेव तत्र तथा त्वमिति तत्त्वम् । पक्षान्तरे तु निरुक्तधात्वर्थस्य
गैौणत्वं प्रसिद्धमेवेति व्यतिरेकोऽलंकारः । तदुक्तम् ।

'व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।
शैला इवोन्नताः सन्तः किंतु प्रकृतिकोमलाः' इति ]॥११०॥


 एवं ‘तद्विष्णोः परमं पदम्’ इति निगमोऽपि निरुपचारेण श्रीशंकरे वर्तत
इत्याह । मितमिति ।
 ‘एतावानस्य महिमाऽती ज्यायांश्च पूरुषः । पादोऽस्य सवॉ भूतानि ' ।

'अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्धतः पृष्ठषु'


 इत्यादिश्रुतेरेकेनैव महसा ज्योतीरूपेण यद्यस्य पादेनेह त्रिभुवनं मितं मापितं
विष्णोस्तु पादद्वयेन त्रिभुवनं मापितं तथा यस्य सत्त्वमबाधितस्वरूपं स्थित्युत्पत्तिलये
ष्वप्यनुस्यूतं विष्णोस्तु सत्त्वं सत्त्वगुणस्थितावेवानुगतम् । सत्वं विशिनष्टि ।
दशाकारातीतमवस्थाकाराभ्यां विनिर्मुक्तं विष्णोस्तु तद्दशाभिराकारैर्भत्स्यादिभिरततिं
न भवति ततस्तस्मात्स्वमहिन्नि विर्वेदेन वैराग्येण सम्यग्बोधेन वा रमणं यस्य तं
श्रीशंकरं वैकुण्ठे लक्ष्म्या क्रीडतो विष्णोः सकाशात्परमं विष्णुसंबन्धि वा परमं
पदमित्यर्थक उक्तनिगमो निरुपचारेणाऽऽख्याति वक्तीत्यर्थः ॥ १११ ॥ [ अथ
क्रमपाठं विष्णोः सकाशादपि श्रीशंकराचार्यस्य व्यतिरेकं व्यनक्ति | मितमिति ।
इह प्रपञ्चे शास्त्रे वा यस्येति शेषः । महसा स्वप्रकाशज्योतीरूपेण । एकेन नतु
द्वाभ्याम् । एतादृशेन पादेनैव

‘पादोऽस्य विश्धा भूतानि त्रिपादस्यामृतं दिवि'


 इति श्रुतेः शिवमद्वैतं चतुर्थे मन्यन्त इत्यादौ वास्तविकचतुर्थत्वाभावेऽपि विश्वाद्यपे
क्षया चतुर्थत्ववत्कल्पितैकदेशापेक्षया तुरीयांशेनवेत्यर्थः । ‘पादा रश्म्यङ्धितुयशाः’
इत्यमरः । नतु चवरणेन । निरवयवत्वात् । एतेन तत्र भूमत्वं ध्वन्यते । ‘विवृतं चैवमेव
ज्योतिश्चरणाभिधानात्' इत्यधिकरणे भाष्ये । त्रिभुवनं त्रैकालिकं दृश्यमपीत्यर्थः । नतु
त्रैलोक्यम्। मितं परिमितमिति यावत् । यथोषरधरण्यवच्छिन्नसूर्यालोकैकदेशपरिमितभेव
मृगजलं तद्वदविद्यावच्छिन्नचैतन्यैकदेशपरिमितमेव निखिलमपि द्वैतजालमस्तीत्याकू


न भूतेष्वासङ्गः कचन न गवा वा विहरणं
न भूत्या संसर्गे न परिचितिता भोगिभिरपि ॥
तदप्याम्रायान्तत्रिपुरदहनात्कैवलदृशा
तुरीयं निद्धं शिवमतितरां वर्णयति तम् ॥ १२ ॥




तम् । विष्णुना तु द्वाभ्यां चरणाभ्यां मायिकाभ्यामपि वार्तमानिकब्रह्माण्डात्मकमेव
त्रैलोक्यं व्याप्य परिमितामिति तस्मात्मकृते पूर्वोक्तरीत्या निर्गुणब्रह्मरूप आचार्ये
व्यतिरेकः स्फुट एवेति भावः । एवमेवाग्रेऽपि ज्ञेयम् । अत एव । विशुद्धं मायागुण
त्वानापन्नम् । नतु तद्भणीभूतम् । एतादृशम् । यत्सत्वं यस्य परब्रह्मस्वरूपस्य
श्रीशंकरभगवत्पादस्य यत्सत्त्वमबाधितं स्वरूपम् । स्थितीति । पाठक्रमादर्थक्रमो
बलीयानिति न्यायेन जन्यजगजन्मस्थितिभङ्गेष्वपीत्यर्थः । नतु केवलस्थितावेव गुण
रूपसत्त्ववत् । अनुगतमधिष्ठानत्वेन रज्ज्वादिवदुजगादिभ्रमेष्वनुस्यूतमिति यावत् ।
नतु परिणतत्वेनानुवृत्तमिति ततोऽस्य व्यतिरेकः । तथात्वादेव तमाचार्ये वेदो विष्णो
रपि वास्तविकस्वरूपत्वेनैव वर्णयतीत्याह दशेत्याद्युक्तराधेन । अवस्थाव्यक्तिभ्यां विनि
र्मुक्तम् । नतु बाल्याद्यवस्थापन्नमत्स्यादिदशसंख्याकाकारवरमित्यर्थः । अत. एव ।
निजेति । निजमहिमनि स्वभूमस्वरूप एव निर्वेदेन यावदृश्यतिरस्कारेण रमणं जीव
न्मुक्त्यवस्थायाम् ‘आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराङ्भवात' इति
श्रुतेः क्रीडनं यस्येत्यर्थः। नतुवैकुण्ठादिषु लक्ष्म्यादिभिः सहानुरागेण क्रीडनमिति रह
स्यम् । यत एतादृशम् । ततो हेतोः । तं श्रीशंकरभगवत्पादम् । निगमो वेदः । तञ्जन
गदाधष्ठानत्वेन सर्वेद्वैतबाधावधित्वेन श्रुत्यादि च प्रसिद्धम् । एतादृशम् । विष्णो
श्रीरमणस्य । परमपदं पद्यते प्राप्यत इति पदं विष्णुसंबन्धि सर्वोत्कटं मुमुक्षुमाप्यं
'स्थानमद्वैतब्रह्मारूयं तत्स्वरूपमेवेत्यर्थः । एतादृशामाख्याति कथयतीत्यन्वयः । तथा च
श्रुतिः तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ' इति । अलंकारोऽत्र पूर्वोक्त
एव । काव्यलिङ्गमपि ] ॥ १११ ॥
 तथा शिवपदप्रवृत्तिमपि तस्मिन्दर्शयति । नेति । प्रसिद्धशिवस्य भूतप्रेतादिष्वास
मन्तात्सङ्गोऽस्य तु कचन कस्मिश्चिद्देशे काले वा भूतेषु प्राणिष्वाकाशादिषु वा सङ्ग
अासक्तिर्नास्ति मसिद्धशिवस्य गवा वृषेण विहरणमस्य तु कापि गवेन्द्रियेण विहरणं
नास्ति तस्य भूत्यां भस्मना संसर्गः संबन्धः प्रसिद्धोऽस्य तु भूत्यैश्वर्थेण संसगों नास्ति
तस्य भेगिभिः सर्पः परिचितिता प्रसिद्धाऽस्य तु विषयसंभोगवद्भिः परिचयो नास्ति
यद्यप्येवं वैलक्षण्यं तथाऽपि शिवं शान्तमद्वैतं चतुर्थं मन्यन्त इति वेदान्तः केवलस्य
विशुद्धस्य ब्रह्मणो दर्शनेन परमार्थदृष्टया वा त्रयाणां स्थूलसूक्ष्मकारणाख्यानां पुराम


न धर्मः सौवर्णो न पुरुषफलेषु प्रवणता
न चैवाहोरात्रस्फुरदरियुतः पार्थिवरथः ।।
असाहाय्येनैवं सति विततपुर्यष्टकजये
कथं तं न बूयानिगमनिकुरम्बं परशिवम् ॥ ११३ ॥




दहनान्निर्दू सुखदुःखादिद्वंद्वशून्यं चतुर्थसंज्ञ शिवं सम्यक्तं शंकरं वर्णयतीत्यर्थः ।
॥ १२ ॥ [ एवं रुद्रायतिरेकमपि तत्र व्यनाक्ति । तदप्येवमपि । त्रिपुरदहना
त्पुरत्रये ‘क्रीडति यस्तु जीवः’ इति श्रुतेः स्थूलसूक्ष्मकारणाख्यजाग्रदाद्यवस्थानुभूत
हादिनगराणां यद्दइनं

‘ज्ञानाग्ःि सर्वकर्माणि भस्मसात्कुरुते तथा'


 इति स्मृतेस्तस्वसाक्षात्कारेण मिथ्यात्वनिश्चयरुपदाहादिति यावत् । पक्षे तृतीय
नेत्रामिमात्रेण त्रिपुरासुरदाहो न कृतः किंतु सामग्रयन्तरेणापीत्यनुपदमेव वक्ष्यते ।
तं श्रीभगवत्पादाचार्यम् । निन्द्वे द्वैतशून्यम् । तुरीयं विश्वतैजसाद्यपेक्षया चतुर्थम् ।
अतितरां शिवं परशिवं वर्णयति कथयतीतिसंबन्धः। व्यतिरेक एवालंकारः] ॥११२॥
 यः प्रसिद्धः शिवो धनुरादिसहकृतत्रिपुरं विजितवांस्तं यदि निगमसमूहः प्रति
पादयति तहिं सहायं विनैव पुर्यष्टकविजयकर्तारं श्रीशंकरं कथं न ब्रूयादित्या ।
नेति । प्रसिद्धशिवस्य तु सौवर्णः सुवर्णगिरिमयो धर्मो धनुः ।

‘धर्मोऽस्त्री पुणय आचारे ना धनुर्यमसोमयो


 इति मेदिनी । अस्य तु ब्राह्मणादिशोभनवर्णसंबन्धिधर्मो नास्ति तस्य तु पुरुषो
विष्णुः स एव फलं फलकं यस्यैतादृशा इषुबणस्तत्प्रवणता तदासक्तताऽस्य तु
पुरुषाणां फलेष्वैहिकामुष्मिकेषु प्रवणता नास्ति तस्य त्वहोरात्रे स्फुरतावरी चन्द्रसूर्यो।
ताभ्यां चक्ररूपेण स्थिताभ्यां युक्तः पृथिवीमयो रथोऽस्य त्वहोरात्रं स्फुरन्तोऽहं
कारादिलक्षणा अरयस्तैर्युतः पार्थिवो देहलक्षणो रथो न चैवास्ति तथाचैवंप्रकारेण
सहायवर्जितेन येन विस्तृतं यत्पुर्यष्टकं तस्य प्राणपञ्चककर्मेन्द्रियपञ्चकज्ञानेन्द्रियपञ्च
कान्तःकरणचतुष्टयाविद्याकामकर्मवासनालक्षणस्य जये सति तं श्रीशंकरारूयं, परशिवं
वदसमुदायः कथं न प्रतिपादयेदित्यर्थः ।। ११३ ॥ [ ननु का वा रुद्रस्यापरसामग्री
त्रिपुरदहन इत्याशङ्कय तां व्यक्तीकुवैस्ततो व्यतिरेकं प्रकृते व्यनक्ति । नेति । धर्मः
संध्यावन्दनामिहोत्रादिरुपः पुण्यापूर्वनिचयो न । तथा चाऽऽन्नायते ‘न पुण्यपापे
मम नास्ति नाशः’ इति ] [पुरुषेति । जीवोपभोग्यसुखदुःखलक्षणफलेष्वित्यर्थः ।
प्रवणताऽनुकूलताऽपि न ‘न सुखं न मानावमानौ' इति परमहंसोपनिषच्छूतेः। पार्थिवेति।

‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु'


दुःस्वासारदुरन्तदुष्कृतघनां दु:संसृतिप्रावृषं
दुर्वारामिह दारुणां परिहरन्दूरादुदाराशयः ।।
उचण्डप्रतिपक्षपण्डितयशोनालीकनालाखुन्र
ग्रासो हंसकुलावतंसपदभाक्सन्मानसे क्रीडति ॥ ११४ ॥




 इति श्रुतेःपृथ्वीविकारपधानीभूतदेहरथोऽपीति यावत् । ‘न जन्मदेहेन्द्रियबुद्धि
रास्त' इति श्रुतेः । रूपकविशेषोऽलंकारः ] ॥ १३ ॥
 अथ तस्य परमहंसत्वं बहुधा वर्णयति । दुःखान्येवाऽऽसारो वेगवृष्टिर्यस्यां दुर
न्तानि दुष्कृतानि पापान्येव मेघा यस्यां दुःखासारा वासैौ दुरन्तदुष्कृतघना च
तामिह लोके दुर्वासां दारुणां दुःसंसृतिलक्षणां पावृषं वर्षतुं दूरादेव परिहरैन्परित्यज
न्हंसकुलशिरोभूषणपदभाक्सतां हृदि मानससरोवस्थानीये क्रीडतीति संबन्धः । शुद्धे
स्वहृदीति वा तं विशिनष्टि । उदाराशयः पुनश्चोचण्डा ये प्रतिपक्षपण्डितास्तेषां यश
एव नालीकस्याब्जखण्डस्य नालानां दण्डानामङ्करो ग्रासो यस्य सः ।

‘नालीकः शरशल्याज्ञेष्वब्जखण्डे नपुंसकम् ।


 इति मेदिनी । शार्दूलविक्रीतं वृत्तम् ॥ ११४ ॥ [ दुःसंसृतीति । दुष्टा येयं
संसृतिजीवन्मुक्तानामाप्रारब्धपरिसमाप्तिभासमानद्वैतसंतातिविलक्षणाज्ञानकालिकजन्ममर
णादिपञ्चपरंपरा सैव प्रावृट्तामिति यावत् । अत एव । दुर्वारं ज्ञानं विनाऽ
निरस्याम् । अत एव दारुणां भयंकराम् । दूरादेव परिहरन्परित्यजन्सन्नित्यर्थः ।
ईसाः प्रावृषि मानससरोवरं प्रति गच्छन्तीति कुवलयानन्दे

'यत्वन्नेत्रसमानकान्तिसलिले मयं तदिन्दीवरं
मेधैरन्तरितः मिये तव मुखच्छायानुकारी शशी ।
येऽपि त्वद्भमनानुसारिगतयस्ते राजहंसा गता
स्त्वत्सादृश्याविनोदमात्रमपि मे दैवेन न क्षम्यते


 इति कविसमये प्रसिद्धमेव । उदारेति । उदारः शरणागतबुभुत्सुभ्यो ब्रह्मवि
द्यापदानवदान्य अभाशयोऽन्तः करणंयस्य स तथा श्रीशंकराचार्य इत्यर्थः । रूपक
मलंकारः ] ॥ ११४ ॥



क्षीरं ब्रह्म जगच नीरमुभयं तद्योगमभ्यागतं
दुर्भदं त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् ।
येनाशेषविशेषदोषलहरीमासेदुषीं शेमुषीं
सोऽयं शीलवतां पुनाति परमो हंसो द्विजात्यग्रणीः ॥ ११५ ॥
नीरक्षीरनयेन तथ्यवितथे संपिण्डिते पण्डितै
दुबेधे सकलैर्विवेचयति यः श्रीशंकराख्यो मुनिः ।
हंसोऽयं परमोऽस्तु ये पुनरिहाशक्ताः समस्ताः स्थिता
नृम्भान्निम्बफलाशनैकरसिकान्काकानमून्मन्महे ॥ ११६ ॥




 क्षीरनीरयो ह्मजगतोर्विवेचकत्वादप्ययं परमहंस इत्याह । क्षीरं दुग्वं परमानन्द
घनं ब्रह्म जगत्पुननीरमानन्दवर्जितं दुःखात्मकं तदुभयं योगं परस्परतादात्म्यं पाशं
पुनश्चेतरेतरं भेत्तुं विलक्षणीकर्तु दुर्घटं येन सम्यग्विभक्तीकृतं सोऽयं द्विजातीनां
द्विजानामग्रणीः परमहंसः श्रीशंकरोऽशेषा ये विशेषेण दोषा उत्कृष्टदोषा रागद्वेषाद्य
स्तेषांलहरीमासदुषामासमन्तात्सेवितवतीं इोमुर्षी शीलवतां बुद्धिं पुनाति पक्षे द्विजा
तयः पक्षिणः ॥११५॥ [ आसेदुषीमासमन्तात्पेवितवतीम् । एतादृशीम्। शीलवताम् ।

'अपि चोत्स दुराचारो भजतो मामनन्यभक्'


 इत्यादिस्मरणात्सुशीलानां पुंसाम् । शेमुषीं बुद्धिम् । ‘वीः प्रज्ञा शेमुषी मतिः
इत्यमरः । रूपकादिरलंकारः ] ॥ ११५ ॥
 श्रीशंकरस्य परमहंसत्वं प्रकारान्तरेण प्रतिपादयति । नीरक्षीरनयेन जलदुग्धे यथा
संमिश्रिते तद्रीत्या तथ्यं ब्रह्म वितथं मिथ्याभूतज्ञानादि ते सम्यक्पिण्डिते तादात्म्यं
प्राप्त समस्तैः पण्डितैरितरपक्षिस्थानीयैरिदं तथ्यमिदं वितथामात बोढुं बोधयितुं च
दुर्घटे यः श्रीशंकराख्यो मुनिर्विवेचयति विविच्य स्थापयाति सोऽयं विवेचकत्वात्परमो
इंसोऽस्तु ये पुनरिह विवेचनेऽशक्ताः सर्वे स्थितास्ताञ्शृम्भाच्छ्लेष्मजनितरोगविशेष
स्थानीयरागादेहेंतोर्निम्बफलस्थानीयविषयसंभोगैकरसिकास्तानमून्काकान्मन्महे जानीम
॥ ११६ ॥ [ नीरेति । नीरक्षीरदृष्टान्तेन। तथ्येति । तथ्यं ब्रह्मवितथं मिथ्या
भूतमविद्यादिदृश्यम्। संपिण्डितेऽन्योन्याध्यासेनैकीभूते । नृम्भात् 'नृम्भस्तु त्रिषु नृम्भ
णम्’ इत्यभिधानान्मुखविकासादनन्तरमित्यर्थः। निम्बेति । निम्बफलसदृशमतुलवित्तं
याद्वषयसुखं तस्य यदशनमास्वादनं तन्मात्ररासिकाञ्जन्माऽऽरभ्यापि विषयसुखैकल
म्पटानित्यर्थः । डिण्डिमकारस्तु नृम्भाच्छलेष्मजनितरोगविशेषस्थानीयं रागादेहेंतो
रिति व्याचष्ट ] ।। ११६ ।।


दृष्टि यः प्रगुणीकरोति तमसा बाहोन मन्दीकृतां
नालीकप्रियपतां प्रयाति भजते मित्रत्वमव्याहृतम् ।
विश्वस्योपकृतेर्वेिलुम्पति सुद्दश्चक्रस्य चातिं घनां
इंसः सोऽयमभिव्यनक्ति महतां जिज्ञास्यमर्थ मुहुः ॥ १७ ॥
हंसभावमधिगत्य सुधीन्द्रे
तं समर्चति च संसृतिमुक्त्यै ।
संचचाल कथयन्निव मेघ
चञ्चलाचपलतां विषयेषु ॥ १८ ॥




 प्रकारान्तरेणापि हंसत्वमाह । दृष्टिमिति । हंसः सूर्यो बाह्येन तमसा मन्दीकृतां
दृष्टि गुणीकरोति पकृष्टां तमोनिवारणेनापावृतां करोत्ययं त्वबाह्येनान्तरेणाऽऽत्मनो
बाहेन वाऽज्ञानलक्षणेन तमसा मन्दीकृतामात्मदृष्टि प्रगुणीकरोति पकृष्टगुणयुक्तां
यथाभूतात्मदर्शनयोग्यां करोति स तु कमलमियतां प्रयात्ययं त्वलीकभूतविषयादि
मियतां न प्रयाति स उपकाराय जगतो मित्रत्वमव्याहतं भजते तथाऽयमप्युपकाराय
सर्वस्याव्याहृतं मित्रत्वं भजते स सुहृदश्चक्रस्य चक्रवाकस्य घनीभूतां रात्रिप्रयुक्तां
मियाविरह्मजनितां पीडां विलुम्पति नाशयति तथाऽयमपि सुट्टदां समूहस्य घनीभूतां
संसृतिलक्षणामार्ति विलुम्पति स ज्ञातुमिष्टं घटपटादिरूपमर्थं मुहुरभिव्यनक्ति प्रकाश
यति तथा सोऽयमपि महतां विशुद्धचेतसां मुमुक्षुणां जिज्ञास्यं परमार्थभूतं ब्रहौक्यल
क्षणमथै मुहुरभिव्यनक्ति ॥ १७ ॥ [ नालीकेति । नालीकमियतां मिथ्याभूतविषय
पियत्वं प्रयातीत्यर्थः । यद्वा नालीकस्तुच्छो नालीकः सत्यः स चासौ पियः ‘तदेत
त्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा' इति श्रुतेर्निरुपचरि
तमीतिविषय आत्मा तत्त्वमित्यर्थः । पक्षे-

'नालीकः शारशल्याज्ञेष्वज्जखण्डे नपुंसकम्


 इति मेदिन्याः पद्मपूगमियवमिति यावत् । श्लेषोऽलंकारः ] ॥ ११७ ॥
 सुवीन्द्रे श्रीशंकरे हंसभावं यतित्वमविगत्य संसृतिमुक्त्यर्थं तं हंसं परमात्मानं सम
चैति सति विषयेषु विद्युद्वचपलतां कथयन्निव मेघः संचचाल । स्वागता वृत्तम् ॥१८॥
[ एवं श्रीशंकराचार्यमुपवण्यै तदा संप्राधं प्रावृट्रालमप्यभिवर्णयति । सुधीन्द्रे सुवियः
शुद्धबुद्धयो बुभुत्सव इन्द्रा:तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते' इत्यैतरेयश्रुतेः परब्रह्म
रूपा यस्मात्सकाशात्स तथा तस्मिन्नद्वैताविद्याप्रतिष्ठापके श्रीमच्छंकरभगवत्पाद
इत्यर्थः । हंसेति][ तं-



एष नः स्पृशति निषुरपादै
स्तत्तु तिष्ठतु वितीर्णमवन्पै ।
अस्मदीयमपि पुष्पमनैषी
दित्यरोधि नलिनीपतिरब्दैः ॥ १९ ॥
वारिवाहनिवहे क्षणलक्ष्य
श्रीररोचत किलाचिररोचिः ॥
अन्तरङ्गगतबोधकलेव
व्यापृतस्य विदुषो विषयेषु ।। २० ।।




 'हंसः स्यान्मानसैौकसि । निलोंमतृपविष्ण्वर्कपरमात्मनि मत्सरे ? इति मेदिन्याः
परमात्मानमित्यर्थः । समर्चयति संपज्ञातादिसमाधिना पूजयाति सतीत्यर्थः । िवषयेषु
शब्दादिषु । चञ्चलेति ।

‘तडित्सौदामनी विद्युचञ्चला चपला अपि


 इत्यमराद्विद्युद्वत्क्षणमात्रविनश्धरत्वमिति यावत् । कथयन्निव संचचाल सम्यक्पा
दुरभूदित्यन्वयः । उत्प्रेक्षालंकारः ] ॥ ११८ ॥
 मेघकर्तृकादित्यरोधनस्य हेतुमुत्पेक्षते । एष सूर्यो नोऽस्मान्मेघान्निष्ठरपादैः परुष
किरणैः स्पृशति तत्स्पर्शनं तु तिष्ठतु पैरंतु भूम्यै वितीर्ण दत्तमस्मदीयपुष्पं मेघपुष्प
मभ्राम्ब्वप्यनैषीदपनीतवानिति विचार्य कमलिनीपतिरब्दैररोधि । कमलिनीपतिरित्य
नेनास्मद्भार्यादुःखदातृरविरोधनेन तद्भार्यायाः कमालेन्या दुःखं मदेयमिति ध्वनिवम् ।
स्वागता वृत्तम् ॥ १९ ॥ [ एष सूर्यः । निष्ठरेति । उष्णरश्मिभिः । पक्षे दुःसहच
रणैः । स्पृशति यत् । ततु तिष्ठतु । तत्क्षान्तमेवास्माभिरित्यर्थः । तथाऽपि । भवन्यै
वसुमत्यै पत्न्यै । वितीर्ण दत्तम्][ अस्मदीयमपि न त्वेतदीयम् । एतादृशं पुष्पं ‘मेघ
पुष्पं घनरसः' इत्यमराजलमित्यर्थः । पक्षे विलासकुसुमम् । अनैषीच्छोषणतो नीतवा
निति हेतोः । अब्दैर्जलदैः] [ अत्र नलिनीपतिपदेनानेनास्मत्पत्न्याः पृथ्व्या अस्मद्द
तपुष्पहरणेन दुःखमुत्पादितं ततोऽस्माभिरप्येतदाच्छादनेनैतत्पत्न्याः पझिन्या अपि
प्रत्येकं दुःखमुत्पाद्यत इति द्योत्यते । अप्रस्तुतप्रशंसालंकारः ] ॥ ११९ ॥
 किंच मेघनिचये क्षणमात्रं लक्ष्या श्रीर्यस्याः साऽचिररोचिः क्षणमभा विद्यदरो
चत यथा विषयेषु व्यपृतस्य विदुषेोऽन्तःकरणगता ज्ञानकला शोभते तद्वत् ॥२०॥
[ विषयेष्विष्टशब्दादिषु व्यापृतस्य विदुषः पण्डितस्य । अन्तरङ्गेति । अन्तःकरण
गतज्ञानकलेवेत्यर्थः । सा यथा स्वोदयकाले कवित्कचिन्निमेषमात्रमेव शोभते न तूत्तर



किंनु विष्णुपदसंश्रयतोऽब्दा
ब्रह्मतामुपदशिन्ति सुहृद्रयः ॥
पन्निशम्य निस्विलाः स्वनमेषां
बिन्नति स्म किल निर्भरमोदान् ॥ २१ ॥
देवराजमपि मां न यजन्ति
ज्ञानगर्वभरिता यतयोऽमी ॥
इत्यमर्षवशगेन पयोद
स्यन्दनेन धनुराविरकारि ॥ २२ ॥
स्फीतरेणुकलिता वनवात्याः ॥
सत्त्वमध्यमतमोगुणमिश्रा
मायिका इव जगत्सु विलासाः ॥ २३ ॥




क्षणे तथा मेघवन्दे विद्युदपि स्वोदयकाले क्षणमात्रमेव कचिदशोभतेति भावः । उप
मालंकारः ] ।। १२० ॥
 मेघा विष्णुपदसंश्रयात्सुहृद्भद्यः किं ब्रह्मतामुपदिशन्ति । नैर्वितकें । यद्यस्मादेषाम
ब्दानां स्वनं नादं श्रुत्वा निखिलाः सर्वे निर्भरमोदान्बिभ्रति स्म किलेति प्रसिद्धम् ॥२१॥
[विष्ण्विति । आकाशाश्रयणात् । वियद्विष्णुपदम्' इत्यमरः । पक्षे विष्णोः पदं पारमा
र्थिकमेवाद्वैतचिन्मात्ररूपम् । तथा चाऽऽहुः श्रीमत्सर्वज्ञात्ममुनीश्वरचरणाः संक्षेप
शारीरकारम्भ एव ।

'अनुतजविरोविरुपमन्त-
त्रयमलबन्धनदुःखिताविरुद्धम् ।
अतिनिकटमविक्रियं मरारे
परमपदं प्रणयादभिष्टवीमि'


 इति । उत्प्रेक्षालंकारः ] ॥ २१ ॥
 ज्ञानगर्वेण भरिता अतिशयिता अमी यतयो देवराजमपि मां न यजन्तीत्यमर्षव
शागेन पयोदो जलद एव स्यन्दनो रथो यस्य तेन देवराजेनेदं धनुराविष्कृतम् ॥२२॥
[ धनुर्मेधाद्यवच्छेदेन दृश्यमानं कार्मुकम् । गम्योत्प्रेक्षालंकारः ] ॥ १२२ ।।

‘कुटजो गिरिमलिका
‘कुटजः शक्रो वत्सको गिरिमलिका इत्यमरः'




बन्नमुस्तिमिरसच्छविगात्रा
श्चित्रकार्मुकभृतः स्वरघोषाः ।।
ध्यानयज्ञमथनाय यतीनां
विद्युदुज्ज्वलदृशो घनदैत्याः ॥ २४ ॥
उत्ससर्जुरसकृज्जलधरा
वारिदा गगनधाम पिधाय ॥
शंकरो हृदयमात्मनि कृत्वा
सजहार सकलेन्द्रियवृत्तीः ॥ २५ ॥




कन्दल नवाङ्करः-
‘कन्दलं तु कपाले स्यादुपरागे नवांङ्करे'


 इति विश्धपकाशः । बाणा नीलझिण्टी । 'नीली झिण्टी द्वयोर्वाणा' इत्यमरः ।
तथाच कुटजानां नवाङ्करैबणानां विशालरेणुभिश्च कलिता व्याप्ता वनवात्या वनसं.
बन्धिवायुसमूहाः सत्त्वरजस्तमोगुणैमिश्रिता जगत्सु मायका विलासाः परिणामा
इवाऽऽववुः प्रचलिताः ॥ २३ ॥ [ मध्यमं रजः । तदत्र वायुसमुदाये विमलत्वात्स.
त्वस्य कुटजादिरेण्वोस्तु रक्तासितवर्णत्वाद्रजस्तमसोश्च सादृश्यं बोध्यम् । उपमालं
कारः ] ॥ २३ ॥
 तिमिरेण तमसा समाना छविः कान्तिर्यस्य तथाभूतं गात्रं शरीरं येषां ते चित्रा
निन्द्रचापलक्षणान्कार्मुकान्वनृषि बिभ्रतीति तथा खरो निष्ठुरो गर्जनलक्षणो घोषो येषां ते
विद्युलक्षणान्युज्ज्वलानि दृशो नेत्राणि येषां ते मेघलक्षणा दैत्या यतीनां ध्यानलक्ष.
णस्य यज्ञस्य मथनाय बभ्रमुः ॥ २४ ॥ [ विद्युलक्षणभास्वरनेत्राः । पक्षे तद्वद्ध स्वर
नेत्रा इत्यर्थः । रूपकादिरलंकारः ] ।। १२४ ।।
 एवंभूता वारिदा आकाशवामाऽऽवृत्य जलधारा मुहुरुत्ससर्जुः सम्यक्तत्यजुः ।
तस्मिन्काले श्रीशंकरः किं कृतवानित्यपेक्षायामाह । श्रीशंकरोऽन्तःकरणमात्मनि कृत्वा
समस्तेन्द्रियवृत्तीः सम्यगुपसंहृतवान् ॥ २५ ॥[गगनेति । आकाशगतं सूर्यादितेजः
पिधाय सञ्छाद्य जलधाराः । असकृदूयः । उत्ससर्जुरुत्कटं रचयामासुः सम्यक्त
त्यजुरित्यर्थः । शंकर इत्यादिस्पष्टार्थम् ।

‘वार्षिकं संजहारेन्द्रो धनुर्जत्रं रघुर्दधौ'


 इत्यादिवद्विपरीततुल्ययोगितालंकार इति प्रतिभाति]॥ २५ ॥



शनै: सांत्वालापैः सनयमुपनीतोपनिषदां
चिरायत्तं त्यक्त्वा सहजमभिमानं दृढतरम् ।
तमेत्य प्रेयांसं सपदि परहंसं पुनरसा
वधीरा संस्प्रष्टुं क नु सपदि तद्धीर्लयमगात् ॥ २६ ॥




 एवं निरुद्धान्तःकरणादेस्तस्य बुद्धिर्लयमवापेत्याह । नयैव्यससूत्रैः सहितं यथा
स्यात्तथोपनिषदां शनैः सांत्वालापैरव्यर्थमधुराभाषणैरुपनीता समीपं प्रापिता चिरका
लमारभ्याऽऽत्तं स्वीकृतं सहजमनादिसिद्ध दृढतरमभिमानं त्यक्त्वा तत्क्षणमव त
श्रुत्यादिप्रसिद्धं परप्रेमास्पदं परहंसं परमात्मानं प्राप्य पुनरसौ तस्य बुद्धिः संस्पष्टम
धीरा काचिदपि तत्क्षणमेव लयमगात् । यथा काचिन्मानिनी समीपस्थानां सखीनां
युक्तिसहितं यथा भवेत्तथा सांत्वालापैरनुनयवाक्यैः कान्तसमीपं चिरायाऽऽत्तं
नंiता स्वाभाविकं दृढतरमभिमानं विहाय सपदि समुत्कृष्टं तं प्रेयांसं कान्तं प्राप्य पुनरसँ
संस्पष्टुमधीरा कस्मिश्चिदङ्गे सपदि लयमाप्तोति तथेत्यर्थः । अत्र प्रस्तुतवृत्तान्ते वण्र्यं
माने विशेषणसामान्यबलादप्रस्तुतवृत्तान्तस्यापि परिस्फुरणात्समासोक्तिरलंकारः।

'समासोक्तिः परिस्फुर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत्’


 इत्युक्तेः । शिखरिणी वृत्तम् ॥ २६ ॥ [ एवमुपक्रान्तं वर्षाकालवशाद्यतानां
संचारादिव्यापारानौचित्यायातं श्रीमच्छंकराचार्थस्यासंमज्ञातसमाधिं संवर्णयति शनैरि
त्यादितिसृभिः शिखरिणीभिः। सनयं नयशब्दितव्याससूत्रोक्तयुक्तिसहितं यथा स्यात्त
थेत्यर्थः । एतेनोपनिषद्वाक्येष्वसंभावनादिसंभावितसकलदोषावभषः सूचितः । त्यक्त्वा
मिथ्यात्वतुच्छत्वाभ्यामनादृत्येत्यर्थः । तमुपनिषदुपदिष्टम् । एतादृशम् । मेयांसम् ।
तदेतत्प्रेयः पुत्रात्पेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्म' इति श्रुतेः
प्रत्यगेकरसत्वेन निरुपचरितप्रेमास्पदमिति यावत्] [पुनस्तदुत्तरम् । असावुक्तबुद्धिः ।
संस्मष्टं वृतिव्याप्तिसंपादनेऽपि फलव्याप्त्यभावाभिप्रायक एव समित्युपसर्गः ।
अधीराऽसमर्था सतीति यावत् । कनु इचिदपि सत्त्वाकारपरिणतेति निर्व
चनीयेऽन्त। ५ऽन्तःकरणारूयस्वापादान इत्यथ लयमगालुीनाऽभूदित्यन्वयः । अत्र
तद्धीपदे सप्तमीबहुत्रीहौ श्लेषः । तत्पक्षे यथा । तस्मिन्वक्ष्यमाणे स्वप्रेयस्येव
ीबुद्धिर्यस्याः सा तथा सीतादिमहापातिव्रतेत्यर्थः । सनयं सयुक्तिकं यथा स्यात्तथा ।
एतेनोपदेशेऽनादरणीयत्वं सखीषु च तचातुर्यविधुरत्वं व्युदस्तम् । उपेति । उप
समीपे निीदन्त्यखण्डमुपविशन्तीति तथा तासां स्वरहःसहचरीणामित्यर्थः । शनैर्मन्दं
मन्दम् । सान्त्वालापैरव्यर्थमधुरभूरिभाषणैरिति यावत् [ चिरेति । दीर्घकालावलम्बि
तमपि ! एतादृशं सहजं यौवनारम्भेण सहैव रूपादिगर्वत्वेनाऽऽविभूतमित्यर्थः । एता
दृशमत एव । दृढतरं विनोक्तोपदेशं प्रशमनानर्हः । एतादृशमभिमानं रूपादिजन्य


न सूर्यो नैवेन्दुः स्फुरति न च ताराततिरियं
कुतो विद्युछेखा कियदिह कृशानोर्वेिलसितम् ।
न विद्यो रोदस्यौ न च समयमस्मिन्नजलदे
चिदाकाशे सान्द्रस्वमुखरसवष्र्मण्यविरतम् ॥ २७ ।।




स्वोत्कर्षमयुक्तकान्तन्यूनत्वसंपादनमिति यावत् । तदुक्तं मदीये साहित्यसारे ।

रूपादिना निजोत्कर्षाद्रवऽन्यस्यावहेलनम् ।
मत्सौन्दर्यानुसंधानान्न ते गोवर्धन व्यथा ’


 इति । ‘गर्वोऽभिमानोऽहंकारः' इत्यमरः । त्यक्त्वा तं पूर्वपरिचितम् । अत एव ।
प्रेयांसम । स्वानन्यमीतिविषयीभूतमित्यर्थः । एतादृशम् । परेति । परः सर्वोत्कट
श्रवासैौ हंसः पूर्वोक्तमेदिन्याः श्रीरामादिलक्षणो नृपश्चति तथा तं निरुनकरूपं स्वकान्त
मिति यावत् । एत्य प्राप्य पुनस्तदूध्र्वमसौ निरुक्तसीतादिमानवती । संस्पष्टुं लज्जा
तिशायात्स्वयमेव गाढमालिङ्गिन्तुमित्यर्थः । अधीरा सती सपदि तत्कालम् । लयमगा
दन्तःपुरकोणादौ लीलया निलीनाऽऽसीदिति संबन्धः । एतेन नायिकायां चातुर्या
तिशयो व्यज्यते । तद्वीपदे निरुक्तसमासानाश्रयणे तु डिण्डिमादृता समासोक्तिरवा
लंकृतिः । तदुक्तम् ।

'समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य वेत् ।
अयमैन्द्रीमुखं पश्य रक्तश्रुधुम्बति चन्द्रमाः


 इति ] ।। १२६ ।।
 यत्र सूर्यादीनामपि स्फुरणं न संभवति तत्र बुद्धिस्फुरणस्य का पत्याशेत्याशये
नाऽऽह । नेति । कृशानुरमी रोदस्यौ द्यावांभूम्यौ । अविरतं सततं घनीभूतस्चसुखर
 सविग्रहे चिदाकाशे सूर्यादयो न स्फुरन्तीत्यर्थः । तथाच श्रुतिः ।

‘न यत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमानि '


 इत्याद्या ॥ २७ ॥ [ ' अस्मिन्यत्साक्षादपरोक्षाद्रह्मा ' इति श्रुतेरात्मत्वस्वमका
शत्वाभ्यां नित्यापरोक्ष इति यावत् । एतादृशेऽजलदे डलयोः सावण्यजडं दृश्यं
ददात्येतादृशं यन्मूलाज्ञानं तद्धीन इत्यर्थः । ईदृशे चिदाकाशे । केवलं सृर्याघेव
न स्फुरतीति न किंतु वयं द्यावापृथिव्यौ तथा समयशब्दितं कालमपि निभेषा
दिलक्षणं न विद्म इति योजना । काव्यार्थापत्तिरलंकारः ।

'कैमुत्येनार्थसंपत्तिः काव्यार्थापत्तिरिष्यते ।
 स जतस्त्वन्मुखनन्दु: का वात। सरसारुहाम् '


 इति वचनातू ] ॥ २७ ॥


किमादेयं हेयं किमिति सहजानन्दजलधा
वतिस्वच्छे तुच्छीकृतसकलमाये परशिवे ।।
तदेतस्मिन्नेव स्वमहिमनि विस्मापनपदे
स्वतः सत्ये नित्ये रहसि परमे सोऽकृत कृती ॥ २८ ॥
प्राप विष्णुपदभागपि मेघः
प्रावृडागमनतो मलिनत्वम् ।
कोऽध्यवन्यपि भजेन्न विरागम् ॥ १२९ ॥




 किंच सहजानन्दसमुद्रेऽतिस्वच्छेऽत एव तुच्छीकृता सकला सकाय माया यस्मि
न्पुनश्च स्चमहिमनि विस्मापनपदे स्वत: सत्ये नतु कार्यापेक्षया मृदादिवत्सत्ये परमे
रहस्यत्यन्तगुह्य तदेतस्मिन्नेव प्रत्यगभिन्ने परशिव स कृती श्रीशंकरः किमादेयं हेयं च
किमिति नित्यमकृतैवमनुसंधानं सदैव कृतवान् ॥ २८ ॥ [ किमादेयमिति । स
श्रीशंकराचार्यः कृती । स हजेति । अत एव । अतीति । अत एव । तुच्छीकृ
तेति । अत एव । परेति । अत एव । स्वेति । स्वप्रभे । अत एव । विस्मापनेति ।
आश्चर्थस्थाने । अत एव । स्वत इति । अत एव । नित्ये । एतादृशे । एतस्मिन्ना
त्मत्वादपरोक्षे । परमे रहसि द्वैतशून्यत्वान्निरुपमनिर्जने स्थाने । इद्देदानीं किं तद्धयं
किंवाऽऽदेयामित्येवाकृत व्युत्थानेऽनुसंदव इत्यन्वयः ] ॥ २८ ॥
 पुनर्वर्षतुं वर्णयति । विष्णुपदभागपि विद्युदुज्ज्वलकान्त्याऽनुसृतश्च मेघः प्रावृडा
गमनतो मलिनत्वं प्रापातोऽध्यवन्यपि भूमावपि विरागं को न भजेदपि तु सर्वोऽपि
वैराग्यमाणुयादेव । स्वागता वृत्तम् ॥ २९ ॥ [मेघो विष्णुपदभागपि ‘वियद्विष्णुपदम्
इत्यमरादाकाशभागपि । पक्षे विष्णुचरणभजनशीलोऽपीत्यर्थः । प्राडिति । पक्षे पक
षेणाऽऽसमन्तात्कामसुखं वर्षतीति तथा यावत्स्त्रीगुणविशिष्टरमणीकर्तृकस्वसमीपागमने
नेत्यर्थः । मलिनत्वं पाप नीलरुपोऽभूदित्यन्वयः । पक्ष उर्वश्यादिसमागमेन पुरूरवः
प्रभृतिवद्विवेकवैधुर्यमवापेत्यर्थः । तदेवं समासोक्तिसिद्धमर्थमर्थान्तरन्यासेनापि समर्थयति ।
विद्युदित्याद्युत्तरार्थेन । विद्युद्भिरुज्ज्वला रुकान्तिर्यस्याः सा तथा तया प्रावृषेति
यावत् । पक्षे विद्युद्वटुज्ज्वला दीप्ता रुकान्तिर्यस्यास्तयोक्तरमण्येत्यर्थः । अभिसृतश्चेत्

'कान्तार्थिनी तु या याति संकेतं साऽभिसारिका'


 इत्यमरादभिसारिकी भूयोपगतश्चेदित्यर्थः । एतादृशः कः पुरुषः । न्विति वितर्के ।
भवन्यपि वनमवलम्ब्यत्वेनास्यास्तीति वनी वानप्रस्थस्तथा न भवतीत्यवनी गृहस्थोऽपि



  • एतेनैतन्मते कोऽध्यवन्यपीत्यत्र को न्ववन्यपीति पाठः ।



आशये कलुषिते सलिलानां
मानसोत्कहृदयाः कलहंसाः ॥
कोऽन्यथा भवति जीवनलिप्सु
नऽऽश्रये भजति मानसचिन्ताम् ॥ १३० ॥
ञ्शुभ्रदीधितिरदभ्रपयोदे ।।
न्कश्चकास्ति मलिनाम्बरवासी ॥ १३१ ॥




सन्निति यावत् । अपिना तस्य कामप्रक्षुब्धेन्द्रियतृप्तिकारणीभूतधर्मपत्नीसत्वेऽपि
यदोक्तसुन्दरीकृताभिसारेण तत्पारतञ्यावश्यंभावस्तदा तदितरेषां त्वसैौ कैमुत्यसिद्ध
एवेति सूच्यते । विरागं विशिष्टं रागं विरिव-

'नगैौको वाजिविकीरविविष्किरपतञ्जय
इत्यमरात्कपोताख्यपक्षीव रागस्तम् । कपोतो ह्यतिकामुक इति-
सिंहो बली द्विरदमस्तकमांसभोजी
संवत्सरेण करुते रातिमेकवारम् ।
पारावतः खलु शिलाकणमात्रभोज
कामे रतः प्रतिदिनं वद कोऽत्रहेतुः


 इति काव्यादौ प्रसिद्धमेव । न भजेदपि सर्वोऽपि पुरुषः प्रायेणोक्तसामया विल
क्षणानुरागं भजेदेवेति योजना । तस्माचातुर्मास्यमेकत्रवासिभिः संन्यासिभिः साववा
नैरेव भाव्यमिति भावः । अभिसृतश्च कोऽध्यवन्यपीति डिण्डिमकारोक्तः पाठस्त्वध्य
वन्यपि भूमावपीति व्याख्यातोऽप्यर्थपरिपोषाभावादुपेक्षित एव । सकलदेशकालाव
च्छिन्नपुंमात्रसंप्राहकेण किंशब्देनैव तदर्थसिद्धेरिति दिक् ] ॥ १२९ ॥
 सलिलानां जलानामाशाये कलुषिते सति मानससरोवरं प्रत्युत्कमुत्कण्ठितं हृदयं
यषा तथाभूताः कलहसा अभवन् । अाश्रयेऽन्यथा भवांतं सात का जावनालप्सुमानस
चिन्तां न भजति किंतु सर्वोऽपि भजत्येव ॥ १३० ॥ [ कलेति । अव्यक्तमधुरध्व
निविशिष्टहंसाः । ‘कादम्बः कलहंसः स्यात्' इत्यमरात्कादम्बारूयहंसविशेषा इत्यर्थः]
[ को जीवनलिप्सुरुपजीवनेच्छुः पक्षे जलेच्छुः । ‘जीवनं भुवनं वनम्' इत्यरः ।
मानसेति । मानसेऽन्तःकरणे चिन्ता ताम् । पक्षे मानसं प्रति गमनचिन्ता तामिति
शाकपार्थिवादिवद्विग्रहः ] ॥ १३० ॥
 अनल्पा जलदा यस्मिस्तथाभूते व्योममार्गे परिभ्रममिच्छञ्शुभ्रांशुश्चन्द्रः कला
वान्षोडशकलापूर्णो यतो मलिनाकाशवासी तस्मात्प्रकाशनं न प्राप्तवान् । शुभ्रकान्तिः

चातकावलिरनलपपिपासा
प्राप तृप्तिमुदकस्य चिराय ॥
प्रामुयादमृतमप्यभिवाञ्छ
न्कालतो बत घनाश्रयकारी ।। १३२ ।।
इत्युदीर्णजलवाहविनीले
स्फीतवातपरिधूततमाले ॥
प्राणभृत्प्रचरणप्रतिकूले
नीडनीलघनशालिनि काले ॥ ३३ ॥
अग्रहारशतसंभृतशोभे
सुग्रहाक्षतुरगः स महात्मा ॥
अध्युवास तटमिन्दुभवाया
सुध्युपास्यचरणं गुरुमर्चन् ॥ ३४ ॥




सकलकलासंपन्नोऽपि मलिनवसनश्चेत्कः प्रकाशते न कोऽपीत्यर्थः || १३१ ॥
[मलिनाम्बरेषु। अधौतवत्रेषु शूद्रादिषु मध्ये वसतीति तथा । पक्षे मलिनं मेधैरावृतत्वा
दनिर्मलं च तदम्बरमाकाशं चेति तथा तत्र वसतीति तादृगेतादृशः ] ।। १३१ ॥
 अनल्पा पिपासा जलपानेच्छा यस्याः सा चातकानां पङ्गिश्चिरं जलस्य तृप्तिमवाप
घन दृढमाश्रय करतीति तथाऽमृतमप्यभिवाञ्छन्कालात्पापुयाद्वत प्रसिद्धम् ।
॥ १३२ ।॥ [ घनेति । दृढाश्रयकर्ता । पक्षे मेघावलम्बकृत् । अमृतमपि पीयूषमपि
यद्वा कैवल्यमपि । पक्षे ‘पयः कीलालममृतम्' इत्यमराजलमपीत्यर्थः । कालतः कालेन
प्रापुयादेवत्यर्थः । अमृतमपीत्यार्थिकम् । तस्मादुत्तुङ्गाश्रय एव कार्यं इति
तात्पर्यम्] ।। १३२ ॥
 इत्येवंप्रकारेणोक्तैः पयोदैर्विशेषेण नीले स्फीतेन विशालेन वायुना परिकम्पितास्त
माला वृक्षविशेषा यस्मिन्प्राणिनां विचरणे प्रतिकूले निबिडनीलघनैर्युक्त वर्षाकालेऽग्र
हाराणां ब्राह्मणग्रामाणां शतेन संभृता शोभा यस्मिस्तथाभूते वर्षाकाले सुधीभिरुपास्यौ
चरणौ यस्य तथाभूतं गुरुं सम्यक्पूजयन्सुखेन ग्रहो विषयलक्षणमार्गेभ्यः स्तम्भनं
येषां तथाभूता अक्षलक्षणा अश्धा यस्य स निगृहीतसर्वकरणो महात्माऽक्षुद्रस्वभाव
इन्दुभवसंज्ञिाकाया नद्यास्तटमध्युवास निवासं कृतवानितिद्वयोरर्थः ॥ ३३ ॥ ३४ ॥
[ नीडेति । डलयोः सावण्र्यान्नीलादिन्द्रनीलमणेरपि ये नीलाः श्यामा अतितराम
सिता ये घना मेघास्तैः शालते राजत इति तथेत्यर्थः ] [ इन्दुभवायाः प्रागुक्तरीत्या
रेवायास्तटं प्रति । मुग्रहेति । सुखेनानायासेन ग्रहो निरोधो येषां तादृशा अक्षा
णीन्द्रियाण्येव तुरगा अश्वा यस्य स तथा।'इन्द्रियाणि हयानाहुः’ इति श्रुतेर्वश्येन्द्रि


त्रस्तमत्र्यगणमस्तमिताश
हस्तिहस्तपृथुलोदकधाराः ॥
मुञ्चति स्म समुदश्वितविद्यु
त्पञ्चरात्रमहिशत्रुरजस्रम् ॥ ३५ ॥
नग्रहारनिकरैः सह पूरः ॥
आययावधिकघोषमनल्प
कल्पवार्थिलहरीव तटिन्याः ॥ ३६ ॥
घोषवारिझरभीरुनराणां
घोषमेप कलुषं स निशम्य ॥
दैशिकं धुवसमाधिविधानं
वीक्ष्य च क्षणमभूदविवक्षुः ॥ ३७ ॥




यहय:। महात्मा महानद्वैतब्रह्माकारतयाऽपरिच्छिन्न इवाऽऽत्मान्तःकरणं यस्य स तथा
ब्रह्मवित्तम इति यावत् ] ॥ ३३ ॥ ३४ ॥
 त्रस्तमत्र्यगणमस्तमिताशं च यथा स्यात्तथाऽहिशत्रुवृत्रारिरिन्द्रः समुदविता समु
छसन्ती विद्युद्यस्मिस्तत्पञ्चरात्रमजस्र हस्तिशुण्डावत्पृथुला विशाला जलधारा मुश्चातिस्म
॥ ३५ ॥ [ अहीति । प्राचीनबर्हिरहिा पृतनापाट्पुलोमजित’ इत्यभिधानादिन्द्र
इति थावतू ] |॥ ३५ ॥
 अथानन्तरं तीरभूरुहाणां ततीरग्रहारसमूहैः सह तत्सहितास्तीरस्थवृक्षपङ्गीराकर्ष
स्तटिन्या नद्या अनल्पः पूरो जलप्रवाहः प्रलयसमुद्रप्रवाहवदधिकं नादमाययौ
पाप ॥ ३६ ॥
 स एष श्रीशंकरो घोषसहितजलझरेभ्यो भीरुरूणां नराणां कलुषं घोषं श्रुत्वोपदे
ष्टारं श्रीगोविन्दनाथं ध्रुवं निश्चलं समावेर्विधानं यस्य ध्रुवस्य समाधेरिति वा । तथा
भूतं वीक्ष्य च क्षणमात्रं कथनेच्छारहितस्तूष्णीमभूत् ॥ ३७ ॥ [ घोषेति । ‘घोष
आभीरपली स्यात्' इत्यमराद्धोषास्तीरवत्र्याभीरपलन्यस्तथा वारिझरोऽवाप्तरेवापुरस्तथा
भीरवो ‘विशेषास्त्वङ्गना भीरुः' इत्यमरात्कामिन्यस्तथा नराश्च तेषाम् । घोषं शब्दम् ।
कलुषं करुणाव्याकुलहृदयं यथा स्यात्तथा निशम्य श्रुत्वा ] ॥ ३७ ॥


सोऽभिमय करकं त्वरमाण
स्तत्प्रवाहपुरतः प्रणिधाय ॥
कृत्स्त्रमत्र समवेशायदम्भः
कुम्भसंभव इव स्वकरेऽब्धिम् ॥ ३८ ॥
तं निशम्य निखिलैरपि लोकै
रुत्थितोऽस्य गुरुक्तमुदन्तम् ॥
योगसिद्धिमचिरादयमापे
त्यभ्यपद्यततरां परितोषम् ॥ ३९ ॥
छात्रमुख्यममुमाह कियद्भि
वसरैर्गतघने गगने सः ।
पश्य सौम्य शारदा विमलं स्वं
विद्ययेव विशदं परतत्त्वम् ।। १४० ।।




 पश्चात्स श्रीशंकरस्त्वरमाणः करकं कुम्भमभिमन्त्र्य स चासौ पवाहश्च तस्याः
मवाह इति वा तस्याग्रे प्रस्थाप्यात्र करके सर्व जलं प्रावेशयत् । अगस्त्यो यथा समुद्र
स्वहस्त आवेशायत्तथेत्यर्थः ।॥ ३८ ॥ [ सोऽभिमन्येति । स श्रीशंकरभगवत्पादः ।
अभिमश्रय पूर्वोक्तक्षणमात्रतूष्णींभावेन विचार्य श्रीमद्राविन्दभगवत्पृज्यपादाख्यगुरोर्डढ
समाधिनिष्ठत्वेन तं मत्युक्तोपश्ठवप्रशमनमार्थनानवसरात्तत्सांनिध्ये नैजैश्धर्यप्रकाशने
मर्यादाभङ्गाच स्वयमेव तत्कार्यं न वेति संशये बह्वनुग्रहस्य न्याय्यत्वात्स्वयमपि
निरुक्तोपद्रवप्रशमनं विधेयमेवेति निर्णायेति यावत् ! त्वरमाणः सन् ] [एतेनोक्तकारु
ण्याद्रभसः सूचितः । उपमालंकारः ] | १३८ ॥
 तमुदन्तं वृत्तान्तं निखिलैरपि लेोकैरुत्तं समावितो व्युत्थितोऽस्य श्रीशंकरस्य
गुरुः श्रुत्वाऽचिराच्छीघ्रमेवायं योगसिद्धिमवापति परितोषमभ्यपद्यततरामतिशयेन
परितोषं प्राप्तवानित्यर्थः ॥ ३९ ॥
 कियद्भिर्दिवसैर्गतघने गगने सति शिष्द्रयायममुं श्रीशंकरं स गुरुराह । यदुवाच
उदाह । हे सौम्य प्रियदर्शन शरत्कालेन विमलं गगनं पश्य तत्र दृष्टान्तो यथा
ब्रह्मविद्यया विशादमनवच्छिन्त्रं ब्रह्मात्मैक्यलक्षणं तत्त्वं तद्वत् ॥ १४० ॥ [ उपमालं
कारः ] ॥ १४० ॥



वारिदा यतिवराश्च सुपाथो
धारया सदुपदेशगिरा च ॥
ओषधीरनुचरांश्च कृतार्थी
कृत्य संप्रति हि यान्ति यथेच्छम् ॥ ४१ ॥
शीतदीधितिरसौ जलमुग्भि
र्मुक्तपद्धतिरतिस्फुटकान्तिः ॥
भाति तत्वविदुषामिव बोधो
मायिकावरणनिर्गमशुभ्र ॥ ४२ ॥
वारिवाहनिवहे प्रतियाते
भान्ति भानि शुचिभानि शुभानि ।
मत्सरादिविगमे सति मैत्री
पूर्वका इव गुणाः परिशुद्धाः ॥ ४३ ॥
मत्स्यकच्छपमयी धृतवन्ना
गर्भवर्तिभुवना नलिनाढ्या ।
श्रीयुताऽद्य तटिनी परहंसैः
सेव्यते मधुरिपोरिव मूर्तिः ॥ ४४ ॥




 जलदाः सुजलस्य धारयोषवीः कृतार्थीकृत्य यतिवराश्च सदुपदेशवाचा पुनरनु
चरांश्च कृतार्थीकृत्य संमति यथेच्छ गच्छन्ति ॥ ४१ ॥ [मुपाथ इति । ‘कबन्धमु
दकं पाथः' इत्यमराद्विपुलजलधारयेत्यर्थः । ओषधीरिति । 'ओषध्यः फलपाकान्ताः'
इत्यमराद्त्रीह्यादीनित्यर्थः । तुल्ययोगितालंकारः ] ॥ ४१ ॥
 अभसँौ शीतदीधितिश्चन्द्रो जलमुग्भिर्मेधैस्त्यक्त अभाकाशमागों यस्य सोऽतिस्फुट
कान्तिर्भाति मायिकस्याऽऽवरणस्य निर्गमेन शुभ्रः शुद्धस्तत्त्वविदां बोधो यथा मका
शाते तद्वत् ॥ ४२ ॥ [मुक्तेति । अत एव । स्फुटेति । शुभ्रः शुद्धः ] [ उपमा
लंकारः ] ॥ ४२ ॥
 वारिवाहानां मेघानां निवहे समूहे प्रतियाते सति शुचिभानि शुद्धमभाणि शुभानि
भानि नक्षत्राणि भान्ति । यथा रागद्वेषादिविगमे सति मैत्रीपूर्वका गुणाः करुणा
मुदितादयः परिशुद्धाः प्रकाशन्ते तद्वत् ॥ ४३ ॥ [ उपमालंकारः ] ॥ ४३ ॥
 मत्स्यकच्छपमयी पुनश्च धृतं चक्रे सुदर्शनाख्यं यया गर्भवर्तीनि चतुर्दशा भुव
नानि यस्या नलिनैः कमलैराढ्या लक्ष्म्या संयुता मधुरिपोर्विष्णोर्मुर्तिर्थथा परहंसैः
परमहंसपरिव्राजकैर्यतिभिः सेव्यते तद्वत् । अद्य मत्स्यादिप्रचुरा धृतानि चक्राणि



नीरदा: मुचिरसंभृतमेते
जीवनं द्विजगणाय वितीर्य ॥
त्यक्तविद्युदबलाः परिशुद्धा
प्रव्रजन्ति घनवीथिगृहेभ्यः ॥ ४५ ।।
चन्द्रिकाभसितचर्चितगात्र
श्चन्द्रमण्डलकमण्डलुशोभी ॥
बन्धुजीवकुसुमोत्करशाटी
संवृतो यतिरिवायमनेहाः ॥ ४६ ॥
हँससंगतिलसद्विरजस्कं
क्षोभवर्जितमपन्हुतपङ्कम् ।।
वारि सारसमतीव गभीरं
तावकं मन इव प्रतिभाति ॥ ४७ ॥




पुटभेदा यया गर्भवतीनि भुवनानि जलानि यस्याः कमलेराढ्या शोभायुक्ता तटिनीय
नदी परहंसैरुत्कृष्टैर्हसाख्यपक्षिभिः परमहंसैरिति वा ॥ ४४ ।॥ [ धृतेति । 'चक्राणि
पुटभेदाः स्युः' इत्यमरात्कलितपर्णपुटाकारवर्तुलजलाच्छद्रेत्यर्थः ] [ उपमादिर
लंकारः ] ॥ ४४ ॥
 एते जलदाः सुचिरसंभृतं जीवनं जलं द्विजानां ब्राह्मणादीनां पक्षिणां च गणाय
वितीर्य दत्वा त्यक्ता विद्युलक्षणाऽबलाऽङ्गना यैः परिशुद्धा आमन्ताच्छुभ्रा मेघवीथि
लक्षणेभ्यो गृहेभ्यः पव्रजन्ति प्रयान्ति । पक्षे नीरदा निर्गतदन्ता जरां प्राप्ता एते
चिरसंभृतं चिरपर्यन्तं संचितं जीवनं धनवान्यादि ब्राह्मणगणाय मदत्वा त्यक्ता
विद्युदिवातिचञ्चलाऽबला यैर्यतः परिशुद्धान्तःकरणा घनीभूता वीथयो येषु तेभ्यो
गृहेभ्यः प्रव्रजन्ति संन्यस्य गच्छन्तीत्यर्थः ॥ ४५ ॥ [ रूपकादिरलंकारः ] ॥४५॥
 भस्मलिप्तगात्रः कमण्डलुशोभी कषायवस्रसंवृतो यथा यतिस्तद्वद्यमनेहाः शरत्का
लश्रवन्द्रज्योत्स्नालक्षणेन भस्मना चर्चितं लिप्तं गात्रं शरीरं यस्य चन्द्रमण्डललक्षणेन
कमण्डलुना शोभाऽस्यास्तीति तथा बन्धूकपुष्पसमूहलक्षणया शाव्या सवृतः प्रतिभातं
त्यर्थः ।। ४६ ॥ [ चन्द्रिकेति । चन्द्रिकैव भमितं ‘भूतिर्भसितभस्मानि' इत्यमराद्भस्म
पक्षे चन्द्रिकेव भििसतं तेन चर्चितं लिप्त गात्रं शरीरं यस्य स तथेत्यर्यः ][ रूप
कादिरलंकारः ] ४६ ॥
 वारि सारसं सरःसंबन्धि जलं तावकं त्वदीयं मन इव प्रतिभाति हंसारूयपक्षिसं
गेन विलसच तद्विगतपांसुकं च पक्षे परमहंसानां संगेन विलसच तद्विगतरजोगुणं च



शारदाम्बुधरजालपरितं
श्राजते गगनमुज्ज्वलभानु ॥
लिप्रचन्दनरजः समुदज्च-
त्कौस्तुभं मुररिपोरिव वक्षः ॥ ४८ ॥
पङ्कजानि समुदृढहरीणि
प्रोद्रतानि विकचानि कनन्ति ।
न्युन्मुखानि हृदयानि मुनीनाम् ॥ ४९ ॥
रेणुभस्मकलितैर्दलशाटी
संवृतैः कुसुमलिङ्जपमालैः ॥
धर्पते क्षितिरुहैयतितौल्यम् ॥ १५० ।।




निरस्तकर्दमं पक्षे निरस्तपापमलं शुद्धमिति यावत् । अन्यत्समानम् ॥४७॥ [ सारमं
सरःसंबन्धि वारि जलम् । यतः । इंसानां राजहंसानां सङ्गेन विलसति । शोभत
इति तथा । पक्षे हंसस्य परमहंसस्य मम सङ्गेनेत्यादिपाग्वत् । उपमादिरलंकारः ]
॥ १४७ ।।
 शरत्कालीनानां जलवराणां जालैव्याप्त मेघावरणविनिर्मुक्तत्वादुज्ज्वलो भानुर्यि
स्तथाभूतं व्योम शोभते । तत्र दृष्टान्तः । लिप्तानि चन्दनरजांसि यस्मिन्समुदञ्चन्
स्फुरन्कौस्तुभारूयो मणिर्यस्मिस्तथाविधं मुररिपोः श्रीविष्णोर्वक्ष इवेत्यर्थः ॥ ४८ ॥
[ उक्ताम्बुधरजालस्य चन्दनरजःसाम्यं शैौकृन्यादेव । एवमुज्ज्वलभानोः कौस्तुभेन च
साम्यं तु भास्वरत्वादेव । स्फुटमेवान्यत् । उपमादिरेवालंकारः ] || ४८ ॥
 हे सौम्य योगकलयोध्र्वमुखानि मफुलानि सम्यगृढ भारूढो हरिर्विष्णुर्येषु तानि
प्रकर्षेणोद्रतान्यूध्र्वतां प्राप्तानि मुनीनां हृदयानि यथा कनन्ति प्रकाशन्ते तथा मोद्र
वानि प्रकचानि विकासं प्राप्तानि सम्यगृढा हरयः सूर्याशवो येषु तानि पङ्कजानि
कनन्तीत्यर्थः ॥ ४९ ॥ [ उपमादिरलंकारः ] ॥ १४९ ॥
 रेणुलक्षणेन भस्मना शोभितैः पत्रलक्षणया शाट्या संवृतैः कुसुमलिहो भ्रमरास्तल
क्षणा जपमाला येषां वृन्ते प्रसवबन्धे कुड्मलानि कलिकास्तलक्षणकमण्डलुयुतैः क्षिति
रुवृक्षयैतिसाम्यं धार्यते ॥ १५० ॥ [ रेण्विति । रेणुर्धलिरेव भस्म तेन कलिता
व्याप्तास्तैरित्यर्थः । पक्षे रेणुरिव भस्मेत्यादि सर्वत्र । रूपकादिरलंकारः ] ॥ ५० ॥



धारणादिभिरपि श्रवणाचै
वर्षिकाणि दिवसान्यपनीय ॥
संचरन्ति हि जगन्ति महान्तः ॥ ५१ ॥
दुद्भवां भवद्वाम्बुदमालाम् ॥
तत्त्वपद्धतिमभिज्ञ विवेतुं
सत्वरं हरपुरीमविविक्ताम् ॥ ५२ ॥
अत्र कृष्णमुनिना कथितं मे
पुत्र तच्छूणु पुरा तुहिनाद्रौ ॥
सत्रमत्रिमुनिकर्तृकमास ।॥ ५३ ॥




 धारणाध्यानसमाविभिः श्रवणमनननिदिध्यासनैश्च वार्षिकाणि दिवसान्यपनीयाद्य
पादपद्मरजसा जगन्ति पुनन्तो महान्तः संचरन्ति ॥ ५१ ॥ [ एवं दशाश्लोक्या
शारद्वर्णनं संक्षिप्य विवक्षितं वतुमुपक्रममाणः पूर्वरङ्गमाह । धारणादिभिरपीति ।
आदिना ध्यानादिः । वार्षिकाणि वर्षाकाले भवानि ।

'घस्रो दिनाहनी वा तु छीबे दिवसवासरौ' इत्यमरः ] ॥ १५१ ॥


 यस्मादेवं तत्तस्माद्भवान्वेदसमूहादुदूतां जन्ममरणलक्षणसंसारात्मकस्य दवस्य वना
मेघमालां तत्त्वपद्धतिमावविक्तां विवेत्तुमियं तत्त्वपद्धतिरियं नेति विवेचनं कर्तु शीघं
शिवपुरी काशीं गच्छतु ॥ ५२ ॥ [ तद्रवानिति । भो अभिज्ञ शंकर । यस्मादेवं
सतां संप्रदायस्तत्तस्मात् ] || ५२ ॥
 अथ शारीरकसूत्रभाष्यकरणाय प्रेरथिष्यन्वृत्तं वृत्तान्तमावेदयति । अत्रास्मिन्पद्ध
तिवेिचने कृष्णमुनिना वेदव्यासेन यन्मे कथितं हे पुत्र तच्कृणु । पूर्वे हिमाद्रौ
वृत्रशत्रुमुखैरिन्द्रप्रभृतिभेिदैवतैर्जुष्टमत्रिमुनिकर्तृकं सत्रमास बभूव ॥ १५३ । [ हे पुत्र
‘त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि’ इति श्रुतेः शिष्यस्यैव विद्यावं
शाभिप्रायेण मुख्यपुत्रत्वाद्युक्तमेवेदम् ][ कथं कथितमित्यत्राऽऽह पुरेत्यादिविशेषेण ।
यद्यपि सत्रेऽनेककर्तृत्वमेव

‘नैमिषे निमिषक्षेत्रे ऋषयः शैौनकादयः ।
सत्रं स्वर्गाय लोकाय सहस्रसमासत’


 इति पुराणे प्रसिद्धमथापि नक्षत्रसत्रादावेककर्तृकत्वस्यापि शास्त्रादाकुपलब्धेर्मुख्य
त्वाभिप्रायाद्वा युक्तमेवेदमित्यभिप्रायः] ।। ५३ ॥


संसदि श्रुतिशिरोर्थमुदारं
शंसति स्म स पराशरसूनुः ॥
इत्यपृच्छमहमत्रभवन्तं
सत्यवाचमभियुक्ततमं तम् ॥ ५४ ॥
आर्य वेदनिकरः प्रविभक्तो
भारतं कृतमकारि पुराणम् ।।
योगशास्त्रमपि सम्यगभापि
ब्रह्मसूत्रमपि सूत्रितमासीत् ॥ ५५ ॥
अत्र केचिदिह विप्रतिपन्नाः
कल्पयन्ति हि यथायथमर्थान् ।।
अन्यथा ग्रहणनिग्रहदक्षं
भाष्यमस्य भगवन्करणीयम् ॥ ५६ ।।




 तत्र सभायां स पराशरसूनुः श्रुतिशिरसामर्थमुदारं शंसति स्म । तमभियुक्ततमं
सत्यवाचमत्रभवन्तं पूज्यं श्रीव्यासमिति वक्ष्यमाणमहमपृच्छं पृष्टवान् ॥ ५४ ।।
[ श्रुतीति । वेदान्तार्थम् । औद्वैतब्रह्मात्मैक्यमिति यावत् । उदारं विस्पष्टं यथा स्यात्त
थेत्यर्थः] [ सत्येति ।

'योगिनो द्विविधाः प्रोक्ता युक्तयुञ्जानभेदतः ।
युक्तस्य सर्वदाभानं चिन्तासहकृतोऽपरः’


 इति वचनात्पूर्वविशेषणोक्तयोगीन्द्रवर्यत्वेनैव सत्यभाषित्वसिद्धेर्बह्मवादिनमित्यर्थः ]
[ सत्यवाचमुपवक्ति विनेयमिति पाठे तु यतोऽसौ विनेयं शिष्यं प्रति सत्यवा
चमुपवक्ति नतु प्रतारयत्यतोऽत्रभवन्तं पूज्यं तमहमित्यपृच्छमित्यन्वयः ] ।। ५४ ॥
यत्पृष्टं तदाह । हे आर्य वेदनिकरो वेदनिचयः प्रकर्षेण विभक्तो विलक्षणीकृत
स्त्वयेति शेषः । एवमग्रेऽपि ॥ ५५ ॥ [भो आर्य परमपूज्य बादरायण । त्वयेति
शेषः ] ॥ ५५ ।।
 अत्र ब्रह्मसूत्र इहास्मिलोके केचिद्विपतिपन्ना विप्रतिपत्तिं प्राप्ताः स्वमतानुसारेण
यथायोग्यमर्थन्कल्पयन्ति । तस्माद्धे भगवन्नन्यथार्थग्रह्णनिग्रहे दक्षमस्य ब्रह्मसूत्रस्य
भाष्यं त्वया करणीयम् ॥ ५६ ॥


मद्वचः स च निशम्य सभायां
विद्वदग्रसर वाचमवोचत् ।।
पूर्वमेव दिविषद्भिरुदीर्ण
पार्वतीपतिसदस्ययमर्थः ।। ५७ ।।
वत्स तं शृणु समस्तविदेको
मत्समस्तव भविष्यति शिष्यः ।
कुम्भ एव सारतः सकल यः
संहरिष्यति महोल्बणमम्भः ॥ ५८ ॥
दुर्मतानि निरसिष्यति सोऽयं
शर्मदायि च करिष्यति भाष्यम् ॥
कीर्तयिष्यति यशास्तव लोकः
कार्तिकेन्दुकरकौतुकि येन ॥ ५९ ॥
इत्युदाय मुनिराट्स वनान्ते
पत्युराप सुगिरिं गिरिजायाः ।
तन्मुस्वाच्द्रतमशेषमिदानीं
सन्मुनिप्रिय मया त्वयि दृष्टम् ॥ १६० ।।




 मम वचनं स च पराशरसूनुः श्रुत्वा सभायां हे विद्वदयैसर वाचमुक्तवान् । तां
दर्शयति । दिविषद्भिर्देवैरयं त्वदुक्तोऽर्थः शिवस्य सभायामुक्तः ॥ ५७ ॥ [ विद्वद
यसरा पण्डितपुरोगा वाचा भागुरिमतेन हलन्तानां टाविधानाद्वाणी यथा स्यात्तथाऽ
वोचदित्यन्वयः । तथा च न पौनरुक्त्यम् ] ॥ ५७ ॥
 तस्माद्धे वत्सै तमर्थ त्वं शृणु समस्तवित्सर्वज्ञः ॥ ५८ ॥
 सुखप्रदं भाष्यं करिष्यति येन शिष्येण तत्कर्तृकेण भाष्येण वा कार्तिकचन्द्रकि
रणवत्कौतुकमस्यास्तीति तव यशो लोकः कीर्तयिष्यति ॥ ५९ ॥ [ येन शिष्येण
द्वारीभूतेनेत्यर्थः ] ॥ ५९ ॥
 इत्येवं प्रकारेण स मुनिराड़ेदव्यासो वनमध्य उक्त्वा पार्वत्याः पत्युः शिवस्य गिरिं
कैलासं प्राप तस्य व्यासस्य मुखाच्छूतं सर्वं मया हे सन्मुनिभिय त्वयि दृष्टम्॥६०॥
[ उपसंहरति । इतीति । वनान्त उक्तवनमध्ये । सह्यादिपाषाणमयगिरिव्युदासार्थ
सूपसर्गः । तेषामपि दक्षिणकैलासादित्वेन शिवावासत्वादित्याशयः । हे सन्मुनिपिय ।
सतां व्यासादिमुनीनामिष्ट शंकर ] ॥ ६० ॥



स त्वमुत्तमपुमानसि कश्चि
तत्त्ववित्प्रवर नान्यसमानः ।
तद्यतस्व निरवद्यनिबन्धः
सद्य एव जगदुद्धरणाय ॥ ६१ ।।
गच्छ वत्स नगरं शशिमौलेः
स्वच्छदेवतटिनीकमनीयम् ।
तावता परमनुग्रहमाद्या
देवता तव करिष्यति तस्मिन् ॥ ६२ ॥
पावयन्निजदृशा विससर्ज ।।
भावतः स्वचरणाम्बुजसेवा
मेव शश्चदभिकामयमानम् ॥ ६३ ॥
पङ्कजप्रतिभटं पदयुग्मं
शंकरोऽस्य निरगादसहिष्णुः ॥
तद्वियोगमभिवन्द्य कथंचि
त्तद्विलोकनमयन्त्दृदयाब्जे ॥ ६४ ॥




 हे तत्वविच्छेष्ठ तत्तस्मान्निर्गुष्टग्रन्थैर्यतस्व ॥६१॥ [ अथ प्रकृतकर्तव्यं कथयाति ।
स त्वं कश्चिदवाङ्मनसगम्यः । उत्तमः पुमान्स उत्तमः पुरुषः

'उत्तमः पुरुषस्त्वन्यः परमात्मत्युदाहृतः'


 इति श्रुत्या प्रसिद्धः परशिव इत्यर्थः ] ॥ ६१ ॥
 शशिमौलेश्चन्द्रशेखरस्य नगरं स्वच्छरूपया देवनद्या गङ्गया कमनीयं सुन्दरं
तावता गमनमात्रेणैव तस्मिन्नगर आद्या शिवाख्या देवता तव परमनुग्रहं करि
प्यति ॥ ६२ ॥
 एवमेनं श्रीशंकरं दयालुरनुशासनं कृत्वा दृशा कृपादृष्टया पवित्रीकुंवन्भावाद्भ
क्त्यतिशयेन स्वचरणाम्बुजसेवामेव सदैवाभिकामयमानं विससर्ज ॥ ६३ ॥ [ विस
सर्ज काशीं प्रति प्रेषयामासेत्यर्थः] [ ननु किं भक्तिहीनत्वाद्विश्वमुक्तिप्रदो विश्धे
श्वर एव त्वय्यनुग्रहं करिष्यतीति वियाऽसाधनेन विसृष्टो नेत्याशयेन तं विशिनष्टि ।
भावव इत्याद्युत्तरार्धेन । शाश्चदपि निरन्तरमपीत्यर्थः । एवंच न समाप्तपुनरात्तत्वदो
षोऽपि ] ॥ ६३ ।।
 अस्य श्रीगोविन्दमाथस्य गुरोः पङ्कजपतिभटं पदद्वंद्वमभिवन्द्य तस्य पदबुग्मस्य
वियोगमसहिष्णुरपि तस्य विलोकनं हृद्याब्जेऽयन्मामुवन्कथंचिन्निरगात् ॥ ६४ ॥


प्राप तापसवरः स हि काश
नीपकाननपरीतसमीपाम् ।।
आपगानिकटहाटकचश्च
यूपपङ्किसमुदश्वितशोभाम् ॥ ६५ ॥
मन्दतीव्रतपसः फलभूताम् ।।
योगिराडुचिततीरनिकुञ्जां
भोगिभूषणजटातटभूषाम् ॥ ६६ ॥
विष्णुपादनस्वराजननाद्वा
शंभुमौलिशशिसंगमनाद्वा ॥
या हिमाद्रिशिस्वरात्पतनाद्वा
स्फाटिकोपमजला प्रतिभाति ॥ ६७ ॥
गायताव कलपट्पदनाद्
मुश्चतीव हसितं सितफेनैः ।
श्लिष्यतीव चपलोर्मिकरैर्या ॥ ६८ ॥




 स हि तापसश्रेष्ठः श्रीशांकरः काशीं प्राप । तां विशिनष्टि । नीपानां कदम्बानां
वैनेन व्यापं समीपं यस्या आपगाया नद्या निकटानां सुवर्णेन चञ्चतां यूपानां यज्ञ
स्तम्भानां पङ्गिभिः समुदश्विता शोभा यस्यां सा ताम् ॥ ६५ ॥
 एवं काशीमुपवण्र्य गङ्गां वर्णयति । स योगिराङ्गीरथेन तप्तस्यामन्दतीव्रस्यात्य
न्ततक्षिणस्य तपसः फलभूतामुवितास्तीरे निकुञ्जा यस्याः सर्पभूषणस्य शिवस्य जटानां
तटस्य भूषामलंकृतिं गङ्गां संददर्श ॥ ६६ ।।
 स्फाटिकमणिसद्दशजलां गङ्गां विधोत्प्रेक्षते । विष्णोश्चरणनखाजननाद्वा । संगमनं
समागमः । हिमाद्रिार्हमाचलः ॥ ६७ ॥ [ 'नखोऽस्त्री नखरोऽस्त्रियाम्' इत्यमरः ।
स्फाटिकेति । स्फाटिकोपलवत्स्फटिकपाषाणवज्जलं यस्याः सा तथेत्यर्थः] ॥ ६७ ॥
 अव्यक्ताक्षरैर्मधुरैभ्रमरनादैर्गायतीव वायुनोध्र्वचालितैः कमलैर्तृत्यतीव घेतैः फेनैहसं
मुञ्चतीव चपलोर्लिमक्षणहस्तैरालिङ्गनं कुर्वतीव ॥६८॥ [ गङ्गायां कमलवर्णनं

‘स्वर्गापगाहेममृणालिनीनां नाला मृणालाग्रभुजे भजामः’


 इत्यादिनैषधादौ दृष्टत्वात्कविसमयत्वादेवाविरुद्धम् ]।। ६८ ।।


श्यामला कचिदपाङ्गमयूखै
श्चित्रिता कचन भूषणभाभिः ।
पाटला कुचतटीगलितैयाँ
कुटुमैः कचन दिव्यवधूनाम् ॥ ६९ ॥
सोऽवगाह्य सलिलं सुरसिन्धो
रुत्ततार शितिकण्ठजटाभ्यः ।
जावीसलिलवेगाहृतस्त
द्योगपुण्यपरिपूर्ण इवेन्दुः ॥ १७० ॥
स्वर्णदीजलकणाहितशोभा
मूर्तिरस्य मुतरां विललास !।
पुत्रिका शशिशिलारचितेव ॥ ७१ ॥
विश्वेशश्चरणयुगं प्रणम्य भक्त्या
हर्याचैस्त्रिदशवरैः समर्चितस्य ।
सोऽनैषीत्प्रयतमना जगत्पवित्रे
क्षेत्रेऽसाविह समयं कियन्तमार्यः ।। ५५६ ।।




 दिव्यवधूनां कटाक्षकिरणैः कचिदतिश्यामा तासां भूपणदीप्तिभिः कचन चित्रिता।
विचित्रभूषणभानां विचित्रत्वात् । तासां स्तनतटीभ्यो गाँलतः कुङ्कुमः कचित्पाटला
धेतरतैवंभूता या तां संदशेति पूर्वेणान्वयः ॥ ६९ ॥
 स श्रीशंकरः सुरनद्या गङ्गाया जलमवगाह्य शितिकण्ठस्य शिवस्य जटाभ्यो जाह्न
वीसलिलवेगेन हृतस्तस्या जाह्नव्याः संयोगेन पुण्येन परिपुर्णचन्द्र इवोत्तारोत्लुतः
॥ १७० ॥
 स्वः सिन्धोर्जलकणैराहिता शोभा यस्याः साऽस्य शंकरस्य मूर्तिः सुतरां शुशुभे ।
तत्र दृष्टान्तः। चन्द्रकिरणैर्गलतां जलकणानामङ्काश्चिन्हानि यस्याः सा चन्द्रकान्ताश
लारचिता मतिमा यथा तद्वत् ॥ ७१ ।॥ [ पुत्रिकापुतलिकेवेत्यर्थः ] ।। ७१ ।।
चवरणद्वय
 विश्वमीष्ट इति विश्धेट्तस्य विश्वनियन्तुर्विष्ण्वादिदेववरैः संपूजितस्य
भक्त्या प्रणम्य प्रयतमनाः सोऽसावार्यः कियन्तं कालं जगत्पवित्रेऽस्मिन्क्षेत्रेऽनैषी
नीतवानित्यर्थः । महर्षिणी वृत्तम् ।। ७२ ।।



इति श्रीमाधवीपे तत्मुस्वाश्रमनिवासगः ॥
संक्षेपशंकरजये सगोंऽयं पञ्चमोऽभवत् ॥ ५ ॥
दधीतवेदो दलयन्स्वभासा ।।
तेजांसि कश्यत्सरसीरुहाक्षी
दिदृक्षमाणः किलदेशिकेन्द्रम् ॥ १ ॥
आगत्य देशिकपदाम्बुजयोरपप्त
त्संसारवारिधिमनुत्तरमुत्तिषुः ॥
वैराग्यवानकृतदारपरिग्रहश्च
कारुण्यनावमधिरुह्य दृढां दुरापाम् ॥ २ ॥




 [इति श्रीति । तदिति । तस्य श्रीशंकराचार्यस्य यः सुखाश्रमनिवासो जीवन्मु
क्तिसुखप्रदतुरीयाश्रमाख्यसंन्यासस्तं गच्छति प्रतिपादयतीति तथा ।। ७३ । इत्यद्वै
 इति श्रीपरमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रपिादशिष्यदत्तवशावतंसरामकु
मारसूनुधनपतिसृरिकृते शांकरविनयडिण्डिमे पञ्चमः सर्गः ।। ५ ।।

अथ षष्ठसर्गस्य टीका ।


 एवं सपरिकरं जीवन्मुक्तिसुखपापकं श्रीशंकरकतृकं चतुर्थाश्रमनिवासमुपवण्यथदानी
तत्कर्तृकां ब्रह्मविद्यापतिष्ठितिं सपरिकरां वर्णयितुमुपक्रमतेऽथेत्यादिना । अथ काशी
प्राप्त्याद्यन्तरं कश्चित्कमलेक्षणो ब्राह्मणसुतोऽधीतवेदो देशिकेन्द्रं दिदृक्षमाणाः स्वभासा
तेजांसि दलयन्नादरादागमदिति योजना । उपजाति वृत्तम् ॥ १ ॥ [ कश्चिदज्ञात
नामादिः ] [सरसीति । पद्मवत्प्रसन्ननयन इति यावत् । एतेनोक्तविवेकादिशमादिसंप
दन्तसामग्री सृचिता । अत एव दिदृक्षमाणोऽद्वैतब्रह्मात्मैक्यापारोक्ष्यमात्रेच्छुरि
त्यर्थः ] ॥ १ ॥
 दृढां दुष्पापां गुरुकारुण्यनावमधिरुह्य दुरुत्तरं संसारसमुद्रमुत्तितीर्षवैराग्यवान्न
कृतः स्त्रीपरिग्रहो येन स आगत्य श्रीशंकरस्योपदेष्टश्चरणकमलयोरपप्तत्पतितवान् ।
वसन्ततिलका वृत्तम् ॥ २ ॥ [ स इत्यार्थिकम् । यतो वैराग्यवानतः । अकृतेति ।
ब्रह्मचार्येवेत्यर्थः । अनुत्तरमुत्तरणमुत्तरो न विद्यतेऽद्वैतविद्यां विनोत्तरो यस्य तमित्यर्थः ।
अपमन्निपपातेत्यन्वयः । एतेन दण्डवत्साष्टाङ्गप्रणामो ध्वन्यते ] ॥ २ ॥


उत्थाप्य तं गुरुरुवाच गुरुद्विजानां
कस्त्वं क धाम कुत आगत आत्तधैर्यः ।
बालोऽप्यबालधिषणः प्रतिभासि मे त्व
मेकोऽप्यनेक इव नैकशरीरभावः ॥ ३ ॥
पृष्टा बभाण गुरुमुत्तरमुत्तरज्ञा
विप्रो गुरो मम गृहं बुध चोलदेशे ।।
यत्राऽऽपगा वहति तत्र कवेरकन्या
यस्याः पयो हरिपदाम्बुजभक्तिमूलम् ॥ ४ ।।
अटाट्यमानो महतो दिदृक्षु
क्रमादिमं देशमुपागतोऽस्मि ।
बिभेमि मजन्भववारिराशौ
तत्पारगं मां कृपया विधेहि ।। ५ ।।




 तं ब्राह्मणकुमारमुत्थाप्य द्विजानां गुरुर्देशिक उवाच । त्वं को ब्रह्मणो वा क्षत्रि
यादिव धाम गृहं त्वदीयं केदानीं त्वं कस्माद्देशादागतो यत आत्तं गृहीतं वैर्य येन
सोऽतो बालोऽप्यबालबुद्धिस्त्वं मे प्रतिभासि पुनश्चैकोऽप्यनेक इवै प्रतिभासि । निर्भ
यत्वात् । पुनश्च न विद्यत एकस्मिन्नपि शरीरेऽहंभावो यस्य सः । पाठान्तरे त न
विद्यत एकस्य शरीरस्यापि भानं यस्येति व्याख्येयम् ॥ ३ ॥ [ कुतो हेतोरि
हाऽऽगतोऽसीति संबन्धः । नैकेति । न विद्यत एकः केवलः शरीरे भावोऽहंभावो
यस्य स तथा । उपागमनक्षण एव केवलं मत्पादयोरेव दण्डवत्पतितत्वात्तथात्वाभि
त्यर्थः । अत एव । एकोऽपि वस्तुतोऽद्वतोऽपि व्यवहारत एकव्यक्तिकोऽपि । अनेक
इव सर्वात्मक इव त्वं मे पतिभासीत्यनुकृष्य योज्यम् । एवं च मश्र एवोपदेशोऽ
पीति व्यज्यते । उत्प्रेक्षालंकारः ] ॥ ३ ॥
 एवं पृष्ट उत्तरज्ञो गुरुं प्रैतिजगाद हे गुरोऽहं विप्र इति पथमश्रस्योत्तरम् ।
द्वितीयस्योत्तरमाह हे बुध यस्या जलं हरिपदाम्बुजभक्तेः कारणं सा कावेरी नदी
यत्र चलाति तस्मिश्धोलाख्ये देशे मम गृहमस्तीत्यर्थः । सर्वज्ञस्य तव न किंचिदप्यवि
दितमिति संबोधनाशयः ॥ ४ ॥ [ कवेरकन्या कवेरनाम्नो महर्षेः पर्वतस्य वा
कन्या ] ॥ ४ ॥
 तृतीयमश्रस्योत्तरमाह । महतो दर्शनेच्छुरटाठ्यमानो भृशमटमानः । 'सूचिवसूत्रि
मूञ्यव्यत्र्थशूणतिभ्यो यङ्काच्यः' इति यङ् । क्रमादिमं देशमुपागतोऽस्मि । एवं
पृष्टमावेद्य स्वप्रयोजनमावेदयाति। संसारसमुद्रे मज्जन्बिभेमि तस्मात्कृपया संसारसमुद्रा



अपाङ्गेरुत्तुङ्गेरमृतझरभडैः परगुरो
शुचा दूनं दीनं कलय दयया मामविमृशन् ।।
गुणं वा दोषं वा मम किमपि संचिन्तयसि चे
तदा कैव श्लाघा निरवधिकृपानीरधिरिति ॥ ६ ॥
स्यात्ते दीनदयालुताकृतयशोराशिांत्रिलोकगुरो
तूर्ण चेद्दयसे ममाद्य न तथा कारुण्यतः श्रीमति ॥
वर्षन्भूरि मरुस्थलीषु जलभृत्सद्भिर्यथा पूज्यते
नैवं वर्षशतं पयोनिधिजले वर्षन्नपि स्तूयते ॥ ७ ॥
त्वत्सारस्वतसारसारससुधाकपारसत्सारस्स
स्रोत:संभृतसंततोज्ज्वलजलक्रीडा मतिर्भ मुने ॥
चञ्चत्पञ्चशरादिवञ्चनहतं न्यश्वं प्रपञ्चे हित
ज्ञानाकिचनमा विरिंश्चमखिलं चाऽऽलोचयन्त्यश्वतु ॥ ८ ॥




रपारगं मां विधेहि । उपजातिवृत्तम् ।। ५ । [ महतत्रिविधपरिच्छेदशुन्यस्य ब्रह्मणो
दिदृक्षुर्दर्शनेच्छुस्तत्साक्षात्कारापेक्षोऽहम् ] ।। ५ ।।
 हे परंगुरो मम गुणं वा दोषं वाऽविचारयन्नत्युचैः कटाक्षलक्षणैरमृतझरभङ्गेः सुधा
प्रवाहतरङ्गेर्दयया शोकेन खिन्नमत एव दीनं मां कलयावलोकय । गुणदोषविचारणे
बाधकमाह । गुणं वा दोषं वा किमपि मम चिन्तयासि चेत्तदा श्रीशंकरो निरवविकृपा
समुद्र इति कैव लाघा न काऽपीत्यर्थः । शिखरिणी वृत्तम् ॥ ६ ॥
 एतदेव द्रढयन्सदृष्टान्तमाह । हे त्रिलोकीगुरो शीघ्र गुणदोषविचारं विनैवाद्य
ममोपरि दयां करोषि चेतर्हि ते दीनदयालुतासंपादितयशोराशिर्यथा स्यात्तथा श्रीमति
कारुण्यतो न स्यात् । तवादीनदयालुता कृत, यशेोराशिर्न स्यादिति वा कृतयशोरा
शिास्त्वमिति वा । अस्मिन्पक्ष उभयैत्रादीनदयालुतेत्येव च्छेदः । यतो मरुस्थलीषु भूरि
वर्षञ्जलभृन्मेघः सद्भिर्यथा पूज्यते समुद्रजले वर्षशतं वर्षन्नपि तथा न स्तूयत इत्यर्थः ।
शार्दूलविक्रीडितं वृत्तम् ॥ ७ ॥
 त्वदीयसरस्वत्याः सार एव सारससुधाकूपारश्चन्द्रसँबन्ध्यमृतसमुद्रस्तस्य यत्सत्सा
रसस्रोतोभिः सलक्षणानां सारसानां पक्षिणां कमलानां वा स्रोतोभिः प्रवाहैः संभृतं
संमिश्रितं संश्रितं वा संततमुज्ज्वलं जलं तस्मिन्क्रीडा यस्यास्तथाभूता सती मे मति
मुने चञ्चन्स्फुरन्यः पञ्चशरः ।



सौरं धाम सुधामरीचिनगरं पैौरंदरं मन्दिरं
कौबेरं शिबिरं हुताशनपुरं सामीरसद्मोत्तरम् ।
वैधं चाऽऽवसथं त्वदीयफणितिश्रद्धासमिद्धात्मनः
शुद्धाद्वैतविदो न दोग्धि विरतिश्रीघानुकं कौतुकम् ॥ ९ ॥
न भौमा रामाद्याः सुषमविषवलुीफलसमा
समारम्भन्ते नः किमपि कुतुकं जातु विषयाः ॥
न गण्यं नः पुण्यं रुचिरतररम्भाकुचतटी
परीरम्भारम्भोज्ज्वलमपि च पौरंदरपदम् ॥ १० ॥




'उन्मादनस्तापनश्व शोषणाः स्तोभनस्तथ।
संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः


 इत्युक्तपञ्चसायकः काम आदिर्येषांक्रोधादीनां तत्कर्तृकेन वञ्चनेम हतमत एव
न्यश्च नीचं पुनश्च स्वाहितज्ञानेऽकिंचनमशक्तमाब्रह्मलोकं सर्वं प्रपञ्चमालोकयन्त्य
चतु विचरतु ।

'सारसः पक्षिभेदेन्द्वोः सारसं सरसीरुद्दे'


 इति विश्वप्रकाशः ॥ ८ ॥ [ आविरिञ्चम् । ब्रह्मलोकान्तमखिलमपि पञ्चम् ।
भालोचयन्ती मननेनावलोकयन्त्यश्चतु विचरत्वित्यर्थः । श्रीमद्वागाप्ताद्वैतसाक्षात्कारज
न्यजीवन्मुक्तिसुखात्मरत्यादिरत्नमन्दिरे मन्मतिर्विहरत्वविरतमित्याकूतम् ] ॥ ८ ॥
सूरस्य सूर्यस्य धाम सुधाकिरणस्य वन्द्रस्य नगरं पुरंदरस्येन्द्रस्य मन्दिरं कुबे
रस्य शिबिरं हुताशनस्यान्नेः पुरं समीरस्य वायोः सद्म विधेर्बहाणश्च सर्वोत्तरैमावसथं
गृहं त्वदीयायां फणितावुक्तो या श्रद्धा तया समिद्ध आत्मा यस्य तस्य शुद्धाद्वैत
विदो या वैराग्यलक्षणा श्रीस्तस्या घातुकै नाशकं कौतुकं न दोग्धि न प्रपूरयतीति
प्रत्येकं क्रियान्वयः ।। ९ ।।
 भौमा भूमौ भवा रामाद्या वनिताद्या विषयाः सुषमा शोभना या विषवली तस्या
फलेन तुल्याः सुन्दरं यद्विषवल्याः फलं तेनेति वा नोऽस्माकं किमपि कौतुकं जातु
कदाऽपि न समारभन्ते नापि पुण्यं सुन्दरतरा या रम्भाख्याऽप्सरास्तस्याः कुचतव्याः
परीरम्भस्याऽऽलिङ्गनस्याऽऽरम्भेणोज्ज्वलं पुरंदरस्य देवेन्द्रस्य पुरमपि नोऽस्माकं
गणनीयम् । शिखरिणी वृत्तम् ॥१०॥[भैमा भूमौ भवा एतादृशा रामाद्या रमयतीति
रामा यावत्स्त्रीगुणविशिष्टा तरुणी साऽऽद्या मुख्या येषां स्रक्चन्दनादीनां ते तथा ।
अत एवोक्तम् ।



न चञ्चद्वैरिवं पदमपि भवेदादरपदं
वचो भव्यं नव्यं यदकृत कृती शंकरगुरुः ॥
चकोरालीचञ्श्रूपुटदलितपूर्णेन्दुविगल
त्सुधाधाराकारं तदिह वयमहिमहि मुहुः ॥ ११ ॥




'यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क भोगभूः ।
त्रियं त्यक्त्वा जगत्त्यक्तं जगत्यक्त्वा सुखी भवेत्'


 इति । एतादृशा विषयाः । सुषमेति । एतेन परिणामेऽनर्थकारित्वं द्योत्यते ।
ननु मास्त्वैहिकविषयासक्तिस्तेषां स्यादीनां जरादिदूषितत्वात्पारात्रिकेषु तदभावात्तत्रासौ
तव स्यादेवेत्यत आाह न गण्यमित्याद्युत्तरार्धेन । तथा नोऽस्माकम् । पुण्यं यज्ञादिसुकृ
तसाध्यम् । रुचिरतरेति । अतिशयेन रुचिरारम्यैतादृशी या रम्भा तस्या या कुच
तटी स्तनस्थली तस्या यः परीरम्भ आलिङ्गनं तस्य य आरम्भ उपक्रमस्तेनो
ज्ज्वलं रम्यमित्यर्थः । अत्र रम्भायाः सुन्दरतरत्वाव्यतिरेकेऽपि रुचिरतरेति विशेषणं
सदीयमानाद्यवस्थासंभावितरोषादिव्युदासार्थमेवेति भावः । अत एवोक्तं भर्तृहरिणा ।

'नामृतं न विषं किंचिदका मुग्धा नितम्बिनी ।
सेवामृतलता रक्ता विरक्ता विषवलरी'


 इति । एवं चात्राऽऽलिङ्गनारम्भे तत्कर्तृकत्वं द्योत्यते । अत एव तेन वृन्दारकव
न्द्यपरस्याप्युज्ज्वलत्वलक्षणरम्यत्वमपीति व्यज्यते । तदुक्तं मदीये भागीरथीकथाभि
धचम्पूकाव्य ।

'धान्यानां मृदुलपदाः सुवर्णरूपा
सदृत्ताः सरसगुणाः प्रसादशीलाः ।
नानालंन्कृतिविलसद्ध्वनिमचारा
श्रुधुम्बन्ति स्वरसत आास्यमाज्यवाचः’


 इति । एतादृशमपि परंदरपदमैन्द्रस्थानमपि न गण्यं नैव मान्यमस्तीति संबन्धः ।
तत्र हेतुस्तु पुण्यमिति विशेपणपदेनैव सूचितः । पुण्यसाध्यत्वेन तस्य तत्क्षये क्षीण
त्वादु:खरूपमेव तदित्याशयः । अत एवाऽऽम्रायते । ‘तद्यथेह कर्मवितो लोक
क्षीयत एवमेवामुत्र पुण्यवितो लोकः क्षीयते' इति । रूपकादयोऽलंकाराः ॥ १० ॥
तहिं ब्रह्मपदं भवतामाद्रपदं स्यान्नेत्याह । नेति । अनेने हामुत्रार्थभोगविरागो
दर्शितः । अथ श्रवणौत्सुक्यं दर्शयति । कृती शंकरगुरुर्यद्भव्यं कल्याणात्मकं नव्यं
नवीनं वचनमकृत तद्विरहातुरचकोरपङ्कीनां चवश्रूपुटैर्दलितात्पूर्णचन्द्राद्वलितायाः सुधा



द्यावाभूमिशिवंकरैर्नवयशःप्रस्तावसौवस्तिकै
पूर्वास्वर्वतपःपचेलिमफलैः सर्वाधिमुष्टिधयैः ॥
दीनाढ्यंकरणैर्भवाय नितरां वैरायमाणैरलं
कमणं प्रसितं त्वदीयभजनैः स्यान्मामकीनं मनः ॥ १२ ॥
ससारबन्धामयदुःस्वशान्त्य
स एव नस्त्वे भगवानुपास्यः ।
भिषक्तमं त्वा भिषजां शृणोमी
त्युक्तस्य योऽभूदुदितावतार: ॥ १३ ॥




धाराया भाकार इवाऽऽकारो यस्य तत्पुनः पुनर्वयमोहेमहीच्छामः ॥ ११ ॥
[वैरिश्वं विरिञ्चस्य ब्रह्मण इदम् । वचोऽद्वैतात्मबोधकं वाक्यम्] [चकोरालीति ।
चकोराल्याञ्चकोरपङ्गेर्यानि चश्रूपुटानि तैर्दलितः कलङ्कच्छलेन मध्य छिद्रदर्शनात्ख
ण्डित एतादृशो यः पृणेन्दुः पृर्णचन्द्रस्नस्माद्विगलन्ती विशेषेण स्रवन्ती या सुवाधा
राऽमृतधारा तद्वदाकारो यस्य तत्तथेत्यर्थः । इहास्मिन्नेव देहे । यद्वा चकोरेत्याद्या
कारान्तं क्रियाविशेषणमेव । तेन तद्वचसि निरुपमत्वं तदास्वादने स्परसत्वं स्वामिश्र
कोरवत्तदेकनिष्ठत्वं च सूच्यते । उपमादयोऽलकाराः ] ॥ ११ ॥
 द्यावाभूम्योः शिवं मुखं कुर्वन्तीति तथा तैर्नवीनस्यासावारणस्य यशसः प्रस्तावस्य
पसङ्गस्य सौवस्तिकैः स्वस्तिवाचकैः । स्वस्तीत्याहेत्यर्थे ‘तदाहेति माशब्दादिभ्यष्ठ
ग्वाच्यः' इत्यनेन ठक्प्रत्ययः। पूर्वस्य पूर्वार्जितस्यानल्पतपसः पकफलैः सर्वेषामावानां
मुष्टिधयैः साराकर्षकैः सर्वे च त आधयश्चेति वा दीनानामाढ्यंकरणैर्भवाय संपाराय
नित्यं वैरायमाणैवैरं कुर्वद्भिः । शब्दवैरेत्यादिना करोत्यर्थे क्यङ्गः । त्वदीयभजनैरलं
कमणं कर्मक्षमम् । ‘कर्मक्षमोऽलंकमणः' इत्यमरः । मदीयं मनः प्रमितं स्यात्तथाभूतेषु
त्वदै!"भजनेषु तत्परं स्यादिति प्रार्थन। । 'पांपतोत्सुकाभ्यां तृतीयाच' इति तृतीया ।
तत्परे पतितापक्तौ' इत्यमरः । कः प्रभितो नाम यस्तव नित्यं प्रतिबद्धः कुत एतत् ।
सुनोतिरयं बभ्रात्यर्थे वर्तत इति महाभाष्यम् । अनेन गुरुशुश्रूषाकरणौत्सुक्यं स्वस्य
दर्शितम् । शार्दूलविक्रीडितं वृत्तम् ॥ १२ ॥ [ दीनेति । दीनानामनन्यगतिकाना
मस्मदादीनामाढ्यंकरणानि संपत्साधनानि तैरित्यर्थः ] ॥ १२ ॥
 ननु तर्हि यः कश्चिदेव गुरुस्त्वयाँ स्वाभीष्टसिद्धये संसेव्य इति चेत्तत्राऽऽह ।
भिषक्तमं त्वा भिषजां शृणोमि’ इतिश्रुत्युक्तस्य सदाशिवस्य य उदित उक्तोऽवतारोऽभूदु
दयं प्राप्तोऽवतार उदितावतार इति वा स एवत्वं वैद्यानां मध्ये सद्वैद्यस्यावतारभूते । भग
वान्नोऽस्माकं संसारबन्वलक्षणरोगदुःखशान्त्यर्थमुपास्य इत्यर्थः । उपजातिवृत्तम् ॥१३॥



इत्युक्तवन्त कृपया महात्मा
व्यदीपयत्संन्यसनं यथावत् ॥
प्राहुर्महान्तः प्रथमं विनेयं
तं देशिकेन्द्रस्य सनन्दनाख्यम् ।। १४ ।।
त्सांयात्रिकीभवनमर्दयमानमेनम् ।।
हन्तोत्तमाश्रमतरीमधिरोप्य पारं
निन्ये निपातितकृपारसकेनिपातः ।। १५ ।।




[भो भगवञ्शंकराहमित्यार्थिकम् । त्वा त्वाम् । भिषजां वैद्यानां मध्ये । भिषक्तमं संसाररो
गापहारकत्वाद्वैद्यनाथत्वेन जगत्प्रसिद्धत्वात् ‘भेषजं भवरोगिणाम्' इत्यादिस्मृत्युक्तत्वाच
सकलवैद्यराजाधिराजामिति यावत् । शृणोमि ब्रह्मवादिवदनादाकर्णयामीत्यर्थः । इति
शब्दः श्रुतिसमाध्यर्थः । निरुक्तानुपूर्वी विशिष्टया श्रुयेत्यर्थः । इयं हि श्रुतिः शाकल
संहितायां द्वितीयाष्टके ‘उन्नो वरौिं अर्पय भेषजेभिर्भिपक्तमं त्वा भिषजां शृणोमि’ इति
रुद्रसूते समाम्नायते । विस्तरस्तु तद्भाष्य एव ज्ञेयः । अनुपयोगान्नेह लिख्यत इति
दिक् । उपलक्षणमिदं श्रुत्यन्तरस्यापि । तथाच तैत्तिरीयाः समामनन्ति । ‘अध्यवोच
दधिवक्ता प्रथमो दैव्यो भिषक्’ इति । उक्तस्य प्रतिपादितस्य परमेश्वरस्येत्यर्थः । यः ।
उदितेति । उदितः प्रकाशं प्राप्तश्चासावतारश्चति तथा । एतेनाद्वैतविद्याप्रतिष्ठापक
त्वन मूलाज्ञानतमः शामकत्वं व्यज्यते । अभूद्भवत्स एव त्वं न उपास्योऽसीति
पूर्वेणान्वयः । रूपकमलंकार: ] ।। १३ ।।
 इत्युक्तवन्तं ब्राह्मणसूर्नु महात्मा श्रीशंकराचार्यः करुणया विविवत्संन्यसनं व्यदी
पयत्तं सनन्दनसंज्ञ देशिकेन्द्रस्याऽऽच शिष्यं महान्तः प्राहुः ॥ १४ ॥ [ संन्यसनं
प्रारमहंस्यम् । सनन्दनाख्यं सनन्दन इति योगपट्टशालिनम् । ‘अरुणः समभूत्सन
दनः' इति तृतीयसगोंक्तिरयमरुणावतार इति ज्ञेयम् ] ॥ १४ ॥
 तदभीष्टं सम्यक्सावितवानित्याह । संसारलक्षणस्य घोरसमुद्रस्य तरणायानारतं
सांयाविकीभवनमर्दयमानं पोतवणिक्त्वं भवेति याचमानमेनं सनन्दनं हन्त तदानीमे
वात्तमाश्रमतरी संन्यासाश्रमलक्षणां नौकामाधरोप्य पारं नीतवान्यतो नितरां शिष्येष
स्थापितायाः कृपाया रस एव केनिपातो नौकादण्डो यस्य

'नौकादण्डः क्षेपणी स्यादरित्रं केनिपातक:


 इत्यमरः । निपातितः छपारस एव केनिपातो येनेति वा ॥ १५ ॥ संसारेति ।
संसार एव घोरजलधिगजलादिसमुद्रवत्तत्त्वसाक्षात्कारमन्तराकालत्रयेऽपि दुस्तर



येऽप्यन्येऽमुं सेवितुं देवतांशा
यातास्तेऽपि प्राय एवं विरक्ताः ।।
क्षेत्रे तस्मिन्नेव शिष्यत्वमस्य
प्रापुः स्पष्टं लोकरीत्याऽपि गन्तुम् ।। १६ ।।
व्याख्या मौनमनुत्तराः परिदलच्छङ्काकलाकुरा
इछात्रा विश्वपवित्रचित्रचारितास्ते वामदेवादयः ।
तस्यैतस्य विनीतलोकतांतिमुद्धर्तु धरित्रीतलं
प्राप्तस्याद्य विनेयतामुपगता धन्याः किलान्यादृशाः ।। १७ ।।




त्वाद्रहनतराम्बुनिधिस्तस्येत्यर्थः ] [पारं संसारघोरजलवेरद्वैतब्रह्मपमोक्षलक्षणं परतीर
मित्यर्थः । रूपकादिरलंकारः ] ॥ १५ ॥
 एवं प्रथमविनेयवृत्तान्तं विस्तरेणाभिवायेतरेषां संक्षेपेण तमाह । येऽप्यन्थे चित्पु
खानन्दगिर्यादयो देवतांशा अमुं श्रीशंकरं सेवितुं याताम्तेऽपि सनन्दनवत्यायो विर
क्तास्तास्मिन्नविमुक्तक्षेत्र एव वटमूलस्थमहादेवशिष्या अपि लोकरीत्याऽपि स्पष्टं शंक
राचार्यशिष्या इति प्रसिद्धिं पासुमस्य शिष्यत्वमापुः । ‘शालिन्युक्ता म्तौ तर्गौ गोऽ
ब्धिलोकैः’ ॥ १६ । [अस्य श्रीमच्छंकराचार्यस्य । शिप्यत्वं शिष्यपरंपराद्वाँरव न
तु साक्षात् । अन्यथाऽन्यपदेन डिण्डिमकृद्वद्याख्यातचित्सुखानन्दगियर्यन्थालंकारे
पूज्यपादज्ञानोत्तमशिप्यचित्सुखेत्यादेः शुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानेत्या
देश्ध लेखस्य विरुद्धत्वापत्तेः ] ॥ १६ ॥
 एतदेव स्फुटयति । व्याख्येति । मैौनमेव व्याख्या शिष्याश्च शुकवामदेवादयो
विश्धस्य पवित्रं च तचित्रं च तचरितं येषां तेऽनुत्तरा उत्तररहिता यतः परिदलन्तो
विनाशं गच्छन्तः शङ्काकलङ्कानामङ्करा येभ्यस्ते ।

'चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्छिन्नसंशया'


 इत्युक्तत्वात्त एव यस्य शिवस्य शिष्यास्तस्यैतस्य श्रीशंकरस्य विनीतलोकप
ङ्गिमुद्धर्तुमस्मिन्मत्र्यलोके प्राप्तस्येदानीं शिष्यतां प्राप्ता धन्याः किल यतोऽन्यादृशाः
सर्वतो विलक्षणाः । शार्दूलविक्रीडितं वृत्तम् ॥ १७ ॥ [ ते 'शुको मुक्तो वामदेवो
मुक्तः' इति श्रुतिप्रसिद्धा वामदेवाद्यः सन्तीति शेषः ] [ विभावनालंकारः । तदुक्तम् ।

'विभावना विनाऽपि स्यात्कारणात्कार्यजन्मचेत् ।
अप्यूलाक्षारसासित्तं रक्तं त्वचरणद्वयम्’ इतेि ] ॥ १७ ॥


शेषः साधुभिरेव तोषयति नृञ्शब्दैः पुमर्थार्थिनो
वाल्मीकिः कविराज एष वितथैरथैर्मुहुः कालपतः ।
व्याचष्ट किल दीर्घसूत्रसरणिवचं चिरादर्थदां
व्यासः शंकरदेशिकस्तु कुरुते सद्यः कृतार्थानहां ॥ १८ ॥
चक्रितुल्यमहिमानमुपासां
चक्रिरे तमविमुक्तनिवासाः ।
वक्रसृत्यनुस्मृतामपि साध्वीं
चकुरात्मधिषणां तदुपास्त्या ॥ १९ ॥




 शेषादिभ्यस्तस्याऽऽविक्यं वर्णयति । शेषो नागः साधुभिः शब्दैरेव पुरुषार्थार्थिनो
नरांस्तोपयति नतु पुमर्थपदानेन सद्यः कृतार्थान्कुरुते तथैष कविराजो वाल्मी
किरपि वितथैरयथार्थर्मुहुः कल्पितैरथेरेव नूस्तोषयति तथा दीघ सूत्राणां सरणिर्यस्य
स व्यासोऽपि चिरादतिविलम्बेनार्थे पुमर्थे च ददातीत तां वाचं व्याचष्टे शंकरश्चासौ
देशिकस्त्वहो नृन्सद्यः कृतार्थान्करुते ॥ १८ ॥ [ नृन्पुमर्थार्थिनः पुरुषार्थच्छून्म
नुष्यानित्यर्थः । महाभाप्यद्वारेत्यार्थिकम् । वितथैरयथार्थः । तत्र हेतुः । मुहुः
कल्पितैरुत्प्रेक्षादिलक्षणैस्तर्कितैरित्यर्थः। दीधेति । दीर्धा चतुरध्यायात्मकत्वाडुरवगाहा
कत्वाच विस्तृता सूत्रसरणिः सूत्ररचना यस्य स तथेत्यर्थः । एतादृशा शब्दार्थमात्र
चमत्कर्तृशेषादिविलक्षणोऽपि । व्यासः । चिरान्मननादिपहकृतश्रवणानन्तरमेव ।
अर्थदां ब्रह्मात्मैक्यपुमर्थदात्रीम् । वाचमुपनिषद्वाणीं यद्यपि व्याचष्टे । तथाऽपि । शंक
रदेशिकस्तु श्रीशंकराचार्याख्यसदुरुस्तु । अहो इत्याश्चयं । पुमयर्थिनां नृन्सद्यः
स्मरणमात्रेणैव । कृतार्थान्कुरुत इत्यन्वयः । तस्माछोकोत्तरत्वात्स एव सेव्य इत्या
शायः ] ।। १८ ।।
 विष्णुतुल्यमहिमानं तं श्रीशंकरमविमुक्ते शिवेन कदाऽप्यनिर्मुक्त वासो येषां ते
सेवां चक्रुः । तदुपासनायाः फलं च लेभुरित्याह । वक्रमार्गमनुसृतामपि स्वायां बुद्धिं
तस्योपासनया साध्वीं कृतवन्तः । स्वागता वृत्तम् ॥ १९ ॥ [ आंविमुक्तेति ।
विज्वर इत्यादौ वीत्युपसर्गस्य नाशार्थकत्वस्यापि दर्शनाद्विगतेव जीवस्य वस्तुतोऽद्वै
तब्रह्मत्वेन नित्यमुक्तत्वेऽप्यनाद्यविद्यावृतस्वरुपत्वान्निरस्तेव मुक्तिर्येषां प्रशस्ता बुद्धि
रस्येति बुद्ध इत्याiदेवदशे आद्यच । तादृशा मरणोत्तरं न भवन्ति यत्र तदविमुक्त
तत्र निवासो येषां ते तथा काशीस्था लोका इत्यर्थ । लुप्तोपमालंकारः ] ॥ १४ ॥


चण्डभानुरिव भानुमण्डलै
पारिजात इव पुष्पजाततः ।।
वृत्रशत्रुरिव नेत्रवारिजै
श्छत्रपङ्गिभिरलं ललास म: ।। २० ।।
एकदा खलु वियत्रिपुरद्वि
ड्भाललोचनहुताशनभानोः ।।
वस्फुलिङ्गपदवीं दधतीषु
प्रज्वलत्तपनकान्तशिलामु ॥ २१ ॥
दर्शयत्युरुमरीचिसरस्व
त्परस्सृज्यपरमायिनि भानौ ॥
द्रांश्मजालकशिाखावलपिच्छम् ॥ २२ ॥




 भानुमण्डलैः किरणमण्डलैर्यथा चण्डभानुः सूर्यः शोभते यथा च पुष्पैनिचयै:
पारिजातो यथाच नेत्रवारिजैः सहस्रसंख्याकनेत्रकमलैर्तृत्रशत्रुरिन्द्रस्तद्वच्छिप्यपङ्गिभि
श्रीशंकरोऽलमत्यर्थे ललास बभासे रथोद्धता वृत्तम् ॥ २० ॥ [पुष्पेति । * जातं
व्यक्तौघजन्मसु’ इति मेदिन्याः पुप्पसंघनेत्यर्थः । उपमालंकारः ] | २० ।।
 अथेदानीं शिवसंगमं वर्णयितुं प्रस्तौति । एकस्मिन्काले पज्वलत्सूर्यकान्तशिलासु
वियत्रिपुरद्विषो महादेवस्य भालनेत्रभूतो यो हुताशनो वह्निस्तस्य भानोः किरणस्य
विस्फुलिङ्गपदवीं दधतीषु सत्स्वित्यादिसप्तम्यन्तानां शंकरो जाह्नवीमाभिययावितिव्यव
हितेनान्वयः । स्वागता वृत्तम् ॥ २१ ॥ [ वियदिति । वियदेवाऽऽकाश एव

'पृथिवी सलिलं तेजो वायुराकाशमेव च ।
सूर्यचन्द्रमसै सोमयाजी चेत्यष्टमूर्तयः'


 इति तस्य तदष्टमृत्र्थन्तर्गतत्वात्रिपुरद्विट्रशिवस्तस्य भाललोचनहुताशनो भालने
त्राभियं भानुः सूर्यस्तस्येत्यर्थः । रूपकमलंकार: ] ॥ २१ ॥
 उरुभिर्मरीचिभिः सरस्वत्पूरस्य समुद्रपूरस्य सृजि स्रष्टरि पुनश्च समीचीनानेकमणिर्भि
कुट्टिमो निबदृभूमिः। ‘कुटिमोऽस्त्री निबद्धा भूः' इति हलायुधः। तस्मिन्मूर्छता व्यासेन
रश्मिजालकेन शिखावलस्य मयूरस्य पिच्छं दर्शयति भानावपरमाथिन्यपरस्मिन्ने
न्द्रजालिके सति ॥ २२ ॥ [ उरुमरीचीति । एता दृश्यत एव। अपरेति । लौकिकै
न्द्रजालीकविलक्षणैन्द्रजालिक इत्यर्थः । पिच्छं बर्हम् । रूपकमलंकारः ] ॥ २२ ॥



पङ्कजावलिविलीनमराले
पुष्करान्तरभिगत्वरमीने ॥
शाखिकोटरशयालुशकुन्ते
शलकन्दरशरण्यमयूरे ॥ २३ ॥
शंकरो दिवसमध्यमभागे
पङ्कजोत्पलपरागकषायाम् ॥
जाह्नवीमभिययौ सह शिष्यै
राह्निकं विधिवदेष विधित्सुः ॥ २४
सोऽन्त्यजं पथि निरीक्ष्य चतुर्भि
भीषणे: म्चभिरनुदुतमारात् ॥
गच्छ दूरमिति तं निजगाद
प्रत्युवाच च स शंकरमेनम् ॥ २५ ॥




 पङ्कजावालिषु विलीनेषु मरालेषु हंसेषु सत्सु पुष्करान्तर्जलमध्यमभिगत्वरेऽभिगत
वति मीने मत्स्ये सति शाखिनां वक्षाणां छिद्रेष शायालष सम्यङनिद्रां कुर्वत्सु पक्षिषु
सत्सु पर्वतानां कैदरा शरण्था यस्य तथाभूते मयूरे सति' । दिवसमध्यमभागस्य
वैतानि विशेषणानि ॥ २३ ॥ [पङ्कजेति । पङ्कजावलं पद्मपङ्गं विलीनाः संनिविष्टा
मराला हंसा यस्मिन्स तथेत्यर्थः । एतादृशे । तथा । पुष्करेति । पुष्करस्य *पुष्करं
सर्वतोमुखम्' इत्यमराजलस्यान्तोऽभ्यन्तरप्रदेशे गत्वरा गमनशीला मत्स्या यस्मिन्स
तथेत्यर्थः । एतादृशे । तथा । शाखेति । शाखिनां वृक्षाणां यानि कोटराणि तत्र
शायालवः शयनशीलाः शकुन्ताः पक्षिणो यस्मिन्स तथेत्यर्थः । एतादृशे । तथा ।
शैलेति । शैलस्य पर्वतस्य यः कन्दरः ‘दरी तु कन्दरो वा स्त्री' इत्यमराद्दरीविशेषः
शरण्यो रक्षको यस्यैतादृशो मयूरो यस्मिन्स तथेत्यर्थः ] ॥ २३ ॥
 दिनस्य मध्यमभागे विधिवदान्हिकं विधातुमिच्छुः शिष्यैः सह शंकरः पङ्कजोत्प
लानां परागेण कषायवर्णा जान्हवीमभिययौ ॥ २४ ॥ [ शंकर इति । एतादृशे
दिवसमध्यमभागे मध्याह्न इत्यर्थः । एष पूर्वप्रकृत: शंकरः श्रीशंकराचार्यः] ॥ २४ ॥
 स श्रीशंकरश्चतुर्भिषणैः धभिरनुवृत्तमन्त्यजं चाण्डालं मार्गमध्ये सभीपे निरीक्ष्य
दूरं गच्छति तमन्त्यज स्पष्टमुक्तवान्स चान्त्यज एनं शंकरं प्रत्युवाच ॥ २५ ॥



अद्वितीयमनवद्यमसङ्ग
सत्यबोधमुखरुपमस्खण्डम् ॥
आमनन्ति शतशो निगमान्ता
स्तत्र भेदकलना तव चित्रम् ॥ २६ ॥
दण्डमण्डितकरा धृतकुण्डा
पाटलाभवसनाः पटुवाचः ॥
ज्ञानगन्धरहिता गृहसंस्था
न्वश्वयन्ति किल केचन वेपैः ॥ २७ ॥
गच्छ दूरमिति देहमुताहो
देहिनं परिजिहीर्षसि विद्वन् ।
भिद्यतेऽन्नमयतोऽन्नमयं किं
साक्षिणश्च पतिपुङ्गव साक्षी ॥ २८ ॥




 यदुवाच तदाह । अद्वितीयमिति । तत्र दूरं गच्छेत्युक्तिरसंगता भेदाभावादि
त्याशयेनाऽऽह । 'एकमेवाद्वितीयम्’ ‘एष आत्माऽपहतपाप्मा' *निरवद्य निरञ्जनम्'।
असङ्गा ह्यय पुरुषः' 'सत्य ज्ञानमनन्त ब्रह्म ' 'विज्ञानमानन्दम्’ इत्यादिशतशो वेदान्ता
अद्वितीयादिरुपमात्मानमामनन्ति तस्मिन्नात्मनि तव वेदान्तित्वेन प्रसिद्धस्य भेदकल्प
नाऽस्तीत्यहो अत्याश्चर्यमित्यर्थः ।॥ २६ ॥ [ अद्वितीयं विविधपरिच्छेदशून्यम् ।
अनवद्य निदषम् । तथाऽसङ्गम् । दृश्यसङ्गशून्यम् । सत्येत्यादि । सचिदानन्दस्व
रुरूपमित्यर्थः । तथाऽऽखण्डं भेदविहीनम् । एतादृशं ब्रह्म । आमनन्ति पठन्ती
त्यर्थः ] ॥ २६ ॥
 तथाच भेदकलनावांस्त्वमप्येवंविधयतिपङ्गौ निविष्टोऽसीति द्योतयन्नाह । दण्डेन
मण्डिता अलंकृता इस्ता येषां ते धृतकमण्डलवः पाटलाऽऽभा येषां तथा भूतानि
वस्त्राणि येषां पट्टयो वाचो येषां ते ज्ञानलेशेनापि विरहिताः किल केचन यतिवेपैगै
हसंस्थान्वंश्चयान्ति ॥ २७ ॥ [ केचनेत्युक्तया यद्यपि भवान्न तथा परंतु निरुक्तभेद
भावनमहिन्ना तथेव भासीति सूच्यते ॥ २७ ] ।।
 गच्छ दूरमिति शरीरं परित्यक्तुमिच्छस्युताऽऽत्मानाभितेि विकल्प्य दृषयति । गच्छ
दूरमिति । विदुषस्तव नैतदुचितमिति ध्वनयन्संबोधयति । हे विद्वन्निति । तत्राऽऽद्य
प्रत्याह । अन्नमयादन्नमयं किं भिद्यते नैव भिद्यत इत्यर्थः । द्वितीयं प्रत्याह ।
साक्षिणश्च साक्षी नहि भिद्यते त्वमेतज्ज्ञातुं योग्योऽसीत्याशयेनाऽऽह । हे यतिपुं
गवेति ॥ २८ ॥


ब्राह्मणश्वपचभेदविचारः
प्रत्यगात्मनि कथं तव युक्तः ॥
बिम्बितेऽम्बरमणौ सुरनद्या
मन्तरं किमपि नास्ति सुरायाम् ॥ २९ ॥
शुचिद्विजोऽहं श्वपच व्रजेति
मिथ्याग्रहस्ते मुनिवर्य कोऽयम्




 प्रत्यगात्मनि भेदं दृष्टान्तेनापि निराचष्टे । ब्राह्मणश्वपचभेदविचारो देहेन्द्रिया
दिभ्योऽनेकेभ्यो जडेभ्यश्च प्रातिलोम्यैनाश्चतीति मत्यक्म चासावात्मा च तस्मिस्त
वाद्वैतवादिनः कथं युक्तो न कथमपीत्यर्थः । यथा गङ्गायां मदिरायां च प्रतिबिम्बि
तेऽम्बरमणै। सृर्थेऽन्तरं किमपि नास्ति तद्वदित्यर्थः ।। २९ । [ नन्वहं ब्राह्मणस्त्वं
तु चाण्डाल इति प्रत्यक्षसिद्ध एव भेदः कथं युक्तिमात्रेणापन्हृयत इत्यत्राऽऽह ।
ब्राह्मणेति । देहभेद भङ्गस्य तु प्रागेव ध्वनितत्वादित्यभिसंवायाऽऽह । प्रत्यगिति ।
तर्हि कथं ‘चैत्रोऽभिहोत्रेण स्वर्गमान्नोति मैत्रो ज्ञानेन मोक्षम्' इत्यादिव्यवहार
व्यवस्थेत्याशङ्कय प्रतिबिम्बवादेन समाधत्ते । बिम्बित इत्याद्युत्तरार्धन ] ॥ २९ ॥
 नन्वात्मनो भेदशून्यत्वेऽप्यतिपवित्रस्य ब्राह्मणशरीरस्यातिपापिष्ठस्यान्त्यजशारी।
रस्य च कथमभेद इति चेत्तत्राऽऽह । शुचिद्विजोऽहं हे 'धपच त्वं दृरं गच्छेति
शारीरेष्वनेकेष्वप्येकमशरीरं कालत्रये शरीरसंबन्धविानेिर्गुक्तमत एव पुराणं पुराऽप्य
भिनवं पूर्णे सदैकग्सं पुश्रूपं पन्तमुपेक्ष्यायं मिथ्याभूत आग्रहस्तव को नाथं तवंवितो
यतो मुनिश्रेष्ठस्त्वमित्याशयवानाह । हे मुनिवर्येति । उपजातिवृत्तम् ॥ ३० ॥
[ शरीरेषु सन्तं मत्वेनानुस्यूतम् । अथाप्यशरीरम् । यत: । एकमद्वितीयम् । एता
दृशं पृर्ण व्याप्तम् ] ॥ ३० ॥
 स्वस्वरुपं विस्मृत्य क्षणभङ्गरे देहेऽहंताऽतीवानुचितेति बोधयन्नाह । अचिन्त्य
मतः केनापि करणेन न व्यज्यत इत्यव्यक्तमत एवानन्तमत एवाऽऽद्य यत उपावि



विद्यामवाप्यापि विमुक्तिपद्यां
जागर्ति तुच्छा जनसंग्रहेच्छा ॥
अहो महान्तोऽपि महेन्द्रजाले
मज्जन्ति मायाविवरस्य तस्य ॥ ३२ ॥
इत्युदीर्य वचनं विरतेऽस्मि
सत्यवाक्तदनु विप्रतिपन्नः ।
अत्युदारचरितोऽन्त्यजमेनं
प्रत्युवाच स च विस्मितचेताः ॥ ३३ ॥
सत्यमेव भवता यदिदानीं
प्रन्यवादि तनुभृत्प्रवरैतत् ॥
अन्त्यजोऽयमिति संप्रति बुद्धिं
संत्यजामि वचसाऽऽत्मविदस्ते ॥ ३४ ॥




भलशून्यं स्वस्वरूपं मोहादविवकाद्विस्मृत्य गजकर्णवचश्चलाकारेऽस्मिन्ननुभूयमाने कले
वरऽहंभाव: कथमविराम्ते प्रकटी भनि विवेकिनां केनापि प्रकारणौम्याविऽऽर्भावो
न युक्त इत्यर्थः ।। ३१ ॥ [अचिन्त्यमिति । चिन्तनानर्हम् । तत्र हेतुः । अव्यक्त
केनापि करणेन व्यञ्जनानर्हम् । तत्र हेतुः । अनन्तम् । तत्र हेतुः । आद्यम् ।
सर्वाधिष्ठानत्वादित्यर्थः । एतादृशाम् । अत एव । विमलं दृश्यमलशून्यमिति यावत् ।
एतादृशां रूपं यस्वरूपं विमोहं द्वि'य शुकनलिकान्यायेनाननुसंवाय ] ३१ ॥
 ननु यद्यप्येवं तथाऽपि लोकम्पंग्रहेच्छयेदं मयोक्तमिति चेत्तत्राऽऽह । विमुक्ति
पद्यां विमुक्तिमार्गभूतां विद्यां प्राप्यापि तुच्छा जनसंग्रहेच्छा किं जागर्ति । अहो
अत्याश्चर्यम् । मायाविनां वरम्य श्रेष्ठस्य तस्य परमात्मनो महतन्द्रजाले भवदादयो
महान्तोऽपि मज्जन्तीत्यर्थः ।। ३२ ।।
 एवमन्त्यजवचनमुदाहृत्य शंकरवाक्यमुदाहर्तुमाह । इति वचनमुक्त्वाऽस्मिन्न
न्त्यजे विररामं गते सति ततः पश्चाद्विप्रतिपन्नोऽयमन्त्यजो भवति न भवतीति विप
तिपन्नः सत्यवचनोऽत्युदारचरितो विस्मितचित्तः स च श्रीशंकर एनमन्त्यजं प्रत्यु
वाच । स्वागता वृत्तम् ।। ३३ । [ सत्येति । तत्रापि । अतीति । तथाऽपि ।
विस्मितेति । एतादृशः । स च श्रीमदाचायोऽपि ] [ सन्यवाक्पदेनोक्तसंदेहवशा
द्वक्ष्यमाणपत्युत्तरे संभ्रमान्मिथ्यावादो व्युदस्यते । अतीति । धीरत्वं ध्वन्यते ] ॥ ३३ ॥
 यदुवाच तदाह । सत्यमिति । न त्वमन्त्यजः किंतु देहभृत्प्रवर इति सूचनाय
सबावनम् ।। ३४ । [ एवं-



जानते श्रुतिशिरांस्यपि सर्व
मन्वते च विजितेन्द्रियवगः ॥
युञ्जते हृदयमात्मनि नित्यं
कुर्वते न धिषणामपभेदाम् ॥ ३५ ॥
कदाचिच्छकराचार्यः काशीं प्रति परी ययौ'




'कदाचिच्चंकराचार्यः काशीं प्रति पुरीं ययॉ'


 इत्यादिमनीषापश्वकप्रसङ्गसंगतिसूचकमसिद्भाभियुक्तोक्ततदुक्तमिलित लेकपञ्चकम
थेतः प्रपश्याथ किमुवाचेत्याकाड़क्षितं पूरयितुं

'जाग्रत्स्वप्रमुषुप्तिषु स्फुटतरा या संविदुज्नृम्भते ।


इत्याद्याचायॉक्तमनीषापश्चकमप्यर्थतः संक्षिपति । सत्यमेवेत्यादि पश्चभि:][भवता
यदिदानीं प्रत्यवाद्युक्तमेतत्सत्यमेवेति संबन्धः । तत्र हेतुं वदंस्तत्फलमाह । अन्त्यन
इत्याद्युत्तरार्धेन । आत्मविद इति हेतुगर्भ विशेषणम् । एता दृशस्ते वचसाऽयमन्त्यज
इति बुद्धि संप्रति संत्यजामीति योजना ] ।। ३४ ।।
 भेदशून्यबुद्धेरतिदुर्लभत्वान्न कोऽप्युपालम्भनीय इत्याशयेनाऽऽह । सर्वेऽनेके
श्रुतिशिरांसि श्रवणेन जानन्ति तथाऽनेके विजितेन्द्रियवर्गास्तानि मन्वते च मननं
कुर्वन्ति तथाऽन्त:करणमात्मनि नित्यं युञ्जते निदिध्यासनं कुर्वन्ति तथाऽपि प्रति
बन्धकसद्भावाद्वेदशून्यां बुद्धि केऽपि न कुर्वन्तीत्यर्थः ।। ३५ । [ अयं भावः ।
पूर्वपद्ये सत्यमेवेत्यात्मविदस्त इति च पदैर्निरुक्ताद्वैतप्रतिपादनानुपपत्या त्वमप्यात्म
विदेवासीति तु निर्विवादमेव तथाच यद्यपि विद्वद्विविदिषुसाधारणैकदण्ड्यादिपारम
हंस्यरुपसंन्यासलिङ्गमात्रेणास्माकमद्वैतात्मवित्वनिर्णयाभावेऽपि वर्णाश्रमधर्मपरिपाल
नार्थे चाण्डालरूपधरं त्वां दृष्टा दूरं गच्छेत्युक्तिमात्रमाकार्यं भवता किमियमāते
ब्रह्माणि भेदबुद्धिरित्याद्याक्षेपः कृतः स त्वर्धमङ्गीकृत एव तथाऽपि निरु करीत्या निर्णी
तात्मानुभवस्य तव परमस्मद्वाक्यश्रवणोत्तरमुक्ताक्षेपादिप्रयोजिका भेदबुद्धिस्त्वद्वच
सैव सुतरामनुचितेत्यभिसंवायात्र सर्वपदं पयुक्तम् । तस्माद्यत्रोभयोः समो दोषः परि
हारोऽपि वा भवेत् ।

'नैकः पर्यनुयोक्तव्यस्तादृगर्थे विपश्चिता'


 इति न्यायाद्यवहारे भेदबुद्धिविरहस्यासंभवे विद्वदविद्वत्साधारण्येनैव सर्वेषामपि
सिद्धे स्ववर्णाश्रमधर्ममात्रं लोकसंग्रहाथै परिपालयति मय्येवोक्ताक्षेपः परमेश्धरत्वादेब
शोभतेतरामिति ] ॥ ३५ ॥


भाति यस्य तु जगदृढबुद्धे
सर्वमप्यनिशमात्मतयैव ॥
स द्विजोऽस्तु भवतु श्वपचो वा
वन्दनीय इति मे दृढनिष्ठा ॥ ३६ ॥
या चितिः स्फुरति विष्णुमुग्वे सा
पुत्तिकावधिषु सैव सदाऽहम् ।।
नैव दृश्यमिति यस्य मनीषा
पुल्कसी भवतु वा स गुरुर्मे ॥ ३७ ॥
यत्र यत्र च भवादह बाध
बोधमात्रमवशिष्टमहं त
द्यस्य धीरिति गुरुः स नरो मे ॥ ३८ ॥




 ननु तिष्ठत्वन्येषां वार्ता तव बुद्धिरपभेदाऽस्ति न वेत्याशङ्कयाहमपभेदबुद्धिरित्यु
तरमनुवितं मन्यमानः 'नमो वयं ब्रह्मिष्ठाय कुर्मः' इति याज्ञवल्क्योक्तिमनुसृत्य व्याजेन
समाधत्त । यस्य तु दृढबुद्धेः सर्वमपि जगत्सदैवाऽऽत्माव्यतिरिक्तं भाति स ब्राह्म
गोऽस्तु श्वपचेो वा भवतु वन्दनीय इति मम दृढा निष्ठा ॥ ३६ ॥ [ दामत्रासं
भावनादिसंस्काराभावः ] ॥ ३६ ॥
 न केवलं वन्दनीय एवाकंत्वेवंविधः सम्यग्ज्ञानवान्साक्षान्मम गुरुरेवेत्याह ।
विष्णुशिवादी या चितिश्चेतनं स्फुरति सैव पुत्तिका पतङ्गिका तदवधिषु जन्तुषु
स्फुरति सैव कालत्रयेऽप्यहं दृश्यं तु नैवास्तीति यस्य मनीषा स चाण्डालो वा
भवतु तथाऽपि मम गुरुः ॥ ३७ ॥ [ विष्णुमुखे विष्णुशिवादीश्धरलिलाविग्रहे या
चितिज्ञप्तिः स्फुरति भासते सैव पुत्तिकावधिषु ‘पताङ्गका पुतिका स्यात्'इत्यमरात्पत
ङ्गिकाख्यातिसूक्ष्मजन्त्वन्तेषु सर्वेष्वपि जीवेष्वधिष्ठानत्वेनास्तीत्यर्थः । तथाऽहमपि
सदा सैवास्मि । प्रतीयमाननामरूपाद्यात्मकं दृठ्यं तु 'नेह नानाऽस्ति किंचन'इत्यादि
श्रुत्यादिबाधितत्वात्कालत्रयेऽपि नैवास्तीति यस्य मनीषा बुद्धिरस्ति स तु पुल्कस
श्चाण्डालोऽपि वा भवतु तथाऽपि मे मम तु गुरुरेव ग्राह्यगुण एव कुररादिवदित्य
न्वयः ] || ३७ ॥
 किं बहुना तत्त्ववित्सर्वोऽपि मम गुरुरित्याह । अस्मिॐोके तत्तद्विषयानुभवकाले
यत्र यत्र विषये ज्ञानं भवेत्तत्सर्वं मिथ्याभूतं सर्वोपाधिबाधेनावशिष्टं ज्ञानमात्रमहभेव
न मत्तः किमपि व्यतिरिक्तमस्तीति यस्य बुद्धिः स यः कश्चिदपि नरो मम गुरुः ।
एतन गच्छ दूरमिति मया देहजिहीर्षया नोतं नाप्यात्मजिहीर्षयाऽपि तूभयतादा


भाषमाण इति तेन कलावा
नेष नैक्षत तमन्त्यजमग्रे ।
धूर्जटिं तु समुदैक्षत मौलि
स्फूर्जदैन्दवकलं सह वेदैः ॥ ३९ ॥
भयेन भक्तया विनयेन धृत्या
युक्तः स हर्षेण च विस्मयेन ॥
तुष्टाव शिष्टानुमतः स्तवैस्तं
दृष्टा दृशोगोचरमष्टमूर्तिम् ॥ ४० ॥




त्म्याध्यासवजिहीर्षया स च तव नास्ति चेत्तर्हि त्वमपि मम गुरुरेवेत्याक्षेपोऽपि परि
हृतो वेदितव्यः ।॥ ३८ ॥ [ यत्र यत्रेति ।

'तमेव भान्तमनुभाति सर्वे तस्य मासा सर्वमिदं विभाति'


 इति श्रुतेः सकलमप्याकाशादिद्वैतजालमधिष्ठानीभूतसदूपभानपूर्वकमेव भातीति
ज्ञानिनः प्रारब्धपरिसमाप्त्यन्तं तत्तदर्थस्य घटादेः सम्यगधिष्ठानाद्विवेचनपूर्वकं
यदवेक्षणं शोधनं तस्य यः कालः क्षणस्तत्र यद्वोधमात्रमवशिष्टं बाधावधिभूतंभवाति
तञ्चाहमस्मीति धीः पमा यस्य स नरो जीवो मे गुरस्तीति योजना ] ॥ ३८ ॥
 एवं निव्र्यलकिं भाषमाणस्त्यक्तान्त्यजविग्रहं प्रकटितस्वस्वरूपं महादेवं ददशेत्याह ।
इत्येवंप्रकारेण तेन सह भाषमाण एष श्रीशंकरस्तमन्त्यजमग्रे न ददर्श किंतु मौलौ
शिरसि स्फुरन्ती चन्द्रकला यस्य तं चतुर्भिर्वेदैः सहितं धूर्जटिं महादेवं संदृष्टवान् ।
ननु श्रीशंकरादन्यस्य शिवस्याभावात्कथमेवमुच्यत इति चेत्तत्राऽऽह । कलावाञ्ज्ञा
नकलावतारस्य शंकरस्यावतारिपुरुषेण सह व्यासस्य विष्णुनेव संवादादिकं संभवत्ये
वेति भावः ॥ ३९ । [ अवतारीभूतस्यास्यावतारिणा राह वम्तुतो भेदाभावेऽप्यवच्छे
दकोपाधिभेदाद्विम्बस्य प्रतिबिम्बानिरीक्षणादिवत्प्रतिबिम्बस्य बिम्बायत्तचेष्टादिवच
विष्ण्वादिना सह व्यासादेरिव संवादादिकं समुचितमेवेति भावः ] ॥ ३९ ॥
 दृष्टा यथाभूतो यत्कृतवांस्तदाह । तं दृष्टा भयेन भक्त्या विनयेन धैर्येण हर्षेण
विस्मयेन च युक्तः शिष्टानुमतः श्रीशंकरो नेत्रयोर्विषयमष्टौ भूम्याद्या मूर्तयो यस्य तं
महादेवं स्तवैस्तुष्टाव । उपजातवत्तम् ।। ४० । [ भयेनेत्यादि । निरुक्ततिरस्कारा
दद्वैतबोधस्वभावान्मनुष्यशरीरौचित्याद्विचारपरिपाकात्सुपसन्नेोक्तव्यतिविलोकनादाक
स्मिकश्धचतुष्टयविशिष्टश्धपचव्यक्तिविलोपनपूर्वकोक्तव्यक्तिसाक्षात्काराच यथासस्य
संजातभयभक्तिविनयधृतिहर्षविस्मयैर्युक्तः सन्नित्यर्थः । दृष्टा दृशोगोंचरमिति पाठस्तु
डिण्डिमादृतोऽपि पौनरुक्त्यापादकत्वादुपेक्ष्य एव । किंतु दृशोगाँचरं तं प्रागुक्त


[ सर्गः ६ ]

धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । दासस्तेऽहं देहदृष्टयाऽस्मि शंभो जातस्तेंऽशो जीवदृष्टया त्रिदृष्ट ॥ सर्वस्याऽऽत्मन्नात्मदृष्टया त्वमेवे त्येवं मे धीनिश्चिता सर्वशात्रैः ॥ ४१ ॥ यदालोकादन्तर्बहिरपि च लोको वितिमिरो न मधूषा यस्य त्रिजगति न शाणो न च स्वनिः । पतन्ते चैकान्तं रहसि यतयो यत्प्रणयिनो नमस्तस्मै स्वस्मै निखिलनिगमोत्तंसमणये ॥ ४२ ॥ २३१ व्यक्तिकमष्टमूर्ति श्रीशिवम् । शिष्ठति । शिष्टादीनां वसिष्ठादीनां वेदार्थधुरंधरीभूता नामनुमताः संमता ये स्तवास्तैद्वरीभूतैरित्यर्थः । “दृष्टयाऽद्वैतात्मानुसंधानसंतत्येति यावत् । तुष्टाव संतोषयामासेत्यर्थः ] ।। ४० ॥ देहदृष्टया तव दासोऽहमस्मि यतः शं सुखं भवत्यस्मादिति शंभुस्त्वमेव स्वामि त्वगुणयुक्त इति सूचयन्नाह । शंभो इति । जीवदृष्टयाऽहं तवांशो जातः । ननु कथं निरवयवस्य ममांशास्त्वमिति चेद्यथा सर्वेन्द्रियशून्यस्यापि तव सूर्यचन्द्रवह्निलक्ष णत्रिनेत्रविग्रहवत्वं तथा मायया तवांशस्यापि संभवादित्याशयेन संबोधयति । त्रिदृष्ट इति । शुद्धात्मदृष्टया तु त्वमेव त्वदनन्य एवाहम् । तत्त्वमस्यादिश्रुतेः तत्र योग्यं संबोधनं सर्वस्याऽऽत्मन्नितीत्येवंप्रकारेण सर्वशात्रैर्मे बुद्धिर्निश्चयं प्राप्ता । शालिनी वृत्तम् ॥ ४१ ॥ [ उक्तं हि । देहबुद्धया तु दासोऽहं जीविबुद्धया त्वदंशकः । चितिबुद्धया त्वमेवाहमिति मे निश्चिता मतिः' इति ] ॥ ४१ ॥ प्रसिद्धशिरोभूषणमाणतो व्यतिरेकं दर्शयन्वाभित्रं शिवं नमस्करोति । यदिति । मसिद्धस्य तादृशमणेरालोकाद्वहिरेव लोको वितिभिरो मञ्षा पेटा शाणो निकष खनिश्च यतिभिरमार्थना प्रसिद्धस्य मणेः प्रसिद्धा । अत एतस्मादत्युत्कृष्टाय तस्मै तत्पदलक्ष्याय निखिलनिगमशिरोभूषणमणये स्वस्मै त्वंपदलक्ष्याभिन्नाय नमः प्रीभा वोऽस्तु यस्य प्रकाशादन्तर्बहिरपि च लोको वितिमिरः। ‘यस्य भासा सर्वमिदं विभाति' इति श्रुतेः । त्रिजगति यस्य मञ्जषा नास्ति नापि शाणो नापि खनिर्यत्प्रणथिनो यस्मिन्मीतिमन्तश्च यतयो रहस्येकान्ते भृशं यतन्ते तस्मा इत्यर्थः । शिखरिणी वृत्तम्

  • एतेन मृले दृष्टत्येतस्य स्थाने दृष्टथेति पदं योज्यमिति ज्ञायते ।

१ ग. पेटिक.ा । २३२. श्रीमच्छकरदिग्विजयः । [ सर्गः ६] अहो शात्रं शास्रात्किमिह यदि न श्रीगुरुकृपा चिता सा किं कुर्यान्ननु यदि न बोधस्य विभवः ॥ किमालम्बश्वासौ न यदि परतत्त्वं मम तथा नमः स्वस्मै तस्मै पदवधिरिहाऽऽश्वर्यधिषणा ॥ ४३ ॥ ॥ ४२ ॥ [ यदालोकादिति । यस्य वक्ष्यमाणविन्मणेरालोकः प्रकाशास्तस्य भासेति श्रुतिवदत्राप्यभेदे सत्यप्यौपचारिक्येव षष्ठी ] ॥ ४२ ॥ गुरुकृपया शास्त्रालभ्यस्य तत्त्वज्ञानस्याऽऽलम्बनमखण्डैकरसं स्वतत्त्वं नमस्यति । अहो शास्त्रं परमतत्त्वबोधकत्वाद्धन्यतमं यद्यप्येवंविधं शास्त्रं तथाऽपि यदि श्रीगुरुकृ पाऽस्मिलोके शिष्ये वा न स्यात्तर्हि शास्त्राकि न किमपीत्यर्थः । चिता संचिता संपादिता सा गुरुकृपा किंकुर्याकि फलं दास्यति यदि तत्त्वज्ञानस्य विशेषेणोद्भवो नास्ति बोधा नुत्पादिका साऽपि निष्फलैवेत्यर्थः । तथाऽसौ बोधश्च किमालम्ब आलम्बनशून्य एव यदि मम परतत्त्वं न स्यात्तस्मात्तत्त्वज्ञानालम्बनभूताय परतत्वाय स्वाभिन्नाय तस्मै परमात्मने नमः । तथेत्यस्य तस्मादित्यर्थो वा । इह जगत्याश्चर्यबुद्धिर्यत्पर्थन्ता यस्मा त्पर आश्चर्यबुद्धिविषयो नास्तीत्यर्थः ॥ ४३ ॥ [ अहो इत्याश्चर्ये । तत्त्वमस्यादि शास्त्रमहो परमादुतमेवेत्यर्थः । तथाचाऽऽहुः सदाचारप्रकरणे श्रीमदाचार्थचवरणा एव । शब्दशत्रोरचिन्त्यत्वाच्छब्दादेवापरोक्षधीः । प्रसुप्तः पुरुषो यद्वच्छब्देनैवावबुध्यते इति। विस्तरस्तु ‘आश्र्चयवत्पश्यति कश्चिदेनम्' इत्यादिपधे गीतागृढार्थदीपिकाया मेवावगन्तव्यः । एवं शास्त्रस्यैव किं तहिं सवत्कटत्वम् । नेत्याह शास्त्रादित्यादिना ] [ अधीतशास्त्राणामपि नारदादीनां सनत्कुमारादिगुरुप्रसादात्प्राक्शोकोपशमादर्शनात्र किमपि फलमस्तीत्यन्वयः । तत्रापि पूर्ववदस्वरसं सूचयति । चितेत्यादिद्वितीयपादेन । सा श्रीगुरुकृपाििवता संपादिताऽपि यदि ननु निश्चितं बोधस्यापरोक्षाद्वैतात्मसा क्षात्कारस्य विभवो विशेषेणाप्रतिबद्धत्वेन भव आविर्भावो न चेत्तर्हि किं कुर्यान्न किमपि फलं जनयेदिति योजना । तथा हि । छान्दोग्येऽष्टमाध्याये प्रसिद्धमेतत् । इन्द्रविरोचनयोरुभयोरपि कश्यपपुत्रत्वेन स्वमपैोत्रयोरुपर्यात्मप्रतिपादकवाक्यश्रावण लक्षणा ब्रह्मणा गुरुणा करुणा कृतैव तथाऽपि विरोचनो देहात्मवाद्येवाभूदिति । तस्मात्साऽपि वेिनोक्तबोधेोदयं विफलैवेति भावः । तत्राप्यक्तरीतिकम स्वरसं प्राग्वद भिवते किमेित्यादितृतीयपादेन । अत्रादुतो रसः शान्तानुपाणित: । एकावल्य लंकार: ] ॥ ४३ ॥ [ सर्गः:६ ] धनपतिसूरिकृतडिण्डिमाख्यटी कासंवलितः । २३३ इत्युदारवचनैर्भगवन्तं संस्तुवन्तमथ च प्रणमन्तम् ॥ बाष्पपूर्णनयनं मुनिवर्य शंकरं सबहुमानमुवाच ॥ ४४ ॥ अस्मदादिपदवीमभजस्त्वं शोधिता तव तपोधननिष्ठा ॥ बादरायण इव त्वमाप स्या: सद्धरण्य मदनुग्रहपात्रम् ॥ ४५ ॥ संविभज्य सकलश्रुतिजालं ब्रह्मसूत्रमकरोदनुशिष्ट: ॥ पत्र काणभुजसांख्यपुरोगा ण्युद्धतानि कुमतानि समूलम् ॥ ४६ ॥ तत्र मृढमतयः कलिदोपा द्भित्रवेदवचनोद्वलितानि । भाष्यकाण्यरचयन्बहुबुद्वै र्दूष्यतामुपगतानि च कैश्चित् ॥ ४७ ॥ एवं स्तुवन्तं श्रीशंकरं प्रति श्रीमहादेवो यदुक्तवांस्तद्दर्शयितुमाह । इतीति । स्वागता वृत्तम् ॥ ४४ ॥ [ बाष्पपदेनात्र सात्त्विकभावः सृचितः ] ॥ ४४ ॥ यदुवाच तदाह । अस्मदादीति । अभज: प्राप्तवानसि हे सतां मध्ये श्रेष्ठ व्यास इव त्वमपि मदनुग्रहपात्रं स्या इत्याशीर्वादः ॥ ४५॥ [यतस्तव निष्ठा प्रज्ञापराकाष्ठा । शोधिताऽन्विष्टा । मयोक्तलीलयेति शेष आर्थिकं वा । अतस्त्वम् । अस्मदादीति । अभजः प्राप्तवानसीत्यन्वयः ] ॥ ४५ ॥ सूत्रभाष्यरचने नियोक्तुमुपक्रमते । अनुशिष्टः सम्यक्शिक्षितोऽनु पश्चाच्छिष्टा यस्मादिति वा स सर्वशिष्टाग्रणीर्वेदव्यासो वेदकदम्बं सम्यग्विभज्य ब्रह्माखण्डैकरसं सूच्यते येन तत्तथा । ‘अथातो ब्रह्मजिज्ञासा’ ‘जन्माद्यस्य यत ’ ‘शास्त्रयोनित्वातू’ 'तत्तु समन्वयात्' इत्येवमादिरूपमकरोच्छिष्टोऽनु पश्चादकरोदिति वा । यत्र बह्मसूत्रे काणादसांख्यपातञ्जलमभृतीनि कुमतानि समूलमुन्मूलितानि तत्रेतिपरेणान्वयः ॥४६॥ [ संविभज्य किल कर्मादिपरत्वेन सम्यगुपक्रमादिषोढालिङ्गानुगृहीततात्पर्यनिर्णयपूर्वकं विभागं पूर्वोत्तरकाण्डयोः कृत्वैवेत्यर्थः ] ॥ ४६ ॥ तत्र ब्रह्मसूत्रे मूढमतयः कलिदोषाद्वाभ्यां त्रिभिर्वा वेदवचनैरुद्वलितान्युपकृतानि 1 क. 'ति म'। २ क. ख. घ. 'नि म। २३४ श्रीमच्छकरदिग्विजयः । तद्रवान्विदितवेदशिस्वार्थ स्तानि दुर्मतिमतानि निरस्य ॥ सूत्रभाष्यमधुना विदधातु श्रुत्युपोद्वलितयुक्त्यभियुक्तम् ॥ ४८ ॥ एतदेव विबुधैरपि सेन्द्रे रर्चनीयमनवद्यमुदारम् ॥ तावकं कमलयोनिसभाया मप्यवाप्स्यति वरां वरिवस्याम् ॥ ४९ ॥ भास्कराभिनवगुप्तपुरोगा नीलकण्ठगुरुमण्डनमुख्यान् ॥ पण्डितानथ विजित्य जगत्यां ख्यापयाद्वयमते परतत्त्वम् ॥ ५० ॥ भाष्यकाणि कुत्सितभाष्याण्यरचयन्कृतवन्तः कैश्चिद्वहु बुद्धं ज्ञातं यैस्तैर्दूष्यतां चोप गतानि ॥ ४७ ॥ [ सर्गः ६] ततस्माद्विदितो वेदान्तानामर्थो येन तथाभूतो भवांस्तानि कुबुद्धीनां मतानि निरस्य सूत्रभाष्यं विदधातु । विधौ लोट् । भाष्यलक्षणं तु । ‘सूत्रार्थो वण्यैते यत्र वाक्यैः सूत्रानुकारिभिः । स्वपदानि च वण्र्यन्ते भाष्यं भाण्यविदो विदुः’ इति । सागरादिवर्णनस्य भाष्यत्वव्यावृत्तये सूत्रामित्युक्तं वार्तिकस्य तत्त्वनिरासाय सूत्रानुकारिभिरिति वृत्तेस्तत्वव्यावृत्त्यर्थमुक्तं स्वपदानीति । इतरभाष्येभ्य उत्कृष्टता बोधनाय विशिनष्टि । समग्रश्रुतिभिरुद्वलिताभिर्युक्तिभिरासमन्ताद्युक्तम् ॥ ४८ ॥ ननु मया क्रियमाणं भाष्यमपि केषांचिदनाद्रास्पदं स्याचेत्तर्हि किमर्थं कर्तव्य मिति चेत्तत्राऽऽह । एतदेव तावकं भाष्यमिन्द्रसहितैर्देवैरप्यर्चनीयं भविष्यत्यपिशा ब्दान्मनुष्यैरर्चनीयं भविष्यतीति किमु वक्तव्यं यतो निर्दोषमुदारं च न केवलं सेन्द्रे देवैरेवार्चनीयं भविष्यत्यपि तु चतुर्मुखसभायामपि श्रेष्ठां पूजां प्राप्स्यतीत्यर्थः ।॥४९॥ [काव्यार्थापतिरलंकारः ] ॥ ४९ ॥ किंच भास्करो भेदाभेदवाद्यभिनवगुप्तः शाक्तो नीलकण्ठो भेदवादी शैवो गुरुः प्रभाकरो मण्डनमिश्रो भाट्टमतानुयाय्येतदादीन्पण्डितानथ भाष्यकरणानन्तरं विजित्य [ सर्गः ६ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मोहसंतमसवासरनाथां स्तत्र तत्र विनिवेश्य विनेयान् ॥ मामुपैष्यसि ततः कृतकृत्यः ॥ ५१ ॥ एवमनमनुगृह्य कृपावा नागमैः सह शिवोऽन्तरधत्त । विस्मितेन मनसा सह शिष्यैः शंकरोऽपि सुरसिन्धुमयासीत् ॥ ५२ ॥ संनिवृत्य विधिमाह्निकमीशं ध्यायतो गुरुमथाखिलभाष्यम् ॥ कर्तमद्यतमभद्रणसिन्धो मनसं निस्विल लोकहिताय ॥ ५३ ॥ कर्तृत्वशक्तिमधिगम्य स विश्वनाथा त्काशीपुरान्निरगमत्वविकासभाजः । प्रीतः सरोजमुकुलादिव चश्चरीक निर्बन्धत: मुस्वमवाप यथा द्विजेन्द्रः ॥ ५४ ॥ पृथिव्यामद्वयमते परतत्वं रूयापयाद्वयबुद्ध इति संबोधनं परतत्त्वं परब्रह्मतत्त्व मिति वा ॥ ५० ॥ किंच मोहलक्षणसंतमसभानूञ्शिष्यांस्तस्मिस्तस्मिन्देशे परतत्त्वसरण्याः पालनाय संस्थाप्य तदनन्तरं कृतमवतारकृत्यं येन स मामुपैष्यपि ।। ५१ । [ मोहेति । मोहोऽज्ञानमेव संतमसं ‘विष्वक्संतमसम्’ इत्यमरादतिपसृततिमिरमित्यर्थः ] ॥ ५१ ॥ एवमेनं श्रीशंकरमनुगृह्य कृपावाञ्शिवो वेदैः सहान्तर्धानमगात् । शंकरोऽपि विस्मययुक्तेन मनसा शिष्यैः सह स्वर्णदीं गङ्गां प्रत्यगच्छत् ॥ ५२ ॥ आह्निकविधिं संनिवृत्य गुरुमीशं महादेवं ध्यायतो गुणसमुद्रस्य श्रीशंकरस्य मानसं सर्वलोकहिताय सम्यगुर्धतमुद्युक्तमभूत् ॥५३॥ [ अखिलभाष्यं सूत्रभाष्यादि षोडशभाष्यनिकुरम्बम् । निखिलेति । सर्वजनजीवन्मुक्त्याद्यर्थम् ] ॥ ५३ ॥ स विश्धनाथात्कर्तृत्वशक्ति प्राप्य प्रीतः सन्नविकासभाजः काशीपुरान्निरगमत् । चश्वरीकनिर्बन्धतो गन्धलुब्धभ्रमरनिर्बन्धनरूपात्सरोजमुकुलादिवेति पूर्णोपमा यथा पक्षिणमिन्द्रो हंसो निर्गत्य सुखमाओोति तथाऽयं ब्राह्मणेन्द्रः सुखं माप । प्रत्यवयव २३९

  • ख. 'त्वं परं यथार्थ ख्या"। २ क. ग. "नं वा । ३ ख. घ. ‘द्यमयुक्त'। २३६

श्रीमच्छंकरदिग्विजयः । अद्वैतदर्शनविदां भुवि सार्वभौमो यात्येष इत्युडुपबिम्बसितातपत्रम् । अस्ताचले वहति चारु पुरःप्रकाश व्याजेन चामरमधादिव दिक्मुकान्ता ॥ ५५ ॥ शान्तां दिशं देवनृणां विहाय नान्या दिगस्मै समरोचताद्धा । तत्रत्यतीर्थानि निषेवमाणो गन्तुं मनोऽधाद्धदरीं क्रमात्सः ।। ५६ ।। तेनान्ववर्ति महता कचिदुष्णशालि शीतं कचित्कचिदृजु कचिदप्यरालम् ॥ उत्कण्टकं कचिदकण्टकवत्कचिच्च तद्वत्र्म मूर्वजनचित्तमिवाव्यवस्थम् ॥ ५७ ॥ मुपमावाचकोपादानादनेकेवेयमुपमा । वसन्ततिलका वृत्तम् ॥ ५४ ॥[द्विजेन्द्रो हंस पक्षे ब्राह्मणश्रेष्ठश्चञ्चरीकनिर्बन्धतः सुगन्धलुब्धमधुकरनिर्बन्धनरूपात्सरोजमुकुलादिव । अविकासभाजो मरणोत्तरं जीवो द्वैतप्रपञ्चविकासं यत्र नानुभवति तादृशात्काशीपुरा न्निरगमत् ] ।। ५४ ॥ भुव्यद्वैतशास्त्रविदां सार्वभौमो यश्चक्रवत्र्येष श्रीशंकरो गच्छतीत्यतश्चन्द्रबिम्बात्मैकं श्वेतच्छत्रमस्ताचले वहति सति पुरःप्रकाशव्याजेन दिक्सुकान्ता दिग्लक्षणा शोभना कान्ता चामरं व्यधादिव पाठान्तरे मुखेन दिग्व्यधादिति व्याख्येयम् ॥ ५५ ॥ [*दिङ्मुखेनो दिशः प्राच्या मुखीभूतश्चासाविनः सूर्यश्चेति तथेोदयार्क इत्यर्थः । चारु रम्यं यथा स्यात्तथा । पुरोऽग्रे प्रकाशव्याजेनाऽऽलोकच्छलेन । चामरमधादिव चामरमेव किं कृतवानित्यन्वयः । अत्र रूपकलुप्तोपमाकैतवापहुतिपरकरोत्प्रेक्षा अलं कारा: ] ॥ ५५ ॥ देवनराणां शान्तामुत्तरां दिशं विहायान्या दिगस्मै साक्षान्न समरोचत । ‘उदीच उत्सृजत्येषा वै देवमनुष्याणा शान्ता दिक्’ इति श्रुतेः । तस्मात्तत्रत्यतार्थानि निषेक् माणः क्रमाद्वदरीं गन्तुं स मनोऽधातू । इन्द्रवत्रा वृत्तम् ॥ ५६ ।। कचिदुष्णशालि कचिच्छीतं काचिदृजु कचित्कुटेिलम् । अरालं कुटिले सर्जरसे समददन्तिानेि

  • दिक्सुकान्तेत्यत्र दिङ्मुखेन इति पाठानुसारेणेदम् ।

[ सर्गः ६ ] १ क. ख. घ. ‘नेकैवे'। २ घ. 'त्मकश्चे'। [ सर्गः ६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । आत्मानमक्रियमपव्ययमीक्षिताऽपि पान्थैः समं विचलितः पथि लोकरीत्या । आदत्फलानि मधुराण्यपिबत्पयांसि प्रायादुपाविशदशेत तथोदतिष्ठत् ॥ ५८ ॥ तेन व्यनीयत तदा पदवी दवीय स्यासादिता च बदरी वनपुण्यभूमिः ।। गौरीगुरुस्रवदमन्दझरीपरीता खेलत्मुरीयुतदरी परिभाति यस्याम् ।। ५९ ।। स द्वादशे वयसि तत्र समाधिनिष्ठं र्बह्मर्षिभिः श्रुतिशिरो बहुधा विचार्य ॥ षड़िश्च सप्तभिरथो नवभिश्च खिनै र्भव्यं गभीरमधुरं फणति स्म भाष्यम् ॥ ६० ॥ इति मेदिनी । कचिद्वध्र्वमुखकण्टकयुक्तं कचिच कण्टकविनिर्मुक्तं मूर्खजनचि त्वद्यवस्थावर्जितं वत्र्म पन्थास्तेन महताऽन्ववत्र्यनुसृतम् । वसन्ततिलका वृत्तम् ॥ ५७ ॥ [ उदिति । ऊध्र्वमुखाः कण्टका यत्र पक्ष उत्कटाः कण्टका इव दुःखदत्वात्कण्टकाः कामक्रोधादयोऽन्तःशात्रवो यत्र तत्तथेत्यर्थः । पृगॉपमालं कारः ] || ५७ ॥ अक्रियमव्ययमात्मानमक्षिताऽपि पान्थैः सह विचलितः सन्मार्गे लोकरीत्या मधु राणि फलान्यादत् । भक्षणार्थस्याद्धातोर्लङि 'अद: सर्वेषाम्' इत्यपृक्तपावैवातुकस्या डागमे रूपम् । मधुराणि जलान्यपिबतू । प्रायाद्रमनं कृतवानुपाविशदुपविष्टवानशेत शयनं कृतवांस्तथोदतिष्ठदुत्थानं कृतवानित्यर्थः ।। ५८ ।। दवीयसी पदवी तेन व्यनीयत सुदूरं वत्र्मातिक्रान्तवान्वनपुण्यभूमिर्बदर्यासादिता च गैरीगुरोर्हमालयात्स्रवन्तीभिरमन्दझरीभिव्यप्ता यस्यां बदय खेलन्तीर्भिः सुरा ङ्गनाभिर्युक्ता दरी परिभाति || ५९ ॥ [ बदरीति । बद्रीप्रधानं यद्वनं तलक्षणा या पुण्यभूमिः श्रीव्यासाश्रमत्वादिनाऽतिपवित्रपृथ्वी त्यर्थः ] ॥ ५९ ॥ स श्रीशंकरो द्वादशे वयसि तत्र बदर्य समाविनिष्टैः षड़ि : क्षुत्पिपासे जरामृत्यू शोकमोहौ षडूर्मय इत्युक्तषङ्कर्मभिस्तथा त्वक्चर्ममांसास्थिमेदोमज्जारितोभिः सप्तधातुभिः पञ्चवज्ञानेन्द्रि याणि चत्वार्यन्त:करणानीति नवभिश्च ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणपञ्चकमन्त करणचतुष्टयं सगुणभूतपञ्चकं प्रकृत्यष्टकं वाऽविद्या कामः कर्मवासना चेति नवभिरिति २३७ १ ख. ग. दुत्थिातिं कृ । २ क. कमपास'। २३८ श्रीमच्छकरादग्विजयः । करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ॥ उपचित मुदितोदितैर्गुणौधै रुपनिपदामयमुज्जहार भाष्यम् ॥ ६१ ॥ तत्ता महाभारतस्सारभूता स व्याकरोद्भागवतीश्च गताः ॥ सनत्सुजातीयमसत्सुदूरं ततो नृसिंहस्य च तापनीयम् ॥ ६२ ॥ वा द्वारव नवभिर्येखिन्नास्तैर्बह्मर्षिभिर्वेदान्तं बहुधा विचार्य भव्यं शुभं गम्भीरं च तन्म दुरं च सूत्रभाप्यं फणात स्म षड़िश्च सप्तभिरथो नवभिश्च खिन्ने भव्यं योग्यमिति वा । भव्यं शुभे च सत्ये च योग्ये भाविनि च त्रिषु इति मेदिनी ॥ ६० ॥ [ षड़िश्चार्वाकार्हतसैौत्रान्तिकवनाशिकवैभाषिकयोगाचारा ख्यषड़िनास्तिकषड्दर्शनीकॉरैः । तथा सप्तभिः । गौतमकणादकपिलपतञ्जलिजम न्याख्यास्तिकपञ्चदर्शनीकॉरैस्तथा सांख्यैकदेशिशाक्तादिमीमांमकैकदेशिभास्करादिभ्यां मिलित्वा सप्तसंख्याकैरित्यर्थः । अथो नवभिर्जीवेश्वरभदेश्वरजगद्वेदजीवपरस्परभेदजगत्प रस्परभेदजीवजगद्वेदाविद्याकामकर्मवासनाख्यनवपदाथैरिति यावत् । खित्रैः खण्डित त्वात्खेदं प्राप्तरित्यर्थः । भव्यमतिरमणीयामिति यावत् । एतादृशम् । तत्रापि । गभी रेति । गभीरमतुलदुरवगाहार्थं मधुरं शब्दतः परमक्षुलं रमणीयतममिति यावत् । एतादृशं भाष्यं सूत्रभाष्यमित्यर्थः । भणति स्म रचयामासेति संबन्धः ] ॥ ६० ॥ उपनिषदामपि भाष्यं कृतवानित्याह । करतले कलितं प्रकाशितमात्मतत्त्वं येन क्षपितो दुरन्तश्चिरन्तनोऽनादिभूतो मोहो येनाद्यं प्राप्तरुक्तगुणैर्धिम्पचितं युक्तम् ! देहाभिमानादिदुःखानि निश्चयेन निषादयति' विसारयति शिथिलयति परं च ब्रह्म प्रत्यगात्मत्वेन नितरां गमयति सर्वानर्थमूलभूतमविद्यामत्यन्तमवसादयत्युन्मृलयतीत्यु [ सर्गः ६] ग्यबृहदारण्याख्यानां वेदान्तानां भाष्यमुज्जहार कृतवान् । पुष्पिताग्रा वृत्तम् ॥६१॥ [गुणैॉवैरुपक्रमादितात्पर्यसंग्राहकलिङ्गविचारयुििवशेषसंपैरित्यर्थः] [ भाप्यं केन। पनिषदि पदवाक्यभेदेन भाप्यद्वयसत्वादेकादशभेदभिन्नमित्यर्थः ] ।। ६१॥ ततस्तदनन्तरं महाभारतस्य निखिलवेदार्थप्रकाशकस्य सारभूता भगवद्भीताः स व्याख्यातवांस्ततो भारतस्थसनत्सुजातीयमसतां सुदूरमलभ्यं ततश्च नृसिंहतापनयं व्या करोत् । उपजातिवृत्तम् ॥ ६२ ॥ [ अथ गीताभाप्यविष्णुसहस्रनामभाष्ये अप्यसा १ ग. 'ति शि। [ सर्गः ६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । २३९ सहस्रिकादीन्व्यदधात्सुधीड्यः ॥ श्रुत्वाऽर्थविद्यामविवेकपाशा न्मुक्ता विरक्ता यतयो भवन्ति ॥ ६३ ॥ श्रीशंकराचार्यरवावुदेत्य प्रकाशमाने कुमतिप्रणीताः ॥ व्याख्यान्धकाराः प्रलय समायु ढुंवदिचन्द्रप्रभयाऽवियुक्ताः ॥ ६४ ॥ अथ व्रतीन्दुर्विधिवद्विनेया नध्यापयामास स नैजभाष्यम् । तपः परपा तरुणाववस्व न्मरीचिभिः सिन्धुवद प्रशोष्यम् ॥ ६५ ॥ वकरोोदिति श्लेषेणाऽऽत् । तत इत्युपजात्यर्वन ] [ भागवतीर्भगवत्संबन्धिनीः । जन्यजनकभावेन भगवद्रीताः । सहस्रनामपक्षे प्रतिपाद्यप्रतिपादकभावसंबन्धेनैव तथात्वं बोध्यम् । पक्षे गीता भीष्मादिभिर्भतैगनकर्मकृता ‘विश्धं विष्णुः' इत्याद्या आख्या इत्यर्थः । एतत्समुचायक एव चकार । अवशिष्टाधेन सनत्सुजातभाप्यं नृसिंहपूर्व तापनीयभाप्यमप्यकरोदित्याह । सनत्सुजातीयमिति ] [ असदिति । असतामन विकारिणां सुदूरमतिदुर्लभाथैकमित्यर्थः ] ॥ ६२ ॥ तदनु ततः पश्चादुपदेशसहत्रिकादीनसंख्यातान्ग्रन्थान्सुधीभिः स्तुत्यः परमार्थज्ञ श्रीशंकरो व्यदधातू । यान्ग्रन्थाञ्श्रुत्वा विरक्ता यतयोऽविवेकपाशान्मुक्ता भवन्ति ।॥६३॥ श्रीशंकराचार्यसूर्य उदयं प्राप्य प्रकाशमाने सति दुर्वादिचन्द्रपभयाऽवियुक्ता सहिताः कुबुद्धिभिः प्रणीता व्याख्यान्धकाराः सम्यग्लयं पापुः ॥ ६४ ॥ [ दुर्वा दीति । दुर्वाधेव भेदवाद्येव कलङ्गित्वदोषाकरत्वादिसाधम्यचन्द्रस्तस्य या प्रभा तयेति यावत् । आवियुक्ताः सन्त इत्यर्थः । एवंच न केवलं भेदवादिनां ग्रन्था एव नष्टाः किंतु कीर्तिरपीत्याकृतम् । प्रलयं ध्वंसम् । समीयुः पुनरुन्मज्जनाभावपूर्वकमेव विनाशं प्रापुरित्यन्वयः ] [ रुरूपकादिरलंकारः ] ॥ ६४ ॥ अथानन्तरं परेषां वादिनां तकैस्तरुणैः सूर्यकिरणैः समुद्रवच्छोषयितुमशक्यं स्वीयं भाष्यं स व्रतीन्दुर्विधिवाच्छिष्यानध्यापयामास ॥ ६५ ॥ [ व्रतिनामहिंसादित्रतशा लनां परमहंसानामिन्दुरिव शान्त्यानन्दजनकत्वाचन्द्र इत्यथे: ] [ रूपकमुपमा चालंकार: ] ॥ ६५ ॥ १ घ. स्वीयभा'। २४० श्रीमच्छकरदिग्विजयः । निजशिष्यहृदब्जभास्वतो गुरुवयस्य सनन्दनादयः ॥ शमपूर्वगुणैरशुश्रुव न्कतिचिच्छिष्यगणेषु मुख्यताम् ।। ६६ ।। स नितरामितराश्रवतो लस नियममदुतमाप्य सनन्दनः । श्रुतनिजश्रुतिकोऽप्यभवत्पुन पिपठिषुर्गहनार्थविवित्सया ।। ६७ ।। अर्द्धद्वभक्तिममुमात्मपदारविन्द द्वे नितान्तदयमानमना मुनीन्द्रः । आम्रत्रायशेखरहस्यनिधानकोश मात्मीयकोशमखिलं त्रिरपाठयक्तम् ॥ ६८ ॥ निजशिप्यहृदयकमलभानोर्गुरुवर्यस्य शिप्यगणेषु मुख्यतां केवित्सनन्दनादय शमादिगुणैरशुश्रुवन्नभ्यस्तवन्तः । वियोगिनी वृत्तम् ॥ ६६ ॥ [ शमेति । शान्तिम भृत्यखिलनिवृत्तिधर्मेरित्यर्थः ] ॥ ६६ ॥ स सनन्दन इतराश्रवत इतरेभ्य आश्रवेभ्यो वचनस्थितेभ्यः शिष्येभ्यः । ‘आश्रवोऽङ्गीकृतौ केशेनान्यवद्वचनास्थितें इति मेदिनी । नितरां लसन्सञ्श्रुता निजश्रुतिः स्ववेदो येन स तथाविधोऽपि गहनार्थस्य विज्ञानेच्छयाऽदुदं नियमं प्राप्य पुनः पठनेनच्छुरभवत् । इतराश्रवतोऽ दुतं लसन्तं नियममाप्येति वा । दुतविलम्बितं वृत्तम् ॥ ६७ ॥ [ श्रुतेति । अभाकतिसकलस्वशाखार्थोऽपीति यावत् । गहनेति । स्वशाखानुक्तत्वेन गूढार्थ जिज्ञासयेत्यर्थः । अत एव । अदुतम् । ‘शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' इति पातञ्जलसूत्राच्छैौचादिपञ्चविधनियमानां मध्येऽन्तिमस्येश्वरप्रणिधान स्यैवाऽऽरादुपकारकत्वात्पाश्चात्यानां शते पञ्चाशन्यायेन तन्मात्रान्तर्भावाच स्वाभि न्नत्वेनेश्धरध्यानरूपमित्यर्थः ][ पिपठिषुब्रह्ममुहूर्तादिध्यानकालेतरकालावच्छेदेन भूयः पठनेच्छुरिति यावत् । अभवदिति संबन्धः ] ॥ ६७ ॥ आत्मपदारविन्दयुगलेऽद्वंद्वा रागद्वेषादिद्वंद्वविनिर्मुक्ता भक्तिर्यस्य तममुं सनन्दनं नितान्दमत्यन्तं द्यमानं दयां कुर्वाणं मनो यस्य स मुनीन्द्रो वेदान्तरहस्यस्य निधानं स्थापनं तस्य कोशं पात्रमात्मीयग्रन्थं सर्वे त्रिरपाठयत्रिवारं पाठितवान् । वसन्त तिलका वृत्तम् ॥ ६८ ॥ [ सर्गः ६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ईष्यभराकुलहृदामितराश्रवाणां प्रख्यापयन्ननुपमामदसीयभक्तिम् ॥ अत्रापगापरतटस्थममु कदाच दाकारयन्निगमशेखरदेशिकेन्द्रः ॥ ६९ ॥ संतारिकाऽनवधिसंस्मृतिसागरस्य किं तारयेन्न सरितं गुरुपादभक्तिः ॥ इत्यञ्जसा प्रविशतः सलिलं द्युसिन्धु पद्मान्युदश्चयति तस्य पदे पदे स्म ॥ ७० ॥ पाथोरुहेषु विनिवेश्य पदं क्रमेण प्राप्तोपकण्ठममुमप्रतिमानभक्तिम् । अानन्दविस्मयनिरन्तनिरन्तरोऽसा वाश्लिष्य पद्मपदनामपदं व्यतानीत् ।। ७१ ।। ये तु स्थिताः सदसि तत्वविदां सगर्वाः । आचिक्षिपुः कुमतपाशुपताभिमाना केचिद्विवेकविटपोग्रद्वायमानाः ॥ ७२ ॥ २४१ ईप्यभरेणाऽऽकुलं हृदयं येषामितराश्रवाणां सतां मध्ये वाऽनुपमाममुष्य सन न्दनस्य भकिं पख्यापयन्नभ्रापगाऽऽकाशनदी गङ्गा । अभत्रं मेघे च गगने धातभेदे च काश्चने इति मेदिनी । तस्याः परतटस्थममुं सनन्दनं कदाचिद्वेदान्तदेशिकेन्द्र आहूत वान् ॥ ६९ ॥ [ अथान्येषामन्तेवासिनां तद्विषयकेप्यां प्रशमयितुं कदाचिद्रङ्गायाः परतीरस्थं तमाचार्थः स्वनिकटागमनार्थमाकारयामासेत्याह । ईष्र्येत्यादि ] || ६९ ॥ अनवविसंसारसागरस्य संतारिका गुरुचरणभक्तिर्नदीं किं न संतारयेदपि तु तार येदेवेति विचार्य शीघ्रमेव जलं प्रविशतस्तस्य गुरुभक्तस्य पदे पदे गङ्गा पद्मान्युदश्च यति स्मो नृम्भयामास ॥ ७० ॥ जलरुहेषु क्रमेण पदं विनिवेश्य प्राप्तसमीपं तममुमनुपमभक्तिमानन्दविस्मयाभ्यां निरन्तनिरन्तरोऽत्यन्तं परिपूर्णोऽसावालिङ्गन्य पद्मपादेतिनामपदं व्यतानीद्विस्तारित वान् ॥ ७१ ।। अनवद्यतमामात्मविद्यां पाठयन्तं तं श्रीशंकरं तत्त्वविदां सदसि ये तु केचित्सगर्वा कुमते पाशुपतेऽभिमानो येषां विवेकलक्षणस्य वृक्षस्याग्रेदावाग्विदाचरन्तः स्थिवास्ते चिक्षिपुराक्षेपान्कृतवन्तस्तथाहि कार्यकारणयेगविधिदुःखान्ताः पञ्च पदार्थाः पशुप २४४ श्रीमच्छंकरदिग्विजयः । [ सर्गः ६] किंचैकदेशेन समाश्रयन्ते कात्स्न्येन वा शंभुगुणा विमुक्तान्। पूर्वे तु पूर्वोदितदोषसङ्ग स्त्वन्तेऽज्ञतादिः परमेश्वरे स्यात् ॥ ७७ ॥ इत्थं तकैः कुलिशकठिनैः पंडितंमन्यमाना भिद्यत्स्वार्थाः स्मयभरमदं तत्यजुस्तात्रिकास्ते ॥ पक्षाघातैरिव रयभरैस्ताड्यमानाः फणासु क्ष्वेडज्वालां खगकुलपतेः पन्नगाः साभिमानाः ॥ ७८ ॥ गुणानां संक्रमोऽस्त्विति शङ्कते । पद्मगन्ध इति । गन्धसमवायि कमलं सूक्ष्मावयवा त्मना वायुसंयुक्तं सत्तत्र वायौ गन्वधियं यस्माद्दिशति तस्मान्मैवमित्याह । नेति ॥७६॥ [ तत्रेति । यद्यस्मात्तत्र निरुक्तोदाहरणे । गन्धसमवायि समवायसंबन्धेन गन्धवत्प अपरागद्रव्यमेवेत्यर्थः । गन्धाधयं पद्मगन्धबुद्धिं दिशति प्रकाशयति तस्मादेव हेतोर्न गुणत्वहेतोः पद्मगन्धे गुणे साध्याभाववदृत्तित्वलक्षणो व्यभिचार इत्याकूतम् ]॥७६॥ किंच पशुपतिगुणा एकदेशेन विमुक्तान्समाश्रयन्ते किंवा कात्स्न्येन । आद्यपक्षे तु पूर्वोक्तदोषस्य निरवयवगुणानामेकदेशेन संक्रमायोगस्य प्रसक्ति । द्वितीये परमेश्वरेऽ ज्ञतादिः स्यात् । इन्द्रवज्रा वृत्तम् ॥ ७७ ॥ [ ननु भवत्वेवं तार्किकादिरीत्या व्यभि चारवारणमथापि लोके पलादिमानतुलितकस्तूर्याः परिमलस्य पटशतसंक्रमेऽपि काला न्तरेऽपि सुरक्षितायाः पायो गुञ्जामात्रमपि मानह्मासादर्शनान्न सूक्ष्मरजःसंक्रमस्तत्र किंतु गन्धसंक्रम एव । तथा च पुनरपि व्यभिचारताद्वस्थ्यमेवेति बुवाणं पाशुपतं प्रति तुष्यतु दुर्जन इति न्यायेन यथाकथंचिन्निरवयवानामपि गुणानामन्यत्र संक्रमम ङ्गीकृत्यापि निराकर्तु विकल्प्य पृच्छति । किंचेतीन्द्रवत्रया ] [पूर्वोदितेत्ययमाशयः । वस्तुवृत्तविचारे निरुक्तकस्तूर्युदाहरणेऽपि सूक्ष्मतमतत्रसरेणुसंक्रमेऽपि न तत्परिमाण हासः । अत एव पटशातेऽपि नैकट्यतारतम्येन परिमलतारतम्योपलम्भ । एवं च नेोक्तव्यभिचारावसर इति निरवयवानां गुणानामन्यत्रासंक्रमणं प्रागुक्तो दोषस्तदवस्थ एवेति ] || ७७ ॥ इत्थं वत्रवत्कठिनैस्तकेंर्मिद्यन्भेदं गच्छन्स्वाभिमतोऽथे येषां तेपण्डितंमन्यमाना स्तात्रिकाः पाशुपताः स्मयस्यातिशयेन यो मदस्तं तत्यज । खगकुलपतेर्गरुत्मतो रयस्य वेगस्यातिशयो येषु तैः पक्षाघातैः फणासु ताड्यमानाः साभिमानाः सप यथा क्ष्वेडज्वालां विषज्वालां त्यजन्ति तद्वत् ‘क्ष्वेडस्तु गरलं विषम्' इत्यमरः । मन्दाक्रान्ता वृत्तम् ॥ ७८ ॥ १ क. ख. ग. "यन्ति किं'। २ क. रेऽज्ञानादिः । [ सर्गः ६ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । व्याख्यानृम्भितपाटवात्फणिपतेर्मन्दाक्षमुद्दीपय न्संख्यालङ्कघितशिष्यहृद्रनरुहष्वादित्यतामुद्वहन् ।। न्कुर्वन्वादिमृगेषु निर्भरमभाच्छार्दूलविक्रीडितम् ॥ ७९ ॥ वेदान्तकान्तारकृतप्रचारः सुतीक्ष्णसद्युक्तिनखाग्रदंष्ट्रः ॥ भयंकरो वादिमतंगजानां महर्षिकण्ठीरव उललास ॥ ८० ॥ अमानुषं तस्य यतीश्वरस्य विलोक्य बालस्य सतः प्रभावम् ।। काशीपुरस्था जगदुस्तदेत्थम् ॥ ८१ ॥ २४५ याख्याया नृम्भतमुल्लसत यत्पाटव कुशलता तस्मात्फाणपतः शषस्य मन्दाक्ष लज्जामुद्दीपयन् । संख्या मतिक्रान्तानामसंस्यातानां शिष्याणां हृज्जलरुहेषु भानुता मुद्वहन् । उद्वेलस्चयश:मुमैरुलड़घितसप्तावितटस्वयशोलक्षणपुष्पैर्जगदूषयन्वादिमृगेषु निर्भरं दृढं शार्दूलविक्रीडितं कुर्वन्स भगवत्पादोऽभाद्द्युतत् । अत्र श्रीशंकरवर्णनपरेण शार्दूलविक्रीडितपदेनैतच्छन्दोनामसूचनान्मुद्रालंकारः । 'सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदै इत्युक्तः । शार्दूलविक्रीडितं वृत्तम् ॥ ७९ ॥ [ व्याख्यायां ब्रह्मसूत्रादिवि वृतौ नृम्भितं विकसितं यत्पाटवं कौशलं तस्मादित्यर्थः । फणिपतेर्महाभाष्यकर्तुः शेषस्यापीति यावत्][निर्भरमत्यन्तं यथा स्यात्तथा । अभाच्छुशुभ इति योजना । अत्र शान्तानुपाणित: पाण्डित्यवीरो रसः । धीरोदात्तो नायकः । काव्यलिङ्गादिर्मुद्रा चालं कारः ] || ७९ ।। श्रीशंकरं सिंहरूपेण वर्णयति । वेदान्त लक्षणे वने कृत: प्रचारो येन सुतीक्ष्णानेि सद्युक्तय एव नखाग्राणि दंष्ट्राश्च यस्य वादिलक्षगानां गजानां भयंकर एवंविधो मह र्षिलक्षणः सिंह उललासोचकाशे । उपजातिवृत्तम् ॥ ८० ॥ [वेदान्तेति । ‘कान्तारं वत्मै दुर्गमम्' इत्यमरः । तेन वेदान्तानां दुरवगाहत्वं ध्वन्यते । रूपकमलंकार:]॥८०॥ तस्य यतीश्वरस्य बालस्य सतः प्रभावं वि लेाक्याऽऽश्वर्ययुक्तमन्तरङ्गं मनो येषां तव काशीपुरस्थास्तस्मिन्काल इत्थमूचुः ॥ ८१ ॥ २४६ श्रीमच्छंकरदिग्विजयः । त्पराभवं पीडितपुण्डरीकाः ।। प्रपेदिरे भास्करगुप्तमिश्र मुरारिविद्येन्द्रगुरुपधानाः ॥ ८२ ॥ अस्याऽऽत्मनिष्ठातिशयेन तुष्ट प्रादुर्भवन्कामरिपुः पुरस्तात् ॥ प्रचोदयामास किल प्रणेतुं वेदान्तशारीरकसूत्रभाष्यम् ॥ ८३ ॥ कुदृष्टितिमिरस्फुरत्कुमतपङ्कममां पुरा पराशरभुवा चिराद्धधमुदे बुधेनोद्धताम् ॥ अहो बत जरद्रवीमनघभाष्यसूक्तामृतै रपङ्कयति शंकरः प्रणतशंकरः सादरम् ॥ ८४ ॥ मुहुः पुनः पुनद्यतितानि सर्वशास्त्राणि येन तथाभूतादस्माच्छूशंकरात्पीडितं हृत्कमलं येषां ते भास्करप्रमुखा: पराभवं प्रपेदिरे प्राप्तवन्तः ॥ ८२ ॥ [भास्करेति । भास्करो भेदाभेदवादी गुप्तोऽभिनवगुप्तपादारूयः शाक्तो मिश्रमुरारिर्मुरारिमिश्रो विद्येन्द्रो भारतीपतिः प्रागुक्तो मण्डनमिश्रो गुरुः पभाकर एते प्रधाना मुख्या थेषां प्रागुक्तनी लकण्ठाख्यपाशुपतादिभेद्वादिनां ते तथेत्यर्थः ] ॥ ८२ ॥ किंचवास्याऽऽत्मनिष्ठया तुष्टः कामरिपुर्महादेवः पुरस्तात्मादुर्भवन्वेदान्तानां शारी रकसूत्राणां च भाष्यं प्रणेतुं प्रचोदयामास ॥ ८३ ॥ कुदृष्टीनां तिमिरस्फुरत्कुमतान्येव पङ्कस्तस्मिन्मग्रां पुरा पराशरसूनुना बुधेन वेद व्यासेन बुवानां मुदे चिरादुदृतां जरद्रवीं चिरंतनां श्रुतिलक्षणां गाम् । अहो बतेति निपातावत्याश्चयर्थकावत्यन्तहर्षार्थकौ वा । निरवद्यभाष्यसूक्तलक्षणैरमृतैः सादरं यथा स्यात्तथाऽपङ्कयत्युक्तपङ्कविनिर्मुक्तां करोतीत्यर्थ । पृथ्वी वृत्तम् ॥ ८४ ।। [ कुदृष्टीति । कुत्सिता दुष्टा दृष्टिभेदवादमवणा बुद्धिर्येषां ते तथा तेषां यत्तिमिरम ज्ञानरूपं ध्वान्तं तेन स्फुरन्ति भासमानानि यानि कुमतानि सांख्यतार्किकमीमांसका दिसकलद्वैतवादिदुर्भतानि स एव पङ्कः कर्दमस्तत्र मग्रां पक्षे कुदृष्टिर्मान्द्यादिदृग्दोष शाली गोपस्तेन कृष्णवर्णत्वसाम्यातिमिरबुद्धया यः कुत्सितो मतो मिथ्याज्ञानेन निर्णीतः पङ्कः कर्दमस्तस्मिन्मग्रामिति यावत्] [ जरद्रवीं जरत्यनादिसिद्धा पक्षे जीर्णे तादृशी या गौर्वेदवाणी पक्षे धेनुस्तामिति यावत् ] [ अनघेति । एतेन भाष्ये वेद समत्वं सूक्तरूपकेणामृतरूपकेण चाजरामरत्वापादकत्वं च सूचितम् । सादरं सप्रेम ] [ सगः ६]

  • ख. 'मिश्रा मु। [ सर्गः ६]

धन पतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । त्रैलोक्यं ससुखं क्रियाफलपयो भुङ्के ययाऽऽविष्कृतं यस्या वृद्धतरे महीसुरगृहे वासः प्रवृद्धाध्वरे ॥ तां पङ्कप्रसृते कुतर्ककुहरे घोरैः खरैः पातितां निष्पङ्कमकरोत्स भाष्यजलधेः प्रक्षाल्य सूक्तामृतैः ॥ ८५ ।। मिथ्या वक्तीति कैश्चित्परुषमुपनिषदूरमुत्सारिताऽभू दन्यैरस्मिन्नियोज्यं परिचरितुमसावर्हतीति प्रणुन्ना ॥ अर्थाभासं दधानैमृदुभिरिव परैर्वञ्चिता चोरितार्थ र्विन्दत्यानन्दमेषा मुचिरमशरणा शंकरार्य प्रपन्ना ॥ ८६ ॥ [ अत्रादुत एव शान्तानुप्राणिती रस । धीरोदात्तो नायकः । श्लेषः परिकरः काव्य लिङ्गं रुपकं परिकराडुरः सर्वमिलित्वा तिलतण्डुलवत्संसृष्टिश्चालंकारः ] ॥ ८४ ॥ यया श्रुतिलक्षणया गवा प्रकटितं क्रियाफललक्षणं पयो दुग्धं सपुखं त्रिलो कीस्थेो जनो भुङ्गे यस्याश्च गोवृद्धतरेऽतिप्राचीने प्रवृद्धा अध्वरा यागा यस्मिस्तथाभूते ययागसंज्ञके भूसुरस्य प्रजापतिसंज्ञस्य ब्राह्मणस्य गृहे वास एवंभूतां तां गां घेरैर्भम खरैस्तीक्ष्णैर्दूर्जनैः पङ्गेन प्रसृते व्यासे कुतर्कलक्षणे छिद्रे पातितां स भाष्यकारो भाष्यसमुद्रस्य सूक्तामृतैः प्रक्षाल्य निष्पङ्कामकरोत् । शार्दूलविक्रीडितं वृत्तम् ॥८५॥ [ क्रियेति । क्रियाफलरूपं कर्मफलाख्यं पयः क्षीरम् । ससुखं सुखसहितं यथा स्यात्तथा । दुःखोपभोगेऽपि तन्निरासाभिव्यक्तसुखसाहित्यसत्वाद्युक्तमेवेदं क्रियावि शेषणम् ] [ पड़ेति । पङ्केन “अस्त्री पङ्क पुमान्पाप्मा' इत्यमरात्पापेन पसृतं विस्तृतं तस्मिन् । पक्षे पङ्कः कर्दमस्तेन व्याप्त इत्यर्थः ] [ घोरैर्भयंकरैः खरैस्तीक्ष्णैरेतादृशैः सकलभेदवादिभिरित्यर्थ । पक्षे गर्दभैः] [रसालंकारादिकं तु पूर्वपद्योक्तमेव ] ॥ ८५ ।। कैश्चिद्वेदबायैरुपनिषन्मिथ्या वक्तीति दूरमुत्सारिताऽभूत् । अन्यैभट्टपाभाकरैर स्मिन्वेदे कर्मणि वा यो नियोज्यस्तं परिवरितुमसावुपनिषदर्हतीति प्रणुन्ना मक र्षेण पीडिता । अर्थो न भवति किंत्वर्थवदाभासत इत्यर्थाभासस्तस्य त्वमसि तस्मात्त्व मसि तस्मै त्वमसीत्येवमादिरूपस्तं दधानैश्चोरितो. लोपितस्तदभिन्नस्त्वमसीत्येवमादि रूपो वास्तवोऽर्थो वैदुिभिरिविितपरुषैरेव कोमलाभासैरपरैर्नेय्यायिकादिभिर्वञ्चिता सुचिरमशरणा सतीदानीं शंकरार्य प्रपत्रैषोपनिषदानन्दं विन्दति प्राम्रोति । स्रग्धरा वृत्तम् ॥ ८६ ॥ [ मिथ्येति । कैश्चिन्माध्यमिकादिवेदबाहँदैः परुषं यथा स्यात्तथा ] अस्मिलेकेि वेदे कर्मणि. वा । नियोज्यं नियोतुं योग्यं जीवं परिचरितुं स्तोतुम्][पपन्ना शरणागता सत्यानन्दमद्वैतात्मसुखं विन्दति प्राम्रोतीति योजना । पक्ष उप समीपे. निषीदति शरणापेक्षयोपविशतीति तथा काचिद्भीतभीरुरित्यर्थः । नियोज्यं दासम् । २४७ १ ग. 'रिव प'। २४८ [ सर्गः ६] हन्तुं बौद्धोऽन्वधावत्तदनु कथमपि स्वात्मलाभः कणादा जातः कौमारिलायैर्निजपदगमने दर्शितं मार्गमात्रम् ॥ सांख्यैर्तुःखं विनीतं परमथ रचिता प्राणधृत्यर्हताऽन्यै रित्थं स्वित्रं पुमांसं व्यधित करुणया शंकरार्यः परेशम् ॥८७॥ ग्रस्तं भूतैर्न देवं कतिचन ददृशुः के च दृष्टाऽप्यधीराः केचिदूतैर्वियुतं व्यधुरथ कृतिनः केऽपि संवैर्विमुक्तम् ॥ किंत्वेतेषामसत्त्वं न विदधुरजहनैव भीतिं ततोऽसौ तेषामुच्छिद्य सत्तामभयमकृत तं शंकरः शंकरांशः ॥ ८८ ॥ चोरितेति । अत एव । अर्थेति । वास्तविकं तद्धनमपहृत्य कूटधनं प्रकटयद्भिरि त्यर्थः । श्लेषपरिकरादिरलंकारः । रसादिकं तूक्तमेव ] || ८६ ॥ बौद्धः शून्यवादी हन्तुमन्वधावत्ततः पश्चाद्यथाकथंचित्कणादात्स्वात्मलाभो जात कैौमारिलापरसंशैर्भट्टपादैराथैर्निजपदगमने मार्गमात्रं प्रदर्शितं सांख्यैः परं केवलं दुःखं विनतिमपनीतमथान्यैः पातञ्जलैः प्राणधृत्या प्राणनिरोधेनार्हता तस्य पृज्यता रचि तत्थमत्यन्त खद प्राप्त पुरुषमात्मान करुणया ३शकरायः परशमछत ॥ ८७ ॥ [ बौद्धः पुमांसमात्मानं हन्तुमेव शून्यवादित्वेन विनाशयितुमेव ] [ कणादात्सकाशा त्स्वात्मलाभो जातः । तैर्हि बुद्धयादिभावनान्तनवविशेषगुणसंख्यादिविभागान्तपञ्चसा मान्यगुणविशिष्टविभ्वात्माङ्गीकारात्संपन्न इत्यर्थः ] [ कौमारिलायैः कुमारिला एव कौमारिलास्ते च त अभायश्चेति तथा कुमारिलभट्टाचार्या प्राक्षडाननावतारत्वेन वर्णिता एव तैरित्यर्थः ] [ मार्गमात्रं कर्मानुष्ठानेन चित्तशुद्विारा परमेश्वरप्राप्तिर्भ वतीति वत्र्मव दर्शितं कथितं न तु परपद्मपीत्यर्थः ] [ सांख्यैः कपिलैः ] [ प्रा णेति । प्राणस्य माणवायोधृतिः कुम्भकादिना धारणं तयाऽर्हता तस्य पूज्यता ] [ श्लेषादिरलंकारः ] ॥ ८७ ॥ भूतैः पृथिव्यादिभिग्रेस्तं देवमात्मानं कतिचन न ददृशुः केचिचार्वाका न दृष्टवन्तः केचिच योगाचारादयो दृष्ट्राऽप्यधीराः क्षणिकविज्ञानमात्मेति तैः स्वीकृतत्वात् । केचित्तार्किका मीमांसकाश्च भूतैर्वियुक्तं व्यधुः । अथ कृतिनः सांख्याः सर्वभूतैस्तद्व श्व विनिर्मुक्तं व्यधुः किंत्वेतेषामसत्वं न विदधुस्ततस्तस्मादसावात्मा भीर्ति भयं न त्यक्तवाञ्शंकरस्तु तेषां सत्तामुच्छिद्य तमात्मानमभयमकृत । यतः शंकरस्य ब्रह्मवि द्याधीशस्य महादेवस्यांशो ज्ञानकलावतारः ॥ ८८ ॥ [ ग्रस्तमिति । कतिचन शून्यवादिनो माध्यमिकाः । भूतैः पञ्चमहाभूतैः । पक्षे पिशाचैः । यस्तं तादात्म्या ध्यासेन वशीकृतम् । एतादृशं देवं स्वप्रकाशात्मानमपि । पक्षे राजानम् ] [ केचि न्मीमांसकास्तार्किकाश्च । भूतैः पृथ्व्यादिभिः । पक्षे पिशाचैः ] [ अथ केऽपि [ सर्गः ६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । २४९ चार्वाकैर्निह्नतः प्राग्बलिभिरथ मृषा रुपमापाद्य गुप्त काणादैहाँ नियोज्यो व्यरचि बलवताऽऽकृष्य कौमारिलेन ॥ सांख्यैराकृष्य हृत्वा मलमपि रचितो यः प्रधानैकतंत्र कृष्टा सर्वेश्वरं तं व्यतनुत पुरुषं शंकरः शंकरांशः ॥ ८९ ॥ भाष्ये भूष्यतमे समीक्षितवतां श्रेयस्करे शांकरे ।। भाष्याभासगिरो दुरन्वयगिराऽऽश्लिष्टौ विसृष्टा गुणै रिष्टाः स्युः कथमम्बुजासनवधूदौभाग्यगभकृताः ॥ ९० ॥ कृतिनः कुशलाः सांख्याः सर्वभूतैस्तद्धमैश्च विमुक्तम् । व्यधुरित्यनुषङ्गः । किं त्वेतेषां भूतादीनां पृथ्व्यादीनाम् । पक्षे पिशाचादीनाम् ] [ लेषादयोऽलंकाराः ] ॥८८॥ प्राक्पुरा चार्वाकैर्निहतोऽपलपितोऽथानन्तरं बलिभिः काणादैमृषा मिथ्याभूतं कर्तृत्वादिविशिष्टं ज्ञानादिगुणकं रूपमापाद्य गुप्तो राक्षतः । हेति खेदे । कौमारिलेन बलवता तेभ्यो भूतेभ्य आकृष्य पृथकृत्य ‘स्वर्गकामो यजेत' इत्यादिविधौ दास इव नियोज्यो व्यरचि विरवितस्ततोऽप्याकृष्य सांख्यैर्मलं हृत्वाऽपि यः पवानैकतत्रो रवि तस्तं पुरुषं शंकरः परेशं व्यतनुताकृत ॥ ८९ ॥ [ चार्वाकैर्देहात्मवादिभिर्निह्नतोऽ पलपितः ] [ तं कृष्टा ततः समाकृष्य शंकरांशः शिवज्ञानकलावतारः । शंकरः श्रीशंकराचार्यः । सर्वात । सर्वेनियन्तृत्वोपलाक्षतम् । पुरुषं द्वैताविष्ठानीभूतं ब्रहौव व्यतनुत विशेषेण दृश्योच्छेदलक्षणेन त्रिविधपरिच्छेदशून्यमेव विस्तारयामासेति संबन्धः । पक्ष पुरुषः कश्चिदनन्यः सुन्दरतरो नरः । प्रधानेति । 'प्रधानं स्यान्महा मात्रे प्रकृतौ च' इति मेदिन्युक्तर्महामात्रशाब्दितहस्तिपकैकावीन इत्यर्थः ।

  • मश्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः ।

महामात्राः प्रधानानि इत्यमरादमात्यैकपराधीन इति वाऽर्थः । रसादिकं तु प्राग्वदेव । लेषादिरलंकार:] ॥ ८९ ।। भूष्यतमे श्रेयस्करे शांकरे भाष्ये या वाचस्ताः प्रसूनसुमनसां फलपुष्पाणां संदो हस्य समुदायस्य संदोहनं याभ्यस्तथाभूताः कल्पलतास्ततुल्यास्ता गिरः समीक्षित वतां पुरुषाणामन्यदीयभाष्याभासवाचो दुरन्वयगिरराऽऽलिङ्गन्ता गुणैस्त्यक्ता अम्बु जासनस्य चतुर्मुखस्य वध्वाः सरस्वत्या दौर्भाग्येन गभकृताः कथमिष्टाः स्युरित्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ ९० ॥ [ वाच इति । यतः शांकरेऽतः श्रेयस्करे यतः 1 क. "तत्रो दृष्टा । २ ख. 'ष्टा गुणैरुज्झिता इष्टाः । ३ क. 'नुत । ८९ । भू'। श्रीमच्छंकरदिग्विजयः । [ सर्गः ६] कामं कामकिरातकार्मुकलतापर्यायनिर्यातया नाराचच्छटया विपाटितमनोधैर्येर्धिया कल्पितान् ॥ आचार्याननवर्यनिर्यदभिदासिद्धान्तश्रुद्धान्तरो धीरो नानुसरीसरीति विरसान्ग्रन्थानबन्धापहान् ॥ ९१ ॥ सुधास्पन्दाहंताविजयिभगवत्पादरचना समस्कन्धान्ग्रन्थान्रचयति निबद्धा यदि तदा । विशङ्कां भङ्गानां मृडमुकुटशृङ्गाटसरितः कृतौ तुल्या कुल्या नियतमुपशल्यादृतगतिः ॥ ९२ ॥ श्रेयस्करेऽतो भूष्यतमेऽतिपूज्ये ] [ यतो दुरन्वयगिरा दुष्टान्वयशालिन्या वाण्या आश्लिष्टा इति छेदः । आलिङ्गिता इत्यर्थः । अतो गुणैः प्रसादादिवाणीसामान्य गुणैः ] [ प्रतीपविशेषादिरलंकारः ] ॥ ९० ॥ कामं यथेष्टं कामकिरातस्य धनुर्लतातः पर्यायेण क्रमेणापर्यायेणैकदेव वा निर्या तया निःसृतया नाराचाख्येघूणां छटया समूहेन विपाटितं मनोवैर्यं येषां तैर्धिया स्वबुद्धया कल्पितान्विरसानबन्वापहान्बन्धनाशासमर्थान्ग्रन्थानाचार्याननवर्यान्निर्यता निर्गतेनाभिदाििसद्धान्तेन शुद्धांऽन्तःकरणो धीरो नानुसरीसरीत्यनुसरणं नैव करोति ॥ ९१ ॥ [ धिया स्वबुद्धयुत्पेक्षयैव । एतेन तत्रासांप्रदायिकत्वं ध्वन्यते ] [ परि करादिरलंकारः । ] ॥ ९१ ॥ किंच सुधास्पन्दस्यामृतप्रवाहस्याहंताया विजयिनी या भगवत्पादरचना तत्सम स्कन्धान्समपर्यायांस्तुल्यप्रकारान्ग्रन्थान्निबद्धा ग्रन्थकर्ता यदि रचयति तदा ‘ग्रामान्त मुपशाल्यं स्यात्' इत्यमरान्नियतमुपशल्ये ग्रामान्त अनादृता गतिर्यस्याः सा कुल्याऽल्पा कृत्रिमा सरिन्मृडस्य शिवस्य मुकुटमेव शृङ्गाटश्चतुष्पथस्तस्य सरितो गङ्गाया भङ्गानां तरङ्गाणां कृतौ करणे तुल्या इति विशाङ्कामपि रचयति ॥ ९२ ॥[ सुधेति । सुधाया अमृतस्य यः स्पन्दः प्रवाहः ‘स्पाद किंचिचलने' इति स्मरणात् । तस्य याऽहंता शुद्धत्वमधुरत्वाद्याधिक्याहंकृतिस्तस्या जयिनी पराजयकत्र्र्येतादृशी या भगवत्पादर चना श्रीमच्छंकराचार्यविरचितग्रन्थपद्धतिस्तया समस्तुल्यस्कन्ध स्कन्धः स्यानृपतावंसे संपरायसमृहयोः' इति मेदिन्याः पदसमूहो येषां ते तथा तानित्यर्थः । एतेन यथाकथंचिच्छब्दसं घत्वसाम्येऽप्यमृतावदातत्वादिभाष्यधर्मवैधुर्यमन्यदीयग्रन्थेषु ध्वन्यते ] [ यथा गङ्गातरङ्गरचने कुल्यायाः कालत्रयेऽपि नैव सामथ्र्य तथा श्रीमद्भगवत्पादविर चितभाष्यादिसदृशग्रन्थकरणे जीवकोटिनिविष्टकवेनैव पाटवमिति भावः । अत्र मिथ्याध्यवसितिरलंकारः । तदुक्तम् । [ सर्गः ६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । यया दीनाधीना घनकनकधारा समरचि प्रतीतिं नीताऽसौ शिवयुवतिसौन्दर्यलहरी ॥ भुजंगो रौद्रोऽपि श्रुतभयहृदाधायि सुगुरो र्गिररां धारा सेयं कलयति कवेः कस्य न मुदम् ॥ ९३ ॥ २५१ किंचिन्मिथ्यात्वसिद्धश्यर्य मिथ्यार्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वश्येद्वेश्यां खाब्जस्रज्जं वहन् इति । तथाचेह श्रीमद्भाष्यकारग्रन्थसदृशाग्रन्थरचनं मिथ्यैवेलेयेतस्यार्थस्य सिद्धयर्थ मिथ्याभूतस्य कुल्यायाः सुरसरित्तरङ्गविरचने साम्यस्य कल्पनालक्षणसमन्वयः । परिकरालंकारस्तु स्फुट एव ] || ९२ ।। यया गिरां धारयाऽऽमलात्मकनकधारा दीनाधीना समरवि सम्यग्रचिता यया च शिवयुवतिसौन्दर्यलहरी प्रतीतिं नीता प्रकटिता रौद्रोऽपि भुजंग : सर्पः श्रुतेन भयहृदाधायि कृत: प्रसिद्धं च शंकरनामाङ्कितप्राकृतमश्रस्य सर्पविषहारित्वं सेयं सुगुरोः श्रीशंकरस्य गिरां धारा कस्य कवेर्मुदं न कलयति किंतु सर्वस्यापि मुदं प्रय च्छतीत्यर्थः ॥९३॥ [ शिवेति । गौरीस्तुतिरूपा ‘शिवः शक्त्या युक्तः' इत्यादिः ] [ रौद्रो रुद्रस्य शिवस्यायं रौद्र । एतादृशः । भुजंगो भुजंगप्रयाताख्यप्रसिद्धवृत्तवि शेषघटितः शिवभुजंग इति लोके प्रसिद्धः स्तोत्रविशेष इति यावत् । यद्वा न भूमिर्न तोयं न तेजो न वायुः इत्यादिभुजंगप्रयातवृत्तघटिता मधुसूदनसरस्वतीकृतसिद्धान्तबिन्द्वाख्यटीकामूली भूता दशश्लोक्येव तथा । तस्या एव श्रुतमात्रेणाधिकारिभयहारित्वाच्छिवपदघटि तत्वाच । सोऽपि । श्रुतेति । श्रुतेन श्रवणमात्रेणैवाधिकारिणां भयं हरतीति तथा । एतादृशोऽप्यत्यदुतोऽप्याधाय रचित इत्यर्थः । ननु प्रकृता हि काशीपुरस्थजनाना मेव बदरिकाश्रमस्थश्रीशंकराचार्यविरचितसूत्रभाष्यादिकीर्तिश्रवणेन तद्वाग्वैभवविस्मय वर्णनोक्तिः सौन्दर्यलहरीस्तोत्रं तु तेन वक्ष्यमाणद्वादशसर्गे मृकाम्बादर्शनोत्तरं कृतमिति मृल एव समपञ्च सूचयिष्यति । तथा च शिवभुजंगस्य काश्या मेव शिवदर्शनोत्तरं कृतत्वसंभवेन तेषां तत्प्रसिद्धावप्यक्तशक्तिस्तोत्रस्याद्याप्यकृतत्वात्तत्कालावच्छेदेन कथं तेषामर्सवज्ञानां भविष्यतस्तस्य ज्ञानमिति चेद्वाढम् । तेषां तत्कालावच्छेदेनानुत्प त्रस्य तस्य ज्ञानाभावेऽपि माधवाचार्यस्य प्रकृतग्रन्थकर्तुस्तज्ज्ञानसत्त्वात्तद्वचांस्यनु वदतोऽस्य श्रीमद्भाष्यकारपादारविन्दभक्तिरसाविष्टचेतस्त्वेम निरुक्तानुवादित्वाननुसं धानादेव तथोक्तिबाँध्या । तदनुसंधानाभावस्त्वस्य कवेः मछते ‘रतिर्देवादिविषया' व्यभिचारी तथाऽश्चितः'।'भावः प्रोक्तः' इत्यादिकाव्यप्रकाशाकारिकोक्तभावध्वनित्वप रिपोषकत्वादुण एवेति दिकू ] ॥ ९३ ॥ २५२ श्रीमच्छकरदिग्विजयः । गिररां धारा कल्पद्रुमकुसुमधारा परगुरो स्तदर्थाली चिन्तामणिकिरणवेण्या गुणनिका ।। अभङ्गव्यङ्गयौघः सुरसुरभिदुग्धोर्मिसहभू र्दिवं भव्यैः काव्यैः सृजति विदुषां शंकरगुरुः ॥ ९४ ॥ वाचा मोचाफलाभाः श्रमशमनविधौ ते समर्थास्तदर्था व्यङ्गयं भङ्गयन्तरं तत्खलु किमपि सुधामाधुरीसाधुरीतिः । मन्ये धन्यानि गाढं प्रशमिकुलपतेः काव्यगव्यानि भव्या न्येकश्लोकोऽपि येषु प्रथितकविजनानन्दसंदोहकन्दः ॥ ९५ ॥ [ सर्गः ६] परगुरोः श्रीशंकरस्य गिरां धारा कल्पवृक्षकुसुमानां धारा तस्या वाराया अर्थपङ्गि श्चिन्तामणिलक्षणाङ्गनायाः किरणलक्षणाया वेण्याः केशबन्धस्य गुणनिका ऋत्यरूपा। भवेद्रुणनिकानृत्ये शून्याङ्के पाठनिश्चित इति विश्वप्रकाशः । अभङ्गो यो व्यङ्गयानां व्यञ्जनावृत्या गम्यानामोघ समुदौयोऽभङ्गानां वङ्गन्यानामोघो वा । सुरसुरभिदुग्वोर्मिसहभूर्देवकामधेनुदुग्धतरङ्ग सदृशोऽतो विदुषां शंकरगुरुर्भव्यैः काव्यैर्दिवं सृजति ॥ ९४ ॥ [ परेति । श्रीशंक राचार्यस्य ] कल्पद्रुमेति । सुरशाखिसुमनःसरणिरितियावत् । अस्तीत्यार्थिकं सर्वत्र । रुपककाव्यलिङ्गादयोऽलंकाराः ] ॥ ९४ ।। येषु वाचा वाचो मोचाफलाभाः कदलीफलतुल्या येषु च ते तासां वाचामर्था श्रमशमनविधौ समर्था येषु च किमप्यनिर्वाच्यं भङ्गयन्तरं विवक्षितरूपादपि चारुतर रूपान्तरास्पदं तत्प्रसिद्धं व्यङ्गन्यं येषु च सुधावन्माधुरीसाधुरीतिस्तानि काव्यलक्ष णानि भव्यानि गव्यानि गोदुग्धानि गाढमत्यन्तं धन्यानि मन्ये येषु काव्येष्वेक श्लोकोऽपि कविजनानामानन्दसमूहस्य कन्दो मूलम्। स्रग्धरा वृत्तम् ॥९५॥ [मोचेति

  • रम्भा मोचांशुमत्फला ' इत्यमरात्कदलीफलसदृशबहिःसुवर्णत्वपूर्वकान्तःसुरस

इत्यर्थः । साध्विति । साध्वी रम्या चासँौ रीतिश्चेति तथा । रीतिसामान्यलक्षण तद्वेदाश्चोक्ता मदीये साहित्यसारे गुणरत्ने । तत्तद्रसार्हपदसंघटनारीतिरीरिता । वैदर्भ च तथा गौडी पाञ्चाली चेति तत्क्रमातू' इति । तत्क्रमान्माधुर्यादिव्यङ्गन्यगुणक्रमेणेत्यर्थ इति सरसामोदाख्यतट्टीका विस्तरस्तु तयोरेव द्रष्टव्यः । सुधेति । सुधेव माधुरी यस्याः सा तथाऽस्तीत्यर्थ प्रशमीति । प्रकृष्टः फलीभूतः शम १ घ. 'भङ्गश्चासैौ व्यङ्गया"। २ घ. दायश्चाभ'। [ सर्गः ६] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । वाग्गुम्फैः कुरुविन्दकन्दलनिभैरानन्दकन्दैः सता मथोंघरविन्दवृन्दकुह रस्यन्दन्मरन्दोज्ज्वलैः ॥ व्यङ्गयैः कल्पतरुमफुलसुमनःसौरभ्यगभकृतै दैत्ते कस्य मुदं न शंकरगुरोर्भव्यार्थकाव्यावलिः ॥ ९६ ॥ २५३ ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति' इति भगवद्वचनादद्वैतात्मतत्वसाक्षात्कारोत्तरक्षणजन्यसकलदृश्योच्छेदलक्षणो मोक्षो येषां ते तथा तेषां श्रीमत्पद्मपादाचार्याद्यनन्तजीवन्मुक्तानां यानि कुलानि भारत्यादिसं प्रदायियूथानि तेषां पतिर्नियन्ता तस्य श्रीभगवत्पादस्येत्यर्थः । लुप्तोपमारूपककाव्य लिङ्गपरिकरादयोऽलंकाराः ] ॥ ९५ ॥ शंकरगुरोर्भव्योऽर्थो येषां तेषां काव्यानामावलिः पङ्गिर्वाचां गुम्फैरथैधैव्र्यङ्गयैश्च कस्य मुदं न ददाति । वाग्गुम्फान्विशिनष्टि । कुरुविन्दो मुस्तकः । ‘कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् इत्यमरः । तस्य कन्दलनिभैर्नवांङ्करतुल्यैः सतामानन्दस्य कन्दैलैः । अथार्थों घान्विशिनष्टि । अरविन्दवृन्दस्य कमलसमुदायस्य चिछद्रेभ्यः स्यन्दन्मरन्दः स्रवन्म करन्दस्तद्वदुज्ज्वलैः । अथ व्यङ्गवान्विशिनष्टि । कल्पवृक्षस्य प्रफुलसुमनसः सुगन्धै गर्मीकृतैः ॥ ९६ ॥ [भव्येति । भव्यानां सुन्दरपुरुषाणामेवार्था धर्मादिपुरुषार्थाः येभ्यस्तान्येतादृशान्यधिकार्यवच्छेदेन पुमर्थजनकानि यानि काव्यानि तेषामावलि पाङ्गरिति यावत् । नन्वेवं वर्मादिपुमर्थकामुकैकोपकारकत्वेऽपि तत्र निष्कामानादरणी यत्वमेव स्यादित्याशङ्कय तच्छब्दादीन्विशिनष्टि आनन्देत्यादिना । सतां ब्रह्मानि ष्ठानाम् ] [ ननु किमेतावता शब्दालंकारैकपौष्कल्येष्वर्थादिवैचित्र्याभावे 'तारतारतरैरेतैरुत्तरोत्तरतो रुतैः । रतात तित्तिरी रौति तीरे तीरे तरौ तरौ' इत्यादिवत्क्षणिकश्रवणानन्देन निरुक्तजगदानन्दकन्दत्वमित्यत आह । अथेधैः प्रतिपाद्यशक्यादिपदार्थसाथैरित्यर्थः । तथा । व्यङ्गयैव्र्यञ्जनावृत्तिगम्यै रसालंकारा दिभिरपीति यावत् । वाग्गुम्फादींस्त्रीनपि क्रमाद्विशिनष्टि कुरुविन्देत्यादिना । ‘कुरुविन्दं रत्नभेदे मुस्ताकुल्माषयोः पुमान् । हिङ्गले पद्मरागे च मुकुरेऽपि समीरिते' इति मेदिन्याः पद्मरागाङ्करसदृशैरित्यर्थः । न च पद्मरागाणां स्वप्रकाशपाषाण १ ग. "ङ्गयानि विशि'। २५४ श्रीमच्छंकरदिग्विजय [ सर्गः ६] तत्ताद्दग्यतिशेस्वरोद्धतनिषद्भाष्यं निशम्येष्र्यया केचिद्देवनदीतटस्थविदुषामक्षाङ्कन्निपैक्षश्रिताः ॥ मौख्यत्खण्डयितुं प्रयत्नमनुमानैकेक्षणा विक्षमा श्वकुर्भाव्यविचार्य चित्रकिरणं चित्राः पतङ्गा इव ॥ ९७ ॥ निघर्षणच्छेदनतापनाद्ये र्पथा सुवर्ण परभागमेति । विवादिभिः साधु विमथ्यमानं तथा मुनेर्भाष्यमदीपि भूयः ॥ ९८ ॥ विशेषत्वादङ्करशालित्वासंभव इति वाच्यम् । तत्किरणानामेव सूक्ष्मत्वमृदुत्वादिनाऽ ड्रस्थानीयत्वात् । एतेनोक्तकाव्यशब्दसरण्यां व्याकरणादिदोषशून्यत्वेन विमलत्वं माधुर्यादिगुणव्यञ्जकसुकोमलवर्णघटितत्वं च सूच्यते । अरविन्देति । एतेन यावद र्थदोषशून्यत्वे सति यावत्तदुणवत्वमर्थेषु ध्वन्यते । कल्पेति ।एतेन तत्र सकलकामपू रकत्वं व्यज्यते ] ॥ ९६ ।। यतिशेखरेणोदृतमुपनिषद्भाष्यं तत्तादृक्तथाभूतप्रभावं निशाम्य गङ्गातटस्थविदुषां मध्ये केचिद्रौतमपक्ष श्रिता भेदवादिनोऽनुमानमेकं प्रधानर्मीक्षणं ज्ञानसाधनं येषां ते विक्षमाः क्षमाविनिर्मुक्ताँ असमर्था वेण्र्यया मात्सर्येण भविष्यमविचार्य खण्डयितुं प्रयत्नं चक्रु श्चित्रकिरणं चित्रभानुमग्रि चित्राः पतङ्गा एव । शार्दूलविक्रीडितं वृत्तम् ॥ ९७ ॥ [ यतीति । परमहंसोत्तंसीभूतश्रीमद्भगवत्पादैरुङ्कतमित्यर्थः । एतेन तत्र क्षीरनीरवत्सं करीभूतपूर्वोत्तरकाण्डविवेचकत्वं व्यज्यते । निषदिति । सत्यभामादिपदे भामेत्यादि प्रयोगप्रसिद्धिवन्नामैकदेशे नामग्रह्णन्यायादुपेत्युपसर्गाग्रहेऽपि क्षत्यभावादुपनिषदुप लक्षितब्रह्मसूत्रादि मागुक्तषोडशभाष्यजातमित्यर्थः । अक्षेति । अक्षपादाभिधगौतम सिद्धान्तमिति यावत् । श्रिता आश्रिताः केचित्रैयायिका इत्यर्थः ] चित्रकिरणं ‘सूर्य वही चित्रभानू' इत्यमराद्दीपमित्यर्थः । खण्डाथतुं प्रयत्नं कृतवन्तः सन्त इति शेषः । चित्रा विविधाः पतङ्गा इव शालभा इव विक्षमा असमर्था एव बभूवुरिति योजना ] ॥ ९७ ॥ तैष्यमाणं तदीयं भाष्यं न दुष्टतामगात्प्रत्युतातिशयेन रराजेति सदृष्टान्तमाह निघर्षणादिभिर्यथा सुवर्णे परमुत्कृष्टं भागं भाग्यं प्राप्तोति तथा विवादिभिरतिशयेन मथ्यमानं मुनेर्भाष्यमत्यन्तमद्युतत् । उपेन्द्रवज्रा वृत्तम् ॥ ९८ ॥ [ साधु सयुक्तिकं यथा स्यात्तथा ] ॥ ९८ ॥ १ ख. घ. 'दृङ्मुविशे'। २ न. "पक्षं श्रि'। ३ घ. 'पक्षश्रि'। ४ क. ग. 'क्ता ईष्'। क, तैरीष्र्यमा'। [ सर्गः ६ ] धनपतिसूरिकृतांडण्डिमाख्यटीकासंवलितः । स भाष्यचन्द्रो मुनिदुग्धसिन्धो रुत्थाय दास्यन्नमृतं बुधेभ्यः । विधूय गोभिः कुमतान्धकारा नतर्पयद्विपमनश्चकोरान् ॥ ९९ ॥ अनादिवाक्सागरमन्थनोत्था सेव्या बुधैर्धिकृतदुःसपत्नैः । विश्राणयन्ती विजरामरत्वं विदिद्युते भाष्यसुधा यतीन्दोः ॥ १०० ॥ सतां हृदब्जानि विकासयन्ती तमांसि गाढानि विदारयन्ती । प्रत्यथ्र्युलूकान्प्रविलापयन्ती भाष्यप्रभाऽभाद्यतिवर्यभानोः ॥ १०१ ॥ स भाष्यलक्षणश्चन्द्रो मुनिलक्षणात्क्षीरसमुद्रादुत्थाय पण्डितलक्षणेभ्यो देवेभ्यो मोक्षलक्षणममृतं दास्यन्वाग्लक्षणैः किरणैः कुमतलक्षणानन्धकारान्प्रकम्प्य दूरीकृत्य विप्राणां मुमुक्षुब्राह्मणानां मनोलक्षणांश्चकोरानतर्पयत् । उपेन्द्रवत्रा वृत्तम् ॥ ९९ ॥ [ अमृतं कैवल्यम् । पक्षे पीयूषम् । बुधेभ्यः पण्डितेभ्यः पक्षे नामैकदेशे नामग्रहणा द्विबुधशाब्दितदेवेभ्य इत्यर्थः । गोभिर्वाग्भिः पक्षे किरणैः । ‘गीः स्वर्गपशुवाग्वत्रादङ्नेत्रघृणिभूजले ' इत्यमरः ] || ९९ ॥ इदानीं भाष्यं सुधारूपेण वर्णयति । यतिलक्षणस्य चन्द्रस्य भाष्यलक्षणा सुधाऽ नादिभूतवेदवाग्लक्षणात्समुद्रादुत्थिता धिक्कृता दुष्टशत्रवः कामक्रोधाद्य आन्तरा बाह्याश्च वादिनो यैस्तैः पण्डितलक्षणैर्देवैः सेव्या पुनश्च जरामरणरहितत्वं संपादयन्ती विदिद्युतेऽतिशयेन बभासे ॥ १०० ॥ [ अनादीति । ‘अनादिवाग्वाचा विरूपनित्य या' इति श्रुतेः अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा इति स्मृतेश्च वेदवाणी सैव सागर इत्यादि ] ॥ १०० ।। इदानीं भाष्यं भानुमभारूपेण वर्णयति । सतां हृलक्षणानि कमलानि विकासयन्ती गाढानि बाह्यमभाभिर्वेिदारयितुमशक्यान्यज्ञानलक्षणानि तमांसि विदारयन्ती प्रतिवादि लक्षणानुलूकान्पकर्षेण विलापयन्ती यतिश्रेष्ठलक्षणस्य सूर्यस्य भाष्यलक्षणा पभाऽभा २५५ १ क. ख. ग. 'यं प्र'। २५६ श्रीमच्छंकरदिग्विजयः । [ सर्गः ६] न्यायमन्दरविमन्थनजाता भाष्यनूतनमुधा श्रुतिसिन्धोः ॥ केवलश्रवणतो विबुधेभ्य श्चित्रमत्र वितरत्यमृतत्वम् ॥ १०२ ॥ पादादासीत्पद्मनाभस्य गङ्गा शंभोर्वक्त्राच्छांकरी भाष्यसूक्तिः ॥ आाद्या लोकान्दृश्यते मज्जयन्ती त्यन्या मानुद्धरत्यष भदः ॥ १०३ ॥ व्यासो दर्शयति स्म सूत्रकलितन्यायौघरश्नावली रर्थालाभवशान्न कैरपि बुधैरेता गृहीताश्विरम् । अर्थाप्त्या मुलभाभिराभिरधुना ते मण्डिताः पण्डिता व्यासश्चाऽऽप कृतार्थतां यतिपतेरौदार्यमाश्चर्यकृत् ॥ १०४ ।। दद्युतत् ॥ १०१ ॥ [ तमांस्यज्ञानानि । तथा चाऽऽथर्वणिकाः समामनन्ति 'माया च तमोरूपानुभूतेः' इति ] ॥ १०१ ॥ प्रसिद्धसुधाया भाष्यसुधायां व्यतिरेकं दर्शयति । व्यासोक्तन्यायलक्षणेन मन्दरा चलेन विशेषेण मन्थनाच्छूतिलक्षणात्समुद्राजाता भाष्यनूतनसुधा श्रवणमात्राद्विबुधेभ्य पण्डितेभ्योऽत्र जीवद्दशायां चित्रं प्रसिद्धामृतविलक्षणममृतत्वं मोक्षरूपं वितरति प्रय च्छति सा तु नैवंविधा । स्वागता वृत्तम् ॥ १०२ ॥ इदानीं गङ्गातो भाष्यसूत्केव्र्यतिरेकं दर्शयति । गङ्गा पद्मनामस्य विष्णोः पादा दासीत् । भाष्यसूक्तिस्तु शंभोर्मुखादासीदित्येको व्यतिरेक आाद्या गङ्गा लोकान्मज्ज यन्ती दृश्यतेऽन्या भाष्यसूक्तिः संसारसागरे मग्रानुद्धरतीत्येष द्वितीयो व्यतिरेकः । शालिनी वृत्तम् ॥ १०३ ॥ [ शांकरी शं मोक्षाख्यं निरतिशयं कल्याणं ज्ञानद्वाराऽ धिकारिणां करोतीति तथा ब्रह्मसूत्रदशोपनिषदादि तस्येयं शांकरीत्यर्थः । एवंच न शंभोरित्यनेन सहास्यपौनरुक्त्यम् ] ॥ १०३ ॥ सूत्रैः कलिता न्यायसमूहरत्नानामावलीमला व्यासो दर्शयति स्म । यथा शिल्पि वरेण ग्रन्थनं कृत्वा प्रदर्शिता रत्नमालास्तद्योग्यधनालाभात्केऽपि न गृह्णन्ति तथाऽ थलाभवशादेता मालाश्विरकालं कैरपि' पण्डितैर्न गृहीतौ इदानीं तु यतिपतेः सकाशा दर्थमाप्त्या सुलभाभिराभिर्यथोक्तमालाभिस्ते पण्डिता अलंकृता व्यासश्चापि कृतार्थतां मापातो यतिपते: श्रीशंकरस्यौदार्थमाश्चर्यकृत् । शार्दूलविक्रीडितं वृत्तम् ॥ १०४ ।। १ रा. ध. 'पेप बुधैन । २ ग. घ. "ता अधुना अर्थ'। ३ क. ख. 'भिर्माला'। [ सर्गः ६ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । २५७ विद्वज्जालतपःफलं श्रुतिवधूधम्मिछमछीस्रज सद्वैयासिकसूत्रमुग्धमधुरागण्यातिपुण्योदयम् ॥ वाग्देवीचिरभोग्यभाग्यविभवप्राग्भारकोशालयं भाष्यं ते निपिबन्ति हन्त न पुनर्येषां भवे संभवः ॥ १०५ ॥ मन्थानाद्रिधुरंधरा श्रुतिसुधासिन्धोर्यतिक्ष्मापते ग्रन्थानां फणितिः परावरविदामानन्दसंधायिनी ॥ इन्धानैः कुमतान्धकारपटलैरन्धीभवश्चक्षुपां पन्थानं स्फुटयन्त्यकाण्डकमभात्तकर्कविद्योतितैः ॥ १०६ ॥ [ सूत्रेति । सूत्रेषु 'अथातो ब्रह्मजिज्ञासा' इत्यादिषु कलिताः संगुम्फिता ये न्यायौघा युक्तित्रातास्तलक्षणा या रत्नावलयस्ता इत्यर्थः । पक्षे सूत्राणि क्षेौमतन्तवस्तेषु कलिता संगुम्फिता या न्यायौघा इव तर्कसंघा इव रत्नावलयस्ता इत्यर्थ । अर्थाप्त्या निरु क्तपुर्थप्राप्त्या । पक्षे वित्तप्राप्त्या ] [ अदुतो रसः। समासोक्तिलुप्तोपमारूपकश्लेषाद योऽलंकाराः ] ॥ १०४ ॥ विदुषां समृहस्य तपसः फलं श्रुतिलक्षणाया वध्वा धम्मिलस्य केशबन्धस्य माल तीस्रजं सद्वैयासिकसूत्रलक्षणसुन्दरमधुराख्यनगर्या अगणनीयस्यातिपुण्यस्योदयभूतं वाग्देव्या यानि चिरभोग्यभाग्यानि तेषां विर्भवातिशयभतार्थसंघातस्याऽऽलयं भाष्यं ते नितरां पिबन्तैि । ते क इत्यपेक्षायामाह । येषां संसारे पुनर्जन्म नास्ति । हन्तेोति हर्षे । 'मुग्धस्तु सुन्दरे मूढे' । ‘मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः' । कोशोऽस्त्री कुड्मले पात्रे दिव्ये खड़पिधानके । जातीकोशेऽर्थसंघाते' इति मेदिनी ॥ १०५ ॥ [ सदबाधितम् । एतादृशम् । तथा । वैयासिकेति । वैयासिकसूत्रमेव मुग्धमधुरं सुन्दरखाद्य तस्यागण्यान्यसंख्यानि यान्यतिपुण्यानि तषामुदयरूपम् । रुपकादयोऽलंकाराः ] | १०५ ॥ श्रुतिलक्षणस्य सुधासिन्धोः क्षीरसमुद्रस्य मन्थानाद्रेर्धरं धरतीति तथाभूतां तत्सदृशा याविराजस्य ग्रन्थानां सूक्तिः परे ब्रह्मादयोऽवरे यस्मात्तं परमात्मानं विदन्तीति तथा कार्थकारणविदो वा स्थूलसूक्ष्मविदो वा तत्त्वंपदार्थविदो वा तेषामानन्दाधायिनी । इन्धनैदातिं कुर्वस्तिर्कलक्षणार्कमकाशैः कुमतान्धकारसमूहैरन्वीभवचक्षुषां मार्ग स्फो रयन्त्यकाण्डकमभान्न तु रहस्यकाण्डकमकुत्सितं यथा स्यात्तथाऽभादिति वा। ‘कुत्सिते १ ख. घ. "भवस्याति'। २ क. 'न्ति । क । ३ क. ग. "ता य'। ४ क. स्फुटयन्ती । २५८ आ सीतानाथनेतुः स्थलकृतसलिलद्वैतमुद्रात्समुद्रा दा रुद्राकर्षणाद्रागवनतशिस्वराद्रोगसान्द्रान्नगेन्द्रात् ॥ आ च प्राचीनभूमीधरमुकुटतटादा तटात्पश्चिमाद्रे रद्वैताद्यापवग जयति यत्तिंधरापोद्धता ब्रह्मविद्या ॥ ६६३ ॥ इति श्रीमाधवीपे तब्रह्मविद्यामतिष्ठितिः ॥ संक्षेपशंकरजये षष्ठः सर्ग उपारमत् ॥ ६ ॥ [ सर्गः ७] स जातु शारीरकसूत्रभाष्य मध्यापयन्नभ्रसरित्समीपे ॥ शिष्यालिशङ्काः शमयनुवास यावन्नभोमध्यमितो विवस्वान् ॥ १ ॥ रहसि स्तम्बे काण्डम्' इति विश्वपकाशः ॥ १०६ ॥ [ अकाण्डकं प्रकटं यथा स्यात्तथा ] ॥ १०६ ॥ सीतानाथस्य नेता रामेश्धरस्तस्य समुद्रात्स्थलकृतं सेतुबन्धनेन यत्सलिलं तेन द्वैतमुद्रा यत्र तत्पर्यन्तं पुनश्च रुद्रेण त्रिपुरसंहारसमये यदाकर्षणं तस्माद्राग्झटित्यवन तानि नम्रीभूतानि शृङ्गाणि यस्य भोगैः सान्द्राद्धनीभतान्नगेन्द्रात्सुमेरोस्तत्पर्यन्तं तथो दयाचलमुकुटतटपर्यन्तं तथाऽस्ताचलाद्रेस्तटपर्थन्तमद्वैतो द्वैतशून्य भाद्योऽकार्यभू तोऽपवगों यस्याः सा यतिभूमिपेन यतिराजेनोद्धता ब्रह्मविद्या जयति सर्वोत्कर्षण वर्तते । स्रग्धरा वृत्तम् ॥ १०७ ॥ [ स्थलेति । स्थलकृतं सेतुबन्धनेन यत्सलिलं तेन द्वैतमुद्राजलभेदरचना यत्र तत्पर्यन्तमित्यर्थः ] [ भोगेति । भोगैर्देवादिविलासैः सान्द्रो निबिडस्तस्मात् । नगेन्द्रान्मेरोस्तत्पर्यन्तम् ] ॥ ६६३ ॥ [इति श्रीति। तदिति ।भाष्यकारकृतब्रह्मविद्याप्रतिष्ठितिर्यत्र स तथेत्यर्थः॥१०८॥] इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रपिादशिष्यद्दत्तवंशावतंस रामकुमारसूनुधनपतिसूरिकृते श्रीशंकराचार्यविजयडिण्डिमे षष्ठः सर्गः ॥ ६ ॥ अथ सप्तमसर्गस्य टीका । एवं सपरिकरां ब्रह्मविद्यामतिष्ठितिमुपवण्र्य व्यासदर्शनादिकं वर्णयितुमनुक्रमते स इति । स श्रीशंकरः कदाचित्खनदी गङ्गा तत्समीपे शारीरकसूत्रभाष्यं पाठय १ क. 'तिवरणो'। २ घ. 'तस्य मु'। ३ ग . "चिदभ्रन। [ सर्गः ७ ] धनपतिसूरिकृताडॉण्डमाख्यटीकासंवलितः । श्रान्तेष्वथाधीत्य शनैर्विनेये पष्वाचार्य उत्तिष्ठति यावदेषः ।। तावद्विजः कश्चन वृद्धरुप कस्त्वं किमध्यापयसीत्यपृच्छत् ॥ २ ॥ शिष्यास्तमूचुर्भगवानसौ नो गुरुः समस्तोपनिषत्स्वतन्त्रः । मकारि शारीरकसूत्रभाष्यम् ॥ ३ ॥ स चाब्रवीद्राण्यकृतं भवन्त मेते वदन्त्यदुतमेतदास्ताम् ॥ अथकमुच्चारय पारमष यतेऽर्थतस्त्वं यदि वेत्थ सूत्रम् ॥ ४ ॥ २९५९ ञ्शिष्यपङ्गिशङ्काः शमयत्रुवास यावत्कालं सूर्य आकाशस्य मध्यभितः प्राप्तः । उप जातिवृत्तम् ॥ १ ॥ [ शारीरकेति । शीर्यते प्रतिक्षणं नश्यतीति शारीरं स्थूला दिदेहस्तत्र भवस्तादात्म्याध्यायेन संजात इवेति शारीरो जीवस्तस्य कं दृश्योच्छे दपूर्वकमद्वैतब्रह्मात्यैक्यलक्षणमोक्षसुखं श्रवणादिजन्यज्ञानद्वारा येन तत्तथा तच तत्सू त्रम् ‘अथातो ब्रह्मजिज्ञासा' इत्यादि 'अनावृत्तिः शाब्दादनावृत्तिः शब्दात्' इत्यन्तं ब्रह्मसूत्रं यत्स्वकृतं भाष्यं तदित्यर्थः ] ॥ १ ॥ शनैरधीत्य श्रान्तेषु शिष्येषु सत्सु यावदेष भाचार्यः शनैरुत्तिष्ठति तावदृद्धरूप कश्चन ब्राह्मणस्त्वं कः किं पाठयसीति पृष्टवान् । इन्द्रवज्रा वृत्तम् ॥ २ ॥ प्रोत्तरं भगवा निति । द्वितीयस्योत्तरमाहुः । अनेन दूरीकृतो भेदवादो यत्र तच्छारीरकसूत्रभाष्य मकारि कृतं तदेव पाठयतीत्यर्थः । उपजाति वृत्तम् ॥ ३ || [ अत्र भगवानित्यनन धरावतारत्वं व्यज्यते । तन जीवकोटिनिविष्टसामान्यगुरुव्यावृत्तद्यात्यत । अत एव । समस्तेति । निखिलोपनिषदामपि निरर्गलतात्पयनुभववानित्यर्थे । न तु श्रोत्रियब्रह्मनिष्टगुरुवत्स्वशाखोपनिषन्मात्रतात्पर्यज्ञ इति यावत् । अत एवाने त्यादि ] ॥ ३ ॥ एवं शिष्योक्तं निशम्य स च ब्राह्मणो भाष्यकारमभाषत । एते त्वां भाष्यकारं वदन्त्येतददुतमास्तां तिष्ठतु हे यते यदि त्वं परमर्षिणा वेदव्यासेन प्रोक्तं सूत्रमर्थतो जानासि त कमपि तत्सूत्रमुचारय तदर्थव्याख्यानायैकस्य सूत्रस्योच्चारणं कुर्वि त्यर्थः ॥ ४ ॥ [ हे यते संन्यासिंस्त्वं यदि पारमर्षे परमर्षिणा बादरायणेन प्रणीतं २६० श्रीमच्छकरदिग्विजयः । तमब्रवीद्राष्यकृदयवाचं सूत्रार्थविभ्योऽस्तु नमो गुरुभ्यः ॥ सूत्रज्ञताहंकृतिरस्ति नो मे तथाऽपि यत्पृच्छसि तङ्कवीमि ॥ ५ ॥ पप्रच्छ सोऽध्यायमथाधिकृत्य तृतीयमारम्भगतं यतीशम् ॥ तदन्तरेत्यादिकमस्ति सूत्रं ब्रहेतदर्थं यदि वेत्थ किंचित् ॥ ६ ॥ स प्राह जीवः करणावसादे संवेष्टितो गच्छति भूतसूक्ष्मैः ॥ ताििण्डश्रुतौ गौतमजैवलीय प्रश्रोत्तराभ्यां प्रथितोऽयमर्थः ॥ ७ ॥ द्वथा । एतादृशं सूत्रं ब्रह्मसूत्रं यदि समग्रमथैतो वेत्थ ज्ञातवानासि तईि तन्मध्य एकमाप सूत्रामत्याथकम् । अथत उचारय व्याख्यानपृवकमुपपादयत्व भाष्यकृतं मत्येवाब्रवीदित्यन्वयः ] || ४ ॥ एवमुक्तो भाष्यकारस्तं ब्राह्मणं श्रेष्ठां वाचमुवाच। सूत्रार्थविद्भन्यो गुरुभ्यो नमोऽस्तु सूत्रज्ञताभिमानो यद्यपि मम नास्ति तथाऽपि यत्पृच्छसि तद्रवीमि ||५॥ [ अय्यवा चमग्रया पूज्या वाक्यश्रवाणी यस्य तम् । औद्वैतात्मस्मारकत्वादुक्तमश्नवाचोऽप्यन्यत् बोध्यम् ! एतादृशम् । तं प्रागुक्तवृद्धब्राह्मणं प्रति । इत्यब्रवीदुवाचेत्यर्थः । इतीति ि तदेवाऽऽह । सूत्रेत्यादित्रिपाद्या ] ॥ ५ ॥ अध भाष्यकारोक्तिरनन्तरं स ब्राह्मणो यतीशं पप्रच्छ । यत्पृष्टवांस्तदाह । तृती यमध्यायमधिकृत्य ततीयाध्याय अारम्भगतम् । तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त मश्रनिरूपणाभ्याम्' इति सूत्रमस्त्येतस्यार्थ यदि त्वं किंचिज्जानासि तर्हि बूहि ॥६ एवं पृष्टः स भाष्यकार उक्तसूत्रस्याथै प्रोक्तवान् । जीवः करणानामिन्द्रियाणा वसादे मरणसमये देहान्तरप्रतिपत्तौ देहबीजैर्भूतसूक्ष्मैः संपरिष्वक्तः संवेष्टितो रंहाँ गच्छतीत्यवगन्तव्यम् । कुत । प्रश्रनिरूपणाभ्यां ताडिश्रुतैौ गौतमजैवलीयप्रश् प्रतिवचनाभ्याम्। श्रस्तावद्वेत्थ यथा ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति प्रतिवचनं च द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वमिषु श्रद्धासोमवृष्टयन्नरेतोरूर पञ्चाऽऽहुतीर्शयित्वेति तु पञ्चम्यामाहुतावाप *: पुरुषवचसो भवन्तीति । तस्म

  • अश्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानम् ।

[ सर्गः ७ ] १ क. ग. त्त्व जाना '। [ सर्गः ७ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । २६१ इत्युक्तमर्थ निशमय्य तेन स वावदूकः शतधा विकल्प्य ॥ अस्वण्डयत्पण्डितकुञ्जराणां मध्ये महाविस्मयमादधानः ॥ ८ ॥ अनूद्य सर्व फणितं तदीयं सहस्रधा तीर्थकरश्वखण्ड ॥ तयोः मुराचार्यफणीन्द्रवाचो र्दिनाष्टकं वाकलहो जजूतृम्भे ॥ ९ ॥ दाभ्यां पश्रप्रतिवचनाभ्यामयमर्थः प्रथितः ॥ ७ ॥ [ जीवः करणावसादे करणानी न्द्रियाण्यवसीदन्ति खेदपूर्वकं लीयन्ते यस्मिन्स तथा तस्मिन्मरणकाल इत्यर्थः । तदन्तरप्रतिपत्तिशब्दितदेहान्तरप्राप्त्यवसर इति यावत् । भूतेति । अन्यदेहबी यावत् । जीभूतैर्भूतसूक्ष्मैः श्रोत्रादीन्द्रियादिवदज्ञानलीनैः शब्दादितन्मात्रैरिति सूक्ष्माणि भूतानीति भूतसूक्ष्माणि तैरिति मयूरव्यंसकादिवत्समासो बोध्यः । संवेष्टितो गच्छति रंहति पदोदितदेहान्तरगमनमातनोतीत्यर्थः ] ॥ ७ ॥ इत्येवं प्रकारेण तेनोक्तं सूत्रार्थं श्रुत्वा स वावदूकोऽतिवक्ता ब्राह्मणः शतधा विकल्प्य पण्डितकुञ्जराणां मध्ये विस्मयमादधानोऽखण्डयत्खण्डितवान् । तथाहि । व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशादृत्तिलाभस्तत्र भवति । यद्वा केवलस्यैवाऽऽत्मनो वृत्तिलाभस्तत्र भवतीन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्ते । यद्वा मन एव केवलं भोगस्थानमभि प्रतिष्ठते । यद्वा जीव एवो त्प्लुत्य देहादेहान्तरं प्रतिपद्यते शुक इव वृक्षादृक्षान्तरम् । किंच देहान्तरप्रतिपत्तौ करणानां जीवेन सह गमनं श्रुतिविरुद्धम् । तथाच श्रुतिः । यत्रास्य पुरुषस्य मृतस्याभिं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रमसै दशः श्रात्रम् इत्याद्या । अपि च प्रथमेऽमावपां श्रवणाभावात्पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति निर्धारयितुं न शक्यते । अत्र हि द्युलोकममुखाः पञ्चाग्रयः श्रद्धादीनां पञ्चानामाहुतीनामाधारत्वेनाधीतास्तत्र प्रथमेऽग्रं श्रुतां श्रद्धां परित्यज्याश्रुतानामपां परिकल्पनं साहसमात्रम् । श्रद्धायाः प्रत्ययविशेषत्वप्रसिद्धेः । किंचास्त्वपां श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारप्रतिपत्तिस्तथाऽपि तत्परिष्वक्तस्य जीवस्य गमनं तु न वाच्यं तद्रमनस्याश्रुतत्वादित्येवमादिना शतधा विकल्प्य खण्डितवानित्यर्थः ॥ ८ ॥ तदीयं भाषितं सर्वमनूद्य शास्त्रकारः श्रीशंकरः सहस्रधा चखण्ड । न तावत्सां १ क. 'वोत्सृज्य । ३३ श्रीमच्छकरदिग्विजयः । [ सर्गः ७ ] रूयबौद्धवैशेषिकदिगम्बराणां कल्पनाऽऽदर्तव्या। उदाहृतश्रुतिविरोधात् । न चाप्शाब्द श्रवणसामथ्यत्प्रश्न प्रतिवचनाभ्यां केवलाभिरद्भिः संपरिष्वक्तो रंहतीति वाच्यम् । तासां भूयस्त्वापेक्षयाऽप्शब्दप्रयोगाविरोधात् । न हि केवलानामपां देहारम्भकत्वं संभवाति । त्रिवृत्करणश्रुतेः । त्रयाणामपि तेजोबन्नानां देहे कार्योपलब्ध्या तस्य त्रया त्मकत्वाच्च । ननु पार्थिवो धातुभूयिष्ठो देहेधूपलक्ष्यत इति चेत्रैष दोषः । इतरापेक्ष याऽपां बाहुल्यसंभवात् । तस्मादप्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानं युक्तम् । किंच माणानां देहान्तरमतिपत्तौ गतिः श्राव्यते । ‘तमुत्क्रामन्तं प्राणोऽनू त्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति' इत्यादिश्रुतिभ्यः। सा च प्राणानां गतिराश्रयमन्तरेण न संभवतीत्यतः माणगतिप्रयुक्तानां तदाश्रयाणामपामपि भूतान्तररां पसृष्टानां गतिरर्थादवगम्यते । न हि निराश्रयाः प्राणाः कचिद्रच्छान्त तिष्ठन्ति वा जीवतोऽदर्शनात् । वागादीनामग्यादिगतिश्रुतिस्तु गौणी । लोमसु केशेषु चादर्शनात् ओोषधीलमानि वनस्पतीन्केशाः' इति हि तत्र तत्राऽऽम्रायते । न च तेषामुत्लुत्य तेषु गमनं संभवति । न च जीवस्य प्राणोपाधिपत्याख्यानेन गमनमवकल्पते । नापि प्राणै र्विना देहान्तर उपभोग उपपद्यते । तस्माद्वागाद्यधिष्ठात्रीणामयादिदेवतानां वागा द्युपकारिणीनां मरणकाल उपकारनिवृत्तिमात्रमपेक्ष्य वागादयोऽयादीन्गच्छन्तीत्युप चर्यते । यत्तु प्रथमेऽग्रावित्यादि तदपि न दोषावहं यतस्तत्रापि प्रथमेऽौ ता वाक्यमुपपद्यतेऽन्यथा पुनः पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रतिवचनाव सरे पथमाहुतिस्थाने यद्यनयोहम्यद्रव्यं श्रद्धां नामावतारयेत्ततोऽन्यथा प्रश्रोऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात् । न च श्रद्धाख्यः प्रत्ययो मानसो जीवस्य वा धर्मः सन्धर्मिणो निष्कृष्य होमायोपादातुं शक्यते पश्चादिभ्य इव हृदयादीनि । तस्मादाप एव श्रद्धाशब्देनोपादेयाः । श्रद्धा वा आप इति वैदिकप्रयोगदर्शनादपि श्रद्धाशब्दस्याप्सृपपातः । गच्छन्तीनामपां बीजरूपतया सूक्ष्मत्वगुणयोगेन माणवके सिहशब्द इव तासु श्रद्धाशब्दो वोपपन्नः । श्रद्धापूर्वककर्मसमवायाचाप्सु श्रद्धाशब्द उपपद्यते पुरुषेषु मञ्चशब्द इव । ‘आपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणः’ इति श्रुतेः । श्रद्धाहेतृत्वाच तासु श्रद्धाशब्दोपपातिः । यद्यप्यत्र जीवानां श्रवणं नास्ति तथाऽपि य इष्टापूर्तादिकारिणः पितृयाणेन गन्तारः श्रुतास्त एवेहापि प्रतीयन्त इत्याद्यनेकप्रकारेण खण्डितवान् । बृहस्पतिशेषनागतुल्यवाचोस्तयोर्वाकलहो दिनाष्टकं जनृम्भ । उपन्द्रवत्रा वृत्तम् ॥ ९ ॥ [ सर्गः७ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । एवं वदन्तौ यतिराङ्गद्विजेन्द्रौ विलोक्य पाश्र्वस्थितपद्मपादः । आचार्यमाहेति महीमुरोऽयं व्यासो हि वेदान्तरहस्यवेत्ता ॥ १० ॥ त्व ३शकरः शाकर एव साक्षा ह्यासस्तु नारायण एव नूनम् ॥ तयोर्विवादे सततं प्रसत्ते किं किंकरोऽहं करवाणि सद्यः ॥ ११ ॥ इतीदमाकण्र्य वचो विचित्रं स भाष्यकृत्सूत्रकृतं दिदृक्षुः ॥ कृताञ्जलिस्तं प्रयतः प्रणम्य बभाण वाणीं नवपद्यरुपाम् ॥ १२ ॥ भवांस्तडिचारुजटाकिरीट प्रवर्षकाम्भोधरकान्तिकान्तः ॥ शुझोपवीती धृतकृष्णचर्मा कृष्णो हि साक्षात्कालदोषहन्ता ॥ १३ ॥ २६३ एवं प्रकारेण वदन्तौ यतिराड्द्वजेन्द्रौ विलोक्य पार्थे स्थितः पद्मपाद् भाचार्य मितीदमाहायं ब्राह्मणो वेदान्तरहस्यवेत्ता व्यासः ।हिरवधारणे। उपजातिवृत्तम् ॥१०॥ तथाच युवयोः शिवविष्णवोर्विवादे मवृत्ते किंकरेण मया किमनुष्यमित्याश् ! त्वमिति ॥ ११ ॥ इतीदं विचित्रं पद्मपादवचो निशम्य स भाष्यकारः सूत्रकारं दिदृक्षुः प्रयतः सावधानः कृताञ्जलिस्तं प्रणम्य नवपद्यरूपां स्तुतिवृत्तरूपां वाणीं जगाद । उपेन्द्रवज्रा वृत्तम् ॥ १२ ॥ [ दिदृक्षुद्रष्टुमिच्छुः ] ॥ १२ ॥ यदुवाच तदाह । भवाविद्युद्वचारुजटाकिरीटेन प्रवर्तुकाम्भोधरैकान्तिरिव या कान्तिस्तया कान्तः शुभ्रमुपवीतं यस्य धृतं कृष्णचर्म येन स कलिदोषहन्ता कृष्ण द्वैपायनो व्यास एव साक्षान्न त्वन्यः कश्चन ब्राह्मण इत्यर्थः । उपजातिवृत्तम् ॥१३॥ [ तडिदिति । एतेनामृतवर्षकत्वं सूच्यते । लुप्तोपमालंकारः ] ॥ १३ ॥ १ क. 'रस्य का'। २६४ श्रीमच्छदकरदिग्विजयः । भावत्कसूत्रप्रतिपाद्यतादृ क्परापरार्थप्रतिपादकं सत् ॥ अद्वतभाष्य तव समत च त्सोढ़ा ममाऽऽगः पुरतो भवाऽऽशु ॥ १४ ॥ एवं वदन्नयमथैक्षत कृष्णमारा चाभीकरव्रततिचारुजटाकलापम् ॥ विद्युछतावलयवेष्टितवारिदाभं चिन्मुद्रया प्रकटयन्तमभीष्टमर्थम् ॥ १५ ॥ गहाँपदं विदधतं शरदिन्दुबिम्बम् ॥ तापिच्छरीतितनुकान्तिझरीपरितं कान्तेन्दुकान्तघटितं करकं दधानम् ॥ १६ ॥ भवदीयसूत्रे प्रतिपाद्यस्य तादृशस्य निर्विशेषसविशेषार्थस्यै कार्यकारणात्मकस्य वाऽर्थस्य प्रतिपादकमद्वैतभाष्यं तव सत्समीचीनं संमतं चेत्तर्हि ममापराधं क्षमित्वा शीघ्र ममाग्रे प्रत्यक्षो भव । पाठान्तरे भावत्कसूत्रं प्रतिपाद्य तत्तादृक्परापरार्थप्रतिपादकमि त्यर्थः ॥ १४ ॥ [ भावत्केति । भो बादरायण । भवत इदं भावत्कं त्वदीयमेतादृशं यत्सूत्रं ब्रह्मसूत्रामित्यर्थः । प्रतिपाद्योपपाद्य । परापरेति । परः पारमार्थिकोऽद्वैत ब्रह्मात्मरूपः । अपरो मिथ्याभूतो यावदृश्यरूपश्च योऽर्थः पदार्थस्तस्य तयोवा सत्य त्वमिथ्यात्वाभ्यां क्रमात्प्रतिपादकं सदित्यर्थः । एतादृशमद्वैतभाष्यम् । तव यदि तादृ ग्लोवोत्तरत्वेन संमतं मान्यं चेत्तर्हि त्वं ममाऽऽगः खण्डनादिलक्षणमपराधम् । सोद्वा । आशु शीघ्रम् । पुरतोऽग्रतः । ‘स्यात्पुरः पुरतोऽग्रतः' इत्यमरः । भव प्रत्यक्षीकृतनिज वास्तवस्वरूपो भवेत्यन्वयः । लुप्तोपमालंकारः ] ॥ १४ ॥ एवं वदन्पन्नथानन्तरमयं श्रीशंकरः कृष्णमाराडूराद्वलोकितवान् । तं विशिनष्टि । चामीकरत्रततयः सुवर्णमय्यो लतास्तद्वत्सुन्दराणां जटानां कलापो यस्य विद्युलुक्षण लतावलयन वेष्टितैन मेघेन तुल्यं चिन्मुद्रया ज्ञानमुद्रयाऽभीष्टमर्थे प्रकटयन्तम् । वसन्ततिलका बृत्तम् ॥ १५ ॥ पुनस्तमेव पञ्चभिर्विशिनष्टि । अनुरागजुषा रजन्याऽत्यन्तमालिङ्गितं शरचन्द्र बिम्बं निन्दास्पदं कुर्वन्तं यतस्तापिच्छस्तमालस्ततुल्यस्वशरीरकान्तिझरीभिव्यष्टं कान्तो यश्चन्द्रकान्तमाणिस्तेन निर्मितं करकं कमण्डलु दधानम् ॥ १६ ॥ ? क. सूत्रं प्र'। [ सर्गः ७] २ क, ‘स्य प्र'। [ सर्गः ७ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । सप्ताधिकाच्छदरविंशतिमौक्तिकाढयां सत्यस्य मूर्तिमिव बिभ्रतमक्षमालाम् ॥ तत्तादृशस्वपतिवंशविवर्धनात्मा क्तारावलीमुपगतामिव चानुनेतुम् ॥ १७ ॥ शार्दूलचमेद्वहनेन भूते रुदूलनेनापि जटांछटाभिः ॥ रुद्राक्षमालावलयेन शंभो रर्धासनाध्यासनसख्यपात्रम् ॥ १८ ॥ अद्वैतविद्यासृणितीक्ष्णधारा वशीकृताहंकृतिकुञ्जरेन्द्रम् ॥ नियन्त्रिताकृत्रिमगोसहस्रम् ॥ १९ ॥ तत्तादृगत्युज्ज्वलकीर्तिशालि शिष्यालिसंशोभितपाश्र्धभागम् ॥ २६५ १ क. 'टालताभिः निवारिताशेषजनानुतापम् ॥ २० ॥ सप्ताधिकैरच्छदरैः स्वच्छच्छिद्रेर्विशतिसंख्याकैमौक्तिकैराढ्यामक्षमालां सत्यस्य मूर्तिमिव बिभ्रतं तत्तादृशस्य स्वपतिवंशस्य चन्द्रवंशस्य वर्धनात्प्रागुपगतां तारावलीम श्धिन्यादिनक्षत्रमालां भवत्पतिवंशं वर्धयिष्यामीत्यनुनयं कर्तुमिवेत्युत्प्रेक्षाद्वयम् ॥ १७ ॥ [ सप्ताधिकेति । सप्ताधिकैरच्छदरै * दरोऽस्त्री साध्वसे गर्ते ' इति मेदिन्याः सुन्दरसूक्ष्मच्छिद्वैर्विशतिसंख्याकैमोक्तिकैराढ्या संपन्ना तामित्यर्थः ] [ भाननेन्दु मुखचन्द्रम् । उपगतां तारावलीमिव स्थितामित्यर्थः । अनुनेतुमिति पाठे व्यासमित्यार्थिकमेव । भगवता बादरायणेनैव हि सत्यवत्याज्ञया चन्द्रवंशवर्धनमका रीति महाभारते प्रसिद्धमेव ] ॥ १७ ॥ शार्दूलचमोद्वहनादिना शंभोरर्धासनाध्यासनस्य सख्यस्य पात्रम् । इन्द्रवज्रा वृत्तम् ॥ १८ ॥ अद्वैतविद्यालक्षणस्याङ्कशस्य तीक्ष्णया धारया वशीकृतोऽहंकारलक्षणो गजेन्द्र येन तं स्वशास्रमद्वैतशास्त्रं तलक्षणे शङ्घौ स्थाणावुज्ज्वलसूत्रलक्षणदामभिर्नियश्रितमकृ त्रिमानां श्रुतिलक्षणगवां सहस्र येन तम् । उपजातिवृत्तम् ॥ १९ ॥ तत्तादृशामत्युज्ज्वलकीर्तिशालिनां शिष्याणां पङ्गिभिः संशोभितः पार्धभागो यस्य श्रीमच्छठंकरदिग्विजयः । विलोक्य वाचंयमसार्वभौमं स शंकरोऽशङ्गितदर्शनं तम् ।। गुरुं गुरूणामपि हृष्टचेताः प्रत्युद्ययौ शिष्यगणैः समेतः ॥ २१ ॥ अत्यादराच्छात्रगणैः सहासौ प्रत्युद्वतस्तचरणा प्रणम्य | यत्यग्रगामी विनयी प्रहृष्यन्नि त्यब्रवीत्सत्यवतीसुतं सः ॥ २२ ॥ द्वैपायन स्वागतमस्तु तुभ्यं दृष्टा भवन्तं चरिता मयाऽर्थाः ॥ युक्तं तदेतत्वयि सर्वकालं परोपकारव्रतदीक्षितत्वात् ॥ २३ ॥ [ सर्गः ७ ] तं कटाक्षेणाभिवीक्षालक्षणयाऽमृतधारया निवारितोऽशेषजनानामाध्यात्मिकादिरूपोऽ नुतापो येन तं सर्वो जनानुतापो येनेति वा ॥ २० ॥ वाचंयमानां नियात्रतसर्वेन्द्रियाणां मुनीनां राजानमशङ्कितमसंभावितं दर्शनं यस्य तं गुरूणामपि गुरुं विलोक्य महृष्टचेताः स शंकरः शिष्यगणैः संयुक्तः प्रत्युद्ययौ ॥ २१ ॥ [ प्रत्युद्ययावभिमुखं जगामेत्यर्थः ] ॥ २१ ॥ अत्यादराच्छिष्यगणैः सह प्रत्युद्रतोऽसौ शंकरस्तस्य व्यासस्य चरणौ प्रणम्य यत्यग्रगामी विनययुक्तः मद्वैष्यन्सन्स श्रीशंकरः सत्यवत्रीपुत्रमितीदमुवाच । इन्द्र वज्रा वृत्तम् ॥ २२ ॥ [ यद्यपि नैष्ठिकब्रह्मचारिणं व्यासं प्रति संन्यासिनो भाष्यका रस्य मणत्यनौचित्यमेव तथाऽपि ‘मुनीनामप्यहं व्यासः' इति को वाऽन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्’ इति च स्मृतेर्विष्ण्ववतारत्वेनेश्वरविया तदैौचित्यमेवेति भावः ] ॥ २२ ॥ यदुवाच तदाह । हे द्वैपायन स्वागतं तुभ्यमस्तु । भवन्तं दृष्टा मया सर्वे पुमर्था श्वरितास्तदेतदस्मदाँदेः सर्वार्थसंपादकत्वं त्वयि युक्तम् । तत्र हेतुमाह । सर्वेषु कालेषु परोपकारत्रते दीक्षितत्वात् । उपजातिवृत्तम् ॥ २३ ॥ [ वरिताः कृताः संपा दिता इति यावत् ] ॥ २३ ॥ १ क. ह्यष्ट इत्य'। २. क. हृष्टः स श्री'। ३ ख. ग. घ. 'दादिस'। ४ ग. "दनं त्व'। [ सर्गः ७ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मुने पुराणानि दशाष्ट साक्षा च्छूत्यर्थगर्भाणि सुदुष्कराणि । कृतानि पद्यद्वयमत्र कर्तु को नाम शक्रोति सुसंगतार्थम् ॥ २४ ॥ वेदार्णवं व्यतियुतं व्यदधाश्चनुर्धा शाखामभेदनवशादपि तान्विभक्तान् ॥ मन्दाः कलौ क्षितिसुरा जनितार एते वेदान्ग्रहीतुमलसा इति चिन्तयित्वा ॥ २५ ॥ एष्यद्विजानासि भवन्तमर्थ गतं च सर्वे न न वेत्सि यत्तत् ॥ नो चेत्कथं भूतभवद्भविष्य त्कथाप्रबन्धान्रचयेरजानन् ॥ २६ ॥ २६७ परोपकारव्रतिना त्वया कृतस्य लेशोऽप्यन्येन कर्तुमशक्य इत्याशयेनाऽऽह । हे मुने । ‘ब्राह्म पाइमं वैष्णवं च शैवं लैङ्ग सगारुडम् । नारदीयं भागवतमाझेयं स्कान्दसंज्ञितम् । भविष्यं ब्रह्मवैवर्त मार्कण्डेयं सवामनम् । वाराहं मात्स्यकौम्ये च ब्रह्माण्डाख्यमिति त्रिषट् । इत्युक्तान्यष्टादश पुराणानि साक्षाछूत्यर्थगर्भाण्यन्यैः सुदुष्कराणि त्वया कृतान्य त्रास्मिलेॉके सुसंगतार्थं श्लोकद्वयमपि कर्तु कः शक्रोति । उपजातिवृत्तम् ॥ २४ ॥ किंच व्यतियुतं व्यामिश्रितं वेदसमुद्रमृग्यजुःसामाथर्वणलक्षणैश्चतुर्भिः प्रकारैर्युक्तं त्वं व्यदधाः कृतवानासि कलौ मन्दपज्ञा एते ब्राह्मणा वेदान्ग्रहीतुमलसा जनितार उत्पत्स्यन्त इति चिन्तयित्वा शाखापभेदनवशादपि तान्वेदान्विभक्तान्व्यधा विहित वानासि । वसन्ततिलका वृत्तम् ॥ २५ ॥ एष्यद्भविष्यद्विजानासि तथा भवन्तं वर्तमानं गतमतीतं च सर्वे जानासि यत्वं न वेत्सि न जानासि तन्नास्त्येव नो चेद्यदि नैव जानासि तहजानन्भूतभवद्भविष्यत्कथा मबन्धान्कथं रचयेः कथं रचितवानसि । भारूयानकी वृत्तम् ॥ २६ ॥ २६८ श्रीमच्छकरदिग्विजयः । आभासयन्नन्तरमङ्गमान्ध्य स्थूलं च सूक्ष्मं बहिरन्तरं च ॥ अपानुदन्भारतशीतरश्मि रभूदपूर्वो भगवत्पयोधेः ॥ २७ ॥ वेदाः षडङ्गं निखिलं च शास्त्रं महान्महाभारतवारिराशिः ।। त्वत्तः पुराणान च सबभूवु सर्वे त्वदीयं खलु वाङमयाख्यम् ।। २८ ॥ द्वीपे कचित्समुदयनृतमेवधाम शाखासहस्रसचिवः शुकसेव्यमानः । उछासयत्यहह यस्तिलको मुनीना मुचै:फलानि सुदृशां निजपादभाजाम् ।। २९ ।। [ सर्गः ७ ] अन्तरमङ्गं सर्वान्तरमात्मानमष्टमूर्तिशिवावयवं तच्छरीरं वाऽऽभासयन् । स्थूलं कार्ये सूक्ष्मं कारणं बहिर्जगन्मिथ्यात्वाज्ञानमन्तरं प्रत्यगभिन्नपरमात्माज्ञानमान्ध्यं तमोऽ पानुदन्भारतलक्षणोऽपूर्वश्चन्द्रो भगवत्पयोधेस्त्वत्तः क्षीरसमुद्रादभूत् । प्रसिद्धचन्द्रस्तु बाह्य शिवशरीरं तच्छिरोलक्षणावयवं वा प्रकाशयन्स्थूलं बाह्य तमो नाशयति । यद्वा बहिः स्थूलं कार्यरूपमन्तरं सूक्ष्मं कारणरूपमथवा स्थूलमर्थाज्ञानं सूक्ष्मं धर्माज्ञानं बहि कामाज्ञानमन्तरं मोक्षाज्ञानमित्यर्थः । उपजातिवृत्तम् ॥ २७ ॥ २८ ॥ [ वेदा इति । षडङ्गं षण्णां शिक्षाद्यङ्गानां समाहारः षडङ्गम् । वेदानां व्यासत संभवस्तु यद्यपि साक्षात्रैव तथाऽपि तद्विभक्तत्वेनैव बोध्यः । षडङ्गस्य तु पाणिन्यादितत्तन्मुनिप्रणीतत्वेऽपि व्यासेनाऽऽदृत्याध्यापितत्वादिनैव तथात्वं ध्येयम् । एवमेव निखिलशास्त्रेऽपि बोध्यम् । वारिराशिरूपकेणैव महाभारते वैपुल्ये शाब्दिके महत्पदकर्मधारयेणाऽऽर्थिके च सिद्धे महानिति विशेषणं तु श्रीमद्भगवद्रीतादिशास्त्र वत्वेन परमपूज्यत्वार्थमेवेति भावः । एवं सर्वमित्यत्राप्यङ्गादिन्याय एव ज्ञेयः] ॥२८॥ द्वैपायननिरुक्ति वृक्षरूपकेणाऽऽह । ऋतमेव धाम सत्यस्वप्रकाशरूपं परब्रलैव कचिद्वीपे समुदयैन्वेदशाखानां सहस्र सचिवो यस्य शुकेन सेव्यमानः कल्पवृक्षरुपी यो मुनीनां तिलकः सुदृष्टीनै स्वायचरणभाजामुचैः फलान्युत्कृष्टानि मोक्षादिरूपाणि फलान्युलासयति । अहहेत्यत्याश्चर्येऽतिप्रसिद्धंौ वा । स त्वम् । तदृतं धामैवेति वा । इन्द्रवज्रा वृत्तम् ॥ २९ ॥ [यः कचिद्वीपे समुदयन्सम्यगाविर्भवन्नित्युभयत्रापि । यमु १ घ.'यञ्शाखासहस्रस्थानीयं वेद'। २ घ. यस्यैकतः शुकपक्षिस्थानीयेन शु'। ३ घ. रूपो यो। ४ ग. 'नां स्वच'। [ सर्गः ७ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । १ धत्से सदाऽऽर्तिशमनाप हृदा गिरीशं गोपायसेऽधिवदनं च चिरंतनीगः ॥ दूरीकरोषि नरकं च दयाद्रदृष्टया कस्ते गुणान्मदितुमदुतकृष्ण शक्तः ।॥ ३० ॥ यमामनन्ति श्रुतयः पदार्थ न सन्न चासन्न बहिर्न चान्तः ॥ स सचिदानन्दघनः परात्मा नारायणस्त्वं पुरुषः पुराणः ॥ ३१ ॥ नाद्वीप एव व्यासस्य पराशरात्सत्यवत्यां जन्मसिद्धेः । शाखेति । वेदशाखाः । वृक्षपक्षे शुकः कीरः । निजेति । पक्षे स्वमूलावलम्बिनां सुदृशां पण्डितानां पक्षे दीना नाम् । उचैः फलान्युलासयाति । अहहेति हर्षे। स त्वम् । ऋतमबाधितमद्वैतब्रह्मरूपं धामैव कल्पद्वमत्वेन धर्मादिसकलपुमर्थदत्वेन गृहमेवासीति संबन्धः ] ॥ २९ ॥ हेऽदुतकृष्ण ते गुणान्वतुं कः शक्तो न कोऽपि समर्थः । अदुतत्वमाह । सर्वेषां सतामार्तिशामनाय गिरीशं महादेवं सदैवं वा हृदा धत्से स तु गोपादीनामेवाऽऽर्ति शान्तये गोवर्धनसंज्ञ पर्वतं सप्तदिनं हस्तेन धृतवान् । पुनश्च चिरंतनीगः श्रुतीरधि वदनं मुखे पालयसि स तु प्रसिद्धरा नवीना गा वने पालितवान् । पुनश्च दयाद्रह ष्ट्यैव नरकं दूरीकरोषि स तु युद्धे नरकासुरं दूरीकृतवानतस्तवादुतकृष्णत्वमित्यर्थः । वसन्ततिलका वृत्तम् ॥ ३० ॥ [ त्वं हि सतां साधूनामार्तिशमनाय । गिरीशमपि गिरेः कैलासस्याऽऽलयत्वेन मेरोर्धनुष्टेन चेशः स्वामी शिवस्तमपीत्यर्थः । तत्रापि हृदा मनसाऽपि धत्से धारयसीति यावत् । सदा निरन्तरमिति वा छेदः । प्रसिद्धकृ ष्णस्तु गोपादीनामेवाऽऽर्तिशमनाय सप्तदिनमेव हस्तेनैव गोवर्धनपर्वतमेव दधारेति ततो व्यतिरेकः ] ॥ ३० ॥ किं बहुना सर्वश्रुतिप्रतिपाद्यः परमात्मा त्वमेवेत्याह । यमिति । 'नासदासीन्नो सदासीत्' । ‘अनन्तरमबाह्यम्’ । ‘सत्यं ज्ञानमनन्तं ब्रह्म' | 'विज्ञानमानन्दं ब्रह्मा' । प्रज्ञानघनः’ इत्यादिश्रुतयो यं तत्त्वंपदयोर्लक्ष्यार्थमामनन्ति सँ कार्यकारणादिविलक्षण सचिदानन्दघनः पुराणः पुरुषः परमात्मा नारायणस्त्वमेव नरशब्देन स्थावरजङ्गमात्मकं शरीरजातमुच्यते । तत्र नित्यसंनिहिताश्चिदाभासा जीवा नारा इति निरुच्यन्ते तेषामयनमाश्रयोऽधिष्ठानं नराणां जीवानां समूहस्तेषामिदं भोग्यजातं च नारं तस्य जूडाजडमपञ्चस्य वाऽधिष्ठानं नारायणः पूर्णत्वात्पुरुषोऽभिवृद्धयादिविकारशून्यत्वेन निॉर्वकारत्वात्पुराणः । यद्वा यं तत्त्वंपदयोर्वाच्यार्थे लक्ष्याथै चाऽऽमनन्तीत्यर्थः । तत्र क. 'न्नवाऽस'। २ क. ग. 'र्वेवामा'। ३ क. ग. "व । ४ क. स २६९ कार'। २७० श्रीमच्छकरदिग्विजयः । इति स्तुतस्तेन यथाविधान मासेदिवान्विष्टरमात्मनिष्ठः ।। द्वैपायनः प्रश्रयनम्रपूर्व कायं यतीशानमिदं बभाषे ॥ ३२ ॥ त्वमस्मदादेः पदवीं गतोऽभू रखण्डपाण्डित्यमबोधयं ते ॥ श्रुकर्षिवत्मीतिकरोऽसि विद्व न्पुरेव शिष्यैः सह मा भन्नमीस्त्वम् ॥ ३३ ॥ कृतं त्वया भाष्यमितीन्दुमौलेः सभांकणेसिद्धमुखान्निशम्य ॥ हृदा महृष्टेन दिदृक्षया ते दृगध्वनीनः प्रशमिन्नभूवम् ॥ ३४ ॥ इत्थंमुनींन्द्रवचनश्रवणोत्थहर्ष रोमाञ्चपूरमिषतो बहिरुत्पुवन्तम् ।। [ सर्गः ७ ] श्रीशंकरः शुकमतार्णवपूर्णचन्द्रः ॥ ३५ ॥ परमात्मेत्यन्तं लक्ष्यार्थमतिपादनं नारायणः सर्वान्तर्यामी' तत्पदवाच्यार्थः । पुरि शयनात्पुरुषस्त्वंपदवाच्यः। पुराणत्वमनादित्वमुभयोर्विशेषणम् । उपजातिवृत्तम् ॥३१॥ इत्येवं मकारेण तेन श्रीशंकरेण स्तुत आत्मनिष्ठो द्वैपायनो वेदव्यासो यथाविधा नमासन आसेदिवानुपविष्टवान् । ‘भाषायां सदवसश्रुवः’ इति कसुः । प्रश्रयेण नम्रः पूर्वकायोऽग्रभागो यस्य तं यतीशामिदं वक्ष्यमाणमुवाच ॥ ३२ ॥ यदुवाच तदाह । अस्मदादेः पदवीं त्वं गतोऽभूः पूर्वमेव प्राप्तः । तेऽखण्डपाण्डि त्यमबोधयं ज्ञातवानस्मि स्वपुत्रवत्प्रीतिकरोऽसि यतो विद्वस्तस्माद्यं वादायाऽऽगत इति शिष्यैः सह त्वं पूर्वं यथा भ्रमं माप्तस्तथा मा भ्रमभ्रमं मा गाः । उपेन्द्रवज्रा वृत्तम् ॥३३॥ त्वया भाष्यं कृतमिति शिवस्य संबन्धी सभांकणेसंज्ञः सिद्धस्तस्य मुखाच्छूत्वा प्रहृष्टेन हृदा तव दर्शनेच्छया हे प्रशस्तेि नेत्रपथचरोऽहं जातोऽस्मि ॥ ३४ ॥ एवंभूतस्य मुनीन्द्रस्य वेदव्यासस्य वचनस्य श्रवणादुत्थितं रोमाञ्चपूरव्याजेन बहिरुत्सुत्य गच्छन्तं हर्ष धारयञ्शुकाचार्यमतलक्षणसमुद्रप्रवर्धने पूर्णचन्द्रः श्रशिकरो नवमेघकान्तिमनल्पशाक्त तं श्रीव्यासमाख्यत्प्रोक्तवान् । वसन्ततिलका वृत्तम् ॥ ३५ ॥ १ ग. "भांकरोसि'। घ, 'भांगणे'। २ क. ख. 'नीन्दुव'। ३ ग. मीति त'। ४ ग. 'भांकरोसि'। [ सर्गः ७ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । सुमन्तुपैलप्रथमा मुनींन्द्रा महानुभावा “नु यस्य शिष्याः ॥ तृणाछधीयानपि तत्र कोऽहं तथाऽपि कारुण्यमदर्शि दीने ॥ ३६ ॥ सोऽहं समस्तार्थविवेचकस्य कृत्वा भवत्सूत्रसहस्ररश्मेः ।। भाष्यप्रदीपेन महर्षिमान्य नीराजनं धृष्टतया न लज्जे ॥ ३७ ॥ अकार यत्साहसमात्मबुद्धया भवत्प्रशिष्यव्यपदेशभाजा ॥ विचार्य तत्सूक्तिदुरुक्तिजाल मर्हः समीकर्तुमिदं कृपालुः ॥ ३८ ॥ इत्थं निगद्योपरतस्य हस्ता द्धस्तद्वयेनाऽऽदरतः स भाष्यम् । आदाय सर्वत्र निरैक्षतासौ प्रसादगाम्भीर्यगुणाभिरामम् ॥ ३९ ॥ २७१ तद्वाक्यमुदाहरति त्रिभिः । सुमन्तुपैलवैशंपायनाद्या मुनीन्द्रा महाननुभावः प्रभावो येषां ते। ननु यस्य ते शिष्यास्तस्मिस्त्वयि तृणादप्यतिशयेन लघुभूतोऽहं को यद्य ट्येवं तथाऽपि दीने मयि कारुण्यं दर्शितवानसि । उपेन्द्रवज्रा वृत्तम् ॥ ३६ ॥ सोऽहं लघीयानपि तव कारुण्यपात्रतां गतः सर्वेषामुपनिषद्रतानामर्थानां विवेचक स्यायमत्राभिप्रेतोऽर्थोऽयं नेति विविच्य प्रदर्शकस्य भवदीयसूत्रलक्षणस्य सहस्रकिर णस्य सूर्यस्य भाष्यलक्षणेन पदीपेन नीराजनमारार्तिकं कृत्वा हे महर्षिमान्य धाष्टयेन न लजनं । इन्द्रवज्रा वृत्तम् ॥ ३७ ॥ यद्यप्येवं तथाऽपि भक्त्या कृतं प्रदीपेन नीराजनं यथा सविता स्वीकरोति तथा भवत्सूत्रेण स्वीकृतत्वान्मत्कृतं भाष्यं त्वं शोधयितुमर्हसीत्याशयेनाऽऽह । भवत्प्रशि ष्यव्यपदेशपात्रेण मया यत्साहसं स्वबुद्धया कृतं तद्विचार्य सूक्तिदुरुक्तिजालमिदं समं कर्तु कृपालुस्त्वं योग्योऽसि । उपजातिवृत्तम् ॥ ३८ ॥ इत्थमुक्त्वोपरतस्य तूष्णीं स्थितस्य श्रीशंकरस्य हस्तात्स वेदव्यास आदरेण हस्तद्वयेन भाष्यमादायासौ व्यासः प्रसादगाभ्भीर्यगुणैरभिरामं सर्वत्र सम्यग्विचारपू र्वकं दृष्टवान् ॥ ३९ ॥ १ क. ख. घ. हस्ते हस्त'। २ ख. ग. घ. तव । ३ ख. 'षदुक्ताना'.४.ग. 'तमात्मसात्कू'।. २७२ श्रीमच्छंकरंदिग्विजयः । सूत्रानुकारिमृदुवाक्यनिवेदितार्थ स्वीयैः पदैः सह निराकृतपूर्वपक्षम् ॥ सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं दृष्टाऽभिनन्द्य परितोषवशादवोचत ॥ ४० ॥ न साहसं तात भवानकार्षी द्यत्सूत्रभाष्यं गुरुणा विनीतः ।। विचार्यतां सूक्तदुरुक्तमत्रे त्येतन्महत्साहसमित्यवैमि ।। ४१ ॥ मीमांसकानामपि मुख्यभूतो वेत्थाखिलव्याकरणानि विद्वन् ।। विनिःसरेते वदनाद्यतीन्दो गोविन्दशिष्यस्य कथं दुरुक्तम् ।। ४२ ॥ न प्राकृतस्त्वं सकलार्थदर्शों महानुभावः पुरुषोऽसि कश्चित् ॥ यो ब्रह्मचर्याद्विषयान्निवार्य पर्यव्रजः सूर्य इवान्धकारान् ॥ ४३ ॥ [ संगैः ७ ] पुनस्तद्विशिनष्टि । सूत्रानुसारिभिदुवाक्यैर्निवेदितोऽर्थो येन स्वीयैः पदैर्निराकृताः पूर्वपक्षा यत्र सिद्धान्तयुक्तिभिर्विनिवेशितं तस्य सिद्धान्तस्य स्वरूपं यत्र तथाभूतं भाष्यं स वेदव्यासो दृष्टाऽभिनन्द्य परितोषवशादवोचदुक्तवान् । वसन्ततिलका वृत्तम् ॥ ४० ॥ [ सूत्रानुकारीति । उक्तं देवमेव भाष्यलक्षणं पाराशरपुराणे । ‘सूत्रार्थो वण्यैते यत्र पदैः सूत्रानुकारिभिः । स्ववाक्यानि च वण्र्यन्ते भाष्यं भाष्यविदो विदुः' इति ] ॥ ४० ॥ गुरुणा विनीतो भवान्यत्सूत्रभाष्यमकृत तत्साहसं न कृतवान् । सूक्तदुरुक्तमत्र विचार्यतामित्येतन्महत्साहसमित्यवैमि जानामि । उपजातिवृत्तम् ॥ ४१ ॥ तत्र हेतुमाह । मीमांसकानामपीति । वेत्थ जानासि । उपजातिवृत्तम् ॥ ४२ ॥ किंच न प्राकृतस्त्वं किंतु सर्वार्थदर्श कश्चिन्महानुभावः पुरुषोऽसि । तत्र हेतु माह । य इति । पर्यव्रजः संन्यासं कृतवान् । अनायासेन विषयनिवारणे दृष्टान्ती यथा सूर्योऽन्धकारान्निवार्य गच्छंति तद्वत् ॥ ४३ ॥ [ सर्गः ६ ] बह्वर्थगर्भाणि लघूनि यानि निगूढभावानि च मत्कृतानि । त्वामेवमित्थं विरंहय नास्ति यस्तानि सम्यग्विरीतुमीष्ट ॥ ४४ ॥ निसर्गदुज्ञनतमानि को वा सूत्राण्यलं वेदितुमर्थतः सन् ॥ छेशस्तु तावान्विरीतुरेषां यावान्प्रणेतुर्विबुधा वदन्ति ॥ ४५ ॥ भावं मदीयमवबुध्य यथावदेवं भाष्यं प्रणेतुमनलं भगवानपीशः । सांख्यादिनाऽन्यथयितं श्रुतिमूर्धवत् - द्धर्तु कथं परशिवांशमृते प्रभुः स्यात् ॥ ४६ ॥ मत्सूत्रभाष्यकरणादपि त्वं पाकृतो न भवसीत्याशयेनाऽऽह । बहवोऽर्था गर्भ येषां निगूढो भावो येषां पुनश्च लघूनि मत्कृतानि यानि सूत्राणि तानि त्वां विहायै वंप्रकारेण सम्यग्यो विवरीतुं विवरणं कर्तु समर्थः स नास्ति ॥ ४४ ॥ [ बह्वर्थेति । सूत्राणीति शेषः । अत एव पाराशरपुराणेऽपि सूत्रलक्षणमित्थमेव कथितम् । ‘अल्धाक्षरमसंदिग्धं न्यायवद्विश्वतोमुखम् । अस्तेोभमनवद्ययं च सूत्रं सूत्रकृतो विदु ' इति ] || ४४ ॥ २७३ किंच सूत्रकृत्परिश्रमतुल्य एवैषां व्याख्यातुः परिश्रम इति देवाः पण्डिताश्च वद् न्तीत्याह । निसर्गात्स्वभावादेवातिशयेन दुज्ञनानि सूत्राणि यथाभूतार्थतो ज्ञातुं को वाऽलं न कोऽपि समर्थो हे सन्यत एषां सूत्राणां प्रणेतुर्यावान्छेदास्तावानेवैषां विवरण कर्तुः छेश इति विशेषज्ञा देवाश्च वदन्ति ॥ ४५ ॥ एवं यथा त्वया मदीयो भावो बुद्धस्तथा तं यथावद्विज्ञायैश्वर्ययुक्तोऽपि कर्तुमक तुमन्यथा कर्तु समर्थोऽपि कश्चिद्भाष्यं प्रणेतुमनलं समर्थो न भवति यथावदेवं भाष्य मिति वा यत एवमतः परशिवांशं विना सांख्यादिना विपरीततां प्रापितं वेदान्तमार्ग मुद्धर्तु कथं प्रभुः समर्थः स्यादित्यर्थः । वसन्ततिलका वृत्तम् ॥ ४६ ॥ [ सांख्या दिनेति । आदिना मीमांसकतार्किकादिः । अन्यथयितं विपरीततां प्रापितम् ]॥४६॥ १ क. "दिना विलुलितं श्रु'। २७४ श्रीमच्छकरदिग्विजयः । रोषानुषङ्गकलयाऽपि मुदूरमुक्तो धत्सेऽधिमानसमहो सकलाः कलाश्च । सर्वात्मना गिरिजयोपहितस्वरूपः शक्यो न वर्णपितुमदुतशंकरस्त्वम् ॥ ४७ ॥ व्याख्याप्यसंख्यैः कविभिः पुरैत द्याख्यास्यते कैश्चिदितःपरं च । भवानिवास्मद्धदयं किमेते सर्वज्ञ विज्ञातुमलं निगूढम् ॥ ४८ ॥ व्याख्याहि भूयो निगमान्तविद्यां विभेदवादान्विदुषो विजित्य । ग्रन्थान्भुवि ख्यापय सानुबन्धा नहं गमिष्यामि यथाभिलाषम् ॥ ४९ ॥ [ सर्गः ७ ] यत्तु धत्स इत्याद्युक्तं तत्राऽऽह । अदुतशंकरस्त्वं वर्णयितुं न शक्यः । भद्रुतत्वं दर्शयति । रोषस्य संबन्धलेशेनापि रहितः स तु रोषानुषङ्गेण मुक्तो न भवत्येवंभूतोऽ प्यधिमानसं मनासि सकला अपि कला धत्से स तु शिरस्येकामेव शशिकलां बिभर्ति पुनश्च सर्वात्मना सर्वात्मभावेन गिरिजया वेदान्तवाचि जातया ब्रह्मविद्यालक्षणया पार्वत्यां वाचि जयेन वा युक्तं स्वरूपं यस्य स त्वर्धशरीरेण पार्वत्या युक्तस्वरूप इत्यर्थः ।॥ ४७ ।। यदुक्त लज्जासंपादकं कर्म कृत्वाऽपि धृष्टतयाऽहं न लज्ज इति तत्राऽऽह । पूर्व मेतन्मदीयं सूत्रजातमसंख्यातैः कविभेिव्यरूयातामित:परं च कैश्चित्कविभिरेतद्यारूया स्यते परंतु भवानिव निगृढमस्मदभिप्रायं विज्ञातुं किमेते व्याख्यातारोऽलं समर्था नैव शाक्ताः सर्वज्ञस्य तवैतद्विज्ञाने शक्तिर्न त्वन्यस्याल्पज्ञस्येत्याशयवानाह । हे सर्वज्ञेति । उपजातिवृत्तम् ॥ ४८ ॥ एवं सूत्रभाष्यं स्तुत्वा श्रुतिभाष्यकरणादौ प्रेरयन्स्वगमनमामत्रयति । व्याख्या हीति । वेदान्तविद्यामुपनिषदं विभेदवादान्पण्डितान्विजित्य विषयसंबन्वप्रयोजनाधि कार्याख्यानुबन्धयुक्तान्ग्रन्थानारूयापय । भाख्यानकी वृत्तम् ॥ ४९ ॥ १ क. 'या यु'। २ ग. ‘वैव त'। [ सर्गः ७] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । इत्युक्तवन्तं तमसाववोच त्कृतानि भाष्याण्यपि पाठितानि ॥ ध्वस्तानि सम्यकुमतानि धैर्या दितः परं किं करणीयमस्ति ।॥ ५० ॥ मुहूर्तमात्रं मणिकर्णिकायां विधेहि सद्वत्सल संनिधानम् । चिराद्यतेऽहं परमायुषोऽन्ते त्यजामि यावद्वपुरद्य हेपम् ॥ ५१ ॥ इतीदमाकण्र्य वचो विचिन्त्य स शकर माह कुरुष्व मवम् ।। अनिर्जिताः सन्ति वसुंधरायां त्वया बुधाः केचिदुदारविद्याः ॥ ५२ ॥ जयाय तेषां कति हायनानि वस्तव्यमेव स्थिरधीस्त्वयाऽपि ॥ नो चेन्मुमुक्षा भुवि दुर्लभा स्या त्स्थितिर्यथा मातृधुतस्य बाल्ये ॥ ५३ ॥ २७५ इत्युक्तवन्तं तं श्रीव्यासमसौ श्रीशंकरोऽवोचदवदत् । त्वदाज्ञा मया पूर्वमेव संपादितेति दर्शयति । निगमान्तभाष्याणि कृतानि पाठितानि च पुनश्च कुमतानि धैर्यात्सम्यङ्नाशितानि तस्मादितः परं किंचिदपि कर्तव्यं नास्ति ॥ ५० ॥ यत एवमतो हे सद्वत्सल घटिकाद्वयं मणिकर्णिकायां सामीप्यं विवेहयेतदर्थमह विराद्यत्नं करोमि परमायुषस्तव समीपेऽद्य यावद्धेयं वपुः शरीरं त्यजामि तावादे त्यर्थः । हे परमाऽऽयुषोऽन्ते समाप्ताविति वा । उपेन्द्रवज्रा वृत्तम् ॥ ५१ ॥ ५२ ॥ [ आयुषोऽन्ते षोडशवर्षात्मकायुःसमाप्तिक्षणे । परमत्यन्तं हेयं त्याज्यम् । एतादृ शाम् । वपुः शरीरम् ] ॥ ५१ ॥ [ ततः किमुतं व्यासेनेत्यत्राऽऽह । इतीदमि त्यादे पञ्चभिः । स वेदव्यासः । इति प्रोक्तप्रकारम् । इदं प्रकृतम् । वचो वाक्यम् । अभाकण्यै श्रुत्वा । अथ विचिन्त्य विचार्य । त्वमेवं मा कुरुष्वति शंकरं भाष्यकारं माहृत्यन्वयः । तत्र हेतु । अनिर्जिता इत्याद्युक्तराधेन । त्वयाऽनिर्जिता इति संबन्धः । सन्तु किं तैः क्षुद्वैस्तत्राऽऽह । उदारेति । अतस्तदुपेक्षाऽनुचिवैवेति भावः ] ।। ५२ ॥ तेषामुदारविद्यानां जयाय हे स्थिरधीयैद्यपि तत्पराभवहेतुभूता ग्रन्थास्त्वया रचि तास्तथाऽपि कति वर्षाणि त्वयाऽपि वस्तव्यमेव । विपक्षे दोषमाह । नो चेदिति । १७०६ प्रसन्नगम्भीरभवत्प्रणीत प्रबन्धसंदर्भभवः प्रहर्षः ॥ प्रोत्साहयत्यात्मविदामृषीणां वरेण्य विश्राणयितुं वरं ते ॥ ५४ ॥ अष्टौ वयांसि विधिना तव वत्स दत्ता न्यन्यानि चाष्ट भवता सुधियाऽऽर्जितानि ॥ भूयोऽपि षोडश भवन्तु भवाज्ञया ते भूयाच भाष्यमिदमारविचन्द्रतारम् ॥ ५५ ॥ त्वमायुषाऽनेन विरोधिवादि गर्वाडुरोन्मूलनजागरुकैः ॥ वाक्यैः कुरुष्वोज्झितभेदबुद्धी नद्वैतविद्यापरिपन्थिनोऽन्यानू ॥ ५६ ॥ इतीरयन्तं प्रति वाचमूचे स शंकरः पावितसर्वलोकः ।। श्रीमच्छंकरदिग्विजयः । भाष्यं प्रचारं भुवि यातु विद्वन् ॥ ५७ ॥ १ यथा बाल्ये मातृरहितस्य स्थितिर्तुर्लभा तद्वन्मातृवद्रक्षकेण त्वया रहिता मोक्षेच्छा दुर्लभा स्यात् । उपजातिवृत्तम् ॥ ५३ ॥ आयुषः समाप्ति विचार्य वरदानायाऽऽह । हे आत्मविदामृषीणां वरेण्य प्रसन्न गम्भीराणां भवत्प्रणीतानां प्रबन्धानां संदर्भवो जन्म यस्य स महर्षस्तुभ्यं वरं प्रदातुं मां प्रोत्साहयति ॥ ५४ ॥ वयांसि वर्षाणि भवस्य शिवस्याऽऽज्ञया । वरान्तरं ददाति । च पुनरिदं भाष्यमा रविचन्द्रतारं भूयाद्यावत्सूर्यादिस्थितिस्तावद्भवत्वित्यर्थः । वसन्ततिलका वृत्तम् ॥५५॥ [ सुधियाऽर्जितानि । विवेकेन समुपागतागस्त्यादिमुनीनां वन्दनविन्यासै संपाद्य संपा दितानीत्यर्थः ] ॥ ५५ ॥ ननु षोडशवर्षपरिमितेनाऽऽयुषा मया किं कर्तव्यमित्याकाङ्क्षायामाह । त्वमनेनाऽऽ युषाऽन्यानद्वैतविद्यापरिपन्थिनः स्ववाक्यैस्त्यक्तभेदमतीन्कुरुष्व। वाक्यानि विशिनष्टि । विरोधिवादिनां गर्वस्य समूलोच्छेदने जागरूकैः सावधानैः । उपजातिवृत्तम् ॥ ५६ ॥ इत्येवं कथनं कुर्वन्तं वेदव्यासं प्रति पवित्रितलोकः स शैकैरो वाचमुवाच यद्यपि [ मगेः " ] क. ग. 'सं प'। २ क. ग. "करः प्रव वनमु'। [ सर्गः ७ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । इतीरयित्वा चरणौ ववन्दे यतिर्मुनेः सर्वविदो महात्मा ॥ प्रदाय संभाव्य वरं मुनीशो द्वैपायनः सोऽन्तरधाद्यतात्मा ।। ५८ ।। इत्थं निगद्य ऋषिवृष्णि तिरोहितेऽस्मि नन्तर्विवेकनिधिरप्यथ विव्यथे सः ॥ हृत्तापहारिनिरुपाधिकृपारसानां तत्तादृशां कथमहो विरहो विषह्म: ।। ५९ ।। तत्पादपमे निजचित्तपत्रे पश्यन्कथंचिद्विरहं विषह्या ॥ यतिक्षितीशोऽपि गुरोर्नियोगा न्मनो दधे दिग्विजये मनीषी ॥ ६० ॥ भाष्यस्य वार्तिकमथैष कुमारिलेन भट्टेन कारयितुमादरवान्मुनीन्द्रः ॥ वन्ध्यायमानदरविन्ध्यमहीधरेण वाचंयमेन चरितां हरितं प्रतस्थे ॥ ६१ ॥ मदीयं भाष्यं मचारं गन्तुं योग्यं न भवति तथाऽपि त्वत्सूत्रसंबन्धवशाद्धे विद्वन्भुवि प्रचारं गच्छतु स्वलाघवोक्तिरियम् ॥ ५७ ॥ संभाव्य वरमवश्यंभाविवरं संपूज्य वरं पदायेति वा ॥ ५८ ॥ इत्थं संभाष्यास्मिनृषिश्रेष्ठ वेदव्यासेऽन्तधनं गतेऽथानन्तरमन्तर्विवेकनिविरपि स श्रीशंकरो विव्यथे व्यथां माप । तत्र हेतुः । हृत्तापस्य हारी निरुपाधिकृपारसो येषां तत्तादृशां व्यासप्रभृतीनां विरहः कथमहो विषह्यः कथमपि विषह्यो न भवतीत्यर्थः । वसन्ततिलका वृत्तम् ॥ ५९ ॥ [ ऋषीति । ऋषीणामखिलमत्रद्रष्टणां वृषा ‘वासवो वृत्रहा वृषा' इत्यमरान्निखिलब्रह्मर्षिस्वामिनीत्यर्थः] ॥ ५९ ॥ तर्हि कथं तद्विरहं विषह्य दिग्विजये मनो दध इत्याकाङ्क्षायामाह । तदिति । गुरोर्वेदव्यासस्य नियोगादनुशासनात् । उपजातिवृत्तम् ॥ ६० ॥ [ दिगिति । विषयसप्तमीयम् । मनो दधे संकल्पं चकारेत्यन्वयः ] || ६० ॥ अथ दिग्विजये मनसः स्थापनानन्तरं कुमारिलेन भट्टेन भाष्यस्य वार्तिकमादरा त्कारयितुमेष मुनीन्द्रो वन्ध्यावदाचरन्तो निष्फला दरा गर्ता यस्मिस्तथाभूतो विन्ध्या चलो येन तेन वाचंयमेनागस्त्येन मुनिना चरितां दक्षिणां हरितं दिशं प्रतस्थे प्रस्थानं २७७ १ क. 'शं प्रति प्र"। २७०८ श्रीमच्छकरदिग्विजयः । [ सर्गः ७] ततः स वेदान्तरहस्यवेत्ता भेत्ताऽमतानां तरसा मतानाम् ।। प्रयागमागात्प्रथमं जिगीषुः कुमारिलं साधितकर्मजालम् ॥ ६२ ॥ आमज्जतां किल तनूमसितां सितां च कर्तु कलिन्दसुतया कलितानुषङ्गाम् ॥ अह्नाय जाह्नतनयामथ निताघां मध्येप्रयागमगमन्मुनिरर्थमार्गम् ॥ ६३ ॥ गङ्गाप्रवाहैरुपरुद्धवेगा कलिन्दकन्या स्तिमितप्रवाहा । अपूर्वसख्यागतलज्जयेव यत्राधिकं भाति विचित्रपाथाः ॥ ६४ ॥ कृतवान् । वसन्ततिलका वृत्तम् ॥ ६१ ॥ [वन्ध्येति । ‘दरोऽस्त्री साध्वसे गर्ते’ इति मेदिन्या वन्ध्यवदाचरति तथाभूतं दरं द्वैतलक्षणं भयं यस्य तादृशो विन्ध्यमहीवरो विन्ध्याचलो येन स तथा तेन स्वोपदेशप्रभावेणासंप्रज्ञातसमाधिस्थत्वाद्विफलीभूतद्वैत लक्षणजीवन्मुक्तीकृतविन्ध्याचलेनेत्यर्थः ] ॥ ६१ ॥ ततः प्रस्थानानन्तरं वेदान्तरङ्स्यवेत्ताऽमतानामनभिमतानां मतानां प्रसह्य झटिति वा भेदनकर्ता स श्रीशंकरः साधितकर्मकाण्डं कुमारिलं प्रथमं जेतुमिच्छुः मयागं तीर्थराजमागच्छत्प्रथमं मयागमिति वा संबन्धः । उपजातिवृत्तम् ॥ ६२ ॥ अथानन्तरमामजणतां पुंसां तनू शरीरमसितां कृष्णां विष्णुसरूपां सितां धेतां शिवसरूपां च कर्तु कलिन्दाख्यगिरिपुत्र्या कालिन्द्या यमुनया संपादितोऽनुषङ्गः संबन्धो यया निह्नतानि नाशितान्यघानि यया तां जाह्नवीमङ्गायाञ्जसाऽर्थानां चतु र्विधपुरुषार्थानां मार्ग भध्येप्रयागं तथाभूते मयागस्य मैध्येऽगमत् । ‘पारे मध्ये षष्ठयावा’ इति समास एदन्तत्वनिपातनं च । वसन्ततिलका वृत्तम् ॥ ६३ ॥ गङ्गाप्रवाहैरुपरुद्धो वेगो यस्याः सा विचित्रजला कलिन्दकन्या यमुना यत्र प्रयागमध्येऽपूर्वसरूया आगता या लज्जा तया स्तिमितोऽचञ्चलः प्रवृत्तिः स्रोतो वा यस्यास्तथाभूतेवाधिकं भाति । मवाइस्तु प्रवृत्तौ स्यादपि स्रोतसि वारिणि’ इति मेदिनी । उपजातिवृत्तम् ॥ ६४ ॥ १ क. 'गं प्र"। २ क. मध्यमग'। ३ ख. ‘ध्ये तथाभूतां गङ्गां प्रति मुनिरग'। ४ क. ग. घ. [ सर्मः ७] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । मध्येतुमाश्रितजलां कुहचिन्मरालेः । चक्रद्धयेन रजनीसहवाससौख्य संशीलनाय किल संवलितां परत्र ॥ ६५ ॥ यत्राऽऽपुता दिव्यशरीरभाज आचन्द्रतारं दिवि भोगजातम् ॥ संभुञ्जते व्याधिकथानभिज्ञाः माहेममर्थ श्रुतिरेव साक्षात् ॥ ६६ ।। अज्ञातसंभवतिरोधिकथाऽपि वाणी यस्याः सितासिततयैव गृणाति रुपम् ॥ भागीरथीं यमुनया परिचर्यमाणा मेतां विगाह्य मुदितो मुनिरित्यभाणीत् ॥ ६७ ॥ कुहचित्कचिदमलकान्तिलक्षणं संप्रदायमध्येतुं समीपे वसद्भिः शिष्यैर्मरालैर्हसैरा श्रितं जलं यस्यास्तां परत्रान्यत्र नलिनीसहवासलक्षणसैौख्यसंशीलनाय चक्रद्वयेन . संव्याप्तां भागीरथीं विगाहेति व्यवहितेनान्वयः । 'रजनी नलिनीरात्रिहरिद्राजतुकासु च' २७९ इति मेदिनी । वसन्ततिलका वृत्तम् ॥ ६५॥ [चक्रेत्यादि । चक्रवाकामिथुनेन । रजनीति । रात्रिसंयोगसुखसंपादनार्थमित्यर्थः ] [ यमुनायाः कृष्णवर्णत्वेन तत्र चक्रवाकमिथुनस्य रात्रिसंमेलनसुखानुभवसंपादनहेतुकावस्थानोत्प्रेक्षणमुचितमेवेति भावः ] ॥ ६५ ॥ तामेव वर्णयति । यत्र यस्यां यमुनया संगतायां गङ्गायामाछुता दिव्यशरीरभाजः पुनश्च व्याधिकथानभिज्ञाः सन्तो दिवि भवं भोगसमुदायं सम्यग्भुञ्जते । नन्वत्र किं माणमिति चेत्तत्राऽऽह । इममथै साक्षाछूतिरेव प्राह । तथाच श्रुतिः । 'सितासिते सरिते यत्र संगते तत्राऽऽश्रुतासो दिवमुत्पतान्ति' इत्याद्या । इन्द्रवज्रा वृत्तम् ॥६६॥ किंच वाणी श्रुतिरप्यज्ञाता संभवस्य जन्मनस्तिरोधेस्तिरोधानस्य च कथा यया सा यस्या यमुनया संगताया गङ्गायाः सितासिततयैव रूपं वर्णयति । तथाभूतामेतां यमुनया परिचर्यमाणां भागीरथीं विगाह्य मुदितो मुनिः श्रीशंकर इति वक्ष्यमाणमभा णीदुक्तवान् । वसन्ततिलका वृत्तम् ॥ ६७ ॥ २८० श्रीमच्छंकरदिग्विजयः । सिद्धापगे पुरविरोधिजटोपरोध कुद्धा कुतः शतमदःसदृशान्विधत्से । बद्धा न किंनु भवितासि जटाभिरेषा मद्धा जडप्रकृतयो न विदन्ति भावि ॥ ६८ ॥ सन्मार्गवर्तनपराऽपि मुरापगे त्व मस्थीनि नित्यमशुचीनि किमाददासि ॥ आज्ञातमम्ब हृदयं तव सज्जनानां प्रायः प्रसाधनकृते कृतमज्जनानाम् ॥ ६९ ॥ हे सिद्धापगे त्रिपुरविरोधिनः शिवस्य जटाभिरुपरोधेन क्रुद्धा शतममुष्य शिवस्य सदृशान्कुतः किमर्थं विधत्स एषां त्वया राचितानां शिवानां जटाभिः किंनु न बद्धा मवितासि किं बद्धा न भविष्यसि किंतु भविष्यस्येवैवमाक्षिप्य स्वयमेव प्रतिक्षिपति जडप्रकृतयो भविष्यं न जानन्ति । अत्र निन्दया स्तुतेरवगमाद्याजस्तुतिः । ‘उक्तिव्यौजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयो ' इत्युक्तेः ॥ ६८ ॥ [ अद् इति । अमुनाशिवेन सदृशास्त्वयि स्नानादिना मरणो तरं हरसारूप्यलाभेन ततुल्यास्तानिति याबत् ] [ डलयोः सावण्र्यात्साक्षाज्जलपकृ तित्वं प्रछते स्फुटमेव ] ॥ ६८ ॥ [ सर्गः ७ ] हे सुरापगे सन्मार्गवर्तनपराऽपि त्वं नित्यमपवित्राण्यस्थीनि किमर्थमाददासीत्याक्षेप स्वयमेव समाधत्ते हे देवि तव हृदयमाज्ञातं तवाभिप्रायो बुद्धस्तव जले कृतं मज्जनं यैस्तेषां सजनानां प्रायः प्रसाधनकृते शिवरूपाणां तेषामलंकारार्थमाददासीत्यर्थः । डिद्रहिताकारपूर्वकत्वात्परस्मैपद्मयोगो न दोषावहः । ‘आाडो दोऽनास्यविहरणे' इति ङिद्वहणाज्ज्ञापकात् । तथाच लोकोपकाराय यथोक्ता तव प्रवृत्तिरित्यर्थः ॥ ६९ ॥ [ आ इति स्मृतौ निपातः । तदुक्तम् ।

  • ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः ।

एतमातं डिन्तं विद्याद्वाक्यस्मरणयोरङित्’ इति । एवं च किं स्मृतमित्यपेक्षायां तदाह ज्ञातमित्यादिना ] ॥ ६९ ॥ [ सर्गः ७ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । स्वापानुषङ्गजडताभरिताञ्जनौघा न्स्वापानुषङ्गजडताविधुरान्विधत्से ॥ दूरीभवद्विषयरागहृदोऽपि तूर्ण धूर्तावतंसयसि देवि क एष मार्गः ॥ ७० ॥ इति स्तुवंस्तापसराट्त्रिवेणीं शाट्या समाच्छाद्य कटिं कृपीटे । दोर्दण्डयुग्मोद्धतवेणदण्डोऽ घमर्षणस्रानमना बभूव ।। ७१ ।। सस्रौ प्रयागे सह शिष्यसंधै स्वयं कृतार्थो जनसंग्रहार्थी ।। अस्मारि माताऽपि च सा पुपोष दधार या दुःखमसोढ भूरि ।७२ ॥ स्वापानुषङ्गेण निद्रानुषङ्गेण या जडता तयां व्याप्ताञ्जनौघान्निद्रानुषङ्गजडताविधु रैन्देवान्विधत्से दूरीभवद्विषयरागो यस्मात्तथाभूतं हृद्येषां तान्धूर्तावतंसयसि धूर्तशिरो मणीन्करोषि । तथाचैष को वा मार्गः । अत्र दूरीभवद्विषयरागहृदो धूत धत्तूरपुष्प तदवतंसः शिवस्तदूपान्करोषीति श्लेषेण स्तुतिः ‘धर्ते तु खण्डळवणे धत्तरे ना विटे त्रिष २८१ इति मेदिनी। इन्द्रवत्रा वृत्तम् ॥ ७० ॥ [ स्वापेति । हे देवि गङ्गे त्वम् । स्वस्या अपां जलानां योऽनुषङ्गः संसर्गस्तेन या जडता जाड्यं तेन भरितास्तानित्यर्थः । स्वापेति । निद्रासंसर्गशून्यानित्यर्थः । अस्वप्रशाब्दितदेवान्करोषीत्यन्वयः ] ॥ ७० ॥ इत्येवं त्रिवेणीं स्तुवन्संस्तापसराट् शाय्या कटिं सम्यगाच्छाद्य भुजदण्डयुग्मेनोध्र्वे धृतो वेणुदण्डो येन स कृपीटे जले । ‘कृपीटमुदरे तोये' इति मेदिनी । अघमर्षणरुनाने मनो यस्य तथाभूतो बभूव । उपजातिवृतम् ॥ ७१ ॥ या पुपोष गर्भ दधार दुःखं च भूर्यसोढ सा माताऽप्यस्मारि स्मृता । आख्या नकी वृत्तम् ॥ ७२ ॥ १ क. 'या भरितान्नि'। २ क. ‘रानेव विध'। ३ क.*षां तांस्तु मुखादिमुण्डनेन धूतौ'। श्रीमच्छकरदिग्विजपः । अॅनुष्ठिातें द्रागवसाय्य वातैः कलहारशीतैरुपसेव्यमानः ॥ तीरे विशश्राम तमालशालि न्यत्रान्तरेऽश्रूयत लोकवार्ता ॥ ७३ ॥ गिरेरवपुत्य गतिः सतां यः प्रामाण्यमात्रायगिरामवादीत ।। यस्य प्रसादाश्रिदिवौकसोऽपि प्रपेदिरे प्राक्तनयज्ञभागान् ।। ७४ ।। सोऽयं गुरोरुन्मथनप्रसत्तं महत्तरं दोषमपाकरिष्णुः ॥ अशेषवेदार्थविदास्तिकत्वा तुषानलं प्राविशदेष धीरः ॥ ७५ ॥ अयं इधीताखिलवेदमन्त्रः कूलंकषालोडितसर्वतम्रः । नितान्तदूरीकृतदुष्टता स्त्रैलोक्यविभ्रामितकीर्तियम्रः ॥ ७६ ॥ द्राग्झटित्यनुष्ठितिमनुष्ठाँनमवसाय्य समाप्य कल्हारशीतैर्वातैरुपसेव्यमानस्तमालशा लिनि तीरे विश्रामं कृतवान् । अत्रान्तरे लोकवार्ताऽश्रूयत । उपजातिवृत्तम् ॥७३॥ तामेव दर्शयति । गिरेरिति । यः सतां गतिः पर्वतादवठुत्य वेदगिरां मामा ण्यमवादीत् ।। ७४ ।। सोऽयं भट्टपादो गुरोरुन्मथनात्पसत्तं प्राप्त महत्तरं दोषमपाकारेष्णुः सर्ववेदार्थज्ञ एष धीर आस्तिकत्वातुषार्मि प्राविशतू ॥ ७५ ॥ अयं भट्टपादो हि प्रसिद्धमधीताखिलवेदमम्रः पुनश्च कूलंकषा नदी तद्वदालोडि तान्यवगाहितानि सर्वशास्त्राणि सर्वसिद्धान्ता वा येन स नितान्तं दूरीकृतानि दुष्ट तत्राणि येनात एव विश्वामितं कीर्तिलक्षणं यत्रं येन सः । उपजातिवृत्तम् ॥ ७६ ॥ [ नितान्तेति । अत्यन्तनिरस्तदुष्टसिद्धान्त इति यावत् । दुष्टत्वं हि वेदविरुद्धत्व मेवात्र ] ॥ ७६ ।। १ क. अनुष्ठितं । २ क. 'ष्टितम'। ३ ख. ग. घ. 'ष्ठानं स'। [ सर्गः ७] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । श्रुत्वेति तां सत्वरमेष गच्छ न्व्यालोकयत्तं तुषराशिसंस्थम् ॥ प्रभाकराचैः प्रथितमभावै रुपस्थितं साश्रुमुखैर्विनेपैः ॥ ७७ ॥ धूमायमानेन तुषानलेन संदह्यमानेऽपि वपुष्यशेषे ॥ संदृश्यमानेन मुखेन बाष्प परीतपद्मश्रियमादधानम् ॥ ७८ ॥ दूरे विधूताघमपाङ्गभङ्गया तं देशिकं दृष्टिपथावतीर्णम् ॥ ददर्श भट्टो ज्वलदग्विकल्पो जुगोप यो वेदपथं जितारिः ॥ ७९ ॥ अदृष्टपूर्व श्रुतपूर्ववृत्तं दृष्टाऽतिमोदं स जगाम भट्टः । अचीकरच्छिष्यगणैः सपर्या मुपाददे तामपि देशिकेन्द्रः ॥ ८० ॥ २८३ इति तां लोकवार्ता श्रुत्वा तं भट्टपादं व्यालोकयदृष्टवान् । उपजाति वृत्तम् ॥ ७७ ॥ [ विनेयैः शिष्यैः । आद्यपदेन मण्डनमिश्रेतरमुरारिमिश्रपार्थसारथिमिश्रादय एव याह्याः । तस्य तु तदानीं स्वनगर एवावस्थितिरित्यग्र एव वक्ष्यति ] ॥ ७७ ॥ तं विशिनष्टि । धूमायमानेन तुषाग्निाऽशेषे वपुषि संदह्यमानेऽपि संदृश्यमानेन मुखेनोष्मव्याप्तकमलस्य श्रियमादधानं ‘बाष्पमूष्माश्रुकशिपौ' इति मेदिनी । ७८ ।। [ बाष्पेति । बाष्पं हि हेमन्तादौ प्रातःकालिकजलाशये समुत्थितधूमलेखासदृशं वस्तु प्रसिद्धमेव । तत्परीतकमलशोभामित्यर्थः । एतादृशं तं कुमारिलभट्टपादं व्यालोक यादिाति पूर्वेणान्वयः ] ।। ७८ ।। कटाक्षभङ्गन्या दूरे विधूतान्यवानि येन तं दृष्टिमार्गेऽवतीर्ण देशिकं श्रीशंकरं ज्वलदमितुल्यो भट्टपादो ददर्श यो जितारिर्वेदमार्ग जुगोप ॥ ७९ ॥ अदृष्टपूर्वं श्रुतपूर्वं वृत्तं चरितं यस्य तं श्रीशंकरं दृष्ट्रा भट्टोऽतिहर्ष जगाम ततश्च शिष्यगणैः पूजां कृतवांस्तां सपर्यामनपेक्षितामपि देशिकेन्द्रः स्वीकृतवान् ॥ ८० ॥ श्रीमच्छंकरदिग्विजयः । उपात्तभिक्षः परितुष्टवित्तः प्रदर्शयामास स भाष्यमस्मै ॥ सर्वे निबन्धो द्वामलोऽपि लोके शिष्टेक्षितः संचरणं प्रयाति ॥ ८१ ॥ दृष्टा भाष्यं हृष्टचेताः कुमारः प्रोचे वाचं शंकरं देशिकेन्द्रम् ॥ लोके त्वंल्पो मत्सरामशाली सर्वज्ञानो नाल्पभावस्य पात्रम् ॥ ८२ ॥ अष्टौ सहस्राणि विभान्ति विद्व न्सद्वार्तिकानां प्रथमेऽत्र भाष्ये । अहं यदि स्यामगृहीतदीक्षो धुवं विधास्ये सुनिबन्धमस्य ॥ ८३ ॥ भवादृशां दर्शनमेव लोके विशेषतोऽस्मिन्समये दुरापम् ॥ पुरार्जितैः पुण्यचयैः कथंचि त्वमद्य मे दृष्टिपथं गतोऽभूः ॥ ८४ ॥ [सर्गः ७] उपात्ता भिक्षा येन परितुष्टचित्तः स श्रीशंकरोऽस्मै भट्टपादाय भाष्यं दर्शयामास । ननु किमर्थं दर्शयामासेत्यपेक्षायामाह । सर्व इति ।। ८१ ॥ तत्र हेतुमाह । हि यस्माल्लोकेऽल्पः क्षुद्रो मत्सर मशाली सर्वज्ञानः सर्वज्ञस्तु मात्सर्यादिलक्षणस्य क्षुद्रभावस्य पात्रं न भवतीत्यर्थः। शालिनी वृत्तम् ॥ ८२ ॥ [ननु भेदवादित्वात्कथमसौ हृष्ट इति मत्याचष्टे । लोक इति ] ॥ ८२ ॥ यदुवाच तदाह । अष्टाविति । हे विद्वन्नत्रास्मिन्ग्रन्थे प्रथमेऽध्योसभाष्ये सद्वा र्तिकानामष्टौ सहस्राणि भान्ति तर्हि कर्तव्यानीति चेत्तत्राऽऽह । अहं यद्यगृही तदीक्षः स्यां तस्य भाष्यस्य सुनिबन्धं विधास्ये । उपजातिवृत्तम् ॥ ८३ ॥ तिष्ठत्वेतद्भवद्दर्शनं त्वतिदुर्लभं मया लब्धमित्याह । भवादृशामिति । उपेन्द्रवत्रा वृत्तम् ॥ ८४ ॥ [ आस्मिन्समयेऽन्तकाले ] ॥ ८४ ॥ १ ख. ग. घ. स्वल्पो । २ ख. ग. घ. 'प्रासशा'। ३ ख. 'द्यमदृष्टि'।४ ख. ग. घ. 'प्रासशा'। ५ क. ध्याये भा'। [ सर्गः ७ ] धनपतिसूरिकृतडिण्डिमाख्ठयटीकासंवलितः । असारसंसारपयोब्धिमध्ये निमज्जतां सद्भिरुदारवृत्तैः ॥ भवादृशैः संगतिरेव साध्या नान्यस्तदुत्तारविधावुपायः ॥ ८५ ॥ चिरं दिदृक्षे भगवन्तमित्थं त्वमद्य मे दृष्टिपथं गतोऽभूः ॥ स्वेच्छाविधेयोऽभिमतेन योगः ॥ ८६ ।। युनक्ति कालः कचिदिष्टवस्तुना कचित्त्वरिष्टन च नीचवस्तुना । तथैव संयोज्य वियोजयत्यसौ मुखासुखे कालकृते प्रवेद्म्य तः ।। ८७ ।। कृतो निबन्धो निरणापि पन्था निरासि नैयायिकयुक्तिजालम् ॥ तथाऽन्वभूवं विषयोत्थजातं न कालमेनं परिहर्तुमीशे ॥ ८ ॥ यतो भवादृशां संगतिरेव संसारादुद्धरणोपाय इत्याह । असारेति । तदुत्ताराविधौ संसारोत्तरणविधौ । उपजातिवृत्तम् ॥ ८५ ॥ नन्वेवं तर्हि पूर्व दर्शनेच्छा तव कुतो नोत्पन्नेति चैवेत्तत्राऽऽह । चिरकालमारभ्येत्थं दर्शनमिच्छामि परंत्वद्य दृष्टिमार्गे त्वं गतोऽसि । नन्वेवं तर्हि किमिति स्वाभि लषितं त्वया न संपादितमिति चेत्तत्राऽऽह । नहीति ॥ ८६ ॥ तर्हि को वा युनक्तीति चेत्तत्राऽऽह । युनक्तीति । अतः कारणात्सुखदुःखे कालकृतेऽहं विजानामि । इन्द्रवंशा वृत्तम् ॥ ८७ ॥ [ प्रवेद्भम्यबाधितत्वाख्यमक षेण जानामीत्यर्थः ] ।। ८७ ।। अहं तु सर्वे कर्तव्यं कृतवानेवेत्याह । कृत इति । पुनश्च कर्ममागों निर्णीतः पुनश्च नैयायिकयुक्तिजालं निरस्तं विषयोत्थं सुखदुःखजातं चान्वभूवम् । नन्वेवं भूतस्त्वमेनं कालं किमिति न परिहरसीति चेत्तत्राऽऽह । नेशे समर्थो न भवामि ॥८८॥ २८९५ १ घ. म तत्र । २ ग. घ. 'योत्थसु। २८६ श्रीमच्छकरदिग्विजयः । [ सर्गः ७ ] निरास्थमीशं श्रुतिलोकसिद्धं श्रुतेः स्वतो मात्वमुदाहरिष्यन् । न निह्नवे येन विना प्रपञ्चः सौख्याय कल्पेत न जातु विद्वन् ॥ ८९ ॥ तथागताक्रान्तमभूदशेषं स वैदिकोऽध्वा विरलीबभूव ।। परीक्ष्य तेषां विजयाय मार्ग प्रावर्ति संत्रातुमनाः पुराणम् ॥ ९० ।। सशिष्यसंघाः प्रविशन्ति राज्ञां गेहं तदादि स्ववशे विधातुम् ॥ राजा मदीयोऽजिरमस्मदीयं तदाद्रियध्वं न तु वेदमार्गम् ॥ ९१ ॥ वेदोऽप्रमाणं बहुमानबाधा त्परस्परव्याहृतिवाचकत्वात् । एवं वदन्तो विचरन्ति लोके न काचिदेषां प्रतिपत्तिरासीत् ।। ९२ ॥ ननु किमर्थमेवं विधातुं प्रवृत्तोऽसीति जिज्ञासायामीश्धरनिरासगुरुद्रोहलक्षणयो पापयोः प्रायश्चित्तं कर्तु प्रवृत्तोऽस्मीति दर्शयितुमुपक्रमते । निरास्थमिति । 'ईशानो भूतभव्यस्य' इत्यादिश्रुतेलोंकाच सिद्धमीशं निराकृतवान् । किमिच्छन्निति चेत्त त्राऽऽह । वेदस्य स्वत:मामाण्यमुदाहरिष्यन्हे विद्वञ्जातु कदाचित्प्रपञ्चो जगद्येन विना सैौरूयाय न कल्पते योग्यो न भवति तमीशं न निह्नवे नैवापलपामि तन्निषेधे मदभि प्रायो नास्तीत्यर्थः ॥ ८९ ॥ [क्षित्यङ्करादिकं सकर्तृकम् । कार्यत्वात् । घटवदित्या द्यनुमितिलक्षणलैौकिकममितिरेव लोकपदार्थः प्रकृते ] ॥ ८९ ॥ एवमेकं पापं प्रदश्र्य द्वितीयं दर्शयति । तथागतैः सुपगतैराक्रान्तमशेषं सर्वमभत्तेन घ स वैदिकः पन्था विरलीबभूवेति परीक्ष्य तेषां विजयाय पुराणं वेदमार्ग संत्रातु मना अह प्रवृत्तः ॥ ९० ॥ शिष्यसंधैः सहिताः सुगता राज्ञां गेहं पविशन्ति तदादि राजादि स्ववशे विधातुं राजा मदीयस्तथाऽजिरं विषयो देशोऽस्मदीयस्तस्माद्वेदमार्ग नैवाद्रियध्वं यद्वा तत्त स्मादस्मदीयमजिरमस्मदीयशास्त्रविषयमाश्रयध्वं न तु वेदमार्गमिति वदन्तो विचर न्तीति परेणान्वयः । ‘अजिरं प्राङ्गणे चान्ते विषये दर्दूरेऽनिले' इति मेदिनी ॥९१॥ वेदोऽप्रमाणं बहुमानेन मत्यक्षादिप्रमाणेन बाधात्परस्परव्याघातवाचकत्वाचेत्येव [ सर्गः ७] धनपतिसूरिकृतडिण्डिमाख्ठयटीकासंवलितः । अवादिषं वेदविघातदक्षे स्तान्नाशकं जेतुमबुध्यमानः । तदीयसिद्धान्तरहस्यवाध निषेध्यबोधाद्धि निषेध्यबाधः ॥ ९३ ॥ तदा तदीयं शरणं प्रपन्नः सिद्धान्तमश्रौषमनुद्धतात्मा ॥ अदूदुषद्वैदिकमेव मार्ग तथागतो जातु कुशाग्रबुद्धिः ।। ९४ ।। तदाऽपतन्मे सहसाऽश्रुबिन्दु स्तचाविदुः पार्चनिवासिनोऽन्ये ।। तदाप्रभृत्येव विवेश शङ्का मय्याप्तभावं परिहृत्य तेषाम् ॥ ९५ ॥ विपक्षपाठी बलवान्द्विजातिः मत्याद्दद्दर्शनमस्मदीयम् ॥ उबाटनीयः कथमप्युपायै नैतादृशः स्थापयितुं हि योग्यः ॥ ९६ ॥ २८० वदन्तो लोके विचरति स्मैषां सुगतानां काचित्प्रतिपत्तिः प्रतिक्रिया नाऽऽसीत् । आरूयानकी वृत्तम् ॥ ९२ ॥ [ परस्परेति । ‘स्वर्गकामो यजेत' 'नेह नानाऽस्ति किंचन' इत्यादिपरस्परव्याघातीभूतद्वैताद्वैतवाचकत्वाचेत्यर्थः ] ॥ ९२ ।। वेदविघातदक्षस्तैरवादिषं वादं कृतवान्परं तु तदीयसिद्धान्तरहस्यजलधीनबुध्यमा नस्ताजेतुं नाशकं हि यतो निषेध्यस्य ज्ञानान्निषेध्यस्य बाधो भवति नान्यथेत्यर्थः । उपजातिवृतम् ।। ९३ । [ वेदेति । बौद्वैः सहेत्यर्थः ] ॥ ९३ ॥ तदानीं तदीयं शरणं प्रपन्नोऽनुद्धतात्मा तदीयं सिद्धान्तमश्रौषं जातु कदाचिती क्ष्णबुद्धिः सुगतो वैदिकमेव मार्गमदूदुषत् ॥ ९४ ॥ [शारणं सौगतसमेत्यर्थः] ॥९४॥ तदा सहसा मेऽश्रुबिन्दुरपतत्तचाश्रुपतनमन्ये पार्धनिवासिनोऽविदुस्तदाप्रभृत्येव मय्याप्तभावं परिहृत्य स्थितानां तेषां शाङ्का विवेश । उपजातिवृत्तम् ॥ ९५ ।। दर्शनं शास्त्रम् । उपजातिवृत्तम् ॥ ९६ ॥ [ विपक्षेति । विपक्षः सन्पठतीति तथा ] ॥ ९६ ॥ २८८ श्रीमच्छंकरदिग्विजयः । संमय चेत्थं कृतनिश्चयास्ते ये चापरेऽहिंसनवादशीलाः ॥ व्यपातयशुचतरात्प्रमत्तं मामग्रसौधाद्विनिपातभीरुम् ॥ ९७ ॥ पतन्पतन्सौधतलान्यरोरुहं यदि प्रमाणं श्रुतयो भवन्ति । जीवेयमस्मिन्पतितोऽसमस्थले मजीवने तच्छतिमानतागतिः ॥ ९८ ॥ यदीह संदेहपद्मयोगा द्वद्याजेन शास्त्रश्रवणाञ्च हेतोः ।। ममोचदेशात्पततो व्यनङ्क्षी त्तैदेकचक्षुर्विधिकल्पना सा ॥ ९९ ॥ इत्थं संमध्य कृतनिश्चयास्ते ये चान्येऽहिंसनवादशीला विनिपातभीरुं विानेिपा ताद्भयशीलं प्रमत्तं मामुचतराच्छेष्टसैौधाद्यपातयन् ॥ ९७ ॥ [ आहिंसनेति च्छेदः । साभिप्रायमेवेदम् । वक्ष्यमाणहिंसाकारित्वात् । एवं चाहिंसनविषयकवादमात्रस्वभावा न तु तदाचरणप्रवीणा इत्यर्थः ] ॥ ९७ ॥ [ सर्गः ७] सैौधतलात्पतन्पतन्नरोरुहं पुनः पुनरारूढो यदि श्रुतयः प्रमाणं भवन्ति तत्तस्मि न्विषमस्थले पतितो जीवेयं यतः श्रुतिप्रामाण्यस्य मज्जीवनेनैव गतिः ॥ ९८ ॥ [यदि श्रुतयः प्रमाणं भवन्ति तहसमस्थले विषमस्थाने पतनेऽपि जीवेयमन्यथा नैव जीवे यम् । अतो मज्जीवने विषये तु मतिः साधनं श्रुतिमानता वेदप्रामाण्यमेवास्तीति बुवाणः सन्सौधतलान्येवारूरुहं पुनः पुनरारूढोऽभवमिति योजना । एतेनाक्षत एव बहुधा सौधमधिरूढोऽपि बौद्वैः सहस्रधा पातित इति ध्वन्यते ] ॥ ९८ ॥ इह वेदपामाण्ये यदीति संदेहमतिपादकपदस्य प्रयोगाद्वाजेन कपटेन शास्त्रस्य श्रवणाच हेतोरुचदेशात्पततो मम तैदेकं चक्षुव्र्यनङ्क्षीत् । किंच सा चक्षुरस्य नाशं गच्छाविति विधेर्देवस्य कल्पना ॥ ९९ ॥ [ उचेति । पततो ममैकमेव चक्षुर्यद्यस्मा द्धेतोठ्थैनङ्कक्षीद्विनष्टमभूत्तत्तस्मात्कारणात्सैकचक्षुर्मात्रनाशरूपा । विधीति । दैवकल्प नाऽस्तीत्यन्वयः ] ॥ ९९ ॥ १ एव घ. ‘न्पतनेऽस'। २ ७. घ. 'तदैक'। ३ ख. तदैकं । [ सर्गः ७ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । एकाक्षरस्यापि गुरुः प्रदाता शास्रोपदेष्टा किमु भाषणीयम् ॥ अहं हि सर्वज्ञगुरोरधीत्य प्रत्यादिशे तेन गुरोर्महागः ॥ १० ॥ तदेवमित्थं सुगतादधीत्य प्राघातयं तत्कुलमेव पूर्वम् ॥ जैमिन्युपज्ञेऽभिनिविष्टचेताः शात्रे निरास्थं परमेश्वरं च ॥ १ ॥ दोषद्वयस्यास्य चिकीर्षरर्ह न्यथोदितां निष्कृतिमाश्रयाशम् ॥ प्राविक्षमेषा पुनरुक्तभूता जाता भवत्पादनिरीक्षणेन ॥ २ ॥ भाष्यं प्रणीतं भवतेति योगि न्नाकण्र्य तत्रापि विधाय वृत्ति । यशोऽधिगच्छेयमिति स्म वाञ्छा स्थिता पुरा संप्रति किं तदुक्तया ॥ ३ ॥ २८९ एकाक्षरस्यापि पदाता गुरुर्भवति शास्रोपदेष्टा स भवतीति किमु वक्तव्यम् । अहं तु सर्वज्ञात्सुगतात् । 'सर्वज्ञः सुगतः' इत्यमरः । गुरोरधीत्य तेनाधीतेन गुरोर्महागः मत्यादिशे प्रत्यर्पितवान् ॥ १०० | [ सर्वज्ञेति । सुगतसंज्ञकादुरोः सुगतानां वा गुरोः ] ॥ १०० ॥ महापराधमेवाऽऽह । तदेवमनेन प्रकारेण सुगतादवीत्य तस्य सुगतस्य कुलमे वाऽऽदौ माघातयं जैमिनेरुपज्ञाऽऽद्य ज्ञानं यत्र ‘उपज्ञा ज्ञानमाद्य स्यात्' इत्यमरः । तस्मिञ्शास्त्रेऽभिनिविष्टं चेतो यस्य सोऽहं परमेश्वरं च निरास्थं निरस्तवान् ॥ १ ॥ [ जैमिनीति । पूर्वमीमांसाशास्त्र इत्यर्थः ] ॥ १ ॥ अस्योदाहृतस्य दोषद्वयस्य यथोक्तां निष्कृतिं चिकीर्षहेंऽर्हन्नाश्रयाशं पावकं प्राविक्ष प्रवेशं कृतवानस्मि । आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः’ इत्यमरः । तव पादनिरीक्षणस्य निष्कृतिरूपत्वादेषा निष्कृतिस्तव पादनिरीक्षणेन पुनरुक्तभूता जाता संपन्ना ॥ २ ॥ ननु शाबरभाष्यवदस्मद्भाष्येऽपि त्वया वार्तिकं कर्तव्यं स्थितमिति चेत्तत्राऽऽह । श्रीमच्छकरदिग्विजयः । [ सर्गः ७ ] जाने भवन्तमहमार्यजनार्थजात मद्वैतरक्षणकृते विहितावतारम् ॥ प्रागेव चेन्नयनवत्र्मकृतार्थयेथाः पापक्षयायं न तदेदृशमाचरिष्यम् ॥ ४ ॥ प्रायोऽधुना तदुभयप्रभवाघशान्त्यै प्राविक्षमार्य तुषपावकमात्तदीक्षः ॥ भाग्यं न मेऽजनि हि शाबरभाष्यवत्व द्राष्येऽपि किंचन विलिख्य यशोऽधिगन्तुम् ॥ १०५ ॥ इत्यूचिवांसमथ भट्टकुमारिलं त मीषद्विकस्वरमुखाम्बुजमाह मौनी ॥ श्रुत्यर्थकर्मविमुखान्मुगतान्निहन्तुं जातं गुहं भुवि भवन्तमहं तु जाने ॥ ६ ॥ भाष्यं भवता प्रणीतमिति श्रुत्वा हे योगिन्भवत्पणीते भाष्ये वृत्तिं विधाय यशोऽधि गच्छेयमिति वाञ्छा पुरा स्थिता परंतु संप्रति तदुक्त्या किं निष्फलत्वात् । स्मेति पादपूरणे ॥ ३ ॥ आर्याणामर्थे जातमार्याणामर्थसमुदायो यस्मात्तथाभूतमिति वा । हे आर्य जनार्थ जातमिति वा । पुनश्चाद्वैतरक्षणाय विहितोऽवतारो येन तथाभूतं भवन्तमहं जाना म्यतो यदि तुषानलपवेशात्प्रागेव पापक्षयाय मम नेत्रमार्गे कृतार्थयेथास्तर्हि हे यते ईदृशं प्रायश्चित्तं नाऽऽचरिष्यम् । वसन्ततिलका वृत्तम् ॥ ४ ॥ अधुना तु प्रायो गुरुद्रोहेश्धरनिरासमभवाघशान्त्यर्थमात्तदीक्षस्तुषानलं हे आर्य प्राविक्षम् । मम भाग्यानुदय एव भवद्भाष्यवार्तिकाकरणे निदानमित्याह । भाग्य मिति ॥ १०५ || [ किंचन यथाशक्ति यत्किचिदित्यर्थः । विलिख्य । यशोऽधि गन्तुम् । भाग्यं ‘दैवं दिष्टं भागधेयं भाग्यम्' इत्यमरादैवमित्यर्थः ] ॥ १०५ ॥ एवं भट्टपादोक्तमुदाहृत्य श्रीशंकरवाक्यमुदाहर्तुमाह । इत्येवमुक्तवन्तं भट्टकुमारिल मीषद्विकस्वरमुखकमलमथ तदुक्त्यनन्तरं मौनी श्रीशंकर उवाच । यद्यप्यन्ये न जानन्ति तथाऽपि श्रुत्यर्थात्कर्मणो विमुखान्सुगतानिहन्तुं भुवि जातं स्कन्दं भवन्तमहं तु जाने ॥ ६ ॥ [ श्रुत्यर्थेति । श्रुत्यर्थीभूतं यत्कर्म तत्र विमुखास्तानुपलक्षणमिदं ब्रह्म णोऽपि । कर्मब्रह्मोभयभ्रष्टानित्यर्थः । एतेन हनने हेतुद्योतितः ] ॥ ६ ॥ १ क. ध. "य बत नेट'। २ क. 'रणनि। [ सर्गः ७] धनपतिसूरिकृतडिण्डिमारुपटीकासंवलितः । संभावनाऽपि भवतो नहि पातकस्य संत्यं व्रतं चरसि सज्जनशिक्षणाय । उज्जीवयामि करकाम्बुकणोक्षणेन भाष्येऽपि मे रैचय वार्तिकमाङ्ग भव्यम् ॥ ७ ॥ इत्यूचिवांसं विबुधावतंसं स धर्मविङ्कह्मविदां वरेण्यम् ॥ विद्याधन: शान्तिधनाग्रगण्यं समश्रय वाचमुवाच भूयः ॥ ८ ॥ नाहमि शुद्धमपि लोकविरुद्धकृत्यं कर्तु मयीड्य महितोक्तिरियं तवाह ॥ आजानतोऽतिकुटिलेऽपि जने महान्त स्त्वारोपयन्ति हि गुणं धनुषीव शूराः ॥ ९ ॥ संजीवनाय चिरकालमतस्य च त्वं शक्तोऽसि शंकर दयोर्मिलदृष्टिपातैः ।। मुञ्वन्सतां न भवितास्मि बुधाविनिन्द्यः ॥ १० ॥ दोषद्वयनिवृत्तये तुषानलं प्रावेिक्षमित्युक्तं तत्राऽऽह । संभावनेति । तथाऽपि सज्जनानां शिक्षणाय सैत्यं व्रतं चरसि यत एवमतः कमण्डलुजलकणसेचनेन भवन्तमु ज्जीवयामि । ननु किमर्थं जीवयसीति चेत्तत्राऽऽह । अङ्ग हे भट्टकुमारिल मे भाष्येऽपि भव्यं वार्तिकं रचय ॥ ७ ॥ [ कवय रचय ] ॥ ७ ॥ इत्यूचिवांसं देवशिरोमणि पण्डितावतंसं वा ब्रह्मविदां मध्ये श्रेष्ठतमं शान्तिधनेषु यतिष्वग्रे गणनीयं श्रीशंकरं धर्मज्ञो विद्याधनः स भट्टपादः समश्रयं यथा तथा वाचं पुन रुवाच । उपजातिवृत्तम् ॥ ८ ॥ [ समश्रयं सनम्रीभावम् ] ॥ ८ ॥ यदुक्तं श्रुत्यर्थेत्यादि तत्राऽऽह । नेति । शुद्धमपि लोकविरुद्धं कृत्यं कर्तु योग्यो न भवामि हे स्तुत्य मय्यतिक्षुद्रेऽपीयं महितोक्तिस्तव योग्याऽऽजानतः स्वभावतोऽ तिकुटिलेऽपि जने महान्तस्तु गुणमारोपयन्ति । तत्र दृष्टान्तो यथाऽऽजानतोऽतिकु टिलेऽपि धनुषि शूरा गुणं ज्यामारोपयन्ति तद्वत् । वसन्ततिलका वृत्तम् ॥ ९ ॥ [ आजानतो जनानां लोकानामथं जान भासमन्ताज्ज्ञानस्तस्मात्स्वभावतः ] ॥ ९ ॥ हे शंकर यद्यपि चिरकालं मृतस्यापि दयालक्षणोर्मिव्याप्तदृष्टिपातैः । शंकरेत्या १ ख. ग. घ. सत्यत्र। २ ख. घ. कवय'। ३ क. सत्यत्र'। श्रीमच्छैठकरदिग्विजयः । जाने तवाहं भगवन्मभावं संहृत्प भूतानि पुनर्यथावत् ॥ स्रधुं समर्थोऽसि तथाविधो मा मुज्जीवयेचेदिह किं विचित्रम् ॥ ११ ॥ नाभ्युत्सहे किंतु यतिक्षितीन्द्र संकल्पितं हातुमिदं त्रताम्रयम् ॥ तत्तारकं देशिकवर्यं मह्य मादिश्य तङ्कह्म कृतार्थयेथाः ॥ १२ ॥ अयं च पन्था यदि ते प्रकाश्यः सुधीश्वरो मण्डनमिश्रशर्मा । दिगन्तविश्रान्तयशा विजेयो यस्मिञ्जिते सर्वमिदं जितं स्यात् ॥ १३ ॥ सदा वदन्योगपदं च सांप्रतं स विश्वरुपः प्रथितो महीतले ।। महागृही वैदिककर्मतत्परः प्रवृत्तिशात्रे निरतः मुंकर्मठः ।। १४ ॥ [ सर्गः ७ ] द्येकं वा पदम् । संजीवनाय त्वं शक्तोऽसि तथाऽप्यधुनाऽऽरब्धं वेदोक्तमेतद्दतं त्यज न्सतामविनिन्द्यो न भवितास्म्येतज्ज्ञातुं योग्योऽसीति ज्ञापनाय संबोधयति । हे बुधेति ॥ १० ॥ किंच समस्तभूतानि संहृत्य पुनर्यथावत्स्रष्टुं समर्थस्य तव नैतचित्रमित्याह । जान इति । इन्द्रवन्ना वृत्तम् ॥ ११ ॥ यद्यप्येवं तथाऽपि हे यतिराज संकल्पितामिदं व्रताअयं त्यतुं नाभ्युत्सहे यद्यह मवश्यमनुग्राह्यस्द हीँदं विधेहीत्याह । तत्तस्माद्धे देशिकवर्य तत्तारकं काश्यामुपदि श्यमानं ब्रह्मा मह्यमुपदिश्य कृतार्थयेथाः ॥ १२ ॥ अद्वैतमार्गप्रकाशनाय मां जेतुमयमागत इति विज्ञायाऽऽह । अयं चेति । दिशा मन्ते विश्रान्तं यशो यस्य ॥ १३ ॥ [ अयमद्वैतविद्यारूयः ] ॥ १३ ॥ सदा योगस्य कर्मयोगस्य पैदं मार्ग सांप्रतं न्याय्यं वदन्स विश्वरूपो भूतले प्रथितः । उपजातिवृत्तम् ॥ १४ ॥ ५ क. सुकर्मतः । २ क. ख. "दं सां'। [ सर्गः ७] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । निवृत्तिशास्त्रे नकृतादरः स्वयं केनाप्युपायेन वशं स नीयताम् ॥ वशं गते तत्र भवेन्मनोरथ स्तदन्तिकं गच्छतु मा चिरं भवान् ॥ ११५ ।। उंवेक इत्यभिहितस्य हि तस्य लोकै रुंवेति बान्धवजनैरभिधीयमाना ॥ हेतोः कुतश्चिदिह वाक्सुरुषाऽभिशप्ता दुर्वाससाऽजनि वधूर्द्धयभारतीति ।। १६ ।। सर्वामु शास्रसरणीषु स विश्वरूपो मत्तोऽधिकः प्रियतमश्च मदाश्रवेषु । तत्प्रेयसीं शमधनेन्द्र विधाय साक्ष्ये वादे विजित्य तमिमं वशग विधेहि ॥ १७ ॥ २९३५ किंच निवृत्तिशास्त्रे नकृतादरः स्वयं तस्मात्स मण्डनः केनाप्युपायेन वशं नीयतां तत्र तस्मिन्वशं प्राप्त भवन्मनोरथो भवेदतस्तत्समीपं शीघ्र भवान्गच्छतु । उपजाति वृत्तम् ॥ १५ ॥ उंवेक इति लोकैरभिहितस्य तस्य मण्डनस्य वधूरुंवेति बान्धवजनैरभिधीयमाना कुतश्चिद्धेतोर्वाक्सरस्वती दुर्वाससा सुरुषाऽभिशप्ता द्वयभारतीत्यजनि प्रादुर्भूता । एतेन उंवेक' 'उंवा' इनि मण्डनसरस्वत्योः प्राकृतं नाम कथितमिति बोध्यम् । वसन्त तिलका वृत्तम् ॥ १६ ॥ [अथ लौकिकं तस्य तृतीयं नाम तद्भायायाश्च नाम कथय स्तस्याः सरस्वत्यवतारत्वं वक्ति । * अम्बेक इतीत्यादिवमन्ततिलकया। अम्बया जग न्मातृभूतसरस्वत्यवतारत्वादम्बाख्यया वक्ष्यमाणोभयभारत्यभिधधर्मपत्न्या सह ए: कामस्य कं सुखमिकं तद्यस्य सोऽम्बेक इत्यर्थः ] ॥ ११६ ।। किंच सर्वासु शास्त्रसरणीषु स विश्धरूपो मत्तोऽधिको मदाश्रवेषु मम शिष्येषु मध्ये मियतमश्च तस्माद्धे शामधनेन्द्र तस्य प्रेयसीमतिशयेन प्रियां सरस्वतीं साक्ष्ये विधाय तमिमं विश्धरुपं वादे विजित्य वशगं विधेहि ॥ १७ ॥ [ साक्ष्ये माध्यस्थ्ये]॥१७॥

  • एतेन मूल उंवेक इत्यत्र लोकैरुवतीत्यत्र च यथाक्रममम्बेक इति लोकैरम्बेतीति च पाठो

ज्ञायते । अग्रेऽष्टमसर्गे ६६ श्रेोके ‘अम्बामुदारधिषणाम्’ इति बहुपाठानुरोधेन चायभव युक्ततर इति भ.ति । आदर्शपुस्तकेषु तु नायमुपलभ्यते ।

१ ख. उंबेक । २ ख. *रुंबेति । ३ ख. उंबेक । ४ ख. 'रुंवेति । ५ ख. “उँबेक” । ६ ख. ॐबा' इ'। १९४ तेनैव तावककृतिष्वपि वार्तिकानि कर्मन्दिवर्यतम कारय मा विलम्बम् ॥ त्वं विश्वनाथ इव मे समये समागा स्तत्तारकं समुपदिश्य कृतार्थयेथाः ॥ १८ ॥ निव्यजकारुण्य मुहूर्तमात्र मत्र त्वया भाव्यमहं तु यावत् ॥ योगीन्द्रहृत्पङ्कजभाग्यमेत त्यजाम्यमून्पमवेक्षमाणः ॥ १९ ॥ इत्यूचिवांसमिमिद्धमुस्वप्रकाशं ब्रह्मोपदिश्य बहिरन्तरपास्तमोहम् ।। तन्वन्दयानिधिरसौ तरसाऽभ्रमार्गा च्छूीमण्डनस्य निलयं स इयेष गन्तुम् ॥ १२० ।। अथ गिरमुपसंहृत्याऽऽदराद्भट्टपादः शमधनपतिनाऽसौ बोधिताद्वैततत्त्वः ॥ प्रशमितममतः संस्तत्प्रसादेन सद्यो विदलदखिलबन्धो वैष्णवं धाम पेदे ।। ७८४ ॥ तेनैव तावककृतिष्वपि वार्तिकानि कारय हे परिव्राट्श्रेष्ठतम । ‘भिक्षुः परिवाट्क पैन्दी' इत्यमरः । विलम्बं मा कुरु त्वं विश्धनाथ इव मे समये समागास्तत्तस्मात्तारकं सम्यगुपदिश्य कृतार्थयेथाः । वसन्ततिलका वृत्तम् ॥ १८ ॥ [ विलम्बं मा कुर्वित्या र्थिकम् ] ॥ १८ ॥ हे निव्यौजकारुण्य मुहूर्तमात्रं त्वयाऽत्र भवितव्यमहं तु यावद्योगीन्द्रहृत्कमल भाग्यमेतत्तव रूपमवेक्षमाणोऽसूस्त्यजामि । उपजातिवृत्तम् ॥ १९ ॥ इत्यूविवांसमिमं भट्टपादं संदीप्तसुखमकाशात्मैकं ब्रहोपदिश्य बहिरन्तरपास्तमोई कुर्वन्दयानिधिरसौ श्रशिंकरोऽभ्रमार्गादाकाशमागान्मण्डनस्य निलयं गन्तुमियेषेच्छति स्म । वसन्ततिलका वृत्तम् ॥ २० ॥ [ तरसा योगबलेन ] ॥ २० ॥ अथोपदेशानन्तरमादरादसौ भट्टपादो गिरमुपसंहृत्य शामधनानां यतिवराणामधीशेन बोचितमद्वैततत्त्वं यस्मै प्रशमिता ममता येनै यस्य वा स तथाभूतः संस्तस्य श्रीशंक रस्य प्रसादेन सद्यो दलिताखिलबन्धो वैष्णवं धाम प्रापेत्यर्थः । मालिनीवृत्तम् ॥२१॥ [ धाम स्वप्रकाशचिन्मात्रम्] ॥ २१ ॥ १ क. [ सर्गः ७ ] . घ. 'त्मकब्र'। २ क. ग. ‘न स । [ झर्गः ८] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः ॥ इति श्रीमाधवीये तद्याससंदर्शचित्रगः ॥ संक्षेपशंकरजये सर्गेऽसौ सप्तमोऽभवत् ॥ ७ ॥ अथाष्टमः सर्गः । अथ प्रतस्थे भगवान्प्रयाग तन्मण्डनं पण्डितमाशु जेतुम् ॥ गच्छन्स्वस्त्या पुरमालुलोके माहिष्मतीं मण्डनमण्डितां सः ॥ १ ॥ अवातरद्रत्नविचित्रवमां विलोक्य तां विस्मितमानस्रोऽसौ ।। पुराणवत्पुष्करवर्तनीतः पुरोपकण्ठस्थवने मनोज्ञे ॥ २ ॥ [इति श्रीति। तदिति । संदर्शनं संदश व्यासस्य संदश व्याससंदर्शस्तस्य श्रीभा जयकारस्य यो व्याससंदर्भस्तदेव चित्रं तत्र विषये गच्छति प्रतिपादकतया पर्यवस्य तीति तथेत्यर्थः] ॥ २२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यद तवंशावतंसरामकुमारसूनुधनपतिसूरिकृते श्रीशंकराचार्यवि जयडिण्डिमे सप्तमः सर्गः ॥ ७ ॥ अथाष्टमसर्गस्य टीका । नमः झार्वाय शान्ताय विमुक्ताय जटादिभिः । निरस्तवाममार्गाय यतीन्द्राय कृपालवे ॥ एवं व्यासदर्शनादिकं निरूप्याऽऽचार्यमण्डनसंवादं सपरिकरं वर्णयितुमुपक्रमते । अथ भट्टपादं ब्रह्मोपदिश्य तस्य वैष्णवपदमाझेरनन्तरं स भगवान्योगीन्द्रो मण्डैनं पण्डिवं जेतुं शीमं मयागातीर्थराजत्पतस्थे मस्थानं कृतवान् । तत आकाशमार्गेण गच्छन्स मण्डनेन मण्डितामलंकृतां माहिष्मतीं पुरं तन्नामकं नगरमालुलोक आसमन्ता दवलोकितवान् । उपजातिवृत्तम् ॥ १ ॥ [मण्डनेति । मण्डनेन मण्डनमिश्रारूयप ण्डितेन पक्षे रङ्गध्वजपताकादिसौधादिस्थावरभूषणेन वस्रालंकाराङ्गरागादिनागरिकनर नायौदिजङ्गमभूषणेनेति यावत् । मण्डितां भूषितामित्यर्थः ] ॥ १ ॥ रत्नविचित्रवमां विचित्ररत्नैहरकादिभिर्विचित्रा वमा अट्टालिका यस्यां तां माहि २९ १ ग. ‘गात्तं म'। १ ख. ग. घ 'uडनप'। ३ ख. 'जात्प्रस्था '। श्रीमच्छंकरदिग्विजयः । प्रफुलुराजीववने विहारी तरङ्गरिङ्गत्कणशीकराद्रः ॥ रेवामरुत्कम्पितसालमाल श्रमापहृद्भाष्यकृतं सिषेवे ॥ ३ ॥ तस्मिन्स विश्रम्य कृताद्विकः स न्स्वस्वतिकारोहणशालिनीने ॥ गच्छन्नसौ मण्डनपण्डितैौको दासीस्तदीयाः स ददर्श मागे ॥ ४ ॥ कुत्राऽऽलयो मण्डनपण्डितस्ये त्येताः स पप्रच्छ जलाय गात्रीः ॥ ताश्चापि दृष्टाऽदुतशंकरं तं संतोषवत्यो ददुरुत्तरं स्म ॥ ५ ॥ ष्मतीं विलोक्य विस्मितं विस्मयं प्राप्त मानसं मनो यस्य सोऽसौ योगन्द्रिो मनोज्ञेऽ तिरम्ये पुरोपकण्डस्थवने पुरसमीपस्थवने पुराणवत्पुराणः पुराणपुरुषो विष्णुस्तद्वत्पु ष्करवर्तनीत अभाकाशमार्गादवातरदवतीर्ण । ‘योम पुष्करमम्बरम्’ ‘सराणः पद्धति पद्या वर्तन्येकपदीति च' इत्यमरः उपेन्द्रवज्रा वृत्तम् ॥२॥ [पुराणवदिति । पुराऽपि नवः पुराणो नित्यनूतनाकृतिर्विष्णुस्तद्वदित्यर्थ । सोऽपि भगवान्भार्गवरामरूपी कार्तवीर्यपराजयार्थे माहिष्मत्यामेव तन्नगयाँ योगैश्वर्यबलादाकाशमार्गादेवावतीर्णोऽ भूदिति पुराणादौ प्रसिद्धमेव । एतेन स्वविजयावश्यंभावो व्यज्यते ] ॥ २ ॥ तस्मिन्प्रफुलकमैलवने विहारी विहरणशीलस्तरङ्गेभ्यो रिङ्गन्तो निःस्रवन्तो ये कणशीकरा अतिसूक्ष्माम्बुकणाः ‘कणोऽतिसूक्ष्मे धान्यांशे' ‘शीकरं शाबले वातैहृता म्बुकणयोः पुमान्' इति मेदिनी । तैराद्रों रेवामरुत् । कम्पिताः सालानां वृक्षविशेषाणां मालाः पङ्कयो येन स श्रमापहारको भाष्यकारं सिषेवे सेवितवान् । उपजातिवृत्तम् ॥ ३ ॥ [ प्रफुछेति । एतेन सौगन्ध्यं गन्धवाहे ध्वन्यते । तरङ्गेति । एतेन शैत्यं सूचितम् ] ॥ ३ ॥ तस्मिन्वने स श्रीशंकरो विश्रम्य विश्रामं कृत्वा कृतमाक्षिकमा कर्तव्यं येन तथा भूतः सन्मध्याह्नकाले यत्र सूर्य अभायाति तत्खस्वस्तिकं सिद्धान्तशिरोमण्यादौ प्रसिद्धं तदारोहणशालिनीने सूर्ये सत्यसैौ मण्डनपण्डितस्यौको गृहं प्रति गच्छन्स तदीया मण्डनपण्डितस्य दासीमगें ददर्श । इन्द्रवज्रा वृत्तम् ॥ ४ ॥ दृष्टा च किं कृतवानित्यपेक्षायामाह । कुत्रेति । मण्डनपण्डितस्याऽऽलयो वास [ सर्गेः ८ ]

  • ख. ग. घ. 'मले व'। २ क."तसता'। [ सर्गः ८ ]

धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । स्वतः प्रमाणं परतः प्रमाणं कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥ ६ ॥ फलप्रदं कर्म फलप्रदोऽजः कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितैौकः ॥ ७ ॥ जगदुव स्याज्जगदधुव स्या त्कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥ ८ ॥ स्थानं कुत्रेत्येतास्तस्य दासीजलानयनार्थं गत्रीर्गमनकत्रः स भाष्यकारः पप्रच्छ । ताश्चाप्यदुतश्चासौ शंकरश्चेत्यदुतशंकरस्तमद्रुतत्वं च शंकरत्वे सत्येकवक्त्रद्विनेत्रादि मत्वं यद्वाऽद्धतमनिवाच्यं शं सुखं करोतीति तथा तं दृष्ट्रांऽवलोक्य संतोषवत्य उत्तरं प्रतिवचनं ददुः । अपिशब्देन तादृशशंकरदर्शनं निकृष्टानामपि सुखजनकमासीत्कि मुतोत्कृष्टानामिति सूचितम् ॥ ५ ॥ ताभिर्दत्तमुत्तरमुदाहरति त्रिभिः । स्वत इति । वेदवाक्यं स्वतः प्रमाणमुत परतः प्रमाणमिति विचारात्मिकां गिरं वाचं यत्र मण्डनालये कीराणां शुकादिपक्षिणा मङ्गना अपि द्वारस्थस्य नीडस्य पञ्जरादिरूपस्यान्तरे मध्ये सम्यङनिरुद्धा गिरन्त्यचा रयन्ति तत्तादृशं मण्डनपण्डितस्यौको गृहं जानीहि ॥ ६ ॥ सुखदुःखादिफलप्रदं कर्म किंवाऽजो जन्मशून्यः सर्वशक्तिः सर्वज्ञः परमात्मेति विचारात्मिकाम् । समानमन्यत् ॥७॥ [*अजोऽजामेकाम्’ इत्यादिश्रुतेरीश्वर इत्यर्थः । अत्राऽद्यो जैमिनीयसिद्धान्तः । अन्त्यस्तु बादरायणादिसिद्धान्त इति ध्येयम्]॥७॥ किंच जगद्धवं प्रवाहरुपेण नित्यं न कदाऽप्यनीदृशं स्यात्किवाऽधुवमनित्यं स्या दितिविचारात्मकामित्यर्थः ॥ ८ (॥ [जगदिति । ‘जगद्विश्धं ध्रुवं नित्यम्’ इति भाट्टा दिभदवादिमतम् । ‘अधुवं कल्पितम्’ इति वेदान्तिसंमतम् ]।। ८ ।। २९७ १ ग. 'gाऽऽलो'। पौत्वा तदुक्तीरथ तस्य गेहा द्वत्वा बहिः सम कवाटगुप्तम् ॥ दुर्वेशमालोच्य स योगशक्षा व्योमाध्वनाऽवातरदङ्गणान्तः ॥ ९ ॥ तदा स लेखेन्द्रनिकेतनार्भ स्फुरन्मरुश्चञ्चलकेतनाभम् ।। समग्रमालोकत मण्डनस्य निवेशनं भूतलमण्डनस्य ॥ १० ॥ भविश्य तत्प्राप्य कवेः सकाशम् ॥ विद्याविशेषात्तयशः:प्रकाशं ददर्श तं पद्मजसंनिकाशम् ॥ ११ ॥ ताभिर्दत्तं प्रतिवचनं श्रुत्वा भगवान्माष्यकारो यत्कृतवांस्तदाह । पीत्वेति । तासां दासीनामुक्तीर्वचनानि कर्णपुटेन पीत्वाऽवधार्य तस्य मण्डनस्य गेहाद्वहिर्गत्वा कवाटै गृधं रक्षितं दुर्वेशं दुर्घटः मवेशो यस्मिस्तादृशं तस्य स भवनमवलोक्य स योगीन्द्रो योगशाक्त्या व्योमाध्वनाऽऽकाशमार्गेणाङ्गणान्तश्चत्वरमध्येऽवातरत् ॥ ९ ॥ [ सर्गः ८] ततश्ध यदृत्तं तदाह । तदेति । तदा तस्मिन्नवतरणकाले स योगीन्द्रो भूतलमण्ड नस्य भूलोकालंकारस्य मण्डनस्य निवेशानं वासस्थानं समग्रमालोकत दृष्टवान् । निवेशानं विशिनष्टि । लेखा देवाः ‘लेखा अदितिनन्दनाः' इत्यमरः । तेषामिन्द्रस्य यन्निकेतनं गृहं तस्याऽऽमेवाऽऽभा कान्तिरिव कान्तिर्यस्य तद्देवेन्द्रगृह्तुल्यमित्यर्थः । स्फुरता मरुता वायुना चञ्चलस्य केतनस्य केतोराभा यस्मिस्तत् ‘केतनं तु निमभ्रणे' ‘गृहे कैतौ च कृत्ये च' इति मेदिनी ॥ १० ॥ सैौधस्य प्रासादस्याग्रेणाग्रभागेन संछन्ने नभस्तदात्मकोऽवकाशो यस्मिस्तत्सव प्रविश्य कवेर्मण्डनस्य सकाशं समीपं प्राप्य तं कविं ददर्श । कविं विशिनष्टि । विद्याया विशेषात्सर्वत आधिक्यादात्तः प्राप्तो यशसः प्रकाशो यं तं पवजेन ब्रह्मणा समम् । आारूयानकी वृत्तम् ।। ११ ।। १ क. 'तं दत्तकबाटं दुनिवे'। ख. 'तं सकवाटं दुर्निवे'। [ सर्गः ८ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलित । तपोमहित्रैव तपोनिधानं सजैमिनिं सत्यवतीतनूजम् ॥ यथाविधि श्राद्धविधौ निमन्य तत्पादपद्मान्पवनेजयन्तम् ॥ १२ ॥ तत्रान्तरिक्षादवतीर्य योगि वर्यः समागम्य यथार्हमेषः ॥ द्वैपायनं जैमिनिमप्युभाभ्यां ताभ्यां सहर्ष भतिनन्दितोऽभूत ॥ १३ ॥ अथ द्युमार्गादवतीर्णमन्तिके मुन्योः स्थितं ज्ञानशिखोपवीतिनम् ॥ संन्यास्यसावित्यवगत्य सोऽभव त्प्रवृत्तिशात्रैकरतोऽपि कोपनः ॥ १४ ॥ तदाऽतिरुष्टस्य गृहाश्रमेशितु र्यतीश्वरस्यापि कुतूहलं भृतः ॥ क्रमात्किलैवं बुधशस्तयोस्तयोः प्रश्नोत्तराण्यासुरथोत्तरोत्तरम् ॥ १५ ॥ २९ पुनस्तं विशिनष्टि । सत्यवत्यास्तनूजमात्मजं व्यासं जैमिनिना सह वर्तमानं तपोनि धानं तपोमाहात्म्येनैव श्राद्धविधौ यथाविधि निमय तयोव्र्यासजैमिन्योः पादकमला न्यवनेजयन्तं प्रक्षालयन्तम् । उपजातिवृत्तम् ॥ १२ ॥ एतादृशं मण्डनं दृष्टा यत्कृतवांस्तदाह । तत्र तस्मिन्मण्डनगृहेऽम्बरादाकाशाद्वतीर्य व्यासं जैमिनि चैष योगिश्रेष्ठो यथायोग्यं समागम्य ताभ्यां चोभाभ्यां सह यथा स्यात्तथाऽभिनन्दितोऽभूत् । इन्द्रवत्रा वृत्तम् ।। १३ ।। अथानन्तरं स मण्डन आकाशमार्गादवतीर्ण मुन्योव्यसजैमिन्योरन्तिके समीपे स्थितं ज्ञानमेव शिखोपवीतं चास्यास्तीति तं शिखोपवीतविवर्जितमिति यावत् । असौ संन्यासीत्यवगत्य बुद्ध्वा प्रवृत्तिशासैकरतोऽपि कोपनः कोपयुक्तोऽभवत् । अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकर्मणि' इत्याद्विप्रवृत्तिशाखेण श्राद्धादिकर्मणि कोपस्य निषिद्धत्वात्तदभिरतत्वेन कोपायो ग्योऽपीत्यपिशब्दार्थः । उपजातिवृत्तम् ॥ १४ ॥ तदा तस्मिन्काले गृहस्थाश्रमस्येशितुरीधरस्य मण्डनस्यातिकुद्धस्य यतीधरस्य च श्रीमच्छकरदिग्विजयः । कुतो मुण्ड्यागलान्मुण्डी पन्थास्ते पृच्छयते मया ॥ किमाह पन्थास्त्वन्माता मुण्डेत्याह तथैव हि ॥ १६ ॥ पन्थानं त्वमपृच्छस्त्वां पन्थाः प्रत्याह मण्डन ॥ त्वन्मातेत्यत्र शब्दोऽयं न मां ब्रूयादपूँच्छकम् ॥ १७ ॥ [ सर्गः ८ ] कोपरहितस्यापि कुतूहलं कौतुकं भृतो धारयत एवं किल वक्ष्यमाणप्रकारेण बुधश्रेष्ठ योस्तयोरथ क्रमेणोत्तरोत्तरं प्रश्नोत्तराण्यापुर्बभूवुः । वंशस्थं वृत्तम् ॥ १५ ॥ [कुतू हलं कौतुकम् । भृतो धारयतः सकलदृश्यावच्छेदेनेन्द्रजालत्वानुसंधानात्तदीयास्था निककोपेऽप्यक्षुब्वस्य श्रीभाष्यकारस्येत्यर्थः ।। १५ ।। प्रश्रोत्तराण्युदाहरन्नादौ मण्डनकर्तृकं प्रश्रमुदाहरति । कुत इति । मुण्डी कुतो गृहद्वाराणां कवाटैः पिहितत्वात्मुण्डी श्राद्धकर्मणि द्रष्टुमयोग्यो भवान्केन मार्गेण प्रविष्ट एवं मण्डनोक्तं श्रुत्वा तद्वचनस्य किंपर्यन्तं भवान्मुण्डीत्यर्थे प्रकल्प्याऽऽह भगवान् । भा गलाद्रलपर्यन्तं मुण्डी मत्प्रश्रार्थ एतेन न बुद्ध इत्यवगत्य मण्डन आह । पन्था मार्गस्ते तव मया पृच्छयते न तु किंपर्यन्तं भवान्मुण्डीत्येवमुक्तस्तद्वचनस्य तव पन्थानं प्रति मया प्रश्नः कृत इत्यर्थ मकल्प्याऽऽह भगवान् । किमाह । पन्थास्त्वया पृष्ट पन्थास्त्वां प्रति किमाह किमुक्तवानेवं विपरीतं श्रुत्वा कुपितः सन्मण्डन आह । त्वन्मातेति । मया पृष्टः पन्थास्त्वन्माता मुण्डेत्याह । एवमात्रुकुष्टो भगवानुवाच । तथै वेति । त्वया पृष्टेन पथा त्वां प्रतेि त्वन्माता मुण्डेति यदुक्तं तत्तथैव हि यस्मात्पन्थानं प्राति त्वमपृच्छस्त्वां प्रष्टारं प्रत्येव पन्थास्त्वन्माता मुण्डेत्याह । हे मण्डनेति संबोधय न्पण्डितशिरोमणिस्त्वमिदं ज्ञातुं योग्योऽसीति सूचयति । तस्मात्त्वन्मातेत्यत्रायं त्वच्छब्दो मामप्रच्छकं न बूयान्मद्वाचको न भवतीत्यर्थः । ‘वक्रोक्तिः श्लेषकाकुभ्यामपरार्थत्वकल्पनम्’ ॥ १६ ॥ [ आगलादित्यादि । आगलाद्रलपर्यन्तमेव मुण्डी कृतौरोऽस्मीत्यर्थः। कण्ठाद्ध क्षेौरस्य यतीनां धर्मशास्त्रे निषेधप्रसिद्धेः ] ॥ १६ ॥ ॥ १७ ॥ [ त्वन्मातेत्यत्र वाक्येऽयं प्रत्यक्षस्त्वच्छब्दोऽयच्छकं पश्रमकुर्वाणं । प्रति नैव बृयादिति योजना । तस्मात्तत्प्रच्छकस्त्वमेव त्वन्मातोति त्वदनूदिततद्वाक्य गतत्वच्छब्दवाच्यो भवसीति भावः । अपृच्छकमिति त्वपपाठ एव । असाधुत्वात् १ ग. घ. भत आश्रय।

  • न विद्यते पृच्छा यस्येति बहुव्रीहिः । गपुस्तके तु ब्रूयादप्रच्छकमित्येव पाठो दृश्यते । [ सर्गः ८ ]

धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ३०९ अहो पीता किमु सुरा नैव श्वेता यतः स्मर ॥ किं त्वं जानासि तद्वर्णमहं वर्ण भवान्रसम् ॥ १८ ॥ मत्तो जातः कलञ्जाशी विपरीतानि भाषते ॥ सत्यं ब्रवीति पितृवत्वत्तो जातः कलञ्जभुक् ॥ १९ ॥ कन्थां वहसि दुर्बुद्धे गर्दभेनापि दुर्वहाम् ॥ शिखायज्ञोपवीताभ्यां कस्ते भारो भविष्यति ॥ २० ॥ न च छन्दोभङ्गः । ‘महाभ्यां च' इति सूत्रेण पादेः पूर्ववर्णस्य गुरुत्वापवादेन तद भावात् । अत एव कुमारसंभवेऽपि तथोदाजहार कालिदासः । सा मङ्गलस्नानविशुद्धगात्री गृहीतमद्युद्रमनयिवस्रा इति ] ॥ १७ ॥ एवमुक्तोऽतिरुष्टः सन्मण्डुन आह । अहो किमु सुरा मदिरा पीता किं त्वया मद्यपानं कृतमन्यथा विपरीतभाषणं कथं स्यात् । एवमाकुष्टो भगवांस्तद्वचनस्य सुरा किमु पीता पीतवर्णेत्यर्थे प्रकल्प्याऽऽह । नैवेति । सुरा पीता पीतवर्णा नैव भवति यतः कारणाच्छेता धेतवर्णा । स्वानुभूतमप्यर्थे कुतो न स्मरसीत्याशयेनाहं । स्मर स्मरणं कुरु । युरेति कचित्पाठः । एवमुक्तो मण्डन आह । किमिति । तस्याः सुराया वर्णे त्वं यतिः किं जानासि तद्वर्णज्ञानं यतेस्त्वात्यन्तानुचितमित्यर्थः । एव माक्षिप्तो भगवानुवाच । अहं वर्ण जानामि भवांस्तु रसं जानाति तथाच तद्वर्णज्ञानवा नप्यहं न प्रत्यवायी त्वं तु तद्रसानुभविता प्रत्यवायार्हः । ‘न सुरां पिबेत्' इति निषेधेन पानस्य प्रत्यवायजनकत्वबोधनान्न तु तद्वर्णज्ञानस्येति भावः ॥ १८ ॥ एवं विपरीतानि वचनानि श्रुत्वाऽतिरुष्टो मण्डन आह । मत्त इति । कलक्षं विषालिप्तबाणेन हतस्य मृगस्य मांसं कलत्रं न भक्षयेदिति वाक्येन निषिद्धमशितुं भोक्तुं शीलमस्येति स कलञ्जाश्यभक्ष्यभक्षणशीलो मत्त उन्मत्तो जातो यतो भवान्विप रीतानि भाषते । एवमत्याकृष्टो भगवांस्तद्वाक्यस्य मत्तो मत्सकाशाज्जातः कलञ्जाशी विपरीतानि भाषत इत्यर्थे प्रकल्प्याऽऽह । सत्यमिति । यथा पिता त्वं कलञ्जाशी विपरीतानि भाषसे तथा त्वत्तस्त्वत्सकाशाज्जात उत्पन्नः कलञ्जभुग्विपरीतानि ब्रवीति भाषत इति सत्यं यथार्थमेवेत्यर्थः ॥ १९ ॥ एवं पुनः पुनर्विपरीतं भगवद्वाक्यं श्रुत्वा प्रकारान्तरेणाऽऽक्षिपति । कन्थामिति । गर्दभेनापि दुर्वहां वोढुमशक्यां कन्थां वहसि तथाचातिभारभूतां कन्थां वोढुं समर्थस्य ते तव शिखायज्ञोपवीताभ्यां को भारो भविष्यति न कोऽपीत्यर्थः । स्वल्पभारभयाद नरुपभारवाहकस्य तवाहो दुर्बुद्धितेति सूचयन्संबोधयति । हे दुर्बुद्ध इति ॥ २० ॥ १ खं. ग. ध. "ह । स्मरणं । ३०२५ श्रीमच्छंकरदिग्विजयः । कन्थाँ वहामि दुर्बुद्धे तव पित्राऽपि दुर्भराम् ॥ शिखायज्ञोपवीताभ्यां श्रुतेर्भारो भविष्यति ॥ २१ ॥ त्यक्त्वा पाणिगृहीतीं स्वामशक्त्या परिरक्षणे । शिष्यपुस्तकभारेच्छोव्यख्याता ब्रह्मनिष्ठता ॥ २२ ॥ गुरुशुश्रूषणालस्यात्समावत्र्य गुरोः कुलात् । त्रियः शुश्रूषमाणस्य व्याख्याता कर्मनिष्ठता ॥ २३ ॥ स्थितोऽसि योषितां गर्भ ताभिरेव विवर्धितः । अहो कृतघ्रता मूर्ख कथं ता एव निन्दसि ॥ २४ ॥ [ सर्गः ८ ] एवमाक्षिप्तो भगवानपि कौतुकादाक्षेपं प्रतिक्षिपञ्शिाखायज्ञोपवीताभ्यामित्यादेरुत्तर माह । कन्थामिति । तव पित्राऽपि दुर्भरां त्रीभिस्तिरस्कृतेन पुनश्च तास्वेव मीति मता गर्दभेन तव पित्राऽपि दुर्वहां कन्थां शिखायज्ञोपवीते-विहाय वहामि यतस्ताभ्यां परीक्ष्य लोकान्कर्मवितान्ब्राह्मणो निर्वेदमायात् । ‘यदहरेव विरजेत्तदहरेव प्रव्रजेत्’ । ‘ब्रह्मचर्यद्वा गृहाद्वा वनाद्वा'। ‘संन्यस्य श्रवणं कुर्यात्'। ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः'।'अथ परित्राड़िवर्णवासा मुण्डोऽपरिग्रहः' इत्यादिश्रुतेर्भारो भविष्यति । स च वैदिकेनावैश्यं मया वारणीयः । पाठान्तरे तु विधिनिषेधात्मिका श्रुतिर्भरो भविष्यतीत्यर्थः । अतस्तद्भारविमोक्षणाय कन्थावाइकस्य मम सुबुद्धित्वम विदित्वा दुर्बुद्धित्वं वदतस्तवाहो दुर्बुद्धितेति ध्वनयन्संबोधयति । हे दुर्बुद्ध इति ॥२१॥ संन्यासं विना ब्रह्मनिष्ठता न सिध्यतीति शिखायज्ञोपवीते मया त्यक्ते इति बोधकं भगवद्वाक्यं श्रुत्वा मण्डन भाइ । त्यक्त्वेति । स्वां स्वीयां पाणिगृहीतीं भार्या परिरक्षणेऽशक्त्या विहाय शिष्यपुस्तकभारेच्छोस्तव या ब्रह्मनिष्टता सा व्याख्याताऽहो लोके पथिता ॥ २२ ॥ एवमाक्षिप्तस्तं प्रत्याक्षिपति गुरुशुश्रूषण आलस्यादुरोः कुलात्समावत्यै समावर्तनं विधाय स्त्रियः शुश्रूषमाणस्य तव या कर्मनिष्ठता सा व्याख्याता ॥ २३ ॥ [ स्त्रियः प्रति शुश्रूषमाणस्य सेवमानस्येत्यर्थः । बहुवचनं तु कचिद्रहस्थे बहुभार्यत्वस्यापि संभवात्तदभिप्रायम् ] ॥ २३ ॥ मण्डन आह । योषितां स्त्रीणां गर्मे स्थितोऽसि ताभिरेव विवर्धितस्त्वं ता एव कथं निन्दसीत्यहो हे मूर्ख तादृशास्त्रीकृतोपकारनाशकस्य तव कृतम्रता ॥ २४ ॥ १) क. "वश्यमपाकर'। [ सर्गः ८ ] घनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । ३०३ यासां स्तन्यं त्वया पीतं यासां जातोऽसि योनितः । तासु मूर्खतम स्त्रीषु पशुवद्रमसे कथम् ॥ २५ ॥ वीरहत्यामवाप्तोऽसि वहीनुद्धास्य पलतः । आत्महत्यामवाप्तस्त्वमविदित्वा परं पदम् ॥ २६ ॥ दौवारिकान्वश्वयित्वा कथं स्तेनवदागतः । भिक्षुभ्योऽन्नमदत्त्वा त्वं स्तेनवद्भोक्ष्यसे कथम् ॥ २७ ॥ कर्मकाले न संभाष्य अहं मूखेण संमति । अहो प्रकटितं ज्ञानं यतिभङ्गेन भाषिणा ॥ २८ ॥ भगवानुवाच । यासां योषितां स्तन्यं स्तनभवं पयस्त्वया पीतं यासां च थोनितो जातोऽसि वासु स्त्रीषु हे मूर्खतम पशुवत्कथं रमसे ॥ २५ ॥ मण्डन आह । वीरेति । गाईपत्याहवनीयदक्षिणारूयान्वह्नीन्यत्नवः प्रयत्नेनो द्रास्य वीरस्येन्द्रस्य इत्यामवाधोऽसि । तथाच श्रुतिः । ‘वीरहा वा एष देवानां योऽधीनुद्वासयति' । एवमात्रुष्टो भगवानुवाच । परं पदं परमात्मस्वरूपमवि दित्वाऽऽत्महत्यामवाप्तः प्राप्तः । ‘असन्नेव स भवत्यसङ्कोति चेद्वेद' । असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः' ।

  • अन्यथा सन्तमात्मानं योऽन्यथा प्रतिपद्यते ।

किं तेन न कृतं पापं चैौरेणाऽऽत्मापहारिणा' । इत्यादिश्रुतिस्मृतिभ्यः ॥ २६ ॥ एवं वाक्यचातुर्येण प्रतिबद्धो मण्डनः प्रकारान्तरेणाऽऽक्षिपाति । दौवारिकान्द्वा रपाखान्वञ्चयित्वा चैौरवत्कथमागतः । पत्याक्षिपति भगवान् । भिक्षुभ्योऽन्नं तेषां भागमद्दत्त्वा स्तेनवत्कथं भोक्ष्यसे ॥ २७ ॥ [ तद्रीत्यैव तं प्रत्याचष्टे । भिक्षुभ्य इत्यु त्तरार्धेन । तथा च भगवानाह गीतासु । ‘इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । वैर्दत्तानमदायैभ्यो यो भुङ्गे स्वेन एव सः' इति स्मृत्यन्तरेऽपि । ‘यतिश्च ब्रह्मचारी च पकान्नस्वामिनावुभौ । तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत्’ इति ] ॥ २७ ॥ एवं प्रत्युतैः पराजितो वकुमशक्तः सन्मण्डन आह । संमतीदानीं कर्मकालेऽहं मूखेंण त्वया संभाष्यो भाषणयोग्यो न भवामि । एवमुक्तो भगवानुवाच । यतौ पाठ ३०४ श्रीमच्छंकरिदिग्वजपः। पतिभङ्गे प्रवृत्तस्य पतिभङ्गो न दोषभाक् । यतिभङ्गे प्रवृत्तस्य पञ्चम्यन्तं समस्यताम् ॥ २९ ॥ इक ब्रह्म क च दुर्मेधाः छ संन्यासः क वा कलिः । स्वामर्भक्षकामेन वेषोऽयं योगिनां धृतः ॥ ३० ॥ क स्वर्गः क दुराचारः कामिहोत्रं क वा कलिः । मन्ये मैथुनकायेन वेषोऽयं कर्मिणां धृतः ॥ ३१ ॥ इत्यादिदुवाक्यगणं बुवाणे रोषेण साहंकृतिविश्वरूपे ॥ श्रीशंकरे वक्तरि तस्य तस्यो त्तरं च कौतूहलतश्च चारु ॥ ३२ ॥ विच्छेदे भङ्गेन भेदेन विसंधिना भाषणकत्र त्वयाऽो ज्ञानं पकटितम् ॥ २८ ॥ [ यतीति । यतावनुष्टुप्श्लोकच्छन्दः पाठविरामस्थल इत्यर्थः । यो भङ्गः कर्मकाले न संभाष्य अहमित्यत्र न संभाष्योऽहमिति व्याकरणसिद्ध संविमविधाय काल्पनिकमज्ञा स्वमेव विसर्गलोपलक्षणं तद्विरुद्धत्वेन विसंध्यारूयदोषदुष्टत्वात्काव्यनाशास्तेन द्वारेति यावत् । भाषिणा भाषणशीलेन त्वया ] ॥ २८ ॥ मण्डन आह । यतेस्तव भङ्गे प्रवृत्तस्य मम तत्सूचको यतिभङ्गो न दोषभाग्दोष युक्तो न भवतीत्यर्थः । एवमुक्तो भगवानुवाच । यतिभङ्गे प्रवृत्तस्येत्यत्र यतेः सका शाद्भङ्ग इति पञ्चम्यन्तं समस्यतां नतु षष्ठयन्तं तथाच यतेः सकाशाद्भङ्गे जयाविप ये सति प्रवृत्तस्य यतिभङ्गो दोषभाग्र भवतीति त्वद्वाक्यार्थः ॥ २९ ॥ मण्डन भाइ । केति ॥ ३० ॥ भगवानुवाच । क स्वर्ग इति ।। ३१ ॥ उपसंहरति । इत्यादिदुर्वाक्यगणं साईंकृतिविश्धरूपे रोषेण बुवाणे श्रीशंकरे च तस्य तस्य वचनस्योत्तरं चारु सुन्दरं कौतुकादेव न तु कोपाद्वक्तरि सति तं मण्डनं व्यासोऽब्रवीदितिपरेणान्वयः । आदिपदेन

  • किं जडो जडता देहे भौतिके न चिदात्मनि ।

किमभाग्योऽसि यत्यचरहितोऽभाग्य उच्यते । किं दूषकोऽसि पापेन दूषितो जायते नरः । चोरैरुपाश्रितः किं त्वं स तुषर्गपीडितः । अप्रार्थितः किमर्थं त्वं समायातो गृहे मम । तव भाग्यवशाद्विष्णुरहमत्र समागतः' । [ सः ८] १ क. 'भक्ष्यका'। [ सर्गः ८ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । तं मण्डनं सस्मितजैमिनीक्षितं व्यासोऽब्रवीज्जल्पसि वत्स दुर्वचः ॥ आचारणा नेयमनिन्दितात्मनां ज्ञातात्मतत्वं यमिनं धुतैषणम् ॥ ३३ ॥ अभ्यागतोऽसौ स्वयमेव विष्णु रित्येव मत्वाऽऽशु निमन्त्रय त्वम् ॥ इत्याश्रवं ज्ञातविधिं प्रतीतं मुध्यग्रणीः साध्वशिषन्मुनिस्तम् ॥ ३४ ।। अथापसस्पृश्य जल स शान्तः ससंभ्रमं मण्डनपण्डितोऽपि । व्यासाज्ञया शास्त्रविद्र्चयित्वा न्यमन्त्रयद्वैक्ष्यकृते महर्षिम् ॥ ३९ ॥ इत्यादिवाक्यजातं ग्राह्यम् । उपजातिवृत्तम् ॥ ३२ । [ सेति । अहंकृत्याऽ भिमानेन सहितं यथा स्यात्तथेति क्रियाविशेषणमिदम् ] ॥ ३२ ॥ ३०६ सस्मितेन जैमिनिनक्षितं तं मण्डनं व्यास उवाच हे वत्स ज्ञातं साक्षात्कृतमात्म तत्त्वं येन तं धुता विगताः पुत्रदारलोकैषणा यस्मात्तं यमिनं प्रति यदुवैचो जल्पसीय मनिन्दितात्मनामाचारणाऽऽचारो न भवति । इन्द्रवंशा वृत्तम् ॥ ३३ ॥ [ हे वत्स ! एतेनानुकम्पयैवाहं ब्रवीमि न तु पक्षपातेनेति द्योत्यते ] ॥ ३३ ॥ तथाचानिन्दितात्मा त्वमेवं कर्तु योग्योऽसीत्याह । असैौ यतिः स्वयमेव विष्णुरा गत इति मत्वा ज्ञातात्मतत्त्वं धुतैषणं यमिनामिमाशु शीघ्र त्वं निमम्रयेत्येवं प्रकारे णाऽऽश्रवं वचनस्थितम् । ‘आश्रवोऽङ्गीकृतौ झेशेनान्यवद्वचनस्थिते ' इति मेदिनी । ज्ञातविधिं प्रतीतं परूयातं तं मण्डनं सुध्यप्रणीर्मुनिव्यसः साधु यथा स्यात्तथाऽशिषच्छिक्षणं कृतवान् । इन्द्रवज्रा वृत्तम् ॥ ३४ ॥ अथ व्यासकृतशिक्षानन्तरं स मण्डनपण्डितोऽपि शान्तः सञ्जलमुपसंस्पृश्याऽऽच मनादिकं कृत्वा व्यासाज्ञया स्वयं च शास्त्रविन्महर्षेि शंकराचार्यमर्चयित्वा भैक्ष्यकृते भैक्ष्यार्षे न्यमश्रयत् । उपजातिवृत्तम् ॥ ३५ ॥ श्रीमच्छठंकरदिग्विजयः । स चाब्रवीत्सौम्य विवादभिक्षा मिच्छन्भवत्संनिधिमागतोऽस्मि ॥ साऽन्योन्यशिष्यत्वपणा प्रदेया नास्त्वादरः प्राकृतभक्तभैक्ष्ये ॥ ३६ ॥ मम न किंचिदपि ध्रुवमीप्सितं श्रुतिशिरःपथविस्तृतिमन्तरा । अवहितेन मखेष्ववधीरितः स भवता भवतापहिमद्युतिः ॥ ३७ ॥ जगति संप्रति तं प्रथयाम्यहं समभिभूय समस्तविवादिनम् ॥ त्वमपि संश्रय मे मतमुत्तमं विगद वा वद वाऽस्मि जितस्त्विति ॥ ३८ ॥ [ सर्गः ८ ] एवं भैक्ष्यकृते मण्डनेन निमश्रितो महर्षिः किमुक्तवानित्यत आह । स च महर्षिरब वीडे सौम्य प्रियदर्शन विवादभिक्षामिच्छन्भवत्संनिधिं तव समीपमागतोऽस्मि तस्मात्सा वादभिक्षाऽन्योन्यशिष्यत्वपणा मदेया प्राकृतान्नभैक्ष्ये तु ममाद्रो नास्ति ॥ ३६ ॥ [ हे सौम्य मियदर्शनेोति मण्डनं पति संबोधनम् । एतेन धेतकेतुं प्रत्युद्दालकेनेव त्वां प्रति ब्रह्मविद्यामुपदेष्टमेव मयाऽयमुपक्रमः कृत इति द्योत्यते ] ॥ ३६ ॥

  • वादवादांस्यजेत्तकन्न पक्ष कंचनाऽऽश्रयेतू

इति संन्यासिनस्तव निषिद्ध वादभिक्षां कथं याचस इति चेत्तत्राऽऽह । ममेति । श्रुतिशिरसां वेदान्तानां पैथो मार्गस्य विस्तृतिं विस्तारं विना मम किंचिदपि धुवमी प्सिर्तमजस्रमाक्षुमिष्टं न भवति तथाच स्वरूयात्याद्यर्थे वादाद्याश्रयणनिषेधपरमुदाहृत वाक्यं न तूक्तप्रयोजनवादाश्रयणनिषेधपरम् । एतादृशावादस्य लोकोपकारकत्वात् । पन्था भव एव तापो दुःखं संसारसंबन्ध्याध्यात्मिकाधिदैविकाधिभैौतिकलक्षणं दुःख मिति वा । तस्य हिमद्युतिश्चन्द्र औष्ण्यनिवृत्तिपूर्वकशैत्यजनकहिमद्युतिवन्निखिल दुःखनिवृतिपूर्वकपरमानन्दमाधिकरइत्यर्थः । मखेषु यज्ञेष्ववहितेन सावधानेन भव ताऽवधीरितस्तिरस्कृतः । हृतविलम्बितं वृत्तम् ॥ ३७ ॥ अतो यो वेदान्तमागों भवदादिभिरवधीरितस्तमहं समस्तविवादिनं सम्यगभिभूप तिरस्कृत्य जगति प्रथयामि सर्वोत्कृष्टत्वेन प्रकटीकरोमि । तस्मात्त्वमपि मे मतं वेदान्त १ ग. 'वीत्सोम्य । २ ग. सेोम्य । १ क. पन्था मार्गस्तस्य । ४ ग. "तमा । [ सर्गः ८ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । ३०७ इति यतिप्रवरस्य निशम्य त द्वचनमर्थवदागतविस्मयः ॥ परिभवेन नवेन महायशाः स निजगौ निजगौरवमास्थितः ॥ ३९ ॥ अपि सहस्रमुखे फणिनामके न विजितस्त्विति जातु फणत्ययम् ॥ न च विहाय मतं श्रुतिसंमतं मुनिमते निपतेत्परिकल्पिते ॥ ४० ॥ अपि कदाचिदुदेष्यति कोविदः सरसवादकथाऽपि भविष्यति ॥ इति कुतूहलिनो मम सर्वदा जयमहोऽयमहो स्वयमागतः ॥ ४१ ॥ भवतु संप्रति वादकथाऽऽवयोः फलतु पुष्कलशास्रपरिश्रमः ॥ उपनता स्वयमेव न गृह्यते नवमुधा वसुधावसथेन किम् ॥ ४२ ॥ सिद्धान्तत्वादुत्तमं संश्रय विगद वा यद्वा विवादं कुरु जितस्त्विति जितोऽस्मीत्येवं वा वद् ॥ ३८ ॥ इति यतिमवरस्य तत्तादृशामर्थवद्वचोऽर्थयुक्तं वचनं निशम्य श्रुत्वा नवेनापूर्वेण परिभवेन तिरस्कारेणाऽऽगतविस्मयः प्राप्तविस्मयः स मण्डनो निजगौरवमास्थितो निजगैौ जगाद् ॥ ३९ ॥ सहस्रमुखे फणिनामके शेषनागे सत्यप्ययं मण्डनो जातु कदाचिद्विजित इति तु न फणति नैव वदत्यतोऽयं वेदसंमतं मतं विहाय परिकल्पिते मुनेव्यसस्य तव वा मते न च निपतेत् ॥४०॥[सहस्रति । सहस्राननेऽपि जल्पति सतीत्यर्थः] ॥४०॥ इदं तु मदभिलषितमेव सिद्धमित्याशयेनाऽऽह । अपि कदाचित्कश्चन कोविदः पण्डित उदेष्याति रसेन सहिता सरसा सा चासौ वादकथा च साऽपि कदाचिद्भवि ष्यतीति कुतूहलिनो ममाहो अद्यायं जयमहो जयोत्सवः स्वयमागतः ॥ ४१ ॥ तस्मात्संमतीदानीमावयोर्वादकथा भवतु जायमानया च वादकथया शास्त्रपरिश्रमः फलतु सफलो भवतु । बहुकालमारभ्याभिलाषास्पदाऽमृततुल्या वादकथा प्रहीतुं योग्यैवेत्याशयेनाऽऽह । स्वयमेवोपनता समीपमागता नवसुधा नवीनाऽननुभूतपूर्वी सुधा वसुधाभवनेन भूमिनिवासिना मत्र्येन किं न गृह्यतेऽपि तु गृह्यत एवेत्यर्थः ॥४२॥ ३९७८ श्रीमच्छंकरदिग्विजयः । अयमहं यमहन्तुरपि स्वयं शमयिता मयि तावकसद्विराम् ॥ मुकलहं कलहं सकलाभृतां दिश मुधांशुसुधामलसत्तनो ॥ ४३ ॥ अपि तु दुर्हदयस्मयकानन क्षतिकठोरकुठारधुरंधरा ॥ न पटुता मम ते श्रवणान्तिकं ननु गताऽनुगताखिलदर्शना ॥ ४४ ॥ अत्यल्पमेतद्भवतेरितं मुने भैक्ष्यं प्रकुर्वे यदि वाददित्सुता । गतोद्यमोऽहं श्रुतवादवार्तया चिरेप्सितेयं वदिता न कश्चन ।। ४५ ।। [सर्गः ०] स्वगैौरवं द्योतयन्स्वस्मिन्वादात्मकं सुकलहं प्रार्थयते । अयमहं मण्डनो यमस्य मृत्योर्हन्तुरीश्धरस्यापि शमयितेश्वरस्य यमहन्तृत्वं तु'मृत्युर्यस्योपसेचनम्'इतिश्रुतिसिद्धं निरीश्वरवादिमीमांसकत्वादीश्वरो नास्तीति स्थापनेन तस्यापि स्वयं शमनकर्ततादृशे मयि कलहंसानां कला बिभ्रतीति तास्तासां कलहंसकलाभृतां तावकसद्रिरां सुकलहं दिशेरय । एतस्मिन्योग्योऽसीति सूचयन्संबोधयति । सुधांशोश्चन्द्रस्य यत्सुधाम तद्वलसन्ती द्योतमाना तनूर्यस्य तस्य संबोधनं हे सुधांशुसुधामलसत्तनो इति ॥४३॥ [ कलहंसेति । कलहंसानामतिमधुरध्वनिशालिराजहंसानां ये कला अव्यक्तमधुरध्वन यस्तानासमन्ताद्विभ्रतीति तथा तासामित्यर्थः ] ॥ ४३ ॥ मम वाकातुर्यमज्ञात्वा मया सह वादमिच्छसीति सूचयन्नाह । अपि तु दुर्हदयानां स्मयो गर्व एव काननं वनं तस्य क्षतौ छेदने कठोरकुठारधुरंवरा कठोरकुठारतुः ल्याऽनुगतान्यनुसृत्यान्यखिलदर्शनानि सर्वशास्त्राणि ययाऽनुगतान्यनुस्यूतान्यखिल दर्शनानि यस्यामिति वैवंविधा मम पटुता चातुरी ननु निश्चयेन ते तव श्रवणस्य कर्णस्यान्तकं समीपं न गता न प्राप्ता यतो मत्तो वादाभेक्षां याचस इत्यर्थः ।। ४४॥ किंच । अत्यल्पमिति । हे मुने यदि तव वाददित्सुता वाददानेच्छुत्वं तर्हि वाद् भैक्ष्यं प्रकुर्व इत्येतद्भवताऽत्यल्पमीरितं कथितं यतोऽहं श्रुता या वादवार्ता तयैः याचनां विनैव वादं कर्तु गतोद्यमः प्राप्तोद्यमः । इदं कुत इत्यत आह । यत इः वाद्वार्ता विरेप्सिता चिरकालादासुमिष्टा । ताहिं किमिति केनचिद्वादो न कृत इि तत्राऽऽह । वदिता वादकत न कश्चन कोऽपि न मिलित इत्यर्थ । उपजाविवृत्तः ॥ ४५ ॥ [ अहं श्रुतवादवार्तयैव गतोद्यमो गतो नष्ट उद्यम इतरव्यापारो यस्य [ सर्गः ८] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलि । ३०६ वादं करिष्यामि न संदिहेऽत्र जयाजयौ नौ वदिता न कश्चित् । न कण्ठशोषेकफलो विवादो मिथो जिगीष् कुरुतस्तु वादम् ॥ ४६ ॥ वादे हि वादिप्रतिवादिनौ द्वौ विपक्षपक्षग्रहणं विधत्तः । का नौ प्रतिज्ञा वदतोश्च तस्यां किं मानमिष्टं वद कः स्वभावः ।। ४७ ।। कः पाष्र्णिकोऽहं गृहमेधिसत्तम स्त्वं भिक्षुराजो वदतामनुत्तमः ॥ जयाजयौ नौ सपणौ विधीयतां ततः परं साधु वदाव सुस्मितौ ॥ ४८ ॥ अद्यातिधन्योऽस्मि यदार्यपादो मया सहाभ्यर्थयते विवादम् ॥ भविष्यते वादकथाऽपरेद्यु मध्याङ्गिकं संप्रति कर्म कुर्याम् ॥ ४९ ॥ तथा सकलशब्दबौकमननानिष्ठोऽस्मीत्यर्थः । तत्र हेतुः । चिरेत्यादि । यद्वा श्रुतवा दवार्तयैवाहमद्य मोहं लालस्यं गतः प्राप्त इत्यर्थः ] ।। ४५ ।। वादं करिष्याम्यत्र वादकरणे न संदेहे संदेहं न करोमि परं तु नावावयोर्जयाज यावयं जयं प्राप्तोऽयं तु पराजयमिति वदिता कश्चिन्मध्यस्थो न भवति । मास्त्विति चैत्रेत्याह । यत भावयोर्विवादः कण्ठस्य शोष एवैकं फलं यस्य स कण्ठशोषेकफलो न भवति । तु शब्दो ह्यर्थः । हि यस्मात्परस्परं विजिगीपू विवादं कुरुतोऽत इत्यर्थः ।। ४६ ।। वाद्रीर्ति दर्शयति । हि यस्माद्वादे वादिप्रतिवादिनौ द्वौ विपक्षपक्षयोग्रेहणं विधत्त इति रीतिस्तस्मान्नावावयोर्विवदतोः प्रतिज्ञा का तस्यां प्रतिज्ञायां मानं प्रमाणं किमिष्टं स्वभावः स्वीयो भावोऽभिप्रायः ।। ४७ ॥ कः पार्टणकः समीपस्थो मध्यस्थः क इति सर्वं वद किंचाहं गृहमेधिसत्तमस्त्वं तु वदतामनुत्तमो भिक्षुराजस्तस्मादादौ नौ जयाजयौ सपणौ विधीयतां ततः परं द्वावपि सुस्मितौ वदाव वादं करवाव ॥ ४८ ॥ एवं प्रागल्भ्यपूर्वकमुक्त्वा नम्रतापूर्वकमाह । अद्याहमतिवन्योऽस्मि यद्यस्मादार्थ पादो भवान्मया सह विवादमभ्यर्थयते प्रार्थयते ॥ ४९ ॥ ३१० श्रीमच्छंकरदिग्विजयः । [ सर्गः ८ ] तथेति सूक्ते स्मितशंकरेण भविष्यते वादकथा च एव । तत्साक्षिभावं व्रजतं मुनीन्द्रा वित्यर्थयादरिजैमिनी सः ॥ ५० ॥ विधाय भार्या विदुषीं सदस्यां वधीयतां वादकथा सुधीन्द्र ॥ इत्थं सरस्वत्यवतारतास्रौ तद्धर्मपत्न्यास्तमभाषिाताम् ॥ ५१ ॥ अथानुमोद्याभिहितं मुनिभ्यां स मण्डनार्यः प्रकृतं चिकीषुः ॥ आनर्च दैवोपगतान्मुनीन्द्रा नमीनिव त्रीन्मुनिशेखरांस्तान् ॥ ५२ ॥ वादकथा ध एव भविष्यत इति तथैव स्मितयुक्तेन शंकरेण सुत्ते सति हे मुनीन्द्रौ तस्य विवादस्य साक्षिभावं व्रजतमिति व्यासजैमिनी स मण्डनः प्रार्थ यत् ॥ ५० ॥ तस्य मण्डनस्य धर्मपत्न्याः सरस्वत्यवतारताज्ञावियं सरस्वत्यवतारभूतेत्यभिज्ञौ हे सुधीन्द्र विदुषीं भार्या सदस्यां विधाय वादकथा विधीयतामित्यनेन प्रकारेण तं मण्ड नमभाषिातामुक्तवन्तौ ॥ ५१ ॥ मुनिम्यां व्यासजैमिनिभ्याम् ॥५२ ॥[ मुनिशेखरानिति । पौनरुक्त्यपरिहारा र्थमन्निविशेषणमेव कर्तव्यम् । मुनीनां मननकर्मनिष्ठानां शेखरा इव पूज्यत्वेन शिरोधार्यास्तानित्यर्थः । तथा मुनीन्द्रपदप्रतिपादितव्यासजैमिनिश्रीशंकराचार्याणा मपि विशेषणं श्लेषालंकारादिसिद्धयर्थे मुनिशेखरानिति पौनरुक्त्यमशामकव्युत्पत्य न्तरेण कार्यम् । तद्यथा । मुनयोऽद्वैतब्रह्ममात्रमननशीलाः शेखरा इव शिरोधार्यत्वेन चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिरिति ब्रह्मसूत्रचरमचरणे संलिखितसिद्धा न्तसंमत्यादिना पूज्या एषाम् । एवं मुनीनां मननशीलपणतमुमुक्षुणां प्रणामकाले शेख रास्तदधिकरणीभूतशिरांसि येषु तथा मुनयोऽत एव शेखराः शिरोधायश्चेति । एवं मुनीन्द्रानित्यमिविशेषणमपि मुनीनामिन्द्राः श्रुतिमननशीलानां कर्मकाले पूज्यास्तान् । तद्वन्मुनयः श्रुतिमननशीला एवेन्द्रा वासवाः कल्पान्तरे येभ्यस्ते तान् । एवं मुनयः श्रुतिमननशीला एवेन्द्रा इन्द्रशब्दितपरमात्मरूपा येभ्यस्ते तान् । एवमन्यदपि यथोक्तदिशा व्युत्पत्तिजातमूह्यमविमत्सरैः सूरािभीरत्यलं पलवनेनेत्युपरम्यत इति दिक् ] ॥ ५२ ॥ [ सर्गः ८ ] घनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । भुक्वोपविष्टस्य मुनित्रयस्य श्रमापनोदाय तदीयशिष्यौ । अतिष्ठतां पाश्र्वगतौ बटू द्वौ सचामरौ वीजनमाचरन्तौ ॥ ५३ ॥ अथ क्रियान्ते किल पविष्टा स्रवय्यन्तवेद्यार्थविदस्रयोऽमी ॥ मुहूर्तमात्रं किमपि प्रहृष्टाः ॥ ५४ ॥ तेषां द्विजेन्द्रालयनिर्गताना मदर्शनं जग्मतुरक्षसा द्वौ । रेवातटे रम्यकदम्बसाले देवालपेऽवस्थितवांस्तृतीयः ॥ ५५ ॥ इति स यतिवरेण्यो दैवयोगाद्ररूणा मितरजनदुरापं दर्शनं प्राप्य हृष्टः ॥ तदुदितवचनानि श्रावयमात्मििशष्या ननयदमृततुल्यान्यात्मवित्तां त्रियामाम् ॥ ५६ ॥ वीजनं चामरसंचालनमाचरन्तौ स्थितवन्तौ ॥ ५३ ॥ भग्यजुःसामाख्यवेदत्रय्या अन्त उपनिषद्भागस्तेन तत्र वा वेद्यमर्थ परैमपुरुषार्थ भूतं परमात्मानं जानन्तीति त्रयन्तवेद्यार्थविदोऽमी त्रयो व्यासजैमिनिशंकराः क्रियायाः पूर्वोक्ताया अभन्ते सूपविष्टाः परस्परं प्रहृष्टास्ते मुहूर्तमात्रं चारु किमप्यऽमत्र यन् ॥ ५४ ॥ द्विजेन्द्रस्य मण्डनस्य गृहान्निर्गतानां मध्ये द्वौ व्यासजैमिनी शीघ्रमदर्शनं प्रापतुस्तृ दीयः शंकराचार्यो रेवाया नर्मदायास्तटे रम्याः कदम्बाः सालाश्च यस्मिस्तस्मिान्स्थत देवालयेऽवस्थितवान् ॥ ५५ ॥ इत्येवंप्रकारेण यतिश्रेष्ठो गुरूणमिति बहुवचनमादराथै व्यासजैमिन्योर्दर्शनमितर जनैः मासुमशक्यं दैवयोगात्प्राप्य दृष्टस्तैर्गुरुभिरुदितानि वचनान्यमृततुल्यानि स्वशि

  • याञ्श्रावयं स्तां त्रियामां रात्रिमात्मविदनयत् । मालिनी वृत्तम् ॥ ५६ ॥

१ क. 'गतावबुद्धौ स'। ३११ २ क. 'रपूरु'। श्रीमच्छकरदिग्विजयः । प्रातः शोणसरोजबान्धवरुचिप्रद्योतिते व्योमनि प्रख्यातः स विधाय कर्म नियतं प्रज्ञावतामग्रणीः । साकं शिष्यवरैः प्रपद्य सदनं सन्मण्डितं माण्डनं वादायोपविवेश पण्डितसभामध्ये मुनिध्र्येयवित् ॥ ५७ ॥ ततः समादिश्य सदस्यतायां सधार्मिणीं मण्डनपण्डितोऽपि ॥ स शारदां नाम समस्तविद्या विशारदां वादसमुत्सुकोऽभूत् ॥ ५८ ॥ पत्या नियुक्ता पतिदेवता सा सदस्यभावे सुदती चकाशे ॥ तयोर्विवेतुं श्रुततारतम्यं समागता संसदि भारतीव ॥ ५९ ॥ प्रवृद्धवादोत्सुकतां तदीयां विज्ञाय विज्ञः प्रथमं यतीन्द्रः ॥ परां प्रांतज्ञामकरोत्स्वकीयाम् ॥ ६० ॥ प्रातःकाले शोणसरोजानां रक्तकमलानां बान्धवस्य सूर्यस्य रुचव्या कान्त्या पद्यो तिते व्योमन्याकाशे सति स यतिंप्रवरः प्रज्ञावतामग्रणीनियतं नित्यं कर्म स्नानादि विधाय शिष्यवरैः साकं मण्डनस्येदं मण्डनं सदनं भवनं सद्भिर्मण्डितं प्रपद्य प्राप्य ध्येयं ब्रह्म जानातीति ध्येयविन्मुनिः पण्डितसभामध्ये वादायोपविवेश । पाठान्तरे तु मण्डनं प्रतीति व्याख्येयम् । शार्दूलविक्रीडितं वृत्तम् ॥ ५७ ॥ [ शोणपदं सरोजबा न्धवेन सूर्येण सहैव संबद्धयते ] ॥ ५७ ॥ ततः सभामध्ये वादार्थे यतेरुपवेशनस्यानन्तरं स मण्डनपण्डितोऽपि सधर्मिणीं भार्या शारदां सरस्वतीं नाम प्रसिद्धां समस्तविद्यासु विशारदां कुशलां सदस्यतायां सभाना यकतायां समादिश्य वादं प्रति समुत्सुकः सम्यगुत्कण्ठितोऽभूत् । उपेन्द्रवज्रा वृत्तम् ॥ १८ ॥ सा शारदा पतिदेवता सुषुदन्तवती सदस्यभावे पत्या नियुक्ता चकाशे तयोर्यति मण्डनयोः श्रुतस्य तारतम्यं विवेतुं समागता संसदि भारतीव ॥ ५९ || [ सुदतीत्य नेन नैसर्गिकस्मितशालित्वं तस्यां सूच्यते ] ॥ ५९ ॥ ददनन्तरं भगवान्भाष्यकारः किं कृतवानित्यपेक्षायामाह । तदीया पवृद्धा या १ ख. 'ति'५'। [ सर्गः ८ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । ३१३ ब्रमैकं परमार्थसचिदमलं विश्वप्रपञ्चात्मना शुक्ती रुप्यपरात्मनेव बहलाज्ञानावृतं भासते ॥ तज्ज्ञानान्निखिलप्रपञ्चनिलया स्वात्मव्यवस्था परं निर्वाणं जनिमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥ ६१ ॥ बाढं जये यदि पराजयभागहं स्यां संन्यासमङ्ग परिहृत्य कषायैचेलम् ॥ शुछं वसीय वसनं द्वयभारतीयं वादे जयाजयफलप्रतिदीपिकाऽस्तु ॥ ६२ ॥ इत्थं प्रतिज्ञां कृतवत्युदारां श्रीशंकरे भिक्षुवरे स्वकीयाम् ॥ स विश्वरुपो गृहमेधिवर्य श्चक्रे प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥ ६३ ॥ चादोत्सुकता तां विज्ञाय विशैः पराभिप्रायज्ञः परं कारणमवरं कार्ये यद्वा परं भवि ऽयमवरं भूतं ते परावरे जानातीति परावरज्ञो यद्वा परे ब्रह्मादयोऽवरे यस्मात्तं परमा त्मानं जानातीति तथा परावरावीशजीवावभेदेन जानातीति वा । अत एतादृशाः स यतीन्द्रः प्रथमं परावरयोरीशजवियोरैक्यपरां स्वकीयां प्रतिज्ञामकरोत् ॥ ६० ॥ तामेवोदाहरति । ब्रोकं परमार्थसचिद्मलं बहलेन निबिडेनानादिसिद्धेनाज्ञा नेनाऽऽवृतं सत्सकलप्रपश्वात्मना भासते शुक्तिर्यथा रूप्यपरात्मना रूप्यात्मकपरस्वरू पेण भासते तद्वत्तस्य परावरैक्यस्य ज्ञानान्निखिलप्रपञ्चस्य नितरां कारणेनाज्ञानेन सह लयो बाधो यस्यामेवंविधा या स्वात्मनि व्यवस्था व्यवस्थितिः सा परं निर्वाणं जनिमुक्तं जन्मविनिर्मुक्तमभ्युपगतमस्यां प्रतिज्ञायां प्रमाणं श्रुतेर्मस्तकं वेदान्ताः पमाण मिष्टम् । तथाच श्रुतेर्मस्तकम्। ‘एकमेवाद्वितीयम्'सत्यं ज्ञानमनन्तम्'।'विज्ञानमानन्दं ब्रह्म'।*सर्वं खल्विदं ब्रह्म'।'वाचारम्भणं विकारो नामवयं मृत्तिकेत्येव सत्यम्'।'तररात शोकमात्मवित्'। तत्र को मोहः कः शोक एकत्वमनुपश्यतः'।'ब्रह्म वेद ब्रवैव भवति

  • न स पुनरावर्तते न स पुनरावर्तते' इत्यादि । शार्दूलविक्रीडितं वृत्तम् ॥ ६१ ॥

तत्र पणं दर्शयति । बाढमिति । दृढेऽप्यस्मज्जये यदि पराजयभागहं स्यां वहङ्ग हे मण्डन कषायवस्र संन्यासं परित्यज्य शुकं वस्त्रं वसीयाऽऽच्छादनार्थमङ्गी कुर्या क्रियमाणे वादे जयाजयफलस्य प्रतिदीपिकेयमुभयभारत्यस्तु । वसन्ततिलका वृत्तम् ॥ ६२ ॥ विश्धरूपो मण्डनः स्वमते प्रतिष्ठा यस्यास्तथाभूतां प्रतिज्ञाम्। उपजातिवृत्तम् ॥६३॥ ५ क. घ. 'य चैल'। ५ ख. घ. 'ज्ञः परं । ३ ख. 'लं नि'। ३१४ श्रीमच्छकरदिग्विजयः । [ सगैः ८ ] वेदान्ता न प्रमाणं चितिवपुषि पदे तत्र संगत्ययोगा त्पूर्वो भागः प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे ॥ शब्दानां कार्यमात्रं प्रति समधिगता शक्तिरभ्युन्नतानां कर्यभ्यो मुक्तिरिष्टा तदिह तनुभृतामायुषः स्यात्समाझेः ॥६४॥ वादे कृतेऽस्मिन्यदि मे जपान्य स्त्वयोदितात्स्याद्विपरीतभावः ॥ येयं त्वयाऽभूद्भदिता मसाक्ष्ये जानाति चेत्सा भविता वधूमें ॥ ६५ ॥ जेतुः पराजित इहाऽऽश्रममाददीते त्येतौ मिथः कृतपणौ यतिविश्वरूपौ ।। अम्बामुदाधिषणामभिषिच्य साक्ष्ये जल्पं वितेनतुरथो जयदत्तदृष्टी ॥ ६६ ॥ मण्डनकृतां प्रतिज्ञामुदाहरति । वेदान्ता इति । चितिवपुषि चित्स्वरूपे पदे पर मात्मनि वेदान्ताः प्रमाणं न भवन्ति तत्र चिद्भपे सिद्धे वस्तुनि कार्यानन्विते संगते शाक्तेरयोगौद्वेदान्तेभ्यः पूर्वोभागः पदचयेन पदसमुदायात्मकेन वाक्येन गमिते बोधि तेऽशेषे कार्यवस्तुनि प्रमाणमभ्युन्नतानां प्रसिद्धानां घटमानयेत्यादिकानां शब्दानां कार्यमात्रं प्रति शक्तिः समधिगता कर्मभ्यश्च मुक्तिरिष्टाऽभिमत्रा तत्कर्मेहास्मिलोके तनुभृतां देहभृतां जीवानामायुषो जीवनस्य समाधेः समाक्षिपर्यन्तमिष्टं स्यात् * थाव जीवमभिहोत्रं जुहुयात्' इति वचनातू । समाप्तिरितिपाठे तु ततस्मादिहास्मिन्कर्मणि तनुभृवामायुषः समाप्तिः स्यादिति व्याख्येयम् । स्रग्धरा वृत्तम् ॥ ६४ ॥ [ तदिह तनुभृतामिति मध्यमणिन्यायेनोभयत्राप्यन्वेति । कर्मभ्य इत्यपि काकाक्षिवदायुष इत्य त्रापि संघध्यते ] ॥ ६४ ॥ पणं दर्शयति । अस्मिन्वादे कृते सति यदि मे जयादन्यः पराजयः स्यात्तर्हि त्वयेोदितात्त्वदुक्ताद्विपरीतभावः शुछवमनं गृहाश्रमं विहाय कषायवस्वपरिधानं स्याधे यमुभयभारची मसाक्ष्ये स्वया कैल्पिताऽभूत्सैवेथं वधूमें जानाति चेत्यसाक्ष्ये भविष्यति। उपजातिवृत्तम् ॥ ६५ ॥ इहास्यां सभायां वादे वा पराजितो जेतुराश्रममङ्गीकुर्यादिति कृतपणौ यतिमण्डना बुदारबुद्धिमम्बां सरस्वतीं साक्ष्येऽभिषिच्याथो भनन्तरं जये दत्ता स्थापिता दृष्टियभ्यां तौ जल्पं विजिगीषुकथां वितेनतुर्विस्तारितवन्तावित्यर्थः । वसन्ततिलका वृत्तम् ॥६६॥ १ ग. उंवामु। २ ख. घ. 'गात्संगतिप्रहाभावाद्वे'। ३ क. ख. कथिता'। ४ ख. 'यं मम वधूः भरती जा'। ५ क. ‘में प्र'। ६ क. 'क्ष्ये भविता भ'। ७ ग. 'द्धिमुंवां स'। [ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ३१५ आवश्यकं परिसमाप्य दिने दिने तौ वादं समं व्यतनुतां किल सर्ववेदौ । एवं विजेतुमनसोरुपविष्टयोस्तां मालां गले न्पधित सोभयभारतीयम् ॥ ६७ ॥ माला यदा मलिनभावमुपैति कण्ठे यस्यापि तस्य विजयेतरनिश्चयः स्यात् ॥ उक्त्वा गृहं गतवती गृहकर्मसक्ता भिक्षाशने पि चरितुं गृहिमस्करिभ्याम् ॥ ६८ ॥ अन्योन्यसंजयफले विहितादरौ तौ वादं विवादपरिनिर्णयमातनिष्ठाम् ॥ ब्रह्मादयः सुरवरा अपि वाहनस्था श्रोतुं तदीयसदनं स्थितवन्त ऊध्र्वम् ॥ ६९ ॥ ततस्तयोरास महान्विवाद सदस्यविश्राणितसाधुवादः । स्वपक्षसाक्षीकृतसर्ववेदः परस्परस्यापि कृतप्रमोदः ॥ ७० ।। सर्ववेदौ सर्वज्ञौ तौ समं मिथो वादं वितनुतां विस्तारितवन्तावेवं विजेतुमनसोरुप विष्टयोर्यतिमण्डनयोगैले तां प्रसिद्धां पुष्पनिर्मितामेकैकां माळां सेयमुभयभारती न्याधित स्थापितवती ॥ ६७ ॥ [ अभावश्यकं स्वस्वनित्यकृत्यं स्नानसंध्याध्यानड्वनादि कम्] ।। ६७ ॥ वयोगैले मालां निधाय यदुक्तवती तदाह । यदा यस्मिन्काले यस्य गले मालाम लिनभावमुपैति प्रामुयात्तस्य तदा विजयेतरस्य पराजयस्य निश्चयः स्यादित्युक्त्वा गृहं गतवती यतो गृहकर्मसक्ताऽपि च भिक्षा चाशनं भोजनं च भिक्षाशाने चरितुं गृहिणे गृहस्थार्थमशनं मस्करिणे यत्यर्थं भिक्षां निर्मातुमित्यर्थः ॥ ६८ ॥ साक्ष्ये स्थापितायाः कृत्यमुक्त्वा वादिकृत्यमाह । तौ यतिमण्डनावन्योन्यसंजया त्मके फले विहिताद्रौ वादं जल्पात्मकमातनिष्टां विस्तारितवन्तौ तस्मिन्काले ब्रह्माद् योऽपि सुरश्रेष्ठा वाहनस्थाः सन्तो विवादस्य परिनिर्णयं श्रोतुं तदीयं सदनं तस्य भवनमूध्र्वमन्तरिक्षे स्थितवन्तः ॥ ६९ ॥ [ तदीयेति । मण्डनमिश्रगृहं प्रति । ऊध्र्व स्थितवन्त आसन्निति योजना ] ॥ ६९ ॥ ततो वादविस्तारानन्तरं ब्रह्मादिस्थित्यनन्तरं च तयोर्यतिमण्डनयोर्महान्विवाद १ ख. 'दप'। २ क. ख. 'नं भ। ३१६ श्रीमच्छकरदिग्विजयः । दिने दिने चाधिगतप्रकर्षे भूरीभवत्पण्डितसंनिकर्षः ।। अन्योन्यभङ्गाहिततीव्रतर्ष स्तथाऽपि दूरीकृतजन्यमर्ष ॥ ७१ ॥ दिने दिने वासरमध्यमे सा ब्रते पतिं भोजनकालमेव । समेत्य भिक्षु समयं च भैक्ष्ये दिनान्यभूवन्निति पञ्चषाणि ॥ ७२ ॥ अन्यान्यमुत्तरमस्खण्डयता प्रगल्भ बद्धासनौ स्मितविकासिमुखारविन्दौ ॥ न स्वेदकम्पगगनेक्षणशालिनौ चा न क्रोधवाक्छलमवादि निरुत्तराभ्याम् ॥ ७३ ॥ अभास बभूव । विवादं विशिनष्टि । सदस्यैः सभ्यैर्विश्राणितो दत्तः साधुवादो यस्मै स स्वस्वपक्षे साक्षीकृताः सर्वे वेदौ यत्र स परस्परस्यापि कृतः प्रमोदः ग्रहषों येन । उपेन्द्रवज्रा वृतम् ॥ ७० ॥ पुनर्विवादं विशिनष्टि । दिने दिने चाधिगतः प्रकर्षों येन स भूरीभवतां पण्डितानां संनिकर्षः सांनिध्यं यस्य सोऽन्योन्यभङ्गेन विवदतोरन्तःकरण आहित स्थापितस्तषों जयाभिलाषो येन तथाऽपि दुरीकृतो जन्यमर्षों युद्धरोषो यस्मात्सः । ‘जन्यं हैट्टे परीवादे संयुगे जनके पुनः इति विश्धपकाशाः । उपजातिवृत्तम् ॥ ७१ ॥ सोभयभारती प्रतिदिनं मध्याद्वे समागत्य पर्ति भोजनकालमेव वक्ति भिक्षु श्रीशं करं भैक्ष्ये समयं च वदतीत्येवंप्रकारेण पञ्चषाणि पञ्च वा षड़वा दिनान्यभूवन् ॥७२॥ दृढतया बद्धमासनं याभ्यां तौ स्मितेन मन्दहसितेन विकासयुक्त मुखकमले ययोस्तौ यतिमण्डनौ मगल्भमुत्तरमन्यान्यमखण्डयता खाण्डतवन्त। पुनश्च स्वेदः प्रस्वेदो गगनेक्षणमुत्तरामतिभान आकाशं प्रति निरीक्षणं स्वेदकम्पगनेक्षणशालिनौ न बभूवतुर्न वा निरुत्तराभ्यां क्रोधेन वाक्छलं क्रोधवाक्छलमवादि कथितम् । वसन्त तिलका वृत्तम् ।। ७३ । [ न स्वेदेति । स्वेदकम्पौ सात्विकविकारौ । तदुक्तम् । स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवण्र्यमश्रुप्रलय इत्यष्टौ सात्विकाः स्मृताः’ इति] ।। ७३ ।। १ ग. 'स्मै स्वस्तप'। [ सर्गः ८] २ क. ग. घ. 'दा येन स । ३ ग. ह्रदे । [ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्ठयटीकासंवलितः । ततो यतिक्ष्माभृदवेक्ष्य दाक्ष्यं क्षोदक्षमं तस्य विचक्षणस्य । चिक्षेप तं क्षोभितसर्वपक्ष विद्वत्समक्षाप्रतिभातकंक्ष्यम् ॥ ७४ ॥ ततः स्वसिद्धान्तसमर्थनाय प्रागल्भ्यहीनोऽपि स सभ्यमुख्य: ॥ जगाद वेदान्तवचः प्रसिद्ध मद्वैतसिद्धान्तमपाकरिष्णुः ॥ ७५ ॥ भो भो यतिक्ष्माधिपते भवद्रि जीवेशयोर्वास्तवमैकरुप्यम् । विशुद्धमङ्गीक्रियते हि तत्र प्रमाणमेवं न वयं प्रतीमः ॥ ७६ ॥ ३१७० ततो बहुकालपर्यन्तं वादप्रवृत्यनन्तरं यातिक्ष्माभृद्यतिराजस्तस्य विचक्षणस्य मण्ड नस्य क्षोदं विचारात्मकं पेषणं क्षमते सहत इति क्षोदक्षमं दाक्ष्यं कुशलतामवक्ष्य क्षोभितः सर्वे पक्षा येन तथाभूतमपि विदुष अाचार्यस्य समक्षे संमुखेऽप्रतिभाता कैक्ष्याः कोट्यो यैस्यैतादृशं तं चिक्षेप यद्वक्तव्यं तदुच्यतामिति पुनः प्रेरितवान् । उपजातिवृत्तम् ॥ ७४ ॥ [ विद्वदिति । विदुषां विवादकैौतुकावलोकनार्थमागतानां पण्डितानां समक्ष पत्यक्षमेव यथा स्यात्तथाऽप्रतिभाता कक्षायै 'स्पवपदे च दोर्मुले कक्षा वीरुतृणेषु चव इति मेदिन्याः स्पर्धास्थानायाह कोटेिर्यस्य स तथा तमेतादृशं सन्तमिति यावत्] | ७४ ।। तदनन्तरं मण्डनो यत्कृतवांस्तदाह । ततः स्वसिद्धान्तसमर्थनाय प्रागल्भ्यहनोऽपि सभ्यमुख्यः स मण्डनो वेदान्तवचोभिः प्रसिद्धमद्वैतासिद्धान्तमपाकरिष्णुरुवाच । उप जातवत्तम् ॥ ७५ ॥ यदुवाच तदुदाहरति । भो भो इति । संभ्रमे वीप्सा । यतिक्ष्माधिपते यतिराज जीवेश्वरयोर्वास्तवमैकरूप्यं विशुद्धं यद्भवद्भिरङ्गीक्रियते तत्र प्रमाणं वयं न पतीमो न जानीमस्तत्र प्रमाणं नास्तीत्यर्थः । अयं भावः । न हि श्रुतिमस्तकमुक्तार्थे प्रमाणं भवितुमर्हति शुद्धबुद्धोदासीनतयोपेक्षणैीयं ब्रह्मा भूतमभिदवतस्तस्यापुरुषार्थोपदेशि नोऽपयोजनत्वप्रसङ्गात् । किंच यथा लैोकिकवाक्यानि प्रमाणान्तरावगतार्थबोधकानि १ क "कक्षम् । २ क. कक्षाः । ३ क. यस्य स ता । ४ ग. "रं स म'। ५ ग. घ. 'णीयत्र ३१८ श्रीमच्छकरदिग्विजयः । सप्रत्यवादीदिदमेव मानं यच्छेतकेतुप्रमुखान्विनेयान् । उद्दालकाद्या गुरवो महान्त संग्राहयन्त्यात्मतया परेशम् ॥ ७७ ॥ [ सर्गः ८ ] न स्वतः प्रमाणं तथा भूतार्थानुवादकत्वेन श्रुतिमस्तकस्यानपेक्षालक्षणं प्रामाण्यं व्याह न्येत । तथाच प्रत्यक्षादिविषयस्य परिनिष्ठितवस्तुनः प्रतिपादनासंभवत्प्रतिपादने च हेयोपादेयरहिते पुरुषार्थाभावाच्छूतिमस्तकस्य तत्र प्रमाणत्वाभावेन भवत्सिद्धान्ते वयं प्रमाणं न प्रतीम इति । उपजातिवृत्तम् ॥ ७६ ॥ एवं मण्डनकर्तृकमाक्षेपमुदाहृत्य भाष्यकृत्कर्तृकमुत्तरमुदाहर्तुमाह । स भगवान्भाष्य कारः पत्यवादीत्पत्युत्तरं दत्तवान् । इदमेव प्रमाणं यच्छेतकेतुपभृतीञ्शिष्यानुद्दालकाद्या महान्तो गुरवः परेशं परमात्मानमात्मतया ग्राहयन्ति । ‘तत्त्वमसि चेतकेतो' इति । अाद्यप्रमुखपदाभ्यां जनकयाज्ञवल्क्यादयो गृह्यन्ते । तथाचाऽऽह जनकं प्रति याज्ञ वल्क्यः । 'अभयं वै जनक प्राप्तोऽसि तदाऽऽत्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सवे मभवत्' । ‘तत्र को मोहः कः शोक एकत्वमनुपश्यत:’ इत्यादि । अयमभिसंधिः । पुवा क्यदृष्टान्तेन भूतार्थतया सापेक्षत्वेनाप्रामाण्यापीत्तमभिप्रेत्य प्रत्यगभिन्ने ब्रह्मणि प्रमाणं न वयं मतीम इति वदता त्वया वक्तव्यं किं पुंवाक्यानां सापेक्षत्वं भूतार्थत्वेनोत पौरुषे यत्वेन । आद्ये प्रत्यक्षादीनामपि भूतार्थतया सापेक्षत्वेनाप्रामाण्यप्रसङ्गः । द्वितीये त्वपौ रुषेयाणां वेदान्तानां प्रत्यक्षादीनामिव भूतार्थानामपि नामामाण्यम् । तथाच ब्रह्मात्म भावस्य परिनिष्ठितवस्तुस्वरूपत्वेऽपि तत्त्वमसत्यादिशास्त्रमन्तरेणानवगम्यमानतया प्रत्य क्षादिविषयत्वाभावेनानधिगतगन्तृत्ववतां वेदान्तानां प्रत्यगभिन्ने बह्मणि प्रामाण्यमवश्य मास्थेयम् । नापि हेयोपादेयरहितत्वादपुरुषार्थत्वम् । हेयोपादेय शून्यब्रह्मात्मावगमा देव सर्वेक्रेशनिवृतिपूर्वकपरमानन्दप्राप्त्या पुरुषार्थसिद्धेः । द्विविधं हुपादेयं किंचिदप्राप्त यथा ग्रामादि किंचित्पुनः प्राप्तमपि विभ्रमवशादमाप्तामवावगतं यथा स्वग्रीवावनद्धं प्रैवेयकम् । एवं हेयमपि द्विविधं किंचिदहीनं यथा व्यावहारिकसपदि किंचित्पुनहींनं यथा चरणाभरणे नूपुरादौ समारोपितसपदिरेवं च ब्रह्मात्मभावस्याऽऽद्यहेयोपादे यत्वाभावेप्यविद्यासमारोपितशोकादेस्तत्वमस्यादिवाक्यजानततत्त्वज्ञानादवगातपर्यन्ता न्निवृत्तौ प्राप्तमप्यानन्दरूपमप्राप्ताभव प्राप्त भवति त्यक्तमेव शाकद्यत्यक्तभिव त्यक्तं भवतीति तस्य परमपुरुषार्थत्वसिद्धिरिति ॥ ७७ ॥ १ क. घ. 'पेक्ष्यल'। २ क. 'वात्तत्प्र'। ३ ख. घ. "तृकाक्षे'। ४ ख. 'कादिकमत्यक्त'। [ सर्ग:८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ३१९ वेदावसानेषु हि तत्वमादि चचांसि जप्तान्यघमर्षणानि । हुंफण्मुस्वानीव वचांसि योगि नैषां विवक्षाऽस्ति कुहस्विदर्थे ॥ ७८ ॥ अर्थाप्रतीतौ किल हुंफडादे र्जपोपयोगित्वमभाणि विज्ञेः ।। अर्थप्रतीतौ स्फुटमत्र सत्यां कथं भवेत्प्राज्ञ जपार्थतैव ॥ ७९ ॥ आपाततस्तत्वमसीतिवाक्या द्यतीश जीवेश्वरयोरभेदः ।। प्रतीयतेऽथापि मस्वादिकर्तृ प्रशंसया स्याद्विधिशेष एव ॥ ८० ॥ ननु भूतार्थतया वेदान्तानामपौरुषेयत्वासिद्धया वेदान्ताः पौरुषेया वाक्यत्वाद्भार तादिवदित्यनुमानस्यापत्यूहमुत्पत्तेः । पौरुषेयत्वस्य दुर्वरत्वाद्वेदान्तवचसां कस्मिश्चि दर्थे विवक्षा नास्ति किंतु जप्तानि तान्यघमर्षणानीत्यभ्युपगन्तव्यमित्याशयवान्मण्डन अाह । वेदावसानेषु वेदान्तेषु हि यस्माडुफण्मुखानि वचनानि यथा जप्तान्यघमर्ष णानि तथा तत्त्वमस्यादिवचांसि जप्तानि पापनिवर्तकानि तस्माद्वे योगिन्नेषां तत्त्वम स्यादिवचसां कुहस्चिदर्थे कस्मिश्चिदर्थे विवक्षा नास्तीत्यर्थः ॥ ७८ ॥ एतदृषयति भगवान् । अर्थस्यापतीतावप्रतिभाने किल प्रसिद्धं हुंफडादेर्जपोपयो गित्वं विशैरभाणि भाषितम् । अत्र तत्त्वमस्यादिवचनेषु स्पष्टं यथा स्यात्तथाऽर्थस्य मतीतौ सत्यामेषां जपाथैतैव कथं भवेत्केनापि प्रकारेण न भवतीत्यर्थः । प्राज्ञस्त्वं दृष्टान्तवैषम्यं कथं न जानासीति सूचयन्संबोधयति । हे प्राज्ञेति । आख्यानकी वृत्तम् ॥ ७९ ॥ उत्तं पक्षे विहाय पक्षान्तरालम्बनाय मण्डन आह । आपातत इति । हे यतीश यद्यपि जीवेशयोरभेदस्तत्त्वमसीतिवाक्यादापातत: प्रतीयते तथाऽपि मखादिकतृप्रशं सयेशाभिन्नोऽयं मखादिकर्तेतिस्तुत्या तयोरभेदो विषेः शेष एवेत्यर्थः । अयं भावः । वेदान्तवचसां तत्तद्विहितकर्मापेक्षितकर्तृदेवतादिप्रतिपादनपरत्वेनैव क्रियार्थत्वमभ्युपे यम् । कार्यस्यापूर्वस्य मानान्तरागोचरतयाऽत्यन्ताननुभूतपूर्वस्य तत्वेन समारोपेण वा पुरुषबुद्धावनारोहारौंदर्थानां वेदान्तानां कार्यपरत्वाङ्गीकारस्याऽऽवश्यकत्वात् ।

  • यज्ञादिपराथौनाम् ३२०

क्रत्वङ्गयूपादिकमर्यमादि देवात्मना वाक्यगणः प्रशंसन् ॥ शेषः क्रियाकाण्डगतो यदि स्या त्कांडान्तरस्थोऽपि भवेत्कथं सः ॥ ८१ ॥ श्रीमच्छंकरदिग्विजयः । तथाच जैमिनिनाऽपि 'आम्रायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्' इतिसूत्रेणाक्रि यार्थानामर्थवादानामानर्थक्यं पृर्वपक्षं कृत्वा ‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थे नविधीनां स्युः’ इत्यक्रियार्थानामानर्थक्थं पूर्वपक्षोक्तमङ्गीकृत्यैवार्थवादानां विध्यकवाक्यतया प्रामाण्यं प्रतिपादितम् । नचाक्रियार्थत्वेऽपि वेदान्तानां ब्रह्मरुपविविपरत्वस्वीकारण न सिद्धान्तसूत्रविरोध इति वाच्यम् । सर्वेषां विधीनामनागतोत्पाद्यभावनाविषयत्वेन परिनिष्ठितवस्तुस्वरूपविधेरसंभवादिति । उपजातिवृत्तम् ॥ ८० ॥ [पातं तत्तद्विषयका ज्ञानविनाशां मर्यादीकृत्येत्यापातं तस्मात्तत्तद्विषयकाज्ञानविनाशादर्वागेवेत्यर्थः] ।॥८०॥ वेदान्तानां कार्यपरत्वस्वीकारेणापौरुषेयत्वं प्रतिपादयता त्वया वक्तव्यं किं तत्कार्ये यदशाक्यं पुरुषेण ज्ञातुमपूर्वमिति चेन्मानान्तरानवगते संगतिग्रहायोगालिडादीनामबो धकत्वप्रसङ्गः । स्वर्गकामपदसमभिव्याहारसंख्याँकतर्कानुगृहीतवदादेव क्रियाविलक्षणापूर्वे लिङादीनां संगतिग्रहाद्वोधकत्वमिति चेचैत्यवन्दनादिवाक्येष्वपि स्वर्गकाम इत्यादि पदसंबन्धादपूर्वकार्यत्वप्रसङ्गेन तेषामप्यशक्यरचनतयाऽपौरुषेयत्वप्रसङ्गः । स्पष्टेन पौरुषेयत्वेन तेषामपौरुषेयत्वप्रतिषेध इति चेद्वाक्यत्वादिलिङ्गेन वेदानामपि पौरुषेय [ सर्गः ८ ] ४ ख. ग. 'व स्तोम्ये'। वेदान्तानां कार्यार्थत्वपक्षे तेषां पौरुषेयत्वानुमानं कर्तृस्मरणोपाधिना निरस्यते तथा तेषां सिद्धार्थत्वपक्षेऽपि तन्निरसनस्य समानत्वात्तेषां कार्यार्थत्वकल्पनमप्रयोजकम् । तस्माद्वेदान्तानामपौरुषेयत्वसंपादनाय क्रियार्थेवं नैवाभ्युपेयम् । ‘सदेवं सोम्यदमय आसीत्'।'एकमेवाद्वितीयम्'।' आत्मा वा इदमेक एवाग्र आसीत्'।'तदेतद्रह्मापूर्वमन परमनन्तरमबाह्यम्'।'अयमात्मा ब्रह्मा सर्वानुभूः'।'ब#वेदममृतं पुरस्तात्' इत्यादिवाक्ये पृपक्रमोपसंहारादिषाधितात्पर्यलिङ्गेन ब्रह्मात्मभावे प्रतिपादकत्वेन समनुगतेषु स्थितानां पदानां प्रत्यगभिन्नब्रह्मास्वरूपविषये निश्चिते समन्वयेऽ वगम्यमानेऽर्थान्तरकल्पनायाः श्रुतहान्यश्रुतकल्पनाग्रस्ताया अयुक्तत्वात् । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्ये दित्यादिक्रियाकारकफलनिराकरणश्रतेः । प्रकरणान्तरपठितवेदान्तवाक्यानां कपि ३शंसया विधिशेषत्वासंभवाचेत्याशायवान्भगवानाह । क्रत्वड़यूपादिकांमांत । ‘आदित्यो यूपः’ ‘यजमानः प्रस्तरः ? इत्यादिवाक्यगणः क्रत्वङ्ग-युपप्रस्तरादिकमादित्ययजमा [ सर्गः ८] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तस्तु जीवे परमात्मदृष्टि विधायकः कर्मसमृद्धयेऽर्हन् ॥ अब्रह्मणि ब्रह्मधियं विधत्ते यथा मनोन्नार्कनभस्वदादौ ।। ८२ ।। संश्रूयतेऽन्यत्र यथा लिडादि र्विधायको ब्रह्मविभावनाय ॥ तथा विधेरश्रवणान्मनीषि न्संजाघटीत्यत्र कथं विधानम् ॥ ८३ ॥ यद्वत्प्रतिष्ठाफलदर्शनेन विधिर्यतीनां वर रात्रिसत्रे ॥ प्रकल्प्यते तद्वदिहापि मुक्ति फलश्रुतेः कल्पयितुं स युक्तः ॥ ८४ ॥ ३२१ नाद्यात्मना पशंसन्क्रियाकाण्डगतत्वाच्छेषो यदि स्यात्तर्हि भवतु नाम तथाऽपि काण्डा न्तरे ज्ञानकाण्डे स्थितः ‘तत्त्वमसि'अहं ब्रह्मास्मि' इत्यादिवाक्यगणो विधिशेषः कथं भवेत् । इन्द्रवज्रा वृत्तम् ॥ ८१ ॥ [क्रियेति । कर्मकाण्डगतः । शेषो विध्यङ्गीभूतः]॥८१॥ एवमुक्तो मण्डन आह । हेऽर्हन्यद्येवं तर्हि तत्त्वमस्यादिवाक्यगणो जीवे परमात्म दृष्टिविधायकोऽस्तु किमर्थमिति चेत्तत्राऽऽह । कर्मसमृद्धये तत्र दृष्टान्तो यथा 'मनो ब्रहोत्युपासीत'।'अन्नमुपास्स्व'।'आदित्यो बहोत्यादेशः' । ‘वायुर्वाव संवर्ग:' । ‘माणो वाव संवर्गः' । इत्यादिवाक्यगणः कर्मणां सम्यगभिवृद्धयेऽब्रह्मणि मन आदौ ब्रह्मवियं विधत्ते तद्वत् । तथाचाऽऽरोपितब्रह्मभावस्य जीवस्योपास्तिपरा वेदान्ता न तस्य ब्रह्मा त्मत्वे प्रमाणमिति भावः । भारूयानकी वृत्तम् ॥८२॥ [ कर्मत्यादि । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' इति श्रुतेरमिहोत्रादिक्रियाजन्यपु ण्यापूर्वस्य वीर्थवत्तरत्वसंपत्यर्थमिति यावत् ] ॥ ८२ ॥ एतदूषयति भगवान् । अन्यत्र 'मनो ब्रह्मत्युपासीत' इत्यादिवाक्ये यथा ब्रह्मविभाव नाय विधायको लिङदिः श्रूयते तथाऽत्र तत्वमस्यादिवाक्ये लिङादिरूपस्य विषे रश्रवणाद्विधानं कथं संजाघटीति केन प्रकारेण घटते न केनापत्थिर्थः । मनीषी सन्क थमेवं भाषस इति संबोधनाशयः । तथाच विध्यभावेनाऽऽरोपित ब्रह्मभावस्य जीवस्यो पास्तिपरत्वं वेदान्तानां न संभवतीति तस्य ब्रह्मात्मत्व एव वेदान्ताः प्रमाणमिति भावः । उपजातिवृत्तम् ॥ ८३ ॥ ननु सन्तु वेदान्ता ब्रह्मात्मत्वे प्रमाणं परं तु ज्ञानविधिद्वारा तत्र विवेः कल्पयितुं शक्यत्वादिति मन्वानो मण्डन आह । यद्वत्प्रतिष्ठाफलदर्शनेन हे यतीनां मध्ये श्रेष्ठ श्रीमच्छंकरदिग्विजयः । तर्हि क्रियाजन्यतया विमुक्तिः स्वर्गादिवद्धन्त विनश्चरा स्यात् । उपासना कर्तुमकर्तुमन्यथा वा कर्तुमहाँ मनसः क्रियैव ।। ८५ ॥ [ सर्गः ८ ] तिसंबोधनेनाध्वरमीमांसानध्ययनं सूचयाति रात्रिसत्रे विधिः प्रकल्प्यते तद्वदिहाि ब्रह्मात्मैकत्वेऽपि मुक्तिफलश्रुतेः स विधिः कल्पयितुं युक्तः । अयमर्थः । ‘प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयान्ति' इति श्रूयते तत्र रात्रिशब्देनाऽऽयुज्योतिरित्यादिवाक्यावि हिताः सोमयागविशेषा उच्यन्तेऽत्र यद्यपि प्रतितिष्ठन्तीति वर्तमानापदेशात्सिद्धरूपैव प्रतिष्ठा प्रतीयते न साध्यरूपा तथाऽपि श्रुताया एव प्रतिष्ठाया विपरिणामेन फलक ल्पनस्यात्यन्ताश्रुतस्वर्गस्य फलत्वकल्पनांपेक्षया वरत्वाद्यत्तदोव्र्यत्यासेन योजनया प्रतितिष्ठन्तीत्यत्र सन्नर्थान्तर्भावेन च ये प्रतितिष्ठासन्ति त एता रात्रीरुपेयुरिति वाक्य विपरिणामेन यथा रात्रिसत्रे विधिः प्रकल्प्यते तथेहापि 'ब्रह्म वेद् ब्रचैव भवति' इति मुक्तिफलश्रुतेः'बह्म बुभूषुह्मवेदनं कुर्यात्' इति विधिः कल्पायेतुं युक्तः । तथाच ।

  • अभात्मा वा अरे द्रष्टव्यः'।'य आत्माऽपहतपाप्मा सोऽन्वेष्टव्यः स विजिज्ञासितव्यः'।

“आात्मेत्येवोपासीत ' । ‘आत्मानमेव लोकमुपासीत' । ‘ब्रो वेद बौव भवति' इत्यादिषु विधानेषु सत्सु को वाऽऽत्मा किं ब्रहोत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन नित्यः सर्वज्ञः सर्वे गतो नित्यतृप्तो नित्यशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म'इत्येवमादयः सर्वे वेदान्ता उपयुक्तास्तदुपासनाच शास्रदृष्टोऽ६ष्टमोक्षो भविष्यति । कर्तव्यविध्यननुपवेशे तु वस्तु मात्रकथने हानोपादानासंभवात् ‘सप्तद्वीपा वसुमती'राजाऽसौ गच्छति' इत्यादिवाक्य वद्वेदान्तवाक्यानामानर्थक्यमेव स्यात् । किंच वेदान्तानां प्रवृत्तिनिवृत्यबोधकत्वे शास्त्र त्वमेव न स्यात् । तत्परस्यैव शास्त्वबोधनात् । यथाऽऽहुः प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते' इति । अपिच रज्जुरियं नायं सर्प इत्यादिश्रवणेन यथा भयकम्पादि निवर्तते न तथा संसारित्वभ्रान्तिर्बह्मस्वरूपश्रवणेन निवर्तते । श्रुतब्रह्मस्वरूपस्य यथापूर्वं सुखदुःखादि संसारधर्मदर्शनातू । 'मन्तव्यो निदिध्यासितव्यः' इति श्रवणोत्तरकालयोर्मनननिदिध्या सनयोः श्रवणाचेति || ८४ ॥ एतदुपयाति भगवान् । तर्हि मोक्षस्योपास्तिरूपक्रियाफलत्वे सति विमुक्तिर्विनश्धरा स्यात्क्रियाजन्यत्वात्स्वर्गादिवदिति । अयमर्थः । कर्तव्यविविशेषत्वनाऽऽत्मोपदेशो

  • ख. ग. घ. 'पेक्षाया । २ ख. योजनेन

ख. न ये'। ४ क. 'त्रिवि'। ५ क. ह्मवि [ सगः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मा भूदिदं तत्त्वमसीति वाक्य मुपासनापर्यवसायि कामम् ।। किंत्वस्य जीवस्य परेण साम्य प्रत्यायकं सत्तम बोभवीतु ॥ ८६ ॥ न युक्तः स्वर्गादिवन्मोक्षस्यानित्यत्वसातिशयत्वयोरनिष्टयोरापत्तेः । ननु ज्ञानस्यापि मानसक्रियात्वाद्भवन्मतेऽपि विमुक्तरनित्यत्वं कुतो न स्यादित्याशङ्कय ज्ञानस्य मान सत्वेऽपि यथाभूतवस्तुविषयप्रमाणजन्यत्वेन कर्तमकर्तुमन्यथा वा कर्तुमशक्यत्वात्केव लवस्तुतश्रत्वेन चोदनातश्रत्वाभावात्पुरुषतश्रत्वशून्यत्वाचास्मन्मते नोक्तदोष इत्याशा येनाऽऽह । उपासनेति । यथा ‘यस्यै देवतायै हविर्तृहीतं स्यात्तां ध्यायेद्वषट्टरिष्य न्' । ‘संध्यां मनसा ध्यायेत्' इत्येवमादिषु ध्यानं चिन्तनं मानसं पुरुषतत्रत्वात्कर्तुमक र्तुमन्यथा वा कर्तु शक्यं तथा मनसः क्रियोपासनैव कर्तुमकर्तुमन्यथा वा कर्तुमह न तु ज्ञानं तथाच तज्जन्यविमुत्केरनित्यत्वं स्पष्टमेवेत्यर्थः । तस्मात्ताद्वषये लिडाद्य श्रूयमाणा अप्यनियोज्यविषयत्वात्कुण्ठीभवन्तो विाधच्छायारूपत्वात्स्वाभाविकप्रवृत्तिवेि षयविमुखीकरणार्थाः । अन्यथा क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' । अभयं वै जनक प्राप्तोऽसि'तैदात्मानमेवावेदहं ब्रह्मास्मि' इत्याद्याः श्रुतयो ब्रह्मवि द्यानन्तरं मोक्ष प्रदर्शयन्त्यो मोक्षस्य ज्ञानजन्यापूर्वजन्यत्वं वारयन्त्यो नोपपद्येरन् ब्रह्मावगतौ सत्यां सर्वकर्तव्यताहानेः कृतकृत्यतायाश्चास्माकमलंकारत्वात् । मननादि सहकृतेन श्रवणेन ब्र हास्वरूपसाक्षात्कारे संसारित्वनिवृत्तेः श्रुतिस्मृत्यनुभवसिद्धत्वाद्वित शासनेनैतैत्तत्प्रतिपादकस्य मुख्यशास्त्रत्वाच न कोऽपि दोष इति ॥ ८५ ॥ [ अथ तुष्यतु दुर्जन इति न्यायेन भगवान्भाष्यकृत्प्रोक्तविधिकल्पनमङ्गीकृत्यापि भक्षितेऽपि लशुने न शान्तो व्याधिरिति न्यायेन दूषयति । तर्हति ] ॥ ८५ ॥ एवमुक्तो मण्डनस्तत्वमस्यादिवाक्यस्यापासनापथयवसानाभावमङ्गट्कृत्य प्रकारान्तरे णाऽऽक्षिपति । इदं तत्त्वमसीति वाक्यमुपासनापर्यवसायि यथेष्टं मा भूत्तथाऽप्यैक्य प्रतिपादकं नास्ति किंत्वस्य जीवस्य परमेश्वरेण सादृश्यस्य प्रतिपाद्कं ह सत्तम बोभ वीतु भवतु ॥ ८६ ॥ [ अथ मण्डनमिश्रस्तदा 'विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' इत्याथर्वणीयमुण्डकोपनिषच्छूतेरस्य जीवस्य ब्रह्मणा सह सादृश्यबोधकमेवे दमितेि पुनः शङ्कते । मा भूदिति ] ॥ ८६ ॥ ३२३ १ ख. ग. घ. 'योरा'। २ ग. ', तद्वाऽऽन्मा '। ३ ख. 'तत्प्र '। ४ ख. '२यप्र '। ३२४ श्रीमच्छकरदिग्विजयः । १ क. ग. ५ ख. 'पप'। किं चेतनत्वेन विवक्ति साम्यं सार्वज्ञसार्वात्म्यमुखैर्गुणैव ॥ आद्ये प्रसिद्धं न स्वठूपदेश्य मन्ते स्वसिद्धान्तविरुद्धता स्यात् ॥ ८७ ॥ नित्यत्वमात्रेण मुने परात्म गुणोपमानैः सुस्वबोधपूर्वः ॥ गुणैरविद्यावृतितोऽप्रतीतै : साम्यं ब्रवीत्वस्य ततो न दोषः ॥ ८८ ॥ यद्येवमेतस्य परत्वमेव प्रत्याययत्वत्र दुराग्रहः कः ॥ त्वयेव तस्य प्रतिभासशङ्का विद्वन्नविद्यावरणानिरस्ता ॥ ८९ ।। भोश्चेतनत्वेन शरीरिसाम्य मावेद्यतामस्य जगत्प्रसूतेः ॥ चिदुत्थितत्वेन परोदितस्या प्यणुप्रधानप्रभृतेर्निरासः ॥ ९० ॥ एतद्विकल्प्य दूषयति भगवान् । किमिति । तत्त्वमसीति वाक्यं किं चेतनत्वेन परेण सादृश्यं प्रवदति किं वा सौर्वज्ञसार्वात्म्यसर्वशक्तित्वप्रभृतिभिर्गुणैः साम्यं विवक्ति । अभाद्य चेतनत्वेन साम्यस्य प्रसिद्धत्वादुपदेशानर्थक्यम् । द्वितीये जीवस्य परमात्मस्व रूपापत्याऽभेदो नास्तीतिस्वसिद्धान्तविरुद्धता स्यात् । तस्मादैक्यप्रतिपादकमेवोक्तवा क्यमभ्युपेयमित्यर्थः । इन्द्रवत्रा वृत्तम् ॥ ८७ ॥ एवमुक्तो मण्डन आह । नित्यत्वमात्रेण परमात्मगुणसदृशैः सुखबेोधानन्त्यादिभिर विद्यावरणादमतीतैरस्य जीवस्य परेण साम्यमुक्तवाक्यं हे मुने ब्रवीतु तस्मान्नोक्तदोषः। उपजातिवृत्तम् ॥ ८८ ॥ एवमुक्तो भगवानाह । यद्येवं तर्हि तस्य जीवस्य परमात्मत्वमेवोक्तवाक्यं बोधय त्वत्र तस्य परत्व दुरामहः क । नन्वेवं तर्हि तस्य परत्वं कुतो न प्रतिभासत इति चेत्तत्राऽऽह । तस्य सुखबोधानन्तरूपस्य परत्वस्य प्रतिभासशङ्का त्वविद्यावरणारव यैव निरस्ता । विद्वान्सन्कथमेवं भाषस इति संबोधनाशयः ॥ ८९ ॥ एवमुक्तो मण्डनः प्रकारान्तरमालम्ब्याऽऽह हे यतीशास्य जगत्कारणस्य चेतन [ सर्गः ८ ] 'वैश्यसा'। २ क. "वैश्यसा'। ३ क. ख. घ. अथ । ४ ग. रवानङ्गीकार दु। [ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ३२९ हन्तैवमस्तीति तदा प्रयोग स्यात्वन्मते तत्वमसीति न स्यात् । तदैक्षतेत्यत्र जडत्वशङ्का व्यावर्तनाचात्र पुनर्न चोद्यम् ॥ ९१ ॥ नन्वेवमप्यैक्यपरत्वमस्य प्रत्यक्षपूर्वप्रमितिप्रकोपात् ॥ न युज्यते तज्जपमात्रयोगि स्वाध्यायविध्याश्रितमभ्युपेयम् ॥ ९२ ॥ अक्षेण चेद्वेदमितिस्तदा स्या दभेदवादिश्रुतिवाक्यबाधः ।। असंनिकर्षान्न भवेद्धि भेद प्रमैव तेनास्य कुतो विरोधः ॥ ९३ ॥ त्वेन जीवसाम्यमावेद्यताम् । तथाच चितश्चेतनाजगत उत्थितत्वात्परं: सांरूयादिभि रुदितस्य पधानपरमाण्वादेर्निरासोऽपि सिध्यतीत्यर्थः ॥९०॥ [अस्य प्रकृतत्वेन बुद्धि स्थस्य परमेश्वरस्य । अभावेद्यतां ज्ञाप्यताम् । तत्त्वमस्यादिमहावाक्यैरिति शेषः] ॥९०॥ एवमुक्तो भगवानाह । हन्त हे मण्डनैवं चेत्तदा त्वन्मते तज्जगत्कारणं त्वं त्वत्स दृशमस्तीति पयोगः स्यात्तत्वमसीति न स्यात् । जडत्वशङ्कायास्तु 'तदैक्षत बहु स्यां प्रजायेय' इतक्षणश्रवणात्तत्त्वमसीति जगत्कारणस्य चेतनाभेदप्रतिपादनेन च व्यावर्तना त्पुनरत्र चोद्याभावात्पधानादेर्निरासायैवं न वाच्यमित्यर्थः ।। ९१ ॥ एवं सर्वतः प्रतिरुद्धो मण्डन इममपि पक्षमुपेक्ष्य पुनस्तत्त्वमस्यादिवाक्यस्य जपो पयोगित्वालम्बनाय परपक्षे प्रत्यक्षविरोधमापादयति । नन्वेवं साम्यापत्यायकत्वेऽप्य स्योक्तवाक्यस्यैक्यपरत्वं माहमीश्वर इति प्रत्यक्षात्मिकाया ज्येष्ठपमायाः प्रकोपात्र युज्यते ततः ‘स्वाध्यायोऽध्येतव्यः' इति विविनाऽऽश्रितंमुक्तवाक्यं जपोपयोग्यमभ्युपे यमिति ॥ ९२ ॥ [ पूर्वशब्दितादिग्रहणादनुमानादेः संग्रहः । तद्यथा । अहमनीश्वरः । जगन्नियन्तृत्वाभावाहुःखित्वात्किचिज्ज्ञत्वाच्च । आचे घटवत् । अन्त्ययार्यतिरेक ईश्वरवदित्याद्यनुमानम् । एवं यद्यहमीश्वरः स्यां तर्हि जगज्जन्मादौ शाक्तः स्याम् । यतो न शक्तस्तस्मान्नेश्वर इत्यर्थापतिरपि । ऐक्येति । जीवेश्धराभेदबोधकत्वमिति यावत् ] ॥ ९२ ॥ एतदूषयति भगवान् । क्षेणेन्द्रियेण चेद्वेदमितिभेदमा याद स्यात्तदाऽभेदवाद श्रुतिवाक्यस्य बाधः स्यात् । अक्षस्य भेदेनासंनिकषद्वेदममैव न हि भवेत्तेन कारणे १ स्र. ज्यतेऽतो जप'। २ क. जीवन सा'। ३ ख. घ. 'तमधीतमु। ३२६ भिन्नोऽहमीशादिति भासते हि भेदस्य जीवात्मविशेषणत्वम् ॥ तत्संनिकषऽस्त्वथ संप्रयोगा भावेऽपि भेदेन्द्रिययोर्मनीषिन् ॥ ९४ ॥ श्रीमच्छकरांदिग्विजपः । १ क. ग. ‘वा । [ सर्गः ८ ] नास्य वाक्यस्य कुतो विरोधो न केनापि विरोधोऽस्य पत्यक्षस्य कस्माद्धेतोर्विरोध इति वा । तेन प्रत्यक्षेणौस्य वाक्यस्येति वा । अयमर्थः । इन्द्रियं भेदे न प्रमाणं तद् संनिकृष्टत्वात्संमतवत् । ननु हेत्वसिद्धिरिति चेदिन्द्रियस्य भेदेन संयोगसमवायतादा त्म्यानामन्यतमः संनिकर्षस्तदन्यो वा । अभाद्ये न तावत्समवायोऽसंभवात्तदसिद्धेश्च । ननु रूपी घटो मृदि घट इति मत्ययस्य संयोगानवगहित्वात्परिशेषात्समवाय एव सिध्यतीति चेन्न । गुणगुणिनोरवयवावयाविनोश्चात्यन्तभेदे तत्संबन्धस्य च तथात्वे दण्डपुरुषादावव शुक्रो घटो मृद्धट इति समानाधिकरणमत्ययानुपपत्तेः। किंच समवा यिभ्यां संबद्धः समवायो विशिष्टप्रत्ययनियामक उतासंबद्धः । नाऽऽद्यः । तस्य तस्यान्योन्यसंबन्धः कल्पयितव्य इत्यनवस्थापातात् । ननु समवायिभिर्नित्यसंबन्ध एवायं गृह्यतेऽतो नोक्तदोष इति चेत्तर्हि संयोगोऽपि संयोगिभिर्नित्यसंबेद्धत्वात्संब न्धान्तरं नापेक्षेत । अर्थान्तरत्वादपेक्षत इति चेत्ताहिं समवायोऽपि तथात्वात्कुतो नापे क्षते संयोगो गुणत्वात्तथेति चेन्न । गुणपरिभाषाया अतत्रत्वादपेक्षाकारणस्य च तुल्य त्वात् । नान्त्यः । अतिप्रसङ्गात् । किंच सोऽनेक एको वा । भाधेऽपसिद्धान्तो ौरवं च । द्वितीये रूपज्ञानादिसमवायस्य वायुघटादिवृत्तिसमवायाभेदादूपी वायुर्घटो ज्ञानवानिति प्रतीतिपसङ्गः । न च तत्र रूपादेरभावान्नोक्तप्रतीतिरिति वाच्यम् । तदृत्तित्वप्रयोजकसंबन्वे सति तदभावव्यवहारस्य व्याहतत्वात् । तस्मान्न कथमपि समवायः सिध्यति । अवयवावयव्यादीनां संबन्धस्तु तादात्म्यं तच न भिन्नाभिन्न त्वम् । विरुद्धयोर्भेदाभेदयेोरेकत्रासंभवात् । अपि तु भिन्नत्वे सत्यभिन्नसत्ताकत्वं तच निर्वाच्यम् । नापि संयोगतादात्म्ये तदभावस्य सुपासिद्धेः । न द्वितीयस्तदन्यसंनि कर्षस्य काप्यप्रसिद्धेरिति ॥ ९३ ॥ [ प्रत्यक्षादेजवेश्वरभेदपरत्वमेव न संभवतीति मन्वानः प्रथमं प्रत्यक्षस्य भेदेन सह संनिकर्ष एव नास्तीति तद्विषयकतत्प्रमाभावात्र तेन सह विरोधात्तत्वमस्यादिश्रुतिबाध इति समाधत्ते । अक्षेण चेदिति ] [ अक्षे णेन्द्रियेण करणेन ] ॥ ९३ ॥ ननु भेदस्यान्योन्याभावरूपत्वादभावे च विशेषणतायाः संनिकर्षत्वादसंनिकर्षा सिद्धिरिति मण्डनः शङ्कते । हि यस्मादीशादहं भिन्न इति भेदस्य जीवात्मविशेषणत्वं । २ ख. 'णास्ये'। ३ क. मृद्धट । ४ ग. घ. 'न्योन्यः सं'। ५ ग. घ. [ सर्गः ८] धनपतिसूरिकृतडिण्डिमाख्यटीकासवलितः । अतिप्रसतेर्न तु केवलस्य विशेषणत्वस्य तदभ्युपेयम् ॥ भेदाश्रये हीन्द्रियसंनिकृष्ट न संनिकृष्टत्वमिहाऽऽत्मनोऽस्ति ॥ ९५ ॥ भेदाश्रयात्मेन्द्रियसंनिकर्षे नेत्युक्तमेतचतुरं न यस्मात् ॥ चित्तात्मनोद्रव्यतया द्वयोर प्यस्त्येव संयोगसमाश्रयत्वम् ॥ ९६ ॥ आत्मा विभुः स्यादथवाऽणुमात्र संयोगिता नोभयथाऽपि युक्ता ॥ दृष्टा हि सा सावयवस्य लोके संयोगिता सावयवेन थोगिन् ॥ ९७ ॥ ३२७० भासतेऽथ तस्माद्धे मनीषिन्भदेन्द्रियय संयोगादिसंप्रयोगाभावेऽपि तत्संनिकष विशेषणवासंनिकर्षोंऽस्तु । इन्द्रवज्रा वृत्तम् ॥ ९४ ॥ परिहरति भगवान् । केवलस्य विशेषणत्वस्य विशेषणतामात्रस्य तत्संनिकर्षत्वं नैवा भ्युपेयं तत्र हेतुरतिप्रसक्तः । भित्त्यादिव्यवहितभूतलादिनिष्ठघटाद्यभावेऽपि विशेष णतामात्रस्य सत्त्वेन पत्यक्षत्वप्रसङ्गान् । तस्माद्वेदाश्रये हीन्द्रियसंनिकृष्टे सति विशे षण्मतायाः संनिकर्षत्वमभ्युपेयम् । न च संनिकृष्टत्वमिहेन्द्रिय भात्मनोऽस्ति । वस्तुतस्त्वधिकरणेन्द्रियसंनिकषऽपि न कारणम् । परमते कर्णवलयावच्छिन्ननभस एव श्रोत्रेन्द्रियत्वात्तस्यैव स्वग्राह्यशब्दाभावाकिरणत्वात्स्चेन स्वस्यासंनिकर्षादधिकरणेन्द्रि यसंनिकर्षाभावेन शब्दाभावे प्रत्यक्षत्वं न स्यादिति ध्येयम् । उपजातिवृत्तम् ॥९५॥ एतद्सहमानो मण्डन आह । भेदाश्रयस्याऽऽत्मन इन्द्रियेण संनिकष नास्तीति त्वयोक्तमेतन्न समीचीनं यस्माचित्तात्मनोऽव्यत्वेनोभयोरपि संयोगसमाश्रयत्वमस्त्येव । इन्द्रवप्रा वृत्तम् ॥ ९६ ॥ [ अथ मण्डनस्तु तार्किकरीत्या तत्खण्डयति । भेदेति ] ॥ ९६ ।। एवमाक्षिप्तो भगवान्विकल्प्याऽऽक्षेपं क्षिपति । आत्मा विभुः स्यादथवाऽणुमात्रः पक्षद्वयेऽपि संयोगिता न युक्ता हि यस्मात्सावयवस्य सावयवेन सा संयोगिता लोके दृष्टा तस्मादित्यर्थः । भार्यादियोगित्वमनुभूतमपलपितुमनहॉऽसीति कटाक्षेण संबोध याति । हे योगिन्निति ॥ ९७ ॥ १ ग. प्रतिक्षि'। २ ख. 'योगी त्व'। श्रीमच्छकरदिग्विजयः । मनोऽक्षमित्यभ्युपगम्य भेदा सङ्गित्वमुक्तं परमार्थतस्तु । साहाय्यकृलोचनपूर्वकस्य दीपादिवन्नेन्द्रियमेव चित्तम् ॥ ९८ ॥ भेदप्रमा नेन्द्रियजाऽस्तु तर्हि साक्षिस्वरुपैव तथाऽपि योगिन् ॥ तया विरोधात्परमात्मजीवा भेदं कथं बोधयितुं प्रमाणम् ॥ ९९ ॥ प्रत्यक्षमात्मेश्वरयोरविद्या मायायुजोद्योतयति प्रभेदम् ॥ श्रुतिस्तयोः केवलयोरभेदं भिन्नाश्रयत्वान्न तयोर्विरोधः ॥ १०० ॥ [ सर्गः ८ ] किंच मन इन्द्रियमित्यङ्गीकृत्य भेदेनास्यासङ्गित्वमुक्तं वस्तुतस्तु मनो नेन्द्रियं चक्षु रादिसहकारित्वात् । दीपवत् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः इत्यादिश्रुत्या मनसोऽनिन्द्रियत्वावधारणादेवेत्युक्तम् । * मनःषष्टानीन्द्रियाणि ' इति वचनं तु न मनस इन्द्रियत्वे प्रमाणम् । 'यजमानपञ्चमा इडां भक्षयन्ति' । ‘वेदानध्यापयामास महाभारतपश्वमान्’ इत्यादिवदनेिन्द्रियेणापि मनसा षट्त्वसं ख्यापूर्णत्वसंभवान् । 'इन्द्रियाणां मनश्चास्मि’ इति वचनमपि ‘नक्षत्राणामहं शशी' इतिवन्न मनस इन्द्रयत्वे प्रमाणमिति । उपजातिवृत्तम् ॥ ९८ ॥ एवं निरुद्धो मण्डन आह । भेदममेन्द्रियजा न चेत्तर्हि साक्षिस्वरूपैवास्तु तथाऽपि हे योगिस्तया साक्षिस्वरुपया भेदप्रमया विरोधात्परमात्मजीवयोरभेदं बोधयितुं कथं प्रमाणम् । तत्त्वमस्यादिवाक्यमिति शेषः ।॥ ९९ ॥ मण्डनोक्तमङ्गीकृत्य विषयभेदाद्विरोधं परिहरति भगवान्। साक्षिस्वरूपं प्रत्यक्ष जीवा त्मपरमात्मनोरविद्यामायायुक्तयोः प्रभेदं द्योतयति । श्रुतिस्तु तद्विनिर्मुक्तयोः शुद्धयो स्तयोजवेश्वरयोरभेदं द्योतयतीत्येवं श्रुतिप्रत्यक्षयोर्मिन्नाश्रयत्वान्न विरोधः ॥ १०० ॥ [ प्रभेदं द्योतयति नाहमीश्धर इत्यनुभवेन सूचयतीति संबन्धः 1।। १०० ॥ [ सर्गः ८] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलित । स्याद्वा विरोधस्तदपि प्रवृत्तं प्रत्यक्षमयेऽबलमेव बाध्यम् ॥ ३२९ श्रुत्या ह्यपच्छेदनयोक्तरीत्या ॥ १०१ ॥ नन्वेवमप्यस्त्यनुमानबाधोऽ भेदश्रुतेः संयमिचक्रवर्तिन् ॥ घटादिवङ्गह्मनिरुपितेन भेदेन युक्तोऽयमसर्ववित्वात् ॥ २ ॥ विरोधमङ्गीकृत्यापि परिहरति । स्याद्वा विरोधस्तैदाऽप्यये प्रथमं प्रवृत्तं बलहीनं भेदपत्यक्षमेव प्राबल्यवत्याऽभेदवादिश्रुत्या चरमप्रवृत्या बाध्यमपच्छेदन्यायेनोक्तया रीत्याऽपच्छेदनयेति वा । तथा च षष्ठं पारभर्ष सूत्रम् । पौर्वापर्ये पूर्वेदैौर्बल्यं पछ तिवदिति ज्योतिष्टोमे बहिष्पवमानार्थ हविर्वानान्निर्गच्छतामृत्विग्यजमानानामध्वर्यु प्रस्तोताऽन्वारभते प्रस्तोतारमुद्रातोद्रातारं प्रतिहर्तेत्यादिनाऽन्वारम्भणं विहितं तद्विच्छे दनिमित्तं प्रायश्चित्तं श्रूयते यद्युद्भाताऽपच्छिद्येतादक्षिणं तं यज्ञमिष्ट्रा तेन पुनर्यजेत तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यं स्याद्यदि प्रतिहर्ताऽपच्छिद्येत सर्ववेदसं दद्यादिति । तत्रोद्रातृप्रतिहत्रः क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयोः समुचयासंभवाकि पृर्व कार्यमुत परमिति विषयेऽनुपजातविरोधितया पूर्वमिति प्राप्त राद्धान्तः पौर्वापर्ये सति निमित्तयो पूर्वस्य नैमित्तिकस्य दौर्बल्यम् । उत्तरस्य पूर्वनिरपेक्षस्य तद्वाधकतयोदितत्वात् । पूर्वो दयकाल उत्तरस्याप्राप्तत्वेन पूर्वेण बाध्यत्वायोगात् । तदुक्तम् । पर्व परमजातत्वाद्बाधित्वैव जायते । परस्यानन्यथोत्पादान्न त्वबाधेन संभवः' । तत्र दृष्टान्तः प्रकृतिवद्यथा प्रकृतौ कृतोपकाराः कुशाः प्रथममतिदेशेन विकृताव पकाराकांक्षिण्यां प्राप्ताः कल्प्योपकारचरमभाविभिरपि शरैर्निरपेक्षेबध्यन्ते तद्वत् । तथाच यथा प्रथमप्रवृत्तं दुर्बलं पूर्वनैमित्तिकमेव पश्चात्प्रवृत्तेन प्रबलेनोत्तरण नैमित्तिकेन बाध्यं तद्वद्यथोक्तं प्रत्यक्षमेव यथोक्तश्रुत्या बाध्यम्। हिशब्दो लोकप्रसिद्धिं द्योतयति । यथा पूँवैपवृत्तं रजतज्ञानमेव पश्चात्प्रवृत्तेन शुक्तिज्ञानेन बाध्यमन्यथा तदनपबाधने तदपबाधनात्मकस्य तस्योत्पत्त्यनुपपत्तेस्तद्वदित्यर्थः । इन्द्रवत्रा वृत्तम् ।। १०१ ॥ एवमुक्तो मण्डनोऽयं जीवो ब्रह्मनिरूपितभेदवानसर्वज्ञत्वाद्धटादिवदित्यनुमानेन श्रुतेबाँधं शङ्कते । नन्वेवं प्रत्यक्षेणाभेदश्रुतेबधाभावेऽपि हे संयमिचक्रवर्तिन्नित्यनेन तकनधिकारं द्योतयति । अनुमानेनाभेदश्रुतेर्बधोऽस्ति तदेव दर्शयति । घटादि १ क. 'स्तदप्य । २ ग. 'मर्षसू। ३ ग. घ. विशये । ४ क पूर्व प्र"। ३३० श्रीमच्छकरदिग्विजयः । किमेष भेदः परमार्थभूत प्रसाध्यते काल्पनिकोऽथवाऽऽद्ये ।। दृष्टान्तहानिश्चरमे तु विद्व क्रूरीकृतोऽस्माभिरसाधनीयः ॥ ३ ॥ स्वप्रत्ययाबाध्यभिदाश्रयत्वं साध्यं घटादौ च तदस्ति योगिन् ॥ त्वयाऽऽत्मबोधेन भिदा न बाध्ये त्यनभ्युपेतेति न कोऽपि दोषः ॥ ४ ॥ ननु स्वशब्देन सुखादिमान्वा विवक्षितस्तद्विधुरोऽथवाऽऽत्मा । आद्येऽस्मदिष्टं न तु साध्यमन्ते दृष्टान्तहानिः पुनरेव ते स्यात् ॥ १०५ ।। [ सर्गः ८ ] वदिति । उपलक्षणमेतद्वह्मधर्मिकभेदप्रतियोगित्वस्यापि । असर्वज्ञत्वादिति पदार्थत्वादि त्यस्याप्युपलक्षणं पदं ब्रह्म तदर्थत्वात्तच्छेषत्वात्तन्नियम्यत्वादिति वा । , उपजाति वृत्तम् ॥ २ ॥ [ अयं नित्यापरोक्ष आत्मा ] ॥ २ ॥ मण्डनोक्तमनुमानं विकल्प्य दूषयति भगवान्भाष्यकारः । किमेष ब्रह्मनिरूपितो भेद परमार्थभूतः पसाध्यतेऽथवा काल्पनिकः । भाघे दृष्टान्तहानिर्घटादेरुक्तभेदवत्वतत् तियोगित्वयोरभावात् । अन्त्ये तु स्वीकृतोऽस्माभिर्न साधनीयः । परस्परप्रतियोगिकका ल्पनिकव्यावहारिकभेदस्यास्माभिरप्यङ्गीकृतत्वात्सिद्धसाधनमित्यर्थः । एतेन जीवस्य ब्रह्मणो भेदाभावे तन्नियम्यत्वानुपपत्तिरपि मत्युक्ता । नियम्यत्वादेः स्वसमानसत्ताकनिय श्रादिभेदसापेक्षत्वात्तस्य च स्वीकारात् ॥ ३ ॥ एवमुक्तो मण्डन आह । ब्रह्मनिरूपितस्वज्ञानाबाध्यभेदवत्त्वं साध्यं तच घटादा वस्ति । आत्मज्ञानेन घटादिगतभेदस्याबाध्यत्वात् । हे योगिन्नात्मज्ञानेन न बाध्या 1भन्दा त्वयाऽनभ्युपेताऽऽत्मज्ञानाचाध्यो भेदस्त्वया नाङ्गीकृतः स चास्माभिः साध नीय इति हेतोर्न कोऽपि दृष्टान्तहान्यादिरूपो दोषः ॥ ४ ॥ [ आत्मबोवेन ब्रह्मा त्मैक्यसाक्षात्कारेणेत्यर्थः । भिदा भेदः। बाध्येति नानभ्युपगता किं त्वभ्युपगतैवेत्यर्थः । अत्रायं प्रयोगः । ब्रह्म स्वप्रमाबाध्यभेदवत्पदार्थत्वाद्धटवदिति । एवं च सिद्धान्ति नस्तव तु ब्रह्मा स्वमाबाध्यभेदवदधिष्ठानत्वाच्छुक्त्यादिवदित्यनुमानस्य सत्पतिपक्षत्व मेव मयोच्यते ] ॥ ४ ॥ एतदपि विकल्प्य दूषयति भगवान् । ननु स्वशब्देन सुखादिमाञ्जविपदवाच्य कत्रदिरूप आत्मा विवक्षितोऽथवा सुखादिरहितः । भाघे सुखदुःखादिमतः शरी [ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ३३१ योगिन्ननौपाधिकभेदवत्वं विवक्षितं साध्यमिह त्वदिष्टः । औपाधिकस्त्वीश्वरजीवभेदो घटेशभेदो निरुपाधिकश्च ॥ ६ ॥ घटेशभेदेऽप्युपधिह्मविद्या तवानुमानेषु जडत्वमेव । चित्वादभिन्न: परवत्परस्मा दात्मेति वाऽत्र प्रतिपक्षहेतुः ॥ ७ ॥ रिणः प्रत्ययेनाबाध्यस्य व्यावहारिकानिर्वचनीयभेदस्यास्मदिष्टत्वात्रैव तत्साध्यम् । अन्ते दृष्टान्तहानिः पुनरेव ते स्यात् । घटादेः सुखदुःखादिविधुरात्मन्यज्ञानविल सितत्वन तद्वोधबाध्यत्वस्वीकारात्तद्वोधाबाध्यस्य भेदस्य काप्यनभ्युपगमात् । घटा दावपि व्याप्यभावेन व्याप्यत्वासिद्धेः ॥ ५ ॥ [ मुखेति । सुखमत्रेष्टविषयसंनिकर्ष जन्यं जाग्रदाद्यवच्छेदेन चित्तवृत्तिविशेषात्मकमेव । अविद्यावृत्यात्मकं तत्पुषुझाव पीति बोध्यम् । तदिति । सुखादिलक्षणोक्तवित्तादिधर्मशून्यः साक्षित्वोपलक्षितः कृट स्थाविन्मात्र इति यावत् ] ॥ १०५ ॥ एवमुक्तो मण्डन भाह । हे योगिन्ननैपाधिकभेदवत्वमिहास्मिन्ननुमाने विवक्षितम् । ननु जीवेशभेदस्य निरुपाश्कित्वेऽपि घटादिभदवन्मिथ्यात्वोपपत्तेः सिद्धसाधनताऽ त्रापि तदवस्थेत्याशङ्कयाऽऽह । त्वदिति । जीवेशभेदस्य निरुपाविकत्वे तत्त्वज्ञाना दविद्यादेर्निवृत्तावपि तत्कार्यघटादिभेदवत्ततस्तन्निवृत्तरयोगात्तत्सत्यत्वसिद्विभियौपाधिकै स्यैश्वरजीवभेदस्य तवेष्टत्वादस्माभिश्चानौपाधिकभेदवत्वस्य साध्यमानत्वान्न सिद्धसाधनं नापि दृष्टान्तहानिस्तत्र निरुपाविकभेदस्य तवेष्टत्वादित्याह । घटेशभेद इति । आख्यानकी वृत्तम् ॥ ६ ॥ [ अनौपाधिकेति । स्वपमाबाध्यपदेनैवानौपाधिकत्वं विवक्षितमिति यावत् । औपाधिकं हेि रक्तः स्फटिक इत्यादज्ञानं शुद्धः स्फटिक इत्या दिरूपेण रक्तिमाध्यासाधिष्ठानविषयकप्रत्यक्षेण सविषयकमपि बावितं भवति मिथ्या त्वान्न त्वनौपाधिकं घटपटौ भिन्नावित्यादि यथार्थत्वादित्याशयः ] ॥ ६ ॥ परिहरात भगवान्। घटेशभेदेऽप्यविद्याया उपाधित्वेनानौपविकस्य तस्य तत्रानङ्गी कारादृष्टान्तहानिरेवेत्यर्थः । किंच तवानुमानेषु जडत्वमुपाधिरेव घटादेर्जडत्वेन दृश्यतया मिथ्यात्वात्तद्रोचरज्ञानस्य घटतद्वेदहेत्वज्ञाननिवृत्ययोग्यत्वात्तत्र स्वज्ञानाबाध्यभेदवत्वं जाड्यप्रयुक्तमिति जडत्वमुक्तसाध्यव्यापकम् । साधनवति स्वपकाशात्मन्यभावात्सा श्रीमच्छंकरदिग्विजयः । धर्मिप्रमाबाध्यशारीरिभेदो ह्यसंसृतौ ब्रह्मणि साध्यमिष्टम् ॥ त्वयेष्यते ब्रह्मधियाऽऽत्मभेदो बाध्यो घटादिममया त्वबाध्यः ॥ ८ ॥ किं कृत्स्रधर्मिप्रमया न बाध्य किंवा स यत्किचनधर्मिबोधात् ॥ घटादिके ब्रह्मणि चाऽऽत्मभेद स्यैक्यात्पन्नः स्यान्नन पूर्वदोष ।। ९ ।। [ सर्गः ८ ] धनाव्यापकम् । ततश्च सोपाविकत्वाद्यं हेत्वाभासः इत्यर्थः । ननु प्रमेयत्वातिरिक्त जडत्वाभावात्तस्य च केवलान्वयित्वात्साधनव्यापकत्वादिना नोपाधित्वमिति चेन्न । तस्यास्वप्रकाशैत्वादात्मनः स्वप्रकाशवस्य च श्रुतिन्यायासिद्धत्वात् । यद्वा । आत्मा परप्रतियोगिकभेदशून्यश्चित्त्वत्पिरवदिति प्रतिपक्षः साध्याभावसाधको हेतुर्यस्य स तव हेतुः सत्प्रतिपक्ष इत्यर्थः । उपजातिवृत्तम् ॥ ७ ॥ [ व्याप्यत्वासिद्धत्वं सोपाविकत्वे नोक्त्वा सत्प्रतिपक्षत्वमप्याह । चित्वादित्याद्युत्तरार्धेन ] ॥ ७ ॥ एवमुक्तो मण्डनो ब्रह्मपक्षकानुमानं प्रयुञ्जन्सिद्धसाध्यत्वादिपरिहारं शङ्कते । धर्मि प्रमाबाध्यशारीरिभेदो ब्रह्मणि साध्यमिष्टं हि यस्मात्संसृतिशून्ये ब्रह्म जीवप्रतियोगिक धर्मिप्रमाबाध्यभेदवत्संसृतिशून्यत्वाद्धटादिवदित्येवमस्मदिष्टत्वादात्मप्रतियोगिकभेदस्य च ब्रह्मज्ञानेन बाध्यत्वस्य तवेष्टत्वादस्माभिश्च तद्विपरीतस्य साध्यमानत्वान्न सिद्धसाधन नापि दृष्टान्तहानिर्घटादिमया तथाभूतभेदस्याबाध्यतायास्तवार्पष्टत्वादित्याह । त्वयेति ॥ ८ ॥ [ ब्रह्मणि पक्षे । धमति । धर्मी जीवस्तद्विषयिणी येयं प्रमाऽहं जीवोऽस्मीत्यादिमानसप्रत्यक्षरूपा तयाऽबाध्य एतादृशो यः शरीरिणो जीवस्य भेद जीवमतियोगिकोऽन्योन्याभाव इत्यर्थः ] ॥ ८ ॥ एतद्विकल्प्य दूषयति भगवान् । किं स भेदः समस्तधर्मिमया न बाध्य: किंवा यत्किचनधर्मिबोधान्न बाध्यः । तत्र घटगतजीवभेदस्यापि स्ववर्मिब्रह्मज्ञानबाध्यत्व स्वीकारेण यावद्धर्मिज्ञानाबाध्यत्वस्यासंप्रतिपत्त्या दृष्टान्तहानेराद्यपक्षासंभवमभिपेत्य द्वितीये दोषमाह । पुनः पूर्वोक्तः सिद्धसाधनलक्षणो दोषः स्यात्तत्र हेतुमाह । घटा दाविति । स्वरूपातिरिक्तभेदवादिमते घटादैौ ब्रह्मणि चाऽऽत्मभेदस्यैक्यात्तद्धर्मिघट ज्ञानाबाध्यजीवभेदस्य ब्रह्मण्यस्माभिरपि स्वीकृतत्वादित्यर्थः ।। ९ ॥ १ क. 'शस्याऽऽत्म'। २ ग. 'शवत्व'। ३ क. 'त्वात्पदार्थत्वादिति प्रतिपक्षहेतुः प्रतिपक्षं दर्श यतेि । आ। ४ क. ‘त्वात्तत्र दृष्टान्तः पर'। [ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटी कासंवलितः । किंचागुणो वा सगुणो मनीषि न्विवक्ष्यते धर्मिपदेन नान्त्यः । भेदस्य तद्रुद्धयविबाध्यतेष्टे नऽऽद्यश्च तत्रोभयथाऽपि दोषात् ॥ ११० ॥ किं निर्विशेषं प्रमितं न वाऽन्त्ये प्राप्ताऽऽश्रयासिद्धिरथाऽऽद्यकल्पे ॥ शरीर्यभेदेन परस्य सिद्धे प्राप्रोति धर्मिग्रहमानकोपः ॥ ११ ॥ भा द्वा मुपणगा सयुजा सस्वाय त्याद्या श्रुतिभेदमुदीरयन्ती ॥ जीवेशयोः पिप्पलभोक्त्रभोक्त्रो स्तयोरभेदश्रुतिबाधिकाऽस्तु ॥ १२ ॥ पुनः प्रकारान्तरेण विकल्प्य दूषयति । किंचेति । हे मनीषिन्धर्मिपदेन किं वेदा न्ततात्पर्यगोचरः सत्यज्ञानादिरूपो निर्गुणो विवक्ष्यते किंवा ब्रहोशादिपदवाच्योऽनव च्छिन्नत्वसर्वज्ञत्वादिविशिष्टः सगुणः । न द्वितीयः । भेदस्य तत्पमाविबाध्यताया इष्ट त्वेन सिद्धसाधनत्वात् । नचाऽऽद्यपक्षः । उभयथाऽपि प्रमितत्वापमितत्वलक्षणपक्षद्व येऽपि वक्ष्यमाणविधया दोषस्य सत्वादित्यर्थः ।। १० ।। ३३३ ४२ उभयथाऽपि दोषादित्युक्तं विवृणोति । किं निर्गुणं ब्रह्म प्रमितं सत्पक्षः किंवाऽप मितम् । द्वितीये प्राप्ताऽऽश्रयासिद्धिः । अथाऽऽद्यपक्षे ब्रह्मादिपदलक्ष्यस्याद्वयानन्दस्य पत्यग्बोधात्मजीवाभेदे निर्धारिततात्पयेस्तत्वमस्यादिवेदान्तैजीवात्माभेदेन परमात्मनः सिद्धेर्षर्मिग्राहकवेदान्तप्रमाणस्य प्रकोपः प्राप्तोति । तथाच ज्योतिष्टोमो न स्वर्गफल क्रियात्वान्मर्दनक्रियावदित्यनुमानं ‘ज्योतिष्टोमेन स्वर्गकामो यजेत' इतिवेदबाधितविष यत्वाद्यथाऽऽभासरूपं तथेद्मपीति भावः ॥ ११ ॥ [ धमति । धर्मिणः पक्षीकृतस्य बह्मणो ग्रहः पमा येन निरुक्तवेदान्तमहावाक्येन तस्य कोपो व्याकोपः प्राम्रोतीति योजना। तस्य भेदभञ्जकत्वात्तद्विरुद्धभेदसावकानुमाने तत्कोपापत्तिरित्याशाय:] ॥११॥ एवं सर्वतः प्रतिरुद्धो मण्डनोऽनुमानविरोध स्थापयितुमशक्तः श्रुतिविरोधमुद्राव यति । भो इति । 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्यनश्रअन्नन्यो अभिचाकशीति'इति श्रुतिः कर्मफलभोक्त्रभोक्त्रोजीवेशयो दमुदीरयन्ती तयोजवेशयोरभेदश्रुतेबाँधिकाऽस्तु ॥ १२ ॥ ३३४ श्रीमच्छंकरदिग्विजयः । प्रत्यक्षसिद्धे विफले परात्म भेदे श्रुतिने नयांवित्प्रमाणम् ॥ स्पादन्यथा मानमतत्परोऽपि स्वार्थेऽर्थवादः सकलोऽपि विद्वन् ॥ १३ ॥ स्मृतिमसिद्धार्थविबोधि वाक्पं यथेष्यते मूलतया प्रमाणम् ॥ प्रत्यक्षसिद्धार्थकवाक्यमेवं स्यादेव तन्मूलतया प्रमाणम् ॥ १४ ॥ परिहरति भगवान् । प्रत्यक्षसिद्धे विफले स्वर्गापवर्गाख्यफलशून्ये प्रत्युत ‘मृत्योः स मृत्युमाओोति य इह नानेव पश्यति' इति श्रुत्युक्तानर्थप्रदे परजीवयोर्भदे श्रुतिः प्रमाणं न स्यादत्र भेदे प्रत्यक्षपतिपन्नत्वमात्रमङ्गीक्रियते तत्र श्रुतिप्रामाण्यवारणाय न तु तत्र प्रमाणं तदसंभवस्योक्तत्वात् । सिद्धान्ते शुक्तिरूप्यवत्तस्यानुभवमात्रसिद्धत्वस्वीकारात् । अज्ञातेऽर्थे श्रुतिप्रमाणस्य न्यायेन निर्धारितवतो जैमिनेन्र्यायाभिज्ञस्य तवैवं कथनं न शोभनमिति ध्वनयन्नाह । हे नयवित् । तथाच भेदस्यान्यतः सिद्धावपूर्वत्वाभावान्न श्रुतितात्पर्यगोचरता येन वाक्येन यत्र पतीत्युत्पादनेन मानाभावप्रयुक्तासत्त्वशङ्का निवैत्र्यंते तस्य तत्र तात्पर्यमन्यथा तस्य तदर्थत्वायोगाद्यत्परः शब्दः स शब्दार्थ इति न्यायाद्विपक्षेऽपसिद्धान्तदण्डं पातयति । अन्यथा स्वार्थेऽतत्परोऽप्यर्थवादः सकलोऽपि प्रमाणं स्यात् । एतज्ज्ञातुं योग्योऽसीति सूचयितुमाह । हे विद्वन्निति । इन्द्रवज्वा वृत्तम् ॥ १३ ॥ एवमुक्तो मण्डन भाइ । 'क्षेत्रज्ञ चापि मां विद्धि सर्वक्षेत्रेषु भारत' [ सर्गः ८ ] इत्यादिस्मृतिप्रसिद्धस्यार्थस्य विबोधकतत्त्वमस्यादिश्रुतिवाक्यं मूलतया यथा प्रमाणमिष्यते तथा प्रत्यक्षेण सिद्धोऽर्थो यस्य तथाभूतं वाक्यं प्रत्यक्षस्य मूलतया ममाणं स्यात्तथाच भेदस्य प्रत्यक्षादिपवृत्तेः प्रागपूर्वताया निरपेक्षश्रुतिप्रमेयत्वाच्छूतेस्तत्र तात्पयॉपपात्तरिति भावः ॥१४॥ [प्रत्यक्षेति । साक्षिप्रत्यक्षसिद्धजीवेश्धरभेदलक्षणार्थकं

  • द्वा सुणा ' इत्यादिवाक्यम् ] ॥ १४ ॥

१ ख. ग. 'तत्तत्र । २ क. 'वर्तते । [ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । श्रुतिः स्मृतेऽर्थे यदि वेदविद्वि भवेन्न तन्मूलतया प्रमाणम् ॥ कथं भवेद्वेदकथानभिज्ञे ज्ञतेऽपि भेदे परजीवयोः सा ॥ ११५ ॥ जिवेश्वरौ सा वदतीत्युपेत्य प्रावोचमेतत्परमार्थतस्तु । विविच्य सत्त्वात्पुरुषं समस्त संसारराहित्यममुष्य वक्ति ॥ १६ ॥ यदीयमाख्यात्यथ सत्त्वजीवौ विहाय सर्वज्ञशरीरभाजौ ॥ जडस्य भोकृत्वमुदाहरन्ती प्रामाण्यमर्हन्कथमश्रुवीत ॥ १७ ॥ ३३६५ परिहरति भगवान् । यदि वेदविद्भिः स्मृतेऽर्थे श्रुतिस्तन्मूलतया प्रमाणं न भवेकि त्वनविगतगन्तृत्वेनैव वेदविद्भिः स्मर्यमाणार्थस्य तत एव ज्ञातत्वात्तर्हि वेदकथान भितैरपि परजीवयोभेदे ज्ञाते सा श्रुतिस्तन्मूलतया प्रमाणं कथं भवेन्न केनापि प्रकारे णेत्यर्थः । तथाच वेदकथानभिशैर्निरपेक्षतया प्रथमप्रवृतैः प्रत्यक्षादिभिज्ञते भेदे श्रुतेः। प्रमेयत्वाभावान्न तस्यास्तत्र तात्पर्यमिति भावः ॥ ११५ ॥ [ वेदकथा वेदार्थीभूतं कर्म ब्रह्मा च तद्नाभिशैः पामरैर्नरौरित्यर्थः । ज्ञातेऽपि नाहमीश्वर इत्यनुभवेन प्रत्यक्षीकृतः तेऽपीति यावत् । सा श्रुतिः “द्वा सुपण' इत्यादिरूपा ] ॥ १५ ॥ किंच सा श्रुतिर्जीवेश्वरौ वदतीत्यङ्गीकृत्यैतत्पावोचम् । परमार्थतस्तु कर्मफलभोक्तु सत्वादुद्धेः पुरुषं विविच्य सा श्रुतिरमुष्य पुरुषस्य समस्तसुखदुःखभोक्कृत्वलक्षणस्य संसारस्य राहित्यं वक्ति ॥ १६ ॥ [ सा ‘द्वा सुपर्णा' इत्यादिपूर्वोक्तश्रुतिः ] ॥१६॥ उक्तश्रुत्यर्थमसहमानो मण्डन भाह । यदीयं श्रुतिः परजीवौ विहायाथ सत्वजीवौ। वक्ति तर्हि प्रत्यक्षविरुद्धं जडस्य सत्त्वस्य भोक्तत्वमुदाहरन्ती हे अर्हन्मामाण्यं कथम श्रुवीत केन प्रकारेण प्रापुयात्पत्यक्षविरुद्धार्थप्रतिपादकत्वेन ‘यजमानः पस्तरः' इत्या दिश्रुतिवत्स्वार्थे प्रामाण्यानुपपत्तेः ॥१७॥ [ यदीयं ‘द्वा सुपर्णा' इत्यादिश्रुतिः। सत्त्व जीवावन्तःकरणकूटस्थौ ] ॥ १७ ॥ ३३६ श्रीमच्छंकरदिग्विजयः । न चोदनीया वयमत्र विद्व न्यतस्त्वया पंडुङ्गयरहस्यमंव । अत्तीति सत्त्वं त्वभिपश्यति ज्ञ इति स्म सम्यग्विवृणोति मन्नम् ॥ १८ ॥ शारीरवाची ननु सत्त्वशब्दः क्षेत्रज्ञशाब्दः परमात्मवाची ॥ तत्राप्यतो नान्यपरत्वमस्य वाक्यस्य पैङ्गयोदितवत्र्मनाऽपि ॥ १९ ॥ तदेतदित्यादिगिरा हि चित्ते प्रदर्शिता सत्त्वपदस्य वृत्तिः ॥ क्षेत्रज्ञशब्दस्य च वृत्तिरुक्ता शारीरके द्रष्टरि तत्र विद्वन् ॥ १२० ।। [ सर्गेः ८ ] अस्य मश्रस्य पैङ्गन्यरहस्य ब्राह्मणेनैवमेव व्याख्यातत्वान्मैवमिति परिहरति भगवान्। अत्रास्मिन्नर्थे त्वया वयं न शङ्कनीया यतः 'स्तयोरन्यः पिप्पलं स्वाद्वति' इति सत्त्व मनश्रअन्नन्यो अभिचाकशीत्यनश्रन्नन्योऽभिपश्यति ज्ञस्तावेतौ सत्त्वक्षेत्रज्ञाविति पैङ्गस्य रहस्यमेवेमं मम्र विवृणोतीत्यर्थः । विद्वांस्त्वमेतज्ज्ञातुं योग्योऽसीति संबोधनाशयः ॥१८॥ उक्तब्राह्मणस्यापि शारीरक्षेत्रज्ञप्रतिपादकत्वाद्वा सुपर्णेतिवाक्यस्य नान्यपरत्वमिति मण्डनः शङ्कते । ननु तत्र पैङ्गयरहस्यब्राह्मणेऽपि सत्त्वशब्दः शारीरवाची क्षेत्रज्ञ शब्दः परमात्मवाच्यतः कारणात्पैङ्गयरहस्योक्तमार्गेणाप्यस्यं वाक्यस्य बुद्धयात्मप रत्वं नास्तीत्यर्थः ॥ १९ ॥ [ अस्य द्वा सुपर्णेत्यादेः । किंतु जीवेश्वरपरत्वमेवेति भावः ] ॥ १९ ॥ सत्वक्षेत्रज्ञशाब्दयोरन्त:करणशारीरपरतया प्रसिद्धत्वात्तत्रैव व्याख्यातत्वाच्च मैव मित्युत्तरमाह भगवान् । तत्र पैङ्गयरहस्ये ‘तदेतत्सत्त्वं येन स्वग्रं पश्यत्यथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ' इति गिरा सत्त्वपदस्य वृत्तिश्चित्ते पद् र्शिता । क्षेत्रज्ञशब्दस्य च शारीरके द्रष्टरि वृत्तिरुक्ता । हिरिति प्रसिद्धार्थको निपातः ॥ १२० ॥ [ वृत्तिः शक्तिः ] ॥ २० ॥ [ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । येनेति हि स्वप्रदृशिक्रियायाः कताच्यत तत्र स जांव एव । क्षेत्रज्ञशब्दाभिहितश्च योगि न्स्यात्स्वप्रदृक्सर्वविदीश्वरोऽपि ॥ २१ ॥ तिङ्प्रत्येनाभिहितोऽत्र कर्ता ततस्तृतीया करणेऽभ्युपेया ॥ द्रष्टा च शारीरतया मनीषि न्विशेष्यते तेन स नेश्वरः स्यात् ॥ २२ ॥ वृत्तिः शरीरे भवतीत्यमुष्मि न्नर्थे हि शारीरपदस्य योगिन् ॥ तस्मिन्भवन्सर्वगतो महेश कथं न शारीरपदाभिधेयः ॥ २३ ॥ उदाहृतपैङ्ग-यरहस्यगिराऽपि जीवपरमात्मानावेव सिध्यत इति मण्डनः शङ्कते । येनेत्यनेन हि तत्रोदाहृतागिरि स्वप्रदर्शनक्रियायाः कतोंच्यते स कर्ता जीव एव तथा क्षेत्रज्ञशब्दाभिहितः स्वप्रद्रटेश्वरोऽपि स्याद्यतो हे योगिन्स सर्वज्ञ इत्यर्थः ॥ २१ ॥ [ क्षेत्रज्ञेति । क्षेत्रज्ञ इति शब्देनाभिहितः शक्तिवृत्या प्रतिपादित इत्यर्थः ] ॥२१॥ कत्रैर्थस्य तिङ्प्रत्ययेनाभिहितत्वाच्छारीरि इति विशेषणाच मैवमिति भगवान्परि इरवि' । अत्र गिरि तिङ्प्रत्ययेन कतत्तैस्ततस्तस्मात्करणे तृतीया स्वीकर्तव्या । अनभिहित इत्यधिकारात् । द्रष्टा च शारीर इति शारीरत्वेन विशेष्यते तेन हेतुना स द्रष्टश्वरो न स्यादित्यर्थः । मनीषिणा त्वयैवं न वक्तव्यमिति संबोधमाशायः ॥ २२ ॥ [ करणे करणार्थिकैव । अभ्युपेया स्वीकार्येत्यर्थः । न तु कर्यनभिहित इत्यधिकारादिति यावत् । तस्मात्तदेतत्सत्त्वं येन स्वग्रं पश्यति' इत्युदाहृतश्रुतौ जीवस्य स्वप्रावलोकनसाधनभूतान्त:करण एव सस्वशब्दस्य शक्तिः श्रुत्यैव कण्ठतः प्रकटिता न तु जीव इति स्फुटमेवेति भावः ] ॥ २२ ॥ एवमुक्तो मण्डनः सत्वपदस्य जीवे वृत्तिं प्रतिपादयितुमशक्तः शारीरपदस्य परमा त्मान वृत्ति दर्शयति । शरीरे भवतीत्यस्मिन्नर्थे हि यस्माद्धे योगिञ्शारीरपदस्य वृत्ति स्तस्मात्सर्वगतत्वात्तस्मिञ्शरीरे भवन्महेशः शारीरपदाभिधेयः कथं न भवेदपि तु भवे देव ॥ २३ ॥ १ ख. 'ति । ति'। ३३७ २ क. 'क्तस्तस्मा'। १९३८ श्रीमच्छकरदिग्विजयः । भवञ्शरीरादितरत्र चेश कथं न शारीरपदाभिधेयः ॥ नभः शरीरेऽपि भवत्यथापि न केऽपि शारीरमितीरयन्ति ॥ २४ ॥ यद्येष मन्त्रोऽनभिधाय जीव प्राज्ञौ वदेदुद्धिशरीरभाजौ । अत्तीति भोक्तृत्वमचेतनाया बुद्धेर्वदेत्ताहं कथं प्रमाणम् ॥ २५ ॥ अदाहकस्याप्ययसः कृशाना राश्लेषणाद्दाहकता यथाऽऽस्ते ॥ तथैव भोक्तत्वमचेतनाया बुद्धेरपि स्याचिदनुप्रवेशात् ॥ २६ ॥ छायातपौ यद्वदतीव भिन्नौ जीवेश्वरौ तद्वदिति बुवाणा ॥ ऋत्तं पिबन्ताविति काठकेषु श्रुतिस्त्वभेदश्रुतिबाधिकाऽस्तु ॥ २७ ॥ [ सर्गः ८ ] परिहरति भगवान् । सर्वगत्वादीशः शरीरादितरत्रापि भवञ्शारीरपदाभिधेयः कथं तत्र दृष्टान्तो यथाऽऽकाशं व्यापकत्वाच्छरीरेऽपि भवति तथाऽपि शारीरपदाभिधेयं केऽपि न कथयन्ति तद्वदित्यर्थः । उपेन्द्रवज्रा वृत्तम् ॥ २४ ॥ एवं तर्हि मश्रस्य प्रामाण्यं बाध्येतेति शङ्कितं मण्डनः स्मारयति । यद्येष मम्रो जीवेशावनभिधाय बुद्धिजीवौ वदेदुद्धेश्चाचेतनायं भत्तीति भोकृत्वं वदेत्तर्हि प्रमाणं कथं प्रमाणं न भवेदित्यर्थः । इन्द्रवत्रा वृत्तम् ॥ २५ ॥ [ मण्डनः सप्तदशपणे शाङ्क तमेव स्मारयति । यद्येष इति ] ॥ २५ ॥ परिहरति भगवान् । अदाइकस्यापि लोहापिण्डस्य वस्तादात्म्याद्यथा दाहकत्वं मास्ते तथैव चैतन्यानुप्रवेशादचेतनाया बुद्धेरपि भोकृत्वं स्यात् । तथाचायो दहती तिवाक्यवदत्तीति वाक्यमपि सुखदुःखादिविक्रियावति सत्वे भोकृत्वमारोप्य प्रवृत्तं प्रमाणमेव न हीयं श्रुतिरचेतनस्य सत्त्वस्य भोकृत्वं वक्तुं प्रवृत्ता किंतु चेतनस्य क्षेत्र ज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां च वतुं प्रवृतेति भावः। उपजातिवृत्तम् ॥ २६ ॥ एवमुक्ता मण्डनः १ ख. 'त्वमस्ति त'। [ सर्गः ८ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । भेदं वदन्ती व्यवहारसिद्धं न बाधतेऽभेदपरश्रुतिं सा ॥ एषा त्वपूर्वार्थतया बलिष्ठा भेदश्रुतेः प्रत्युत बाधिका स्यात् ॥ २८ ॥ मानान्तरोपोद्धलिता हि भेद श्रुतिर्बलिष्ठा यमिनां वरेण्य ॥ तद्धाधितुं सा प्रभवत्यभेद श्रुतिं प्रमाणान्तरबाधितार्थाम् ॥ २९ ॥ प्राबल्यमापादयति श्रुतीनां मानान्तरं नैव बुधाग्रयायिन ॥ गतार्थतादानमुखेन तासां दौर्बल्यसंपादकमेव किंतु ॥ १३० ॥ भर्तं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे पराधे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्रयो ये च त्रिणाचिकेता इति कठवलीस्था श्रुतिरभेदश्रुतेबाँधिकाऽस्त्वित्याह । ऋतं कर्मफलं पिबन्ती पानप्रयोज्यप्रयोजकाविति काठकेषु श्रुतिस्तु 'छायातपौ यद्वदतीव भिन्नौ जीवेश्धरौ तद्वत्' इति बुवाणाऽभेदश्रुतेबाँधिकाऽस्तु । उपजातिवृत्तम् ॥ २७ ॥ इयमपि श्रुतिर्न बाधिका प्रत्युत बाध्येति परिहरति भगवान् । व्यवहारसिद्धं भेदं वदन्ती सा भेदश्रुतिस्तदसिद्धाभेदपरां श्रुतिं न बाधते प्रत्युतापूर्वोऽर्थो यस्यास्तत्त याऽपूर्वार्थबोधकतया बलिधैषाऽभेदश्रुतिभेदश्रुतेर्वाधिका स्यात् ॥ २८ ॥ [ अपू वेति । अज्ञातज्ञापकतयेति यावत् ] ॥ २८ ॥ एवमुक्तो मण्डन आह । प्रमाणान्तरेण प्रत्यक्षेणोपोद्वलितोपहिता भेदश्रुतिहें यमिनां वरेण्य बलिष्ठा ततस्मात्सा भेदश्रुतिः प्रत्यक्षमाणबाधितार्थामभेदश्रुर्ति बाधितुं प्रभवति न त्वभेदश्रुतिभेदश्रुतिमित्यर्थः ॥ २९ ॥ परिहरति भगवान् । हे बुधानामग्रयायिन्प्रमाणान्तरं श्रुतीनां प्राबल्यं नाऽऽपाद् यति किंतु गतार्थतादानमुखेन तासां श्रुतीनां दौर्बल्यसंपादकमेव । बुधाग्रयायिनस्तवे यमुक्तिरशोभनेति संबोधनाशयः ॥ १३० ॥ [ गतार्थतेति । अनुवादकत्वसंपादन द्वारा ] ॥ ३० ॥ १ क.'ति हे ३३९ च ३४० ( { श्रीमच्छकरदिग्विजयः । [ सर्गः ८ ] इत्याद्या दृढयुक्तिरस्य शुशुभे दत्तानुमोदा गिरां देव्या तादृशविश्वरुपरभसावष्टम्भमुष्टिंधया ॥ भर्तृन्यासविलंक्ष्यसूक्तिजननीसाक्षित्वकुक्षिंभरि सश्लाघादुतपुष्पवृष्टिलहरीसौगन्ध्यपाणिंधया ॥ ३१ ॥ उपसंहरति । इतीति । अस्य श्रीशंकरस्येत्याद्या दृढयुक्तिः शुशुभे । आद्यपदेन । मुक्तोऽश्रुते कामगणान्सहेशेत्येवं वदन्ती खलु तैत्तिरीया । श्रुतिर्विना भेदमबाध्यमर्थाद्वीना सती सत्त्वममुष्य वक्ति ॥१॥ मैवं यतोऽज्ञाननिवृत्तितोऽयं सत्यामितानन्दचिदात्मभावम् । गताऽश्रुत साम्य स सर्वकामास्तदन्तरस्थानाव सा ब्रवात ॥ २ ।। द्रष्टव्य आत्मेति' परात्मनोर्वाकर्मत्वकर्तृत्वमियं हि वक्ति । संदर्शनेऽतो यतिराज भेदः सत्योऽन्यथा स्याच्छुतिरप्रमाणम् ॥ ३ ।। नेयं श्रुतिस्तात्विकभेदगाऽस्त्यद्वैतश्रुतेर्वेदविदां वरेण्य । विरोधतो ब्रह्मपरत्वतोऽस्यास्तात्पर्यगत्या किल मानभावः ।। ४ ।। नन्वस्त्वभेदश्रुतिरेव योगिन्मकल्पिताभेदपरेति मैवम् । प्रातीतिको वा व्यवहारसिद्धो भेदो न वै भेदाभितप्रकोपात् ॥ ५ ॥ अथास्तु भेदे यतिशेखरार्थापत्तिर्न चैवं ननु सत्यभेदम् । विनोपपत्त्या रहितो न चार्थस्तस्मादभेदार्थश्रुतिर्बलिष्टा ।। ६ ।। स्याचेदभेदोऽस्य पररात्मना मुने तह्यपलभ्येत न चोपलभ्यते । तस्मादसौ नास्ति ततो यते भिदा षष्ठप्रमाणस्य तु गम्यतां गता ॥७॥ यथावृतो नैव घटः प्रदृश्यते तथाऽऽवृतोऽसावपि नैव भासते । अविद्यया तरवविदामनावृतः प्रकाशतेऽतो न भिदाऽन्त्यमानगा' ॥८॥ इत्यादिदृढयुक्तिजातं ग्राह्यम् । तां विशिनष्टि । गिरां देव्याऽधिष्ठातृदेवतया सरस्वत्या दत्तोऽनुमोदो यस्यै तयाऽनुमोदितेति यावत् । तथा तादृशस्य विश्धरूपस्य मण्डनस्य यो रभसाऽवष्टम्भो वेगस्य हर्षस्य वा स्तम्भस्तस्य मुष्टिवया निष्पीय सारा कर्षिका तथा भर्तुन्यासस्य संन्यासस्य विलक्ष्येण संव्याजेन या सूक्तिस्तस्या जननी सरस्वत्येव साक्षित्वकुक्षिभरिः साक्षित्ववती यस्यास्तथा श्लाघया सह वर्तमाना याऽ दुतपुष्पवृष्टिलहरी तस्याः सौगन्ध्यस्य पाणि वयति इस्तं पिबतीति तथा शार्दूलवि क्रीडितं वृतम् ॥ ३१ ॥ [ भर्तृन्यासेति । भर्तृविश्वरुपपण्डितस्य योऽयं न्यासः पूर्वो क्तप्रतिज्ञया संन्यासस्तेन यद्विलक्ष्यं विगतं लक्ष्यं विलक्ष्यमभिमतच्यवनं तेन याः १ ख. ग. 'लक्षसू। २ ग. सोम्य । ३ ग. 'ति वचः प'। ४ ग.त्मनोः क'। ५ ग. मिदं. हि । [ सर्गः ८ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । इत्थं यतिक्षितिपतेरनुमोद्य युक्ति मालां च मण्डनगले मलिनामवेक्ष्य ॥ भिक्षार्थमुचलतमद्य युवामितीमा वाचष्ट त पुनरुवाच यतंiन्द्रमम्बा ॥ ३२ ॥ कोपातिरेकवशतः शपता पुरा मां दुवाससा तदवधिर्विहितो जयस्ते ।। साऽऽहं यथागतमुपैमि शामिप्रवीरे त्युक्त्वा ससंभन्नमममुं निजधाम यान्तीम् ॥ ३३ ॥ बबन्ध निःशङ्कमरण्यदुर्गा मत्रेण तां जेतुमना मुनीन्द्रः । जयोऽपि तस्याः स्वमतैक्यसिद्धयै सार्वज्ञतः स्वस्य न मानहेतोः ॥ २४ ॥ सूक्तयः प्रम्लानवदनतया सरलोक्तयस्तासां जननी निर्मत्री भगवती सरस्वत्येव साक्षित्वकुक्षिभरिः साक्षित्वपोषिका यस्यां सा ] ॥ ३१ ॥ इत्थमेवं प्रकारेण यतिराजस्य युक्तिमनुमोद्य मालां च मण्डनगले मलिनामवेक्ष्याद्य युवां भिक्षार्थमुचलतमितीमौ शंकरमण्डनावाचष्टोवाचाम्बा सरस्वती तं यतीन्द्रं पुन रुवाच ।। ३२ ॥ [ भिक्षार्थमुचलतम् । संन्यासकरणमतिज्ञापरिपालनावसराप्त्या श्रीशंकरविश्धरूपाभ्यामुभाभ्यामपि भिक्षार्थमेव व्युत्थातव्यमित्यर्थः ] ॥ ३२ ॥ पुरा कोपातिरेकवशादो मां ज्ञापता दुर्वाससा तव जयस्तस्यावविर्विहितस्तस्य जात त्वात्साऽहं हे शमिवीर यथागतमुपैम्यनुगच्छामीत्येवममुं ससंभ्रममुक्त्वा निजधाम यान्तीं बबन्धेत्यन्वयः । ससंभ्रमं यान्तीमिति वा ॥ ३३ । [ तदवधिमनुष्यशरीरधा रणरूपशापावधिरित्यर्थः । निजेति । स्वस्थानीभूतं सत्यलोकं प्रतीति यावत्]॥३३॥ निःशङ्कमरण्यदुर्गामश्रेण वनदुर्गामश्रेण मुनीन्द्रः श्रीशंकरो बबन्व । किमर्थमित्यपे क्षायामाह । तां सरस्वतीं जेतुमनाः । ननु यतीन्द्रस्य तस्य तजयासिद्धमानेन किमित्या शङ्कयाऽऽह । तस्याः सरस्वत्या जयोऽपि स्वमतैक्यसिद्धयै न तु स्वस्य सर्वज्ञतानि मित्तकमानपूजादिसिद्धयर्थम् । उपजातिवृत्तम् ॥ ३४ ॥ [ अरण्येति । एतन्नाम्रा मत्रशास्त्रमसिद्धा नवकोटिशक्तिगणगा काचिद्देवता तस्यास्तत्पसिद्धो यो मश्रस्तेने त्यर्थः । बबन्ध रुरोध ] ॥ ३४ ॥ १ ख. 'ण मु'। २ क. 'भि ३४१ ।। ३५ ।। ३४२ जानामि देवीं भवतीं विधातु दैवस्य भार्या पुरभित्सगभ्यम् ॥ उपात्तलक्ष्म्यादिविचित्ररुपां गुस्य प्रपञ्चस्य कृतावताराम् ॥ ३५ ॥ ब्रज जननि तदा त्वं भक्तचूडामणिस्ते निजपदमनुदास्याम्यभ्यनुज्ञां यदैतुम् ॥ इति निजवचनेऽस्मिञ्शारदासंमतेऽसौ मुनिरथ मुदितोऽभून्माण्डनं हृद्धभुत्सुः ॥ ९२० ॥ इति श्रीमाधवीये तन्मण्डनार्यकथापरः ॥ संक्षेपशंकरजये सगेऽसावष्टमोऽभवत् ॥ ८ ॥ मश्रेण बद्ध्वा किमुक्तवानित्यपेक्षायां तद्वचनमुदाहरति । देवस्य विधातुर्बह्मणो भार्या त्रिपुरसंभेदकस्य महादेवस्य सगभ्य सहोदरामुपात्तं लक्ष्म्यादीनां विचित्रं रूपं यया तथाभूतामिदानीं प्रपञ्चस्य रक्षणार्थे कृतावतारां देवीं भवतीं सरस्वतीं स्वामहं जानामि' । सरस्वत्याः शिवसगभ्र्यत्वम् । 'नीलकण्ठं रक्तबाहुं धेताङ्गं चन्द्रशेखरम् । जनयामास पुरुषं महाकाली सितां स्त्रियम्' इत्यादेरवगन्तव्यम् ॥३५॥[जानामीति । एतेनस्वस्मिन्नतिौढत्वं द्योत्यते]॥३५॥ तस्माद्धे जनानि ते भक्तचूडामणिरहं यदा निजस्थानमेतुं गन्तुमभ्यनुज्ञामभिदास्यामि तदा त्वं निजपदं व्रजेत्येवंभूते निजवचने शारदया सरस्वत्या संमते सति माण्डनं हृन्मण्डनस्याभिप्रायं ज्ञातुमिच्छुरसौ मुनिः श्रीशंकरो मुदितोऽभूत् । मालिनी वृत्तम् ॥ ३६ ॥ [ अत्र भक्तपदेन ‘यो मद्भक्तः स मे पियः' इति “तेषां ज्ञानी नित्ययुक्त एकभक्तिवैिशिष्यते । मियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः' इति च स्मृतेजीवन्मुक्तचक्रवर्तित्वं व्यज्यते ] ॥ ३६ ॥ [उपसंहरति । इतीति । तदिति । तेन सह यो मण्डनार्यस्य मण्डनमिश्रस्य कथावा दस्तत्पर इत्यर्थः ] ॥ ८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतर्थिश्रपूिज्यपाद शिष्यदत्तवंशावतंसरामकुमारसूनुधनपतिसूरिकृते श्रीशं कराचार्यविजयडिण्डिमेऽष्टमः सर्गः ॥ ८ ॥ १ क. 'मि । ३५ ॥ [जानामि । [ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्पटीकासंवलितः । अथ नवमः सर्गः । अथ संयमिक्षितिपतेर्वचनै निंगमार्थनिर्णयकरैः सनयैः ॥ शमिताग्रहोऽपि चुनरप्यक्द त्कृतसंशयः सपदि कर्मजडः ॥ १ ॥ यतिराज संप्रति ममाभिनवा न विषादितोऽस्म्यपजयादपि तु ॥ अपि जैमिनीयवचनान्यहो न्मथितानि हीति भृशमस्मि कृशः ॥ २ ॥ स हि वेत्यनागतमतीतमपि मियकृत्समस्तजगतोऽधिकृतः । निगमप्रवर्तनविधौ स कथं तपसां निधिर्वितथसूत्रपदः ॥ ३ ॥ इति संदिहानमवदत्तमसौ न हि जैमिनावपनयोऽस्ति मनाक् ॥. प्रमिमीमहे न वयमेव मुने हृदयं यथावदनभिज्ञतया ॥ ४ ॥ ३४३ एवं मण्डनाचार्यसंवादं सपरिकरं निरुप्य सार्वज्ञयोपायं सप्रपञ्चं निरूपयितुमुपक्र मते । अथाऽऽचार्ययुक्तीनां सरस्वतीकृतानुमोदनस्य स्वगलस्थमालाया मलिनीभावस्य चानन्तरं संयमिराजस्य श्रीशंकरस्य वेदार्थनिर्णयकरैः पुनश्च न्यायसहितैर्वचनैः शमित आग्रहो यस्य स तथाभूतोऽपि सपदि तत्क्षणे कृतसंशयः पुनरवोचद्यत: कर्मजडः । मिताक्षरा वृत्तम् । ‘ममिताक्षरा सजससैरुदिता' इति लक्षणात् ॥ १॥ [ संयमीति । एतेन वक्ष्यमाणपरकायप्रवेशादि योगैश्वर्यमूलीभूतं योगन्द्रित्वं ध्वन्यते ] ॥ १ ॥ यदुवाच तदाईं । अपि हे यतिराज संप्रति ममाभिनवादपजयाद्विषादं न प्राप्तोऽ स्म्यपि तु जैमिनीयवचनानि । अहहेति निपातावाश्चर्यातिशयार्थावत्यन्तखेदाथा वा । उन्मथितानीतिकारणादत्यन्तं कृशोऽस्मि ॥ २ ॥ हि यस्मात्स जैमिनिर्भविष्यंभूतं च जानाति पुनश्च जगतःप्रियकरणाथैवेदस्य वेदार्थस्य वाप्रवर्तनविधावधिकृतस्तथाचैवंभूतस्तपसां िनधिः स कथं वितथसूत्रपदो वितथानि व्यर्थनि सूत्रपदानि यस्य वितथसूत्रेषु व्यवसायेो वा यस्य तथाभूतः कथं भवेदित्यर्थ ॥ ३ ॥ इत्येवं संदेहं प्राप्तवतं तं मण्डनमसौ श्रीशंकरोऽवोचत् । जैमिनौ मनागीषदप्यप १ ग. 'चत यतः । २ क. 'ह । हे । ३ घ. ‘णार्थे वे'। ४ ग. 'न्तं म'। ३४४ श्रीमच्छकरदिग्विजयः । यदि विद्यते कविजनाविदितं हृदयं मुनेस्तदिह वर्णय भोः ॥ यदि युक्तमत्रभवता कथितं हृदि कुर्महे दलदहंकृतयः ॥ ९ ॥ अभिसंधिमानपि परे विषय प्रसरन्मतीननुजिघृक्षुरसौ । तदवाप्तिसाधनतया सकलं सुकृतं न्यरुपयदिति स्म परम् ॥ ६ ॥ वचनं तमेतमिति धर्मचयं विदधाति बोधजनिहेतुतया ॥ तदपेक्षयैव स च मोक्षपरो निरधारयन्न परथेति वयम् ॥ ७ ॥ [ सर्ग: ९ ] नयोऽन्यायो न हि । किं तु वयमेवानभिज्ञतया मुनेरभिप्रायं यथावन्न मिमीमहे प्रमातुं न शाकुमः ॥ ४ ॥ [ अत्र वयमेवेति स्वस्य तत्ताश्चर्याभिज्ञत्वेऽप्यमानित्वाव द्योतनार्थं तेनानभिशैर्भवादृशैरेव तद्रहस्यं न ज्ञायत इति ध्वन्यते ] ॥ ४ ॥ एवं श्रुत्वाऽऽत्युत्सुको मण्डन आह । यदि कविजनैरप्यविदितं मुनेर्दूदयमभिप्रायो विद्यते तत्तहहास्मदये वर्णय । ननु मुन्यभिप्रायवित्वाभिमानवतां भवद्विधानामग्रे तद्व र्णनं निष्फलमित्याशङ्कयाऽऽह । यदि भवताऽत्रास्मिन्हृदयवर्णने प्रसक्त युक्त कथितं तहिं दलिताहंकृतयः सन्तो वयं तदृदि कुर्महे ॥ ५ ॥ [ कवीति । पण्डितव्राताज्ञा तमित्यर्थः । दलद इंकृतयो निरभिमानाः ] ॥ ५ ॥ एवं प्रार्थितः स श्रीशंकरो जैमिन्याभप्रायमाविष्करोति । परे ब्रह्मण्यभिप्रायवानपि विषयेषु प्रवाहीकृतबुद्धींस्तत्रानाविकॉरमालोच्य तत्राधिकाराय ताननुग्रहीतुमिच्छुरसी मुनिः परब्रह्मप्राप्तिसाधनतया परं केवलं सुकृतं पुण्यं कर्मातिशयेन निरूपितवान्न तु पैरं ब्रहोत्यर्थः ॥ ६ ॥ [ सकलं यावत्सहस्राधिकरणविचार्यमित्यर्थः ] ॥ ६ ॥ नन्विदं भवद्भिः कथं ज्ञातमिति चेच्छूत्यर्थनिर्णायकस्य श्रुत्यननुरूपाभिप्रायवत्त्वा भावनिश्चयादित्याशयेनाऽऽह । वचनांमति । ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदि षन्ति यज्ञेन दानेन तपसाऽनाशकेन' इति वचनं परब्रह्मावगतिजन्महेतुतया ब्रह्मचर्या दिधर्मसमुदायं विद्वाति यद्यपि प्रत्ययार्थप्रधानतापक्षे सन्नर्थेच्छाजनिहेतुतया तद्वि धायकं तथाऽप्यधेन जिगमिषतीतिवत्प्रकृत्यर्थप्रधानताश्रयेणैवमुक्तम् । तद्वचनापेक्ष १ घ. "कारिणोऽन "। २ ख. ग. परब्र"। [ सर्गः ९ ] तिसूरिकृतडिण्डिमाख्यटीकासंवलितः । श्रुतयः क्रियार्थकतया सफला अतदर्थकानि तु वचांसि वृथा ।। इति सूत्रयच्ननु कथं मुनिरा डपि सिद्धवस्तुपरतां मनुते ॥ ८ ॥ श्रुतिराशिरद्वयपरोऽपि परं परयाऽऽत्मबोधफलकर्मणि च ॥ प्रसरत्कटाक्ष इति कार्यपर त्वमसूचि तत्प्रकरणस्थगिराम् ॥ ९ ॥ ननु सचिदात्मपरताऽभिमता यदि कृत्स्रवेदनिचयस्य मुनेः ॥ फलदातृत्तामपुरुषस्य वद न्स कथं निराह परमेशमपि ॥ १० ॥ यैव स च मोक्षपरो जैमिनिर्धर्मनिचयं निरवारयन्नान्यथेति वयं मन्मह इत्यध्याहारः ॥ ७ ॥ [ धर्मेति । पुण्यगणं विदधात्यनुष्ठयत्वेनोपदिशतीत्यन्वयः । तदपेक्षयैव चित्तशुद्धिद्वारा निरुक्तसाक्षात्कारोदयेच्छयैवेत्यर्थः ] ॥ ७ ॥ ननु ‘आम्रायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ इति सूत्रयन्वेदस्य सिद्धवस्तुप रतां कथं मनुत इति मण्डनः शङ्कते। श्रुतयः क्रियार्थकतया सफला अक्रियार्थकानि तु वचांसि वृथौऽनर्थकानीति सूत्रयन्मुनिराङ्केदवचसां सिद्धवस्तुपरतां ननु कथं मनुत इत्यर्थः ॥ ८ ॥ [मुनिराडपि मननशीलशिरोमणिरपीत्यर्थः ] ॥ ८ ॥ उक्तसूत्रस्य कर्मकाण्डाभिप्रायत्वान्मैवमिति पारिइरात भगवान् । श्रुतिराशिः परंप रयाऽद्वितीयब्रह्मपरोऽप्यात्मबोधः फलं यस्य तस्मिन्कर्मणि प्रसरत्कटाक्षः प्रवाहीकृत दृष्टिरित्यतः कर्मपकरणस्थगिरां कार्यपरत्वमसूचि सूत्रतवान् ।। ९ । [ परंपरया तद्वेोधोदयसामग्रीभूतचित्तशुद्धयादिजनकक्रमसरण्येत्यर्थः ] ॥ ९ ॥ नन्वेवं तर्हि फलदातृत्वं कर्मणः स्वीकृत्य परेशं किमर्थं निराहेति मण्डनः शङ्कते। ननु कृत्स्नवेदकदम्बस्य सचिदात्मपरता यदि मुनेरभिमता तर्हि पुरुषात्परमात्मनो भिन्नस्य कर्मणः फलदातृत्वं वदन्सन्मुनिः परमेश्वरमपि कथं निराठतवानित्यर्थः॥१०॥ [ मुनेर्जेमिनेः ] ॥ १० ॥ ३४५ १ ग. 'था व्यथ ' । ३४६ श्रीमच्छकरदिग्विजयः । [ सर्गः ९] ननु कर्तृपूर्वकमिदं जगदि त्यनुमानमागमवचांसि विना ॥ परमेश्वरं प्रथयति श्रुतय स्त्वनुवादमात्रमिति काणभुजाः ॥ ११ ॥ न कथंचिदौपनिषदं पुरुषं मनुते बृहन्तमिति वेदवचः ॥ कथपत्यवेदविदगोचरतां गमयेत्कथं तमनुमानमिदम् ॥ १२ ॥ इति भावमात्मनि निधाय मुनि स निराकरोन्निशितयुक्तिशतैः ॥ अनुमानमाश्वरपर जगतः प्रभवं लयं फलमपीश्वरतः ॥ १३ ॥ तदिहास्मदुक्तविधया निषदा न विरुद्धमण्वपि मुनेर्वचसि ।। इति गूढभावमनवेक्ष्य बुधा स्तमनीशवाद्ययमिति बुवते ।। १४ ।। अनुमानगम्यं तं निराकृतवान्न तु वेदनिचयगम्यमिति समाधते भगवान्। नन्विति । इदं जगत्कर्तृपूर्वकं कार्यत्वाद्धटादिवदित्यनुमानं वेदवचांसि विना परमेश्धरं साधयाति श्रुतयस्त्वनुमानसिद्धार्थस्यानुवादमात्रमिति काणभुजाः काणादाः ॥ ११ ॥ औपनिषदमुपनिषदेकगम्यं बृहन्तं पुरुषमवेदवित्कथंचिदपि न मनुते न विजानातीति वेदवचः परमात्मनोऽवेदविदगोचरतां कथयति । तथाच श्रुतिः ‘तं त्वौपनिषदं पुरुषं पृच्छामि । नावेदविन्मनुते तं बृहन्तम्’ इति । तस्मादिदं काणादोक्तमनुमानं तं कथं गमयेदिति भावमिति परेणान्वयः ॥ १२ ॥ [ अवेदविदिति । वेदहृदयान भिज्ञाविषयत्वमिति यावत् ] ॥ १२ ॥ इत्युक्त भावमात्मनि बुद्धौ निधाय स मुनिस्तीक्ष्णयुक्तिशतैरीश्वरपरमनुमानं निरा करोत् । तथेश्वराजगतः प्रभवं प्रलयं फलं च निराकरोत् ॥ १३ ॥ [ जगतः प्रभ वम् । उपलक्षणमिदं स्थित्यादेरपि ] [ फलमपि यावजीवानां सुखदुःखसाक्षात्कारल क्षणं कर्मफलमपीत्यर्थः ] [ यद्वा प्रभवलयशब्दौ जन्मप्रलयपरावेव । फलमित्यादि स्थितिपरम्] ॥ १३ ॥ तत्तस्मादिहास्मिन्मुनेर्वचस्यस्मदुक्तविधया निषदारहस्येनाण्वपि विरुद्धं न भवति । तथाचोक्तं गूढभावमनवेक्ष्य बुधास्तं जैमिनिमनीश्वरवाद्ययमिति कथयन्ति ॥ १४ ॥ [ सर्गः ९] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । किमु तावतैव स निरीश्वरवा द्यभवत्परात्मविदुषां प्रवरः ॥ न निशाटनाहिततमः कचिद प्यहनि प्रभां मलिनयेत्तरणेः ॥ १५ ॥ इति जैमिनीयवचसां हृदयं कथितं निशम्य यतिकेसरिणा ।। मनसा ननन्द कविराग्नितरां स सशारदाश् सदसस्पतयः ॥ १६ ॥ विदिताशयोऽपि परिवर्तिमना ग्विशयः स जैमिनिमवाप हृदा ॥ अवगन्तुमस्य वचसाऽपि पुन स च संस्मृतः सविधमाप कवेः ॥ १७ ॥ ) [ अस्मदिति । निरुक्तरीतिकास्मदुक्तप्रकारेणेत्यर्थः । निषदा रहस्येनेति डिण्डिमकृत् । एवं च तन्मतेऽस्मदित्यादिविशेषणं निषदेति विशेष्यमिति समानाधिकरण एव तृतीये। वस्तुतस्तु । निषदोपनिषदा सह ] [ बुधाः साधारणपण्डिताः ] ॥ १४ ॥ परमेश्वरपरानुमानखण्डनमात्रेण तस्यानीश्वरवादित्वं न संभवतीत्याह । किमु ताव तैव स परात्मविदुषां प्रवरो निरीश्वरवाद्यभवन्निशाटनैर्मेचकादिभिराहितं स्थापितं तमी दिवसे तरणेः सूर्यस्य प्रभां कचिदपि न मलिनयेत्रैव मलिनां कुर्यात् ॥ १५ ॥ [ परेति । परमात्मनिष्ठानां मध्य इत्यर्थः ] [ नेति । निशाटना उलूकादयो हि नन्तंचवरत्वेन सुपसिद्धा एव । तैराहितं कल्पितम् ] ॥ १५ ॥ इत्येवंप्रकारेण यतिासिंहेन कथितं जैमिनीयवचनानां हृदयं निशम्य स कविरा एमण्डनो मनसाऽत्यन्तं ननन्द शारदया सह वर्तमानाश्च सभानायकास्तथैव ननन्दुः ॥१६॥ [ हृदयं तात्पर्यम् ] [ अत्र मनसेति पदेन वास्तविकार्थकथनशालित्वमाचार्ये सूच्यते ] ॥ १६ ॥ ३४७ यविराजोक्त्या विदिताभिमायोऽपि स मण्डनः परिवैत वर्तमानो मनागीषद्विज्ञायः संशयो यस्य सोऽस्य जैमिनेर्वचसाऽपि च तमभिप्रायमवगन्तुं मनसा जैमिनिं प्राप तस्य ध्यानं कृतवान्स च जैमिनिः कवेर्मण्डनस्य समीपमवाप ॥ १७ ॥

  • क. सह शा'। २ ख. 'वर्त'। श्रीमच्छंकरदिग्विजयः ।

अवदश्च शृण्विति स भाष्यकृति प्रजंहाहि संशयमिमं सुमते ।। [ सर्गः ९ ] ह्रदयं तदेव मम नापरथा ॥ १८ ॥ न ममैव वेद त्दृदयं यमिरा डपितु श्रुतेः सकलशास्रततेः । यदभूद्रविष्यति भवत्तदपि ह्ययमेव वेद न तथा त्वितरः ॥ १९ ॥ गुरुणा चिदेकरसतत्परता निरणापि हि श्रुतिशिरोवचसाम् ॥ कथमेकसूत्रमपि तद्विमतं कथयाम्यहं तदुपसादितधीः ॥ २० ॥ अलमाकलय्य विशायं सुयशः शृणु मे रहस्यमिममेव परम् ॥ त्वमैवेहि संसृतिनिमग्रजनो तरणे गृहीतवपुषं पुरुषम् ॥ २१ ॥ स जैमिनिः शृण्वित्यवदच हे सुमते भाष्यकारे श्रीशंकरे । एतेनोक्त एव मुनेरा शाय उतान्य इतीमं संशयं परित्यज । यतो मम सूत्रततेर्यदृदयमेषोऽवोचत्तदेव मम हृदयं नान्यथा ॥ १८ ॥ किंच न केवलं ममैव हृदयं यमिराङ्जानात्यपि तु श्रुतेः सर्वशास्त्रततेश्च हृदयं वेद यच्च भूतं भविष्यं वर्तमानं तदप्ययमेव वेदेतरस्तु न तथा वेद ॥ १९ ॥ तथाचैतदुक्त एव ममाशायो व्यासशिष्यस्य मम तद्विरुद्धकथनासंभवादित्याह । गुरुणा श्रीवेदव्यासेन वेदान्तवचसां चिदेकरसतत्परता निरणायि तद्विरुद्धमेकसूत्रम प्यहं कथं कथयामि यतस्तस्मात्परिमाप्तबुद्धिः ॥ २० ॥ [चिदेकेति । अद्वैतब्रह्मा मात्रपर्यवसायितेति यावत् ] ॥ २० ॥ तस्माद्धे सुयशाः संशयमलमाकलय्यालं कृत्वा विमुच्य मम वचनाद्रहस्यं शृणु । संसृतिसागरनिमग्रजनोत्तरणार्थं गृहीतविग्रहं परं पुरुषं परमात्मानं शिवमेवेमं त्वं जानीहि । यद्वेममेव परं पुरुषमेवेहि । ननु निर्विग्रहस्य तस्य कथं तद्वतेत्याशा ङ्कयाऽऽह । संसृतीति ॥ २१ ॥ १ ग. 'जहीहि । २ ग. 'पि त्वय'। ३ क. ख. घ. 'मवैहि । ४ क. 'करे । स ते'। ५ क. ख. घ. 'मवैहि । [ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । आद्ये सत्त्वमुनिः सतां वितरति ज्ञानं द्वितीये युगे दत्तो द्वापरनामके तु सुमतिव्यासः कलौ शंकरः ॥ इत्येवं स्फुटमीरितोऽस्य महिमा शैवे पुराणे यत स्तस्य त्वं सुमते मते स्ववतरेः संसारवाधिं तरेः ॥ २२ ॥ इतिबोधितद्विजवरोऽन्तरधा न्मनसोपगुह्य यमिनामृषभम् । स च यायजूकपरिषत्प्रमुखः प्रणिपत्य शंकरमवोचदिदम् ॥ २३ ॥ विदितोऽस्ति संप्रति भवाञ्जगतः प्रकृतिर्निरस्तसमतातिशयः ।। अवबोधमात्रवपुरप्यबुधो द्धरणाय केवलमुपात्ततनुः ॥ २४ ॥ ३४९ ननु कुत एतज्ज्ञातमिति चेत्तत्राऽऽह । यत आद्ये कृतयुगे सत्त्वमुनिः कपिला चार्यः सतां ज्ञानं प्रयच्छति द्वितीये त्रेतासंज्ञके युगे दत्तो द्वापरनामके तु सुमति व्यासः कलौ शंकर इत्येवमस्य महिमा शैवे पुराणे स्फुटं यथा स्यात्तथा यतः कथि तस्तस्मात्तस्य मते हे सुमते त्वमवतरेः प्रविष्टो भव । ततः किमिति तत्राऽऽह । संसा रसमुद्रं तरेस्तणो भव । शार्दूलविक्रीडितं वृत्तम् ॥ २२ ॥ [ सत्त्वेति । सत्त्वं सत्त्व गुणं मनुते ज्ञानसाधनत्वेन ‘सत्वात्संजायते ज्ञानम्’ इति भगवद्रीतायामभिहितत्वादङ्ग करोतीति तथा । यद्वा । सतः 'सदेव सोम्येदमग्र आसीत्' इत्यादिश्रुतेः परब्रह्मणो भावः सस्वं तन्मनुते सर्वदा मननविषयीकरोतीति तथा सत्त्वमुनिः कपिलाचार्य इति डिण्डिमोक्तः कपिल इत्यर्थः ] ॥ २२ ॥ ततः किं वृत्तमित्यपेक्षायामाह । इत्येवं बोवितो द्विजवरो मण्डनां येन स जैमि निर्यमिनामृषभं मनसाऽऽलिङ्गयान्तर्धानमगात् । स च यायज़कानामिज्याशीलानां सदसि ममुखः श्रेष्ठो मण्डनः शंकरं प्रणिपत्येदं वक्ष्यमाणमवोचत् । प्रमिताक्षरा वृत्तम् ॥ २३ ॥ संप्रति भवान्विदितोऽस्ति । कोऽसावहमिति तत्राऽऽह । जगतः प्रकृतिः कारण मत एव निरस्तसमतातिशयो जगत्कारणस्यैकत्वादन्यथैकस्य सिसृक्षायामपरस्य जिही षऽपरस्य जिहीर्षयामन्यस्य सिसृक्षेत्यनवस्थित्यापातात् । ननु सांख्याद्यभिमतं प्रवा नादिरूपं मां जानासीति चेत्तत्राऽऽह । अवबोधमात्रवपुः । ननु विग्रहवन्तं मां कथ मेवं जानासीति चेत्तत्राऽऽह । एवंभूतोऽप्यस्मदाद्यज्ञजनेोद्धरणाय केवलं गृहीतवि ग्रहो न तु वस्तुतस्तद्वानित्यर्थः ॥ २४ ॥ श्रीमच्छकरदिग्विजयः । [ सर्गः ९] यदेकमुदितं पदं यतिवर त्रयीमस्तकै स्तदस्य परिपालकस्त्वमसि तत्त्वमस्यायुधः ।। पर गालतसागतप्रलापतान्धकूपान्तर पतत्कथमिवान्यथा प्रलयमद्य नाऽऽपत्स्यते ॥ २५ ॥ प्रबुद्धोऽहं स्वप्रादिति कृतमतिः स्वप्रमपरं यथा मृढः स्वप्रे कलयति तथा मोहवशगाः ।। विमुक्ति मन्यन्ते कतिचिदिह लोकान्तरगतिं हसन्त्येतान्दासास्तव गलितमायाः परगुरोः ॥ २६ ॥ मुहुर्धिग्धिग्भेदिप्रलपितविमुक्ति यदुदयेऽ प्यसारः संसारो विरमति न कर्तृत्वमुखरः ॥ भृशं विद्वन्मोदे स्थिरतमविमुक्ति त्वदुदितां भवातीता येयं निरवधिांचिदानन्दलहरी ॥ २७ ॥ अबुधोद्वारश्च त्वया संपादित एव वेदान्तवेद्यस्थापनादित्याशयेनाऽऽह । ‘आत्मा वा इदमेक एवाग्र आसीत्' । 'ब्रह्म वा इदमग्र अभासीदेकमेव' । ‘स्पदेवं सौम्येदमग्र आसीत्' । ‘एकमेवाद्वितीयम्' इत्यादिभिर्वग्यजुःसामाग्व्यवेदत्रयीमस्तकैर्यदेकं पदं कथितं तस्यास्य पदस्य तत्त्वमस्यायधस्त्वं परं केवलं परिपालकोस्यन्यथा गलिताः पुमर्थभ्रष्टा ये सँगतास्तैः प्रलपितलक्षणस्यान्वकृपस्यान्तरेऽद्य पतत्तत्पदं कथमिव प्रलयं नाऽऽ पत्स्यतेऽपैि त्वापत्स्यत एव । पृथ्वी वृत्तम् ॥ २५ ॥ [ यदेकमद्वितीयम् । पदं पद्यत इति तथा निखिलमुमुक्षुप्राप्यं ब्रहोत्यर्थः ] ॥ २५ ॥ किंच यथा कश्चन मूढः स्वप्रे श्रमं प्राप्य सुंप्त्वा पबुद्धः प्रबोधरूपमपरं स्वप्रमे वाहं स्वमात्मबुद्ध इति कृतबुद्धिः कैलयति मन्यते तथेह लोके केचिदविवेकवशव र्तिनो बन्धरुरूपामेव लोकान्तरगतिं विमुक्ति मन्यन्ते तव परगुरोर्दासास्तु विगलित माया एतान्हसन्ति । शिखरिणी वृत्तम् ॥ २६ ॥ [ कतिचिद्वैष्णवंमन्यममुखा लोकान्तरगर्ति वैकुण्ठादिलोकान्तरगमनरूपाम् ] ॥ २६ ॥ तस्माद्रेदवादिप्रलपितविमुक्ति मुहुर्विग्धिग्यतो यस्या उदयेऽपि कर्तृत्वप्रमुखोऽ सारः संसारो न शाम्यति त्वदुक्तां स्थिरतमां विमुकिं मोदेऽनुमोदे यतः सर्वानर्थनि वृत्तिपूर्वकपरमानन्दमाप्तिरूपेत्याह । सेयं त्वदुक्ता स्वस्वरुपरूपा । एवंभूताया अपि नाशावत्वेऽनुपादेयत्वं स्यादित्यतः स्थिरतभत्युक्तम् ॥ २७ ॥ [ कर्तृत्वेति । कर्तृत्वं १ क. म्.व सोम्ये'। २ ख. घ. पि तु प्राऽऽप'। ३ ग. सुप्तात्प्रबु'। ४ ख. ग. घ. कल्पयति । [ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलित अविद्याराक्षस्या गिलितमखिलेशं परगुरो पिचण्डं भित्त्वाऽस्याः सरभसममुष्मादुदहरः ॥ वृतां पश्यन्रक्षोयुवतिभिरमुष्य प्रियतमां हनूमाउँोकेड्यस्तव तु कियती स्यान्महितता ॥ २८ ॥ जगदार्तिहन्ननवगम्य पुरा महिमानमीदृशमचिन्त्यमहम् ॥ प्यस्विलं क्षमस्व करुणाज्जलधे ॥ २९ ॥ अपि मोहमीयुरमितप्रतिभा: ॥ श्रुतिभावनिर्णयविधावितरः प्रभवेत्कथं परशिवांशमृते ॥ ३० ॥ समेतैरेतैः किं कपिलकणभुग्गौतमवच स्तमस्तोमैश्वेतोर्मालिनिमसमारम्भणचणैः । प्ररोहद्याहारामृतकिरणपुत्रे विजयिनि ॥ ३१ ॥ ३५१ मुखे प्रथमं यस्यैतादृशो रः ‘रः पावके च तीक्ष्णे च' इति विश्वादमिः कर्तृत्वभोकृत्वा दिवडवानलो यस्मिन्स तथेत्यर्थः ] ॥ २७ ॥ किंचाविद्यालक्षणया राक्षस्या गिलितमखिलेश हे परगुरोऽस्याः पिचण्डमुदरं भित्त्वा सरभसं यथा स्यात्तथाऽमुष्मादुदरात्सकाशादुदहर आहृतवानसि तथाच रक्षसां युवतिभिर्तृतां न तु गिलितां तत्राप्यमुष्याखिलेशस्य रामचन्द्रस्य प्रियतमां सीतां न तु तं तत्रापि पश्यन्न तु रक्षोयुवतिनाशेनाऽऽहरद्धनूमोकेडय एवंभूतस्य तव तु मैहत्ता कियती स्यात्तस्याः परिमाणं नास्तीत्यर्थः ॥ २८ ॥ एवं स्तुत्या संमुखीकृत्य क्षमापयति । हे जगदार्तिहन्नदृिशमचिन्त्यं तव माहि मानं पूर्वमबुद्ध्वा यदहमन्याय्यं तवाग्रेऽबुवं तत्सर्वं क्षमस्व यतो हे करुणासमुद्र। प्रामि ताक्षरा वृत्तम् ॥ २९ ॥ एवं क्षमाप्य पुनः स्तौति । अपरिमितप्रतिभाः कपिलगौतमकणादमभृतयोऽपि श्रुतिभावनिर्णयविधं मोहं प्राप्तास्तत्र परशिवांशं त्वां विनाऽन्यः कथं प्रभवेत् ॥३०॥ तथाचेदानीं तेषां वचस्तमःपुञ्जा आकिंचित्करा एवेत्याह । समेतैरिति । सुधाधा

  • क. ग. 'म् । यदहं पुराऽब्र'। २ ग. महितता । ३ क. ग . 'न्त्यं म'। ४ क. ग.'थ्यं पुराऽबु' ३९५२

श्रीमच्छंकरदिग्विजयः । भिन्दानैर्देवमेतैरभिनवयवनैः सद्रवीभञ्जनोत्कै व्यप्ता सर्वयमुव क जगति भजतां कैवमुक्तिप्रसक्तिः ॥ यद्वा सद्वादिराजा विजितकलिमला विष्णुतत्त्वानुरक्ता उजूतृम्भन्ते समन्तादिशि दिशि कृतिनः किं तया चिन्तया मे॥३२॥ कथमल्पबुद्धिविवृतिपचय प्रबलोरगक्षतिहताः श्रुतयः ॥ न यदि त्वदुक्तयमृतसेकधृता विहरेयुरात्मविधृतानुशयाः ॥ ३३ ॥ [ सर्गः ९ ] रोद्रारपचुराद्भगवत्पादमुखलक्षणाचन्द्रात्प्ररोहन्तो व्याहारलक्षणा अमृतकिरणास्तेषां पुत्रे विजयिनि सति मनसो मलिनिम्रो मालिन्यस्य समारम्भणेन चणैर्वितैः प्रतीतै रेतैः कपिलादिवचस्तमस्तोमैर्मिलितैरपि किं स्वकार्यकरणाय स्थातुमप्यशक्तत्वात् । शिखरिणी वृत्तम् ॥ ३१ ॥ दुर्वादिभिव्यप्तामुर्वीमालोच्योढूतां चिन्तां दर्शयति । देवं परमात्मलक्षणां देवप तिमां भिन्दानैस्तद्वेदनपरैमहमदेन मतैरेतैरुपलभ्यमानैर्वादिलक्षणाभिनवयवनैः श्रुति लक्षणसद्रवीभञ्जनोत्सुकैः सर्वेयं भूभिव्यप्ता ततश्च जगत्येवंविधान्सेवतां कस्मिन्देशे कास्मिन्काले वा मुक्तिप्रसक्तिः कैव कापि काऽपि नास्ति । पुनराचार्यशिष्यानालो च्याऽऽह । यद्वा सद्वादी भवान्राजा येषां ते विजितकलिमला विष्णुतत्त्वानुरक्ता वशीकृतचित्ता भवच्छिष्या दिशि दिशि समन्ताद्विनृम्भन्तेऽतस्तया चिन्तया मम किं न किमपीत्यर्थः । स्रग्धरा वृत्तम् ॥३२॥ [देवं दीव्यतीति व्युत्पत्या 'एको देवः सर्वे भूतेषु गूढः’ इति श्रुत्या चाँद्वैतात्मानं पक्षे हरिहरादितत्प्रतिमाविशेषमित्यर्थः । भिन्दानै खण्डयद्भिः । वादैः पक्ष आयुधैरित्यर्थिकम् ] [ सदिति । कालत्रयाबाध्यं 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ इत्यादिश्रुतिप्रसिद्धमद्वैतं ब्रह्मात्मतत्त्वमेव वदतीति तथैतादृशो योऽयं भगवान्भाष्यकारः स राजा येषां ते तथेति यावत् । एतेनाऽऽ श्रयदाढ्य ध्वन्यते ] ॥ ३२ ॥ किंचाल्पबुद्धीनां या विवृतयो व्याख्यास्तासां प्रचयः प्रचारः स एव मबलोरग कृताभिमायाः कथं विहरेयुजीवनं लब्ध्वा विहारं कुर्युरित्यर्थः । अमिताक्षरा वृत्तम् ॥ ३३ ॥ [ अल्पबुद्धयो मृढमतयः । यद्वाऽल्पं परिच्छिन्ने वस्तु तद्विषयिणी बुद्धि येषां ते तथा ] ॥ २२ ॥ १ ख. ग. 'चार ए'। [ सर्गः ९] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । न चरेयुरार्य यदि कः शमयेत् ।। अतितीव्रदुःसहभवोष्णकर प्रचुरातपप्रभवतापमिमम् ॥ ३४ ॥ श्रुतगेहदारसुतभृत्यधनैः ॥ अतिरुढमानभरितः पतितो भवतोद्धृतोऽस्मि भवकूपबिलात् ॥ ३५ ॥ अहमाचरं बहु तपोऽमुकरं ननु पूर्वजन्ममु न चेदधुना ॥ जगदीश्वरेण करुणानिधिना भवता कथा मम कथं घटते ॥ ३६ ॥ शान्तिप्राक्सुकृताङ्करं दमसमुच्छासोलसत्पछवं वैराग्यदुमकोरकं सहनतावलुीप्रसूनोत्करम् ॥ ऐकाग्रीसुमनोमरन्दविसृतिं श्रद्धासमुद्यत्फलं विन्देयं सुगुरोर्गिररां परिचयं पुण्यैरगण्यैरहम् ॥ ३७ ॥ किंच भवदुक्तसूक्तिलक्षणस्यामृतभानोः सुवाकिरणस्य चन्द्रस्य भानवोंऽशवो हे अंभार्य यदि न विचरेयुस्तर्हतितीव्रस्यात एव दुःसहस्य भवलक्षणस्योष्णभानोः सूर्यस्य प्रचुरावपात्प्रभवो यस्य तथाभूतमिममनुभूयमानं तापं कः शमयेत् । अतितीव्रो दुःसहो भवोष्णकरपचुरातपमभवोयस्तापस्तमिमिति वा ॥ ३४ ॥ अत एवैवंविधोऽप्यहं त्वयोद्वतोऽस्मीत्याह । बत खेदे हर्षे वा । कर्मयश्रमवि रुह्य वपआदिभिरतिरूढाभिमानेन भरितो व्याप्तः संसारकूपबिले पतितोऽहं तस्माद्भ वतोदृतोऽस्मि ॥ ३५ ॥ [ कर्मयत्रं कर्मलक्षणं घटीयत्रम् ] ॥ ३५ ॥ नन्वेकस्योद्धरणेऽपरस्यानुद्धरणे वैषम्यं मम स्यादिति चेत्तत्कृतसुकृतदुष्कृतानुसा रित्वात्तव नेत्याह । अहं पूर्वजन्मसु निश्चयेनासुकरमतिकष्टसाध्यं बहु तपोऽचरं नो चेदधुनाऽस्मिञ्जन्मनि करुणानिधिना जगदीश्वरेण भवता सह ममात्यन्तायोग्यस्य कथा कथं घटते ।। ३६ ॥ अतोऽसंख्यातैः स्वपुण्यैः सुगुरोस्तव गिरां परिचयं लब्धवानस्मि । तं विशिनष्टि । शान्तिरुपेण परिणतस्य प्राकृतस्य सुकृतस्य बीजभूतस्याङ्करं दमसमुलासस्योलसन्तं ३९३ १ क. 'भवस्ता '। २ क. 'तैरेव प'। श्रीमच्छंकरदिग्विजयः । त्रिदिवौकसामपि पुमर्थकरी मिह संसरज्जनविमुक्तिकरीम् । करुणोर्मिलां तव कटाक्षझरी मवगाहतेऽत्र स्वलु धन्यतमः ।। ३८ ॥ केचिचञ्चललोचनाकुचतटीचेलाञ्चलोञ्चालन स्पर्शद्राक्परिरम्भसंभ्रमकलालीलासु लोलाशयाः । सन्त्वेते कृतिनस्तु निस्तुलयशःकोशादयः श्रीगुरु व्याहारक्षरितामृताब्धिलहरीदोलासु खेलन्त्यमी ॥ ३९ ॥ पलवं वैराग्यदुमस्य वैराग्यलक्षणपारिजातस्य कोरकं कलिकाभूतं तितिक्षावलयाः मसूनोत्करं पुष्पनिचयमैकाग्रीसुमनसः समाधानपुष्पस्य मरन्दविसृति मकरन्दविस्तारं श्रद्धायाः समुद्यत्फलं तथाच शान्त्यादिमताऽधिकारिणा लभ्यं तमहमसंरूयातैः पुराकृतैः पुण्यैः प्राप्तवानस्मीत्यहो मद्भाग्यमाहात्म्यमिति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ ३७ ॥ अतोऽत्रास्मिलोके तव कटाक्षझरीं वन्यतमोऽवगाहते । तां विशिनष्टि । देवा नामपि चतुर्विधपुरुषार्थकरीमिह च संसरतां जनानां विमुक्तिकरीं करुणालक्षणोर्मिभि व्यप्ताम् । अमिताक्षरा वृत्तम् ॥ ३८ ॥ ननु मदालीलासु लोलाशयानामुक्तझर्यवगाहनासंभवात्कथमिह संसरतां विमोक्ष करत्वं तस्या इत्याशङ्कयाऽऽह । केचिदेते विषयिणश्चञ्चले लोचने यासां तासाम ङ्गनानां कुचतटीवसैकदेशोचालनादिरूपासु लीलासुचवश्चलान्तःकरणाः सन्ति चेत्सन्तु तथाऽप्यमी वशीकृतचित्ता अप्रतिमयशसां कोशादय: पात्रमञ्षादिरूपाः श्रीगु रोस्तव व्याहारेभ्यः क्षरितस्य निःसृतस्यामृतस्य योऽब्धिस्तस्य लहरीलक्षणासु दोलासु खेलान्त । तत्र द्राक्परिरम्भो झटित्यालिङ्गनम् । कला शिल्पनैपुण्यम् । प्रियानुकरणं लीला वाग्भिर्गत्या च चेष्टया'। शार्दूलविक्रीडितं वृत्तम् ॥ ३९ ॥ १ घ. 'मदधि'। २ क. 'द्या ब्रह्मविद्याल'। [ सर्गः ९] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । चिन्तासंतानतन्तुग्रथितनवभवत्सूक्तिमुक्ताफलौधै रुद्यद्वैशद्यसद्यःपरिहृततिमिरैहरिणो हारिणोऽमी ॥ सन्त: संतोषवन्तो यतिवर किमतो मण्डनं पण्डितानां विद्या हृद्या स्वयं ताञ्शतमस्वमुस्वरान्वारयन्ती वृणीते ॥ ४० ॥ सन्तः संतोपपोषं दधतु तव कृताम्रायशोभैर्यशोभि सरान्लोकंरुलूका इव निखिलस्वला मोहमाहो वहन्तु ॥ धांरश्रशंकरार्यमणातिपरिणतिभ्रश्यदन्तर्तुरन्त ध्वान्ताः सन्तो वयं तु प्रचुरतरनिजानन्दसिन्धौ निमग्राः ॥४१॥ चिन्तासंतानशास्त्री पदसरसिजयोर्वन्दनं नन्दनं ते संकल्पः कल्पवल्छी मनसि गुणनुतेर्वर्णना स्वर्णदीयम् ॥ स्वग दृग्गोचरस्त्वत्पदभजनमतः संविचायेदमायाँ मन्यन्ते स्वर्गमन्यं तृणवदतिलधुं शंकरार्य त्वदीयाः ॥ ४२ ॥ किंचोद्यद्वैशद्येन प्रोद्यद्वद्यक्ततालक्षणेन शैौक्ल्येन सद्यः परिहृतमज्ञानलक्षणं तिमिरं यैश्चिन्ताया विचारस्य संतानलक्षणैस्तन्तुभिग्रथितानां नवीनानां भवत्सूक्तिलक्षणमक्ता अभमा सन्ता भवाच्छष्याः सतषवन्तः स्पन्त्यता ह यातवर पाण्डताना मण्डनमतः पर 8त मुखान्वारयन्त्यतान्वृणीते । स्रग्वरा वृत्तम् ।। ४० ।। पुटिं धारयन्त्वाहो सृर्यसंबन्ध्यालोकैरुलूका इव तैर्निखिलखला मोहं वहन्तु वयं तु धीरराश्च ते श्रीशंकरार्यप्रणते: परिणत्या प्रणामस्य परिणामेन भ्रश्यदन्तर्दरन्तं तमो येषां तादृशाः सन्तः प्रचुरतरनिजानन्दसागरे निमझाः । धीरश्चासँी श्रीशंकरश्चेति वा ॥ ४१ ॥ [ प्रचुरेति । विपुलतमस्वात्मसुखसमुद्र इत्यर्थ नममा भवाम इत योजना ] ॥ ४१ ॥ कंच ते चिन्तनं सर्वाभिलषितसंपादकत्वात्कल्पवृक्षस्तथा ते पदकमलयोर्वन्दनं नन्दनं र्णनेयं स्वर्णदी गङ्गा तथा स्वर्गस्ते दृग्गोचरः कटाक्षविषयोऽतो वlवध त्वद्भजन विचाय त्वदायाः वांतिादन्य स्वर्ग शुष्कतृणवदांतलघु मन्यन्त ॥४२॥ [ अस्तीति सर्वत्र संबन्ध तथा त इत्यपि सर्वत्र बोध्यम् । त्वदति । त्वत्पाद १ क. 'दा ब्रह्मविद्याल'। ३५६ तदहं विसृज्य सुतदारगृहँ द्रविणानि कर्म च गृहे विहितम् ॥ शरणं वृणोमि भगवञ्चरणा वनुशाधि किंकरममुं कृपया ॥ ४३ ॥ इति सूतृतोक्तिभिरुदीर्णगुणः मुधियाऽऽत्मवाननुजिघृक्षुरसौ ॥ समुदैक्षतास्य सहधर्मचरीं विदिताशया मुनिमवोचत सा ॥ ४४ ॥ यतिपुण्डरीक तव वेद्मि मनो ननु पूर्वमेव विदितं च मया ॥ इह भावि तापसमुखादस्विलं तदुदीर्यते शृणु ससभ्यजनः ॥ ४५ ॥ [ सर्गः ९ ] पद्मसेवनमेव दृग्गोचरः प्रत्यक्षः स्वर्गः । इदं प्रागुक्तवस्तुजातम् । सlवचाय सम्य उड्नणयि ] ॥ ४२ ॥ तत्तस्मादहं सुतादि सर्वे परित्यज्य भवचरणौ शरणं वृणोम्यतोऽमुं मां किंकरं शाध्याज्ञापय । अमिताक्षरा वृत्तम् ।। ४३ ॥ [ सुतेति । एतेन मण्डनमिश्राणां पुत्र सद्भावोऽवगम्यते । यदि न सांप्रदायिकानां तत्प्रसिद्धिस्तत्र सुतशब्देन शिष्या एव ग्राह्याः । गृहे गृहस्थाश्रमे विहितं कर्मान्निहोत्राद्यपि ] ।। ४३ ॥ इत्येवं सुबुद्धिना मण्डनेन सूनृतोक्तिभिरुदीर्णगुण आत्मवानसी श्रीशंकरस्तमनु ग्रहीतुमिच्छुरस्य मण्डनस्य सहधर्मचरीं पत्नीं समुदैक्षत विदितो मुनेराशयो यया सा सरस्वती मुनिमवोचत ॥ ४४ । [ सूनृतोक्तिभिः । ‘सूनृतं प्रिये' इत्यमरात्प्रि यवाग्भिरित्यर्थः ] ॥ ४४ ॥ यदुवाच तदाह । हे यतिव्याघ्र 'पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे । कोशकारान्तरे व्याघे पुण्डरीकोऽग्निदिग्गजे' इति विश्धप्रकाशः । अहं तव मनोगतं वेद्मि पूर्वमेव चेहास्मिन्स्वजन्मनि यत्सर्वं भविष्यं तापसमुखान्मया विदितं तदुदीर्यते सभ्यजनैः स त्वं शृणु ॥ ४५ ॥ १ क. मुं किं'। २ ग. 'ह शू'। [ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ४५ मयि जातु मातुरुपकण्ठजुषि प्रभया तडित्प्रतिभटोचजट: ॥ सितभूतिरुषितसमस्ततनुः श्रमणोऽभ्ययादपरसूर्य इव ॥ ४६ ॥ परिगृह्य पाद्यमुखयाऽर्हणगया रचिताञ्जलिर्नमितपूर्वतनुः । जननी तदाऽऽत्तवरिवस्यममुं मुनिमन्वयुङ् मम भाव्यस्विलम् ॥ ४७ ॥ भगवन्न वेद्मि दुहितुर्मम भा व्यखिलं च वेत्ति तपसा हि भवान् । प्रणते जने हि सुधियः कथय त्यपि गोप्यमार्यसदृशाः कृपया ॥ ४८ ॥ कियदायुराप्स्यति मुतान्कति वा दयितं कथंविधमुपैष्यति च । अथ च क्रतूनपि करिष्यति मे दुहिता प्रभूतधनधान्यवती ।। ४९ ।। एवं तापसमुखाद्विदितं वृत्तान्तं श्रावयितुमभिमुखठिय तं श्रावयति । जातु कदाचिन्मातुरुपकण्ठजुषि मातृसामीप्यं सेवमानायां माय सत्यां प्रभया विद्युत्प तिभटा जटा यस्य सितभूत्या धेतभस्मना रूषिता लिप्ता तनुः शरीरं यस्य सोऽपरसूर्य इव कश्चित्तपस्व्यभ्ययादभ्यागमत् ॥ ४६ ॥ [ श्रमणः 'श्रमणो यातिभेदे ना' इति मेदिन्यास्तपस्विविशेष इत्यर्थः ] ।। ४६ ।। तदा पाद्याद्यया पूजया मुनिं परिगृह्य रचिताञ्जलिर्नमिता पूर्वतनुः शिरोभागो यया सा जनन्यात्ता वरिवस्या पूजा येन तममुं मुनिं मम भविष्यमखिलमन्वयुङ्कः पृष्टवती ।। ४७ । [ परिगृह्य 'परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः इति मेदिन्याः स्वेप्सितदातृत्वेन स्वीकृत्थेत्यर्थः ] ।। ४७ ।। हे भगवन्स्वदुहितुर्भविष्यमहं न जानामि भवान्हि तपसा वेत्यार्यसदृशा नम्रत्रे जने गोप्यमपि छपया कथयन्त्येव ।। ४८ ॥ एवं तं संमुखीकृत्य गुह्य पृच्छति । मे दुहिता कियदायुः प्राप्स्यति सुतान्कतेि १ की . यात् ॥ ४६ ॥ ३६५७ त । ३५८ श्रीमच्छवकरदिग्विजयः । इति पृष्टभाविचरित: प्रमुवा क्षणमात्रमीलितविलोचनकः ।। सकलं क्रमेण कथयन्निदम प्यपरं जगाद मुरहस्यमपि ।। ५० ।। निगमाध्वनि प्रबलबाह्यमतै रमितैरधिक्षिति खिले दुहिणः ॥ पुनरुद्दिधीषुरवतीर्य स्वलु प्रतिभाति मण्डनकवीन्द्रमिषात् ॥ ५१ ॥ तमवाप्य रुद्रमिव साऽद्रिमुता दुहिता तवाच्युतमिवाब्धिमुता । अनुरुपमाहृतसमस्तमस्वा ससुता भविष्यति चिरं मुदिता ॥ ५२ ॥ अथ नष्टमौपनिषदं प्रबले कुमतेः कृतान्तमिह साधयितुम् ।। ननु मानुषं वपुरुपेत्य शिव समलंकरिष्यति धररां स्वपदैः ॥ ५३ ॥ [ सर्गः ९] वा प्राप्स्यति पतिं कीदृशामुपैष्यति तथा प्रभृतवनधान्यवती सती यज्ञानापि करिष्याति ।। ४९ । [ क्रतूनित्यत्रापि कतिशब्दो ज्ञेयः ] ।। ४९ ।। इत्येवं प्रसुवा जनन्या पृष्टं भावि चरितं यस्मै स क्षणमात्रं मीलिते विलोचने । विलोचनके नेत्रे येन स क्रमेण सकलं कथयन्निदमप्यपरमतिगोप्यमपि जगाद ।। ५० ।। वेदबाह्य मतं येषां कर्मधारयो वा प्रबलैश्च तैर्बह्यमतैरसंख्यातैर्वेदमार्गेऽधिक्षिति भूमौ खैिल उच्छिन्ने सति दुहिणो ब्रह्मा वेदमार्गमुद्धर्तुमिच्छुर्मण्डनकवीन्द्रव्याजेनाव तीर्य किल भाति प्रकाशते ॥ ५१ ॥ [ दुहिण: 'वाताऽब्जयोनिर्दूहिणः' इत्यमराच तुरानन इति यावत् ] ।। ५१ ।। पर्वतसुता पार्वती रुद्रमिव समुद्रसुता लक्ष्मीर्विष्णुमिव सा तव सुता तं दुहिणाव तारमनुरूपं मण्डनमवाप्याऽऽहृताः सर्वे मखा यज्ञा यया सुतैः सह वर्तमाना च सती चिरकालं मुदिता भविष्यात ॥ ५२ ॥ अथानन्तरमिहास्मिलोके प्रबलैः कुमतैर्नष्टमोपनिषदं कृतान्तं सिद्धान्तं साधयितुं ननु शिवो मानुषं वपुरवाप्य स्वचरणन्यासैर्भूमिमलंकरिष्यति ॥ ५३ ॥ [ नष्टं ध्वस्त १ क. ख. 'खिले छिन्ने'। [ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । सह तेन वादमुपगम्य चिरं दुहितुः पतिस्तु यतिवेषजुषा ॥ विजितस्तमेव शरणं जगतां शरणं गमिष्यति विसृष्टगृहः ॥ ५४ ॥ इति गामुदीर्य स मुनिः प्रययौ सकल यथातथमभूच मम ॥ भवदीयशिष्यपद्मस्य कथं वितथं भविष्यति मुनेर्वचसि ॥ ५५ ॥ अपि तु त्वयाऽद्य न समग्रजितः प्रथिताग्रणीर्मम पतिर्यदहम् ॥ वपुरर्धमस्य न जिता मतिम न्नपि मां विजित्य कुरु शिष्यमिमम् ।। ५६ ॥ यदपि त्वमस्य जगतः प्रभवा ननु सर्वविच परमः पुरुषः ॥ तदपि त्वयैव सह वादकृते हृदयं बिभर्ति मम तूत्कलिकाम् ।। ५७ ।। ३५९ प्रायम् । औपनिषदमुपनिषदेकसंमतं दृश्यामिथ्यात्वपूर्वकमद्वतब्रह्मात्मैक्यलक्षणमिति यावत् । कृतान्तं कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु इति मेदिन्याः सिद्धान्तमित्यर्थः ] ॥ ५३ ॥ तेन यतिवेषजुषा श्रशिांकरेण सह तव दुहितुः पतिर्वादं प्राप्य तेन विजितः सन्प रित्यक्तगृहो जगतां शरणं तं शरणं गमिष्यति ॥ ५४ ॥ इति वाचमुदीर्य स मुनिः प्रययौ मम सर्वं भविप्यं यथा तेनोक्त तथैवाभृत्तस्मादस्य मम पत्युर्भवदीयशिष्यपदं मुनेर्वचसि कथमसत्यं भविष्यति ॥ ५५ ॥ यद्यप्येवं तथाऽपि मदविजयेन सकलस्यापराजितत्वान्मां विजित्थेमं शिष्यं कुर्वि त्याइ । अपितु किंतु पथितानामयणीभेम पतिरद्य त्वया समप्रो जिता न भवतीति तथा यद्यस्मादहमस्याऽधं शरीरं न जिता 'आत्मनोऽर्ध पत्नी' इति श्रुतेः । एत ज्ज्ञातुं योग्योऽसीति सूचयन्संबोधयति । हे मतिमन्निति । तस्मान्मां विजित्येमं शिष्यं कुरु ॥ ५६ ॥ १ ख. ग. घ. 'मम स्वरू'। ३६० श्रीमच्छकरदिग्विजयः । इति यायज्जूकसहधर्मचरी कथितं वचोऽर्थवदगार्हपदम् ।। मधुरं निशम्य मुदितः सुतरां प्रतिवतुमैहत यतिप्रवरः ॥ ५८ ॥ पदवादि वादकलहोत्सुकतां प्रतिपद्यते हृदयमित्यबले ।। तदसांप्रतं न हि महायशसो महिलाजनेन कथयन्ति कथाम् ॥ ६९ ॥ स्वमतं प्रभेत्तुमिह यो यतते स वधूजनोऽस्तु यदि वाऽस्त्वितरः ॥ यतितव्यमेव खलु तस्य जये निजपक्षरक्षणपरैर्भगवन् ॥ ६० ॥ अत एव गाग्र्यभिधया कलहं सह याज्ञवल्क्यमुनिराडकरोत् । किममी भवन्ति न यशोनिधयः ॥ ६१ ।। [ सर्गः ९ ] जगतस्त्वं कारणं सर्वज्ञश्च परमः पुरुषस्तथाऽपि त्वयैव सह वादाथै मम तु हृदय मत्कण्ठां धारयति ॥ ५७ ॥ इत्येवं यजनशीलस्य पत्न्या कथितमर्थवदनिन्दितपदं मधुरं वचो निशम्यात्यन्तं मुदितो यातिश्रेष्ठः श्रीशंकरः प्रतिवत्कुमैच्छत् ॥ ५८ ॥ मे हृदयं वादकलहोत्सुकतां प्रतिपद्यत इति त्वया यदुक्तं हे अबले तदयुक्तं हेि यस्मान्महायशसो वधूजनेन कथां न कथयन्ति ॥ ५९ । [ हेऽबले । एतेन जात्यैव सामान्यतः सावशिाकसामथ्यभावः सूचितः ] ।। ५९ ॥ स्वमतरक्षणाय प्रवृत्तेन त्वयैतन्न वाच्यमित्याशयेन सरस्वत्याह । इहास्मिलोके स्वमतं प्रभेतुं यः प्रयत्नं करोति स वधूजनोऽस्त्वन्यो वाऽस्तु तस्य जये हे भगवन्स्व पक्षरक्षणपैरैर्यत्न: कर्तव्यं एव खलु प्रसिद्धम् ॥ ६० ।। तत्रैवंविधौ वृद्धावुदाहरति । अत एव गाग्र्याख्ययाऽबलया सह याज्ञवल्क्य मुनिराट्कलहमकरोत्तयोः संवादो बृहदारण्यक उक्तस्तथा जनकः सुलभयाऽबलय सह कलहमकरोदिति मोक्षधर्मेघूक्तम् । यदुक्तं महायशास इति तत्राऽऽह । किमेता वताऽमी याज्ञवल्क्यादयी यशेोनिधयो न भवन्त्यपि तु भवन्त्येव ।॥ ६१ ॥ १ ग. घ. 'यैतनं क"। २ ग. घ. 'व्यमेव । [ सर्गः ९ ] धनपतिमूरिकृतडिण्डिमाख्यटीकासंवलितः । इति युक्तिमद्वदितमाकलय न्मुदितान्तरः श्रुतिसरिज्जलधिः ॥ स तया विवादमधिदेवतया वचसामियेष विदुषां सदसि ॥ ६२ ॥ अथ सा कथा प्रववृतं स्म तयो रुभयोः परस्परजयोत्सुकयोः ॥ मतिचातुरीरचितशब्दझरी श्रुतिविस्मयीकृतविचक्षणयोः ॥ ६३ ॥ अनयोर्विचित्रपदयुक्तिभरै नैिशमय्य संकथनमाकलितम् ॥ न फणीशमप्यतुलयन्न पंपों न गुरुं कविं किमपरं जगति ॥ ६४ ॥ न दिवा न निश्यपि च वादकथा विरराम नैयमिककालमृते ॥ इति जल्पतोः सममनल्पधियो र्दिवसाश्च सप्त दश चात्यगमन् ॥ ६९ ॥ ३६१ इत्येवं युक्तियुक्तं तया कथितमाकर्णयन्मुदितान्तरः श्रुतिलक्षणानां नदीनां समुद्रः स श्रीशंकरो वचसामधिष्ठात्र्या देवतया सरस्वत्या विदुषां सदासि वादभियेषेच्छति स्म ॥ ६२ ॥ [ श्रुतीति । श्रुतय एव सरितस्तासां जलविः पर्यवसानभूमित्वेन समुद्र इत्यर्थः ] ॥ ६२ ॥ अथानन्तरं परस्परजयोत्सुकयोः श्रुत्या श्रवणेन विस्मयीकृता विचक्षणा याभ्यां तयोर्द्धयोः शंकरसरस्वत्योर्वादकथा प्रववृते । तां विशिनष्टि । बुद्धिचातुर्या रचिता शब्दझरी यत्र सा ॥ ६३ ॥ विचित्रपदयुक्तिभरैव्यप्तमनयोः कथितं श्रुत्वा फणीशं शेषमपि नातुलयन्नापि सूर्य नापि बृहस्पतिं नापि शुक्र जगत्यपरं नातुलयन्निति किं वक्तव्यम् ॥६४॥ [विचि त्रेति । विचित्राण्यद्रुतानि पदानि सुबन्तादीनि च तथा युक्तिभराश्च तर्कसमूहाश्च रित्यर्थः ] ॥ ६४ ॥ नैयमिककालं संध्यावन्दनादिषु नियतं कालं विना ॥ ६५ ।। श्रीमच्छंकरदिग्विजयः । अथ शारदाऽकृतकवाकममुस्व ष्वस्विलेषु शास्रनिचपेषु परम् । तमजयमात्मनि विचिन्त्य मुनिं पुनरप्यचिन्तयदिदं तरसा ॥ ६६ ।। अतिबाल्य एव कृतसंन्यसनो नियमैः परैरविधुरश्च सदा। मदनागमेष्वकृतबुद्धिरसी तदनेन संप्रति जयेयमहम् ॥ ६७ ॥ इति संप्रधार्य पुनरप्यमुना कथने प्रसङ्गमथ संगतितः ।। यमिनं सदस्यमुमपृच्छदसों कुमुमास्रशास्वहृदयं विदुषी ॥ ६८ ॥ कलाः कियन्त्यो वद पुष्पधन्वनः किमात्मिकाः किं च पदं समाश्रिताः ।। पूर्वे च पक्षे कथमन्यथा स्थिति कथं युवत्यां कथमेव पूरुषे ॥ ६९ ॥ [ सर्गः ९ ] अथ शारदाऽकृतकवाक्प्रमुखेष्वनादिसिद्ववेदवाक्प्रभृतिष्वखिलेषु शास्रसमूहेषु तं परं मुनेिं जेतुमशक्यमात्मनि विचिन्त्य पुनरपदं वक्ष्यमाणं झटित्यचिन्तयत् ॥६६ ।। यदचिन्तयत्तद्दर्शयति । आतिबाल्य एव कृतं संन्यसनं येन नियमैः परैरविधुरोऽ विकलश्च सदा कदाऽपि नियमविनिर्मुक्तो न भवतीत्यर्थः । अतः कामागमेप्वयमकृत बुद्धिस्तत्तस्मादनेन मदनागमेनेदानीमहं जयेयम् ॥ ६७ ॥ इत्येवममुना कथने प्रसङ्गं संप्रधार्याथ प्रसङ्गात्सदस्यमुं यमिनं कामशास्त्रस्य रहस्य मसौ विदुषी सरस्वत्यपृच्छत् ॥ ६८ । [ असैो पूर्वपकृता सरस्वती विदुषी । कुसुमे त्यत्राप्यन्वेति स्मरशास्त्रसारज्ञेत्यर्थः ।। ६८ ।। यदपृच्छत्तदुदाहरति । पुष्पधन्वनः कामस्य कलाः कियन्त्य इति संख्याविषयकः मश्रः । किमात्मिका इति स्वरूपविषयकः । कि स्थानमाश्रिता इति स्थानगोचरः । पूर्वे शुक्रे च पक्षेऽन्यथा कृष्णपक्षे या स्थितिस्तस्या विपर्थयेण तस्य केन प्रकारेण स्थितिरिति पक्षद्वयेऽपि तस्य स्थितिप्रकाराविषयः । कथं युवत्यां पुरुपे च कथमिति स्त्रीपुरुषयोर्वलक्षण्येन तस्य स्थितिविषयः ॥ ६९ ।। [ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । नेतीरितः किंचिदुवाच शंकरो विचिन्तयन्नत्र चिरं विचक्षणः ॥ तासामनुक्तौ भविताऽल्पवेदिता भवेत्तदुक्तौ मम धर्मसंक्षयः ॥ ७० ॥ इति संविचिन्त्य स त्दृदाऽऽथु तदाऽ नवबुद्धपुष्पशरशास्र इव ॥ विदितागमेोऽपिं सुरिरक्षयिषु र्नियमं जगाद जगति व्रतिनाम् ॥ ७१ ॥ इह मासमात्रमवधिः क्रियता मनुमन्यते हि दिवसस्य गणः । तदनन्तरं मुदति हास्यसि भोः कुमुमास्रशास्त्रनिपुणत्वमपि ॥ ७२ ॥ उररीकृते सति तथेति तयाऽऽ क्रमते स्म योगिमृगराङ्गगनम् ॥ श्रुतविग्रहः श्रुतवनेययुतो दधदभ्रचारमथ योगदृशा ।। ७३ ।। ३६३ इतीरितोऽस्मिन्नर्थे विचिन्तयन्विचक्षणः श्रीशंकरः किंचिदपि नोवाच । विचि न्तनमाह । तासां कलानामकथने ममाल्पज्ञता भविष्यति तासां कथने तु मम यतेर्ध मस्य सक्षयः ॥ ७० ।। इत्येवं स शत्रं मनसा संचिन्त्य विदितकामागमोऽपि जगति व्रतिनां कामशास्त्रा नभ्यासादित्रतवतां परमहंसपरिव्राजकानां नियमं रक्षयितुमिच्छुस्तास्मिन्कालेऽनवबुद्ध कामशास्त्र इव संञ्जगाद ॥ ७१ ॥ यदुवाच तदाह । इहास्मिन्कलादिसंकथने माममात्रमवधिः क्रियतां हि यस्मा दिवसस्य गणो वादिभिरनुमन्यते तथाच मापानन्तरं भोः सुदति कामशास्त्रनिपुणत्व मपि त्यक्ष्यसि ॥७२॥ [मापमात्रं मास एव मासमात्रमेकमासपर्यन्तमित्यर्थः] ॥७२॥ तथेति तया सरस्वत्या स्वीकृते सति योगिरराटश्रीशंकर आकाशमाक्रमते स्माथा नन्तरं श्रुतो विग्रहः स्वरूपं यस्य स प्रख्यातविग्रहस्तथा श्रुतवैिनेयैः शिष्यैर्युतः स योगदृष्टयाऽभ्रचारमाकाशगमनं दधत् ॥ ७३ ॥ [ योगदृशा योगावलम्बनेन । दधत्कुर्वन्सन्नित्यर्थः ] ॥ ७३ ॥ १ ग. घ. 'पि स रि"। २ ग. 'तोऽत्रास्मि । ३ ख. 'मिच्छंस्त'। ४ घ. स जगा। श्रीमच्छंकरदिग्विजयः । स ददर्श कुत्रचिदमत्र्यमिव त्रिदिवच्युतं विगतसत्वमपि ॥ मनुजेश्वरं परिवृतं प्रलप त्प्रमदाभिरार्तिमदमात्यजनम् ॥ ७४ ॥ अथो निशाखेटवशाद्टव्यां मूले तरोर्मोहवशात्परामुम् ॥ तं वीक्ष्य मार्गेऽमरकं नृपालं सनन्दनं प्राह स संयमीन्द्रः ॥ ७५ ॥ सौन्दर्यसौभाग्यनिकेतसीमा पर:शाता यस्य पयोरुहाक्ष्य: ॥ स एष राजाऽमरकाभिधान शेते गतामुः श्रमतो धरण्याम् ॥ ७६ ॥ प्रविश्य कायं तमिमं परासो यागानुभावात्पुनरप्युपतु मुत्कण्ठते मानसमस्मदीयम् ॥ ७७ ॥ [ सर्गः ९] स कस्मिंश्चिद्देशे विगतजीवमपि स्वर्गत्पतितं देवमिव प्रलपन्तीभिः प्रमदाभिः परि वृतमार्तिमानमात्यजनो यस्य तं नरेश्वरं ददर्श ॥ ७४ ।। अथो निशायां रात्रौ मृगयावशात् । 'आखेटो मृगया स्त्रियाम्' इत्यमरः । अटव्यां वने वृक्षस्य मूले मोहो मूर्छनं तद्वशात्परासुमुत्क्रान्तप्राणं तममरकसंज्ञतं राजानं वाक्षय स संयमीन्द्रः सनन्दनं पझपादं प्रोवाच उपजातिवृत्तम् ॥ ७५ ॥ [ अमरुकं न विद्यते मरुर्निर्जलदेशो यस्य राष्ट्र इति तथा तमित्यर्थः । डिण्डिमकारादृतेऽमरकमिति पाठे त्वमरेभ्योऽमरवद्वा कं सुखं यस्य तमिति व्याख्येयम् । तथाऽपि प्रायः शिष्ट सांप्रदायिक: प्राथमिक एव पाठः सर्वत्र दृश्यते ] ॥ ७५ ॥ यस्य सौन्दर्यसैौभाग्यनिकेतसीमाः परःशताः शतादधिकाः कमलनयनाः स एषोऽ मरकसंज्ञो राजा श्रमतो गतप्राणो भूमौ शेते ॥ ७६ ॥ [ सौन्दर्य सर्वावयवसौष्ठवम् । सैौभाग्यं तारुण्यम् । व्युत्पत्तिपक्षेण तस्यैव लाभात् । तयोय निकेतनं निकेतः ‘केतनं तु निमश्रणे । गृहे केतैौ च कृत्ये' इति मेदिन्या गृहं तस्य सीमाः 'समसीमे स्त्रियाः मुभे' इत्यमरान्मर्यादीभृता इत्यर्थः ] ॥ ७६ ॥ परासार्श्वपस्य तमिमं देहं प्रविश्य राज्येऽस्य पुत्रं निवेश्य योगप्रभावात्पुनरप्युपा गन्तुमस्मदीयं मन उत्कण्ठते ॥ ७७ ॥ [ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अन्यादृशानामदसीयनाना कुशेशयाक्षीकिलकिंचितानाम् ॥ सर्वज्ञतानिर्हरणाय सोऽहं साक्षित्वमप्याश्रयितुं समीहे ॥ ७८ ॥ इत्यूचवांसं यतितलुजं तं सनन्दनः प्राह ससान्त्वमेनम् ।। सर्वज्ञ नैवाविदितं तवास्ति तथाऽपि भक्तिर्मुखरं तनोति ॥ ७२ ॥ मत्स्येन्द्रनामा हि पुरा महात्मा गोरक्षमादिश्य निजाङ्गगुप्त्यै । नृपस्य कस्यापि तर्नु परासोः प्रविश्य तत्पत्तनमाससाद ॥ ८० ॥ भद्रासनाध्यासिनि योगिवये भद्राण्यनिद्राण्यभवन्प्रजानाम् । ववर्ष कालेषु बलाहकोऽपि सस्यानि चाऽऽशास्यफलान्यभूवन् ॥ ८१ ॥ ३६५ सर्वज्ञतानिर्हरणाय सर्वज्ञत्वनिर्वाहायामुष्य राज्ञ इमा अद्सीया नानाऽनेकविधाः कुशेशयाक्ष्यः दकमलाक्ष्यस्तासां यानि किलकिंचितानि रोषाश्रुहर्षभीत्यादेः संकरः किल किंचितमित्युक्तानि तेषामन्यादृशानामतिविलक्षणानां साक्षित्वं साक्षाद्रष्टत्वमप्याश्र यितुं सोऽहं समीहे ॥ ७८ ॥ [ स पूर्वं सरस्वत्या कृतप्रश्रः ] ॥ ७८ ॥ इत्युक्तवन्तं यतिश्रेष्ठं तमेनं श्रीशंकरं ससान्त्वं यथा स्यात्तथा प्रोवाच हे सर्वज्ञ सर्वविदस्तव यद्यपि किंचिदप्यज्ञातं नास्ति तथाऽपि तव भक्तिम मुखरं वाचालं करोति ॥ ७९ ॥ [ 'अत्यर्थमधुरं सान्त्वम्' इत्यमरः] ।। ७९ ॥ एवं पुरावृत्तं वृत्तान्तं श्रावयितुमभिमुखीकृत्य तं श्रावयतेि । हि मसिद्धं पुरा मत्स्येन्द्रनामा महात्मा स्वशरीररक्षणाय गोरक्षसंज्ञ शिाष्यमाज्ञाप्य कस्यचिन्मृतकस्य राज्ञः शारीरं प्रविश्य तस्यै नेगरं प्राप्तवान् ॥ ८० ॥ योगिश्रेष्ठ तस्मिन्भद्रासनाध्यासिनि नृपासनमुपविटे सति प्रजानां भद्राणि निद्राव र्जितान्यभवन्नभ्रमपि कालेषु ववर्ष सस्यानि चेच्छानुसारिफलान्यभूवन् ॥ ८१ ॥

  • ख. 'त्पट्टन'। २ क. 'क्तिरस्मन्मुखं कथनाय मु। ख.'क्तिरस्मन्मुखं कथनाय विस्तारयति ।

३ ख. ग. घ. 'वृत्तवृ'। ४ घ. ‘स्य राजन'। ५ ख. ग. राज्यं । श्रीमच्छंकरदिग्विजयः । विज्ञाय विज्ञाः सचिवा नृपस्य काये प्रविष्ट कमपीह दिव्यम् ॥ समादिशवाजसरोरुहाक्षी सर्वात्मना तस्य वशीक्रियायै ॥ ८२ ॥ संगीतलास्याभिनयादिमेषु संसक्तचेता ललितेषु तासाम् । स एष विस्मृत्य मुनिः समाधिं सर्वात्मना प्राकृतवद्धभूव ॥ ८३ ॥ गोरक्ष एषोऽथ गुरोः प्रवृत्तिं विज्ञाय रक्षन्बहुधाऽस्य देहम् ॥ निशान्तकान्तानटनोपदेष्टा नितान्तमस्याभवदन्तरङ्गः ।। ८४ ॥ तत्रैकदा तत्त्वनिबोधनेन निवृत्तरागं निजदेशिकं सः ॥ योगानुपूर्वीमुपदिश्य निन्ये यथापुरं प्राक्तनमेव देहं ॥ ८५ ॥ इहास्मिनृपस्य काये प्रविष्टं कमपि दिव्यं विज्ञाः सचिवा विज्ञाय राज्ञः कम लाक्षीः सर्वभावेन तस्य वशीकरणाथै समादिशन् ॥ ८२ ।। एवं संमेरितानां तासां ललितेषु संगीतवृत्याभिनयाद्येषु सत्तं चित्तं यस्थ स एष मुनिः समाधिं विस्मृत्य सर्वात्मभावेन प्राकृतवद्वभूव ।। ८३ ॥ [ संगीतेति । ‘लास्यं नृत्यं च नर्तने' इति ‘व्यञ्जकाभिनयौ समौ' इति चामरः । 'अनाचार्योपदिष्टं स्याललितं रतिचेष्टितम्’ इत्यभियुक्ताः ] ॥ ८३ ॥ [ सर्गः ९] अथानन्तरमेष गोरक्षो गुरोः प्रवृत्ति विज्ञाय बहुपकारेणास्य गुरोर्देहं रक्षन्सन्निशा न्तस्यान्तःपुरस्य कान्तानां नर्तनोपदेष्टा सन्नस्य गुरोरन्तमन्तरङ्गेो बभूव ॥ ८४ ॥ तत्र तस्मिन्देश एकस्मिन्काले तत्त्वनिबोधनेन निवृत्तरागं निजगुरुं स गोरक्षो योगानुपूर्वीमुपदिश्य यथापूर्वं प्राक्तनमेव देहं निन्ये ॥ ८५ ॥ १ क. 'दिकेषु । २ ख. ग. घ. 'ङ्गोऽभवत् । ॥ ८४ ॥ [ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । हन्तेदृशोऽयं विषयानुरागः किंचोध्वरेतोत्रतखण्डनेन । किंनोदयेत्किल्बिषमुल्बणं ते कृत्यं भवानेव कृती विवेचकुम् ।। ८६ ।। ब्रतमस्मदीयमतुलं क् मह त्क च कामशास्त्रमतिगहमिदम् ।। तदपीष्यते भगवतैव यदि ह्यनवस्थितं जगदिहैव भवेत् ॥ ८७ ॥ अधिमेदिनि प्रथयितुं शिथिलं धृतकङ्कणस्य यतिधर्ममिमम् ।। भवत: किमस्त्यविदितं तदपि प्रणयान्मयोदितमिदं भगवन् ॥ ८८ ॥ स निशम्य पञ्चरणस्य गिरं गिरांति स्म गीष्पतिसमप्रतिभः ।। अविगीतमेव भवता फ़णितं शृणु सौम्य वच्मि परमार्थमिदम् ॥ ८९ ।। ३६७ तथाचैवंविधोऽयं विषयानुरागः किंचोध्र्वरेतोव्रतखण्डनेनोल्बणं पापं किं ते नोद येदपि तृदयेदेव । तथाच यत्कर्तव्यं तद्भवानेव विवेत्तुं कृती समर्थः । इन्द्रवज्रा वृत्तम् ॥ ८६ ।। किंचास्मदीयमतुलं महद्व्रतं क क चेदमतिनिन्द्य कामशास्त्रं तदपि भवतैव यदी ज्यते तह्यस्मिलोके जगदनवस्थितमेव भवेत् । तथाचोक्तम् ।

  • यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते' इति । मभिताक्षरा वृत्तम् ॥ ८७ ॥ [ इहैव कल्पारम्भकाल एव ] ।। ८७ ॥ इदं न मया विदितं ज्ञापितं सर्वज्ञत्वात्तव किंतु प्रेम्णोदितमित्याह । शिथिलमिर्भ यतिधर्म भूमौ प्रकटयितुं धृतकङ्कणस्य गृहीतप्रतिज्ञस्य भवतोऽविदितं किमस्ति न किमपि तथाऽपि हे भगवन्प्रणयादिदं मयोक्तम् ।। ८८ ।। एवं पद्मपाद्वाक्यमुदाहृत्याऽऽचार्यस्य तदुदाहर्तुमाह । पद्मपादस्य वचः श्रुत्वा वाचस्पतितुल्या प्रतिभा यस्य स उक्तवान्यद्यपि त्वयाऽनिन्दितमेव कथितं तथाऽपि हे सौम्य श्रोतुं सावधानो भव परमार्थमिदं कथयामि ॥ ८९ ।। ३६८ श्रीमच्छंकरदिग्विजयः । असङ्गिनो न प्रभवन्ति कामा हरेरिवाभीरवधूसस्वस्य । वज्रोलियोगप्रतिभूः स एष वत्सावकीर्णित्वविपर्ययो नः ।। ९० ॥ सकलप एवास्खलकाममूल स एव मे नास्ति समस्य विष्णोः ॥ तन्यूलहाना भवपाशानाश कर्तुः सदा स्याद्रवदोषदृष्टः ॥ ९१ ॥ अविचार्य यस्तु वपुराद्यहमि त्यभिमन्यते जडमतिः सुदृढम् ।। तमबुद्धतत्वमधिकृत्य विधि प्रतिषेधशास्रमस्विलं सफलम् ॥ ९२ ॥ [ सर्गः ९] किं तदित्यपेक्षायामाह । असङ्गिन आसक्तिविनिर्मुक्तस्य कामा न भवन्ति तत्र दृष्टान्तो गोपवधूसखस्य श्रीकृष्णस्येव किंच यो वज्रोलिसंज्ञकयोगप्रतिभूमिः स एष वत्स नोऽस्माकमवकीर्णित्वस्य रेतःपातेन क्षतत्रतत्वस्य विपर्ययस्तदभावः तस्या रे आकर्षणसामथ्र्यसंपादकत्वात् । उपजातिवृत्तम् ॥ ९० ।॥ [ वज्रोलीति । तदुक्त इठपदीपिकायाम् । महनन शनः सम्यगृध्वाकुश्वनमभ्यसत् । पुरुषो वाऽपि नारी वा वज्रोलीं सिद्धिमामुयात् ' इति । तलक्षणो योगश्चित्तनिरोधविशेषः प्रतिभूः ‘स्युर्लमकाः प्रतिभुवः' इत्यमर न्नियतसंपादको यस्य स तथा ] ।। ९० ।। किंच संकल्प एवाखिलाभिलाषस्य मूलं स एव कृष्णतुल्यस्य मम नास्ति तथा सदैव संसारदोषदृष्टेः कर्तुरपि काममूलस्य संकल्पस्य हानौ सत्यां भवपाशनाइ स्यात् ।। ९१ ॥ [मे समस्य ‘निदोषं हि समं ब्रह्म' इति च तद्वचनादद्वैतब्रह्मरूपस् विष्णोर्वेष्टि कल्पितं द्वैतं व्यवहारदृशा व्याप्रोतीति तथा तस्येति यावत् ] [ क रपि यावत्प्रारब्धं व्यवहर्तुरपि ] ॥ ९१ ॥ नन्वेवं तर्हि विधिप्रातिषेधशास्त्रं निष्फलं स्यादिति चेत्तत्राऽऽह । यस्तु देहाः विचार्य देहादेर्जडत्वादिनाऽनात्मत्वमविचायहमित्यहंप्रत्यालम्बनमात्मानं सुदृढमा मन्यते यतो जडबुद्धिस्तमबुद्धतत्त्वमधिकृत्य सर्व विविप्रतिषेधशास्त्रं सफलम् ! प्रमि क्षरा वृत्तम् ॥ ९२ ॥ [ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलित * ॥ कृतधीस्त्वनाश्रममवर्णमजा त्यवबोधमात्रमजमेकरसम् । स्वतयाऽवगत्य न भजेन्निवस न्निगमस्य मू िविधिकिंकरताम् ॥ ९३ ॥ कलशादि मृत्प्रभवमस्ति यथा मृदमन्तरा न जगदेवमिदम् ॥ परमात्मजन्यमपि तेन विना समयत्रयेऽपि न समस्ति खलु ॥ ९४ ॥ कथमज्यते जगदशेषमिदं कलयन्मृषेति हृदि कर्मफलैः । न फलाय हि स्वपनकालकृतं मुकृतादि जात्वऋतबुद्धिहतम् ॥ ९५ ॥ एवमज्ञस्याविकारिणः सत्वाद्विधप्रांतषेधशास्त्रसाफल्यमुक्त्वा तत्वविदोऽधिका राभावमाह । कृता संपादिता महावाक्यजन्या धीर्येन स त्वाश्रमादिविनिर्मुक्तमात्मा नमात्मत्वेनावगत्य वेदान्तमतिपाद्य स्वरूपत्वान्निगमस्य मू िवसन्विधिकिंकरतां न भैजेत् । विधिग्रहणं प्रतिषेधस्याप्युपलक्षणम् ।। ९३ ।॥ [भवर्ण ब्राह्मणादिवर्णशून्यम्। अजाति मनुष्यत्वादिजातिविधुरम् ] ॥ ९३ ।। ननु “अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्त क्षीयते कर्म कल्पकोटिशतैरपि। इत्यादिवचनैः कर्मफलभोगस्याऽऽवश्यकत्वावगमात्कथं तेन तत्वविदोऽसंबन्ध इत्याशङ्कय ‘वाचाऽऽरम्भणं विकारो नामवेयं मृत्तिकेत्येव सत्यम्’ इति श्रुत्युक्तदृष्टा न्तेन कालत्रयेऽप्यात्मव्यतिरिक्तस्य प्रपञ्चस्याभावविचारणेन तस्य मृषात्वनिश्चयादि त्याह । घटाधं मृत्प्रभवं वस्तु यथा मृदं विना नास्ति तथा परमात्मजन्यमिदं जगदपि परमात्मानं विना कालत्रयेऽपि नास्ति । ‘तदनन्यत्वमारम्भणशब्दादिभ्यः' इति न्यायात् । कल्पितस्याधिष्ठानानतिरिक्तत्वं प्रसिद्धमिति खल्वथैः ।। ९४ ॥ तथाचैवंप्रकारेणेदं सर्वे जगन्मिथ्येति हृद्यनुसंदधानः कर्मफलैर्न केनापि प्रकारेण लिप्यते हि यस्मात्स्वप्रकालकृतं सुकृतं दुष्कृतं च मृषा बुद्धिहतत्वात्कदाचिदपि फलाय न भवति ॥ ९५ ।। ३६९ १ ख. ग. घ. मूर्धनि । २ क. ख. घ. भजेत । ३७० श्रीमच्छकरदिग्विजपः । तदयं करोतु हयमेधशता न्यमितानि विप्रहननान्यथवा ॥ परमार्थविन्न सुकृतैर्दूरितै रपि लिप्यतेऽस्तमितकर्तृतया ॥ ९६ ॥ अवधीचिशीर्षमददाच यती न्वृकमण्डलाय कुपितः शतशः ।। बत लोमहानिरपि तेन कृता न शतक्रतोरिति हि बहूवृचवर्गीः ॥ ९७ ॥ बहुदक्षिणैरयजत क्रतुभि विबुधानतर्पयदसंख्यधनैः ॥ न तु देहयोगमिति काण्ववचः ॥ ९८ ॥ [ सर्गः ९] तत्तस्माद्यमश्वमेधशतानि करोत्वथवाऽसंख्यातानि विपहननानि करोतु तथाऽपि परमार्थवित्सुकृतैर्दूरितैश्च न लिप्यते लेपकारणस्य कर्तृत्वस्य निवृत्तत्वादिति हेतुमाह। अस्तंगतकर्तृतयेति ॥ ९६ ॥ [ अस्तमितेति । नष्टकर्तृत्वाध्यासतयेति यावत् । तदुक्तं परमार्थसारे पतञ्जलिना । ‘हयमेधसहस्राण्यप्यथ कुरुते ब्रह्मघातलक्षाणि । परमार्थविन्न पुण्यैर्नच पापैर्लिप्यते कापि’ इति ] ॥ ९६ ॥ अयममितानि ब्रह्मइननानि वा करोतु तथाऽपि दुरितैर्न लिप्यत इत्युक्तं तत्र प्रमाणाकाङ्क्षायां “त्रिशीर्षाणं त्वाष्ट्रमहन्नरुन्मुखान्यतीञ्शालावृकेभ्यः प्रायच्छसस्य मे तत्र लोमापि न मीयते स यो मां वेद न ह वै तस्य केनचन कर्मणा लोको भीयते न स्तेयेन न भ्रूणहत्यया' इति श्रुतिमर्थतः पठति । विशिरसं त्वष्टपुत्रं विश्वरूपमिन्द्रोऽ वधीतथा रौति यथार्थ शब्दयतीति रुद्वेदान्तवाक्यं तद्येषां मुखे नास्तीति तानरु न्मुखाञ्शतशो यतीञ्शालावृकसमूहाय कुपितः सन्नदात्तथाऽपि शतक्रतोरिन्द्रस्य तेन कर्मणा लोमहानिरपि नैव कृतेत्यूग्वेदिनां वागित्यर्थः ॥ ९७ ॥ इयमेधशतानि करोतु तथाऽपि सुकृतैर्न लिप्यत इत्यत्रापि प्रमाणमाह । जनको बहुदक्षिणैः क्रतुभिर्देवानयजत तथाऽसंख्यधनैरतर्पयत्तथाऽपि केवलं सर्वभयशून्यं परमानन्दस्वरूपं मोक्ष पाप न तु तत्फलभोगाय देहसंबन्धमापेवि काण्वानां वचनम् । तथाच श्रुतिः ‘जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे' ‘अभयं वै जनक माधो सि' इत्याद्या ॥ ९८ ॥ [ सर्गः ९] धनपतिरिकृतडिण्डिमाख्ठयटीकासंवलितः । न विहीयतेऽहिरिपुवडुरितै र्न च वर्धते जनकवत्सुकृतैः ॥ न स तापमेत्यकरवं दुरितं किमहं न साध्वकरवं त्विति च ॥ ९९ ॥ तदनङ्गशाव्रपरिशीलनम प्यमुनैव सौम्य करणेन कृतम् । न हि दोषकृत्तदपि शिष्टसर ण्यवनार्थमन्यवपुरेत्य यते ॥ १०० ॥ इति सत्कथाः स कथनीयशा भवभीतिभञ्जनकरीः कथयन् ।। सुदुरासदं चरणचारिजनै गिरिशृङ्गमेत्य पुनरेव जगौ ॥ १ ॥ अथ साऽनुपश्यत विभाति गुहा पुरतः शिला समतला विपुला । सरसी च तत्परिसरेऽच्छजला फलितमाह । तथाच तत्त्वविदृत्ररिपुरिन्द्रस्तद्वडुरितैर्न हीयते तथा जनकवत्सु कृतैश्च न वर्धते किंच स तत्त्वविदहं दुरितं किमर्थमकरवं साधु कर्म च किमर्थ नाकरवीमति तापमपि न प्राम्रोतीत्यर्थः । तथाच श्रुतिः ‘तत्सुकृतदुष्कृते विधुनुत एनं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरवम्’ इत्याद्या ।। ९९ ॥ तत्तस्माद्यद्यपि कामशास्त्रपरिशीलनं 'हे सौम्यानेनैव करणेन वपुषा कृतमपि म च दोषकृत्तथाऽपि शिष्टसरणीपरिपालनार्थमन्यशरीरं प्राप्य यत्नं करोमि ॥ १०० ।। ३७१ इत्येवं भवभयभञ्जनकरीः सत्कथाः कथयन्कथनीयं यशो यस्य स चरणचारिजनै रातेदुष्प्रापमद्रिशृङ्गं प्राप्याथ गिरिशृङ्गप्राप्यनन्तरं स श्रीशंकरो भूयोऽप्युवाच ॥ १ ॥ यदुवाच तदुदाहरति । गुहायाः पुरतः समं तलं यस्याः सा विपुला शिला विभाति तथा तस्या गुहायाः परिसरे प्रान्तभूमौ स्वच्छजला पुनश्च फलानां भारेण नत्रैवृक्षे रम्यं तटं यस्याः सा सरसी विभाति हे विनेया अनुपश्यत ॥ २ ॥ १ ख. सोम्य । २ ख. ग. "हे सोम्या'। ३७२ श्रीमच्छकरदिग्विजय । परिपाल्यतामिह वसद्रिरिदं वपुरममादमनवद्यगुणाः ॥ अहमास्थितस्तदुचितं करणं कलयामि यावदसमेषुकलाम् ॥ ३ ॥ इति शिष्यवर्गमनुशास्य यमि प्रवरो विसृष्टकरणोऽधिगुहम् ।। महिपस्यं वष्र्म गुरुयोगबलोऽ विशदातिवाहिकशरीरयुतः ॥ ४ ॥ अङ्गष्टमारभ्य समीरणं नय न्करन्धमागद्वहिरेत्य योगवित् ॥ करन्धमार्गेण शनेः प्रविष्टवा न्मृतस्य यावचरणाग्रमेकधीः ॥ १०५ ॥ गात्रं गतासोर्वसुधाधिपस्य शनैः समास्पन्दत हृत्प्रदेशे ॥ तथोदमीलन्नयनं क्रमेण तथोदतिष्ठत्स यथा पुरैव ॥ ६ ॥ तथाच यावत्कामकलाज्ञानायोचितं शरीरमास्थितोऽहं विषमेषुकलामनुभवामि ताव दस्यां शिलायां वसद्भिर्हऽनवद्यगुणा इदं च मद्वपुरप्रमादं यथा स्यात्तथा परिपाल्यता मित्यर्थः ।। ३ ।। इत्येवं शिष्यवर्गमनुशास्य गुहायां त्यक्तदेहो गुरुयोगबल आतिवाहिकेन ज्ञाने न्द्रियकर्मेन्द्रियमाणमनोबुद्धिरुपेण लिङ्गशरीरेण युतो यमिनां प्रवरः श्रीशंकरोऽमर काभिघस्य क्षितिपस्य कायमविशत् ॥ ४ ॥ [ गुरुयोगबलः प्रबलयोगसामथ्र्यः ] [ वष्मै ‘शरीरं वष्मै विप्रहः' इत्यमराच्छरीरम् ] ॥ ४ ॥ कथं विसृष्टदेहस्तच्छरीरं प्रविष्टवानित्यपेक्षायां तत्प्रकारं दर्शयति । स्वशरीरस्या ङ्गष्टमारभ्य दशमद्वारपर्यन्तं माणवायु नयन्सञ्शिरोरन्भ्रमार्गाद्वहिरागत्य मृतस्य राज देहस्य चरणाग्रपर्यन्तं करन्ध्रमाण शनैः प्रविष्टवानेवं सत्यप्येकबुद्धिरेव । उपजाति वृत्तम् ॥ १०५॥ [ करन्ध्रमार्गेण ब्रह्मरन्धद्वारा । एकधीधरणयैकाग्रबुद्धिः ] ॥ ५ ॥ ततः किं वृत्तमित्यपेक्षायामाह । मृतकस्य भूमिपतेर्गात्रं हृत्प्रदेशे शनैः समास्पन्दत सम्यक्प्रचलितं तथा इस्तादिचलनक्रमेण नयनमुदमीलत्तथा स राजा यथापूर्वमेवोद् तिष्ठत् ॥ ६ ॥ [ सर्गः ९] १ ग. 'स्य कायमुरु'। २ क. घ. 'देह उरु'। [ सर्गः ९ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । आदौ तदङ्गमुदयन्मुखकान्ति पश्चा ऋासान्तनिर्यदनिलं शनकैः परस्तात् । उन्मीलदङ्कत्रिचलनं तदनूद्यदक्षि व्याकोचमुत्थितमुपात्तबलं क्रमेण ॥ ७ ॥ तं प्राप्तजीवमुपलभ्य पतिं प्रभूत हर्षस्वनाः प्रमुदिताननपङ्कजास्ताः ।। नार्यो विरेजुररुणोदयसंप्रफुछ पभाः ससारसरवा इव वारिजिन्यः ।। ८ ।। हर्ष तासामुदितमतुलं वीक्ष्य वामेक्षणाना मात्तमाणं नृपमपि महामात्यमुख्याः प्रहृष्टाः ॥ दध्मुः शङ्खान्पणवपटहान्दुन्दुभीश्चाभिजघु स्तेषां घोषाः सपदि बधिरीचक्रिरे द्यां भुवं च ।। १०२९ ॥ क्रमेणेत्युक्तं तत्र केन क्रमेणेत्याकाङ्क्षायां क्रमं निरूपयति । आदौ तस्याङ्गं गात्रमुदयन्ती मुखकान्तिर्यस्मिस्तथाभूतं पश्चान्नासान्तनिर्गच्छन्पाणवायुर्यस्मिञ्शनकैः पश्चादुन्मीलचरणयोश्चलनं यस्मिस्ततः पश्चादुद्यन्नेत्रयोव्यकोचः संकोचविनिर्मको यस्मिन्नित्येवंक्रमेणोपात्तबलं सदुत्थितम् । वसन्ततिलका वृत्तम् ।। ७ । [ उद्यदिति । उद्यन्नाविर्भवन्नक्षिव्याकोचो नेत्रविकासो यत्र तत्तथेत्यर्थः ] ।। ७ ।। तं प्राप्तजीवं पतिमुपलभ्य प्रभूतो हर्षयुक्तः शब्दो यासां ममुदितानि मुखकम लानेि यासां ता नाय विरेजुः । तत्र दृष्टान्तः । अरुणोदयेन संप्रफुलानि कमलानि यासु ताः सारसानां शब्देन सहिताः पुष्करिण्य इव ॥ ८ ॥ [ अरुणोदयेति । अरुणोदये सम्यक्प्रफुलानि पद्मानि यासां ताः ] ।। ८ ।। तासां वामेक्षणानामुदितं हर्ष वीक्ष्य नृपतिमप्यात्तप्राणं वीक्ष्य महामात्यपमुख्याः महृष्टाः सन्तः शङ्खान्पूरितवन्तः पणवादीन्वाद्यविशेषांश्चाभिजघुस्तषां शङ्खादीनां शब्दा द्यां भूमिं च बधिरीचक्रिरे । मन्दाक्रान्ता वृत्तम् ॥ १०२९ ॥ [ द्यां द्युलोकम् ।। १०२९ ॥ १ घ. 'द्यन्नक्ष्णोव्य'। २ क. ग. घ. 'निमोको । ३७४ श्रीमच्छंकरिदिग्वजयः। इति श्रीमाधवीपे तत्सार्वज्ञयोपायगोचरः ॥ संक्षेपशंकरजये सर्गेऽयं नवमोऽभवत् ॥ ९ ॥ अथ दशमः सगः ॥ अथ पुरोहितमत्रिपुरः सरै र्नरपति: कृतशान्तिककर्मभिः ॥ विहितमाङ्गलिकः स यथोचितं नगरमास्थितभद्रगजो ययौ ।। १ ।। समधिगम्य पुरं परिसान्त्वित प्रियजनः सचिवैः सह संमतैः ।। नृपतिभिर्दिवमिन्द्र इवाधिराट् ॥ २ ॥ [ इति श्रीति । तदिति । तस्य श्रीमच्छंकरभगवत्पादस्य यत्सार्वज्यं तस्य य उपायः स गोचरो विषयो यस्य स तथेत्यर्थः । अपरं तु प्राग्वदेव ] ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतर्थिश्रीपादशिष्यदत्त वंशावतंसरामकुमारसूनुवनपतिसूरिकृते श्रीशंकराचार्यविजयडि ण्डिमे नवमः सर्गः ॥ ९ ॥ [सर्गः १०] अथ दशमसगस्य टीका । एवं सार्वज्ञोपायं सप्रपञ्चं निरूप्य कामकलातत्त्वं सपरिकरं प्रपञ्चयितुमारभते । अथा नन्तरं कृतशान्तिककर्मभिः पुरोहितादिभिर्यथेोचितं विहितमाङ्गलिक आस्थितो मङ्ग लगजो येन स नरपतिर्नगरं ययौं । द्रुतविलम्बितं वृत्तम् ॥ १ ॥ [ कृतेति । संपा दितपुनर्जीवाविर्भावपयुक्तशान्तिकक्रियाविशेपैरिति यावत् । यद्वा । कृतानि यान शान्तिकर्माणि तैरिति करण एव तृतीया ।विहितेति । कृतमाङ्गलिकाचारः] ।। १ । पुरं समधिगम्य परिसान्त्वितः पियजनो येन नृपतिभिरादृतं शासनं यस्य सोऽ विराट्संमतैः सचिवैः सह दिवमिन्द्र इव भुवमपालयत् ॥ २ ॥ [ अधीति । अविवे सकलकल्याणगुणनिलयत्वेन लोकोत्तरं राजते शोभत इति तथेत्यर्थः ] ॥ २ ॥ १ ग. 'र्वज्ञोपा'। [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । इति नृपत्वमुपेत्य वसुंधरा मवति संयमिभूभृति मत्रिणः ॥ तमधिकृत्य परं कृतसंशया इति जल्पुरनल्पधियो मिथः ॥ ३ ॥ मृतिमुपेत्य यथा पुनरुत्थित प्रकृतिभाग्यवशेन तथा त्वयम् । नरपातः प्रातभात न पृवव त्समुदिताखिलदिव्यगुणोदयः ॥ ४ ॥ वसु ददाति ययातिवदर्थिने वदति गीष्पतिवद्विरमर्थवित् । जयति फाल्गुनवत्प्रतिपार्थिवा न्सकलमप्यवगच्छति शर्ववत् ॥ ५ ॥ अनुसवनविसृत्वरैरपूर्व वैितरणपौरुषशौर्यधैर्यपूर्वेः ॥ अनितरमुलभैर्गुणैर्विभाति क्षितिपतिरेष परः पुमानिवाऽऽद्यः ॥ ६ ॥ ३७५ इत्येवं नृपत्वं प्राप्य यतिराजे श्रीशंकरे भूमिमवति सति तं परमाविकृत्य तास्मि न्परास्मन्ननल्पबुद्धयो मश्रिणः कृतसंशथाः सन्तः परस्परमूचुः ॥ ३ ॥ जल्पनमेवोदाहरति । मृतिमुपेत्य प्रजाभाग्यवशेन यथा पुनरुत्थितस्तथैव पकृति भाग्यवशेनैवायं न पूर्ववत्पतिभाति किंतु समुदितानामारंखलानां दिव्यगुणानामुदयो यस्मिस्तथाभूतः प्रतिभातीत्यर्थः ॥ ४ ॥ [ प्रकृतीति । प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ लिङ्गे पौरवर्गे' इति मेदिनी ] ॥ ४ ॥ गुणानेवोपवर्णयन्ति । अर्थिने ययातिवद्धनं ददाति तथाऽयमर्थविद्वाचस्प तवाद्ररं वदति प्रतिराज्ञोऽर्जुनवजयति सर्वमपि महादेवजानाति ॥ ५ ॥ [ प्रतिपार्थिवान्प्र तिकूलवृपतीन् ] ॥ ५ ॥ अनुसवनं सर्वदा विसरणशीलैरपूर्वेदतृत्वादिभिर्नान्यस्मिन्सुलमैर्गुणैरेष भूमिपति राद्यः परः पुमान्परमात्मेव विभाति । पुष्पिताग्रा वृत्तम् ॥६॥ [वितरणेति । वित रणं दानं पौरुषं पराक्रमः शैौर्य शास्त्रविद्यानैपुण्यपूर्णत्वं धैर्य महासंकटेऽप्यस्खलित विवेकत्वमेतत्पूर्वरेतत्प्रमुखैरिति यावत् ] ॥ ६ ॥ श्रीमच्छकरदिग्विजयः । अऋतुषु तरवः सुपुष्पिताग्रा बहुतरदुग्धदुघाश्च गोमहिष्यः । क्षितिरभिमतवृष्टिराढयसस्या स्वविहितधर्मरताः प्रजाश्च सर्वाः ॥ ७ ॥ कालस्तिष्यः सर्वदोषाकरोऽपि त्रेतामत्येत्यद्य राज्ञः प्रभावात् ।। तस्मादस्मद्राजवष्मं प्रविश्य मासैश्वर्यः शास्ति कश्चिद्धरित्रीम् ॥ ८ ॥ तदयं गुणवारिधिर्यथा प्रतिपद्येत न पूर्वकं वपुः ॥ करवाम तथेति निश्चयं कृतवन्तः सचिवाः परस्परम् ॥ ९ ॥ अथ ते भुवि यस्य कस्यचि द्विगतासोर्वपुरस्ति देहिनः ॥ अविचार्य तदाश्रु दह्यता मिति भृत्यान्रहसि न्ययोजयन् ॥ १० ॥ [ सर्गः १० ] किंच वृक्षा अभन्नृतुषु सुपुष्पिताग्रा गोमहिष्यश्च बहुतरदुग्धदुघाः क्षितिश्चाभिमता वृष्टिर्यस्यां साऽऽदयसस्या प्रजाश्च सर्वाः स्वविहितधर्मरताः ॥ ७ ॥ [अन्वृतुष्विति । यद्यप्यकाले कुसुमोद्रमो हि दुर्निमित्तमेव तथाऽप्यत्रावृतुष्वपि स्वर्तुभिन्नकालेष्वपि सामान्यतः सर्वेऽपि तरवः सुपुष्पिताग्रा एवेति व्याख्येयम् ] || ७ ।। किं बहुनाऽद्य राज्ञः प्रभावात्सर्वदोषाकरोपि कलिकालखेतामतिक्रामति तत उत्कृष्ट भवति । तस्मात्प्राप्रैश्चर्यः कश्चिदस्मद्राज्ञः शरीरं प्रविश्य पृथिवीं शास्ति । शालिन वृत्तम् ॥ ८ ॥ [*विष्यो नक्षत्रभेदे स्यात्कलैो धान्यां च योषिति' इति मेदिनी] ॥ ८ ॥ तत्तस्मादयं गुणसमुद्रो यथा पृर्वं शरीरं न प्रामुयात्तथा करवामेत्येवं साचिवाः पर स्परं निश्चयं कृतवन्तः । वियोगिनी वृत्तम् ॥ ९ ॥ अथैवं निश्चयकरणानन्तरं यस्य कस्यचिन्मृतकस्य देहिनः शरीरं भूमावस्ति तदि चार्याऽऽशु दह्यतामित्येवं भृत्यानेकान्त न्ययोजयन् ॥ १० ॥ [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अथ राज्यधुरं धराधिपः परमासेषु निवेश्य मन्त्रिषु । बुभुजे विषयान्विलासिनी सचिवोऽन्यक्षितिपालदुर्लभान् ॥ ११ ॥ स्फटिकफलके ज्योत्स्नाशु मनोज्ञशिरोगृहे वरयुवतिभिर्दीव्यन्नक्षेदुरोदरकेलिषु ॥ अधरदशन बाह्वावाह महात्पलताडन रतिविनिमयं राजाऽकार्षीद्ग्लहं विजपे मिथः ॥ १२ ॥ अधरजसुधाश्लेषादुच्यं सुगन्धि मुखानिल व्यतिकरवशात्कामं कान्ताकरात्तमतिप्रियम् ॥ मधु मदकरं पायं पापं प्रियाः समपायय त्कनकचषकैरिन्दुच्छायापरिष्कृतमादरात् ॥ १३ ॥ मधुमदकलं मन्दस्विन्ने मनोहरभाषणं निभृतपुलकं सीत्काराढ्यं सरोरुहसौरभम् ॥ दरमुकुलिताक्षीषलुज्जं विस्मृत्वरमन्मथं प्रचरदलकं कान्तावक्त्रं निपीय कृती नृपः ॥ १४ ॥ ३७७ एवं मत्रिणां जल्पनादि निरूप्य राज्ञश्चरितं वर्णयितुमुपक्रमते । अथ राजदेहम वेशाद्यनन्तरं भूमिपः परमाक्षेषु मत्रिषु राज्यभारं निवेश्य विलासिनीसहायोऽन्यभूमि पालानां दुर्लभान्विषयान्बुभुजे ॥ ११ ॥ [ विषयानिष्टशब्दादीन् ] ॥ ११ ॥ ज्योत्स्नावच्छुभे स्फटिकफलके मनोज्ञानि शिरोगृहाण्युपबर्हणानि यस्मिस्तस्मिन्दु रोदरकेलिषु यूतकारक्रीडास्चक्षेदव्यन्सन्राजा मिथो जयेऽधरदशानं बाह्वावाहं भुजेनो द्वइनं महोत्पलेन ताडनं रतिविपर्ययं ग्लहं पणमकार्षीत् । हरिणी वृत्तम् । ‘रसयुगह येन्सै म्रौ स्लैौ गो यदा हरिणी तदा' इति लक्षणात् ॥१२॥ [वरेति । श्रेष्ठसुन्दरी भिरित्यर्थः ] ॥ १२ ॥ अवरजातायाः सुधायाः श्लेषादुच्यं मुखवायोव्यतिकरवशात्संपर्कवशात्सुगन्धि कान्तानां करेभ्यः प्राप्तमत एवातिमियं मद्करमिन्दुच्छायया चन्द्रमतिबिम्बेन परि ष्कृतं मधु मयं कामं यथेष्टमादरात्सुवर्णपात्रैः पीत्वा पीत्वा मियाः समपाययत् ॥१३॥ [ रुच्यं रुचय आास्वाद्यताया अभईम् ] ॥ १३ ॥ मधुमदेन कलमव्यक्ताक्षरं मन्दस्विन्नमीषत्स्वेदयुक्तं मनोहरं भाषणं यस्मिन्निभृतरो १ ख. घ. निसृत'। २ ख. 'राजनिता'। ३ क. ख. ग. 'थेष्टं पी'। ४ ख. घ. 'भिसृत'। ३७८ श्रीमच्छंकरदिग्विजयः । विवृतजघनं संदष्टोष्ठं प्रणुन्नपयोधरं प्रसृतभणितं प्राप्तोत्साहं रणन्मणिमेस्वलम् ॥ निभृतकरणं नृत्यद्भात्रं गतेतरभावनं प्रसृमरसुस्वं प्रादुर्भूतं किमप्यपदं गिराम् ॥ १५ ॥ मनसिजकलातत्वाभिज्ञो मनोज्ञविचेष्टित सकलविषयव्यावृत्ताक्षः सदानुसृतोत्तमः । कृतकुचगुरुपास्त्याऽऽत्यन्तं मुनिर्तृतमानसो निधुवनवरब्रह्मानन्दं निरर्गलमन्वभृत् ॥ १६ ॥ माश्वं सीत्काराढ्यं कमलस्य सौरभवत्सौरभं यस्य विसृत्वरः प्रसरणशालो मन्मथो यत्रै वंविधं कान्तामुखं निपीय नृपः कृतकृत्योऽभूत् ॥ १४॥ [ प्रचलदिति । प्रकर्षण चलन्तश्चञ्चला अलकाः 'अलकाश्धूर्णकुन्तलाः' इत्यमरात्सौगन्ध्याधायकपटवासादिचू णविशेषसंस्कृतकेशा यस्य तत्तथेत्यर्थः । *प्रचरदिति पाठेऽपि रलयोः सावण्यदयमे वार्थः ] ॥ १४ ॥ विवृते आवरणरहिते जघने यस्मिन् । संदष्टोऽवरोष्ठो यस्मिन् । प्रणुत्रैौ प्रकर्षण पीडितौ स्तनौ यस्मिन् । प्रसृतं भणितं रतिकृजितं यस्मिन् ! प्राप्त उत्साहो यस्मिन् । रणन्ती मणिमेखला यस्मिन् । निभृतमासादितं करणं क्रियाभेदः संवेशनं वा यस्मिन्। ‘करणं हेतुकर्मणोः । क्रियाभेदेन्द्रियक्षेत्रकायसंवेशानेषु च' इति मेदिनी । नृत्यन्ति गात्राणि यास्मिन्गतेतरस्य भावना यस्मात्तथाभूतं वाचाम गम्यं किमप्यतिशायितं सुखं प्रादुर्भूतमित्यर्थः ॥ १५ ॥ तत्रापि ब्रह्मानन्दमेवान्वभूदित्याह । मनसिजेति ।

  • श्रद्वा प्रीतो रतिश्चैव धृतिः कीर्तिर्मनोभवा ।

विमला मोदिनी घोरा मदनोत्पादिनी मदा । मोहिनी दीपनी चैव ज्ञेया वशकरी तथा । रञ्जनी चैव मदना कलाः त्र्यङ्गेषु सर्वशः ।

  • आदर्शपुस्तकेषु त्वयमेवोपलभ्यते ।

[ सर्गः १० ] १ क. "क्षिणाङ्गं स'। २ ग. ' णांसं स'। [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । पुरव भोगान्बुभुजे महीभृ त्स भोगिनीभिः सहितोऽप्यरंस्त ॥ कंदर्पशास्त्रानुगत: प्रवीणै र्वात्स्यायने तच निरैक्षताद्धा ॥ १७ ॥ वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च निरीक्ष्य सम्यक् ॥ स्वयं व्यधत्ताभिनवार्थगर्भ निबन्धमेकं नृपवेषधारी ॥ १८ ॥ पादे गुल्फे तथोरौ च भगे नाभौ कुचे हृदि । कक्षे कण्ठे तथैौष्ठ च गण्डे नेत्रे श्रतावपि । ललाटे च शिरोदेशे वसेत्कामस्तिथिक्रमात् । दक्षे पुंसः स्त्रिया वामं शुछ कृष्णे विपर्ययः इत्युक्तप्रकारेण मनसिजस्य कामस्य कलास्चभिज्ञो मनोज्ञ विचेष्टितं यस्य सकल विषयेषु व्यापारयुक्तानीन्द्रियाणि यस्य सदाऽनुसृताः प्रमदोत्तमा येन कृता या कुच लक्षणगुरूपासना तयाऽत्यन्तं मुनिर्तृतमन्तःकरणं यस्य स निरर्गलं निराबाधं निधुवनं मैथुनम् । “मैथुनं निधुवनं रतम्' इत्यमरः । तत्र वरो यो ब्रह्मानन्दस्तमनुभूतवान् । हरण वृत्तम् ॥ १६ ॥ [ सकलेति । विशेषेण तत्तत्कालावच्छदेनाऽऽसमन्ता त्तत्तद्देशावच्छेदेन वृत्तं शास्त्राद्यविरुद्धस्चाभाव्यं येषां तानि तथा सकलविपयेषु संपू र्णविहितेष्टशब्दादिषु व्यावृत्तानि सर्वदेशकालसदृत्तान्यक्षाणीन्द्रियाणि यस्य स तथेत्यर्थः] ॥ १६ ॥ स महीभृत्पुरेव भोगिनीभिः प्रमदाभिः सहितो भोगान्बुभुजे । वात्स्यायने प्रवीणैः सहितश्च कामशास्त्रानुगतोऽरंस्त तच कंदर्पशास्त्रं स्वयं साक्षादृष्टवान् । उपजाति वृत्तम् ॥ १७ ॥ तदृष्टा निबन्धमेकं चकारेत्याह । वात्स्यायनेन प्रेोदितम् । त्रिवर्गप्रतिपत्तिः । विद्यासमुद्देशः । नागरिकं वृत्तम् । नायकसहायदूतीकर्मविमर्शः । प्रमाणकालभावेभ्यो रत्यवस्थापनम् । प्रतिविशेषाः । आलिङ्गनविचाराः । चुम्बनविकल्पाः । नखरदशा नजातयः । दशनच्छेद्यविधयः । देश्या उपचाराः । संवेशनप्रकाराः । चित्ररतानि । प्रहरणनयोगाः । तद्युक्ताश्च सीत्कृतोपक्रमाः । पुरुषायितम् । पुरुषोपसृत्यानि । १ घ. 'स्य सदाऽऽ।

  • *

३७९ ३९८० श्रीमच्छकरदिग्विजयः । पाराशर्यवनिभृति प्रविश्य राज्ञो वणैर्मेवं विहरति तद्विलासिनीभिः ॥ दृष्टा तत्समयमतीतमस्य शिष्या रक्षन्तो वपुरितरेतरं जल्पुः ।। १९ ॥ आचायैरर्वाधिरकारि मासमात्रं सोऽतीतः पुनरपि पञ्चशाश्व घस्राः । अद्यापि स्वकरणमेत्य नः सनाथा न्कर्तु तन्मनसि न जायतेऽनुकम्पा ॥ २० ॥ किं कुर्मः क नु मृगयामहे व यामः को जानन्निह वसतौति नोऽभिदध्यात् । विज्ञातुं कथमिमीश्महे विचिन्त्या प्यासिन्धु क्षितितलमन्यगात्रगृढम् ॥ २१ ॥ [ सर्गः १० ] औपरिष्टकं रतारम्भावसानिकम् । रतविशेषाः । प्रणयकलहः । इत्यादिसमासव्यासा त्मकं सूत्रजातं तदीयं भाष्यं च सम्यड़निरीक्ष्याभिनवार्थगर्भमेकं निबन्धममरकारूय नृपवेषधारी व्यधत्तेत्यर्थः ।। १८ ।। एवं राजदेहमवेशानन्तरं कृतं तदीयं चरितं निरूप्य तच्छिष्यचरितं वर्णयितुमुपक्र मते। पराशरेण प्रोक्तं भिक्षुसूत्रमधीत इति पाराशरी यतिः । ‘पाराशर्यपि मस्करी' इत्य मरः । तेषामवनिभृतेि राज्ञि श्रीशंकरे राज्ञः शरीरं प्रविश्यैवं तद्विलासिनीभिर्विहरति सति तस्याऽऽगमनकालं तत्संकेतं मासमात्रं वा व्यतिक्रान्तं दृष्ट्राऽस्य शिष्याः शारीरं रक्षन्तः परस्परं जल्पुः । प्रहर्षणी वृत्तम् ॥ १९ ॥ तज्जल्पनमुदाहरति । आचार्यमसमात्रमवधिः कृतः सोऽततः पुनरपि पश्च षड़वा दिनानि व्यतीतान्यद्यापि स्वशरीरं प्रविश्यास्मान्सनाथान्कर्तु तस्य मनसि करुणा न जायत ।। २० ।। तस्मात्कं कुर्मः क गच्छामः । ननु काचिद्रत्वा कश्चन प्रष्टव्य इत्याशङ्कयाऽऽहुः । जानन्सन्निह वसतीति नोऽस्मभ्यं कोऽभिदध्यात् । ननु समुद्रपर्यन्तं क्षितितलम न्विष्य स्वयमेवविज्ञेय इति तत्राऽऽछु । असिन्धु भूमितलं विचिन्त्यान्विष्यापीमं गुरुं विज्ञातुं किं समर्था भवामो यतोऽन्यशरीरे गूढम् ॥ २१ ॥ [ सर्गः १० ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । ३८१ गुरुणा करुणानिधिना ह्यधुना यदि नो निहिता विहितास्त्यजिताः ॥ जगति क गतिर्भजतां त्यजतां स्वपदं विपदन्तकरं तदिदम् ॥ २२ ॥ निःशेपेन्द्रियजाड्यत्दृन्नवनवाहूलादं मुहुस्तन्वती नित्याश्लिष्टरजोयतीशाचरणाम्भोजाश्रया श्रेयसी ॥ निष्प्रत्यूहविजूम्भमाणवृजिनस्योद्धासना वासना निःसीमा त्दृदयेन कल्पितपरीरम्भा चिरं भाव्यते ॥ २३ ॥ फलितैरिव सत्त्वपादपै परिणामैरिव योगसंपदाम् ॥ समयैरिव वैदिकश्रियां सशरीरैरिव तत्त्वनिर्णयै ।। २४ ।। ४८ त्संकुटुम्बेरुपशान्तिकान्तया । अतदन्यतयाऽखिलात्मकै रनुगृहेोय कदा नु धामभिः ॥ २५ ॥ तथा करुणानिधिर्गुरुरपि यदि संनिधिं न विधास्यति तर्हस्माकं कापि गतिर्नास्ती त्याशयेनाऽऽहुः । करुणानिधिना गुरुणाऽपि यदि त्यक्ता वयमधुना संनिहिता न विहैि तास्तर्हि विपदन्तकरं तत्स्वपदं भजतां पुनश्चेदं सवै त्यजतां जगति क गतिर्भ कापीत्यर्थः । ‘इह तोटकमम्बुधिसैः प्रथितम्’ ॥२२॥ [ स्वपदं ब्रह्मात्मैक्यलक्षणमद्वत स्थानम् ] ॥ २२ ॥ नन्वेवंभूतगुरुविरहवतां भवतां कथं जीवनमिति तत्राऽऽहु । सर्वेन्द्रियजाड्य हृद्यो नवैननवैनाङ्लादस्तं मुहुर्वितन्वती पुनश्च नित्यमश्लिष्टमस्पृष्टं रजो याभ्यां ते रजोगुणलक्षणपांसुविनिर्मुक्तयतीशस्य चरणकमले अभाश्रयो यस्या अत एव श्रेयस्यति श्रेष्ठा पुनश्च निष्प्रत्यूहं निर्वित्रं यथा स्यात्तथा विजूम्भमाणस्य वृजिनस्योद्वासना विनाशिका निरवधिरूपा वासना सा दृदयेन कल्पितालिङ्गना चिरं भाव्यते । तथाच गुरुचरणवासनाभावनमेव जीवनसाधनमिति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ २३ ॥ [ वासना भावनाख्यविजातीयपत्ययरहितसजातीयप्रत्ययसंततिरिति यावत् ] ॥२३॥ तत्रै कश्चिदौत्सुक्यमाविष्कुर्वन्नाह । सत्त्वपादपैव्र्यवसायरुपवृझैः फलितैरिव योगसं १ घ. 'त्सकलत्रैरु'। २ ख. घ* "वानो न'। ३ ख. ध. 'वीन अ , हून्या'। ४ क. ख. ग. 'त्र श्रीमच्छकरदिग्विजयः । अविनयं विनयन्नसतां सता मतिरयं तिरयन्भवपावकम् ।। जयति यो यतियोगभृतां वरो जगति मे गतिमेष विधास्यति ॥ २६ ॥ विगतमोहतमोहतिमाप्ययं विधुतमायतमा यतयोऽभवन् । अमृतदस्य तदस्य दृशः स्मृता ववतरेम तरेम शुगर्णवम् ॥ २७ ॥ शुभाशुभविभाजकस्फुरणदृष्टिमुष्टिंधय क्षपान्धमतपान्थदुष्कथकदम्भकुक्षिभरिः ।। कदा भवसि मे पुनः पुनरनाद्यविद्यातम मृद्य गलितद्वयं पदमुदञ्चयन्नद्वयम् ।। २८ ॥ [ सर्गः १० ] पदां परिणामैरिव वैदिकश्रियां समयैर्भसैरिव 'समयः शपथे भाससंपदोः' इति विश्वम काशा:। तत्त्वनिर्णयैः शरीरवद्भिरिव निजलाभवैभवात्सधनैरिवोपशान्तिलक्षणया कान्तया कलत्रसहितैरिव तेभ्योऽन्यस्याभावतया सकलात्मकैस्तेजोभिः कदान्वनुगृह्ययानुगृहीतो भविष्यामीति द्वयोरर्थ । वियोगिनी वृत्तम् ॥ २४ || २५ ॥ [ सत्त्वं सत्त्वगुणस्तल क्षणा ये पादमाः कल्पद्रुमास्तैः फलितैरिव स्थितैरित्यर्थः ] ॥ २४ ॥ २५ ॥ तत्र कश्चिदतीव दुःखित आचार्य एव मम गतिं विधास्यतीत्याह । असताम विनयं विनयन्दूरीकुर्वन्सतामातवेगवन्तं संसारान्नेि तिरयन्नपगतं करिष्यन्यो यति योगभृतां वरो जगति जयत्येष मम गति विधास्यति । दुतविलम्बितं वृत्तम् ॥ २६ ॥ [ यतीति । यतीन्द्रयोगीन्द्राणां मध्य इत्यर्थः ] ।। २६ ।। केचित्तु तद्दर्शनेनैव शोकसागरस्य तरणं मत्वाऽऽहुः । यं विगता मोहलक्ष णतमसां संहतिर्थस्मान्निरावरणतत्त्वज्ञानवन्तं प्राप्य यतयो विधुतमायतमा अतिशयेन विधुता कम्पिता माया यैस्तथाभूता अभवंस्तस्यास्यामृतैपदस्य चक्षुषो मार्गे यदाऽ वतरेम तदा शोकसमुद्र तरेम ॥ २७ ॥ [ अमृतदस्य कैवल्यप्रदस्यास्य श्रीभाष्य कारस्य ] ॥ २७ ॥ सकलानर्थनिवर्तकमद्वयानन्दप्रापकं तदीयमुपदेशं स्मरन्कश्चिदाह । पुनः पुनऽ नाद्यविद्यातमो विमृद्य गलितद्वतमद्वयं पदमुदश्चयन्प्रकाशयन्पुण्यापुण्यविभाजकस्फु रणदृष्टर्मुष्टिधयः साराकर्षको राञ्यन्धकारात्मकषु मतषु पान्थानां मध्ये ये दुष्कथ १ क. प्रमृज्य । २ क. ख. घ. 'हीता भूयास्मेति । ३ ख. 'तद। ४ क. विमृज्य । [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मत्र्यानां निजपादपङ्कजनुषामाचार्य वाचा यया रुन्धानो मतिकल्मषं त्वमिह किंकुर्वाणनिर्वाणया ।। द्राङ्नाऽऽयास्यसि चेत्सुधीकृतपरीहासस्य दासस्य ते दुःखान्तो न भवेदितीङय स पुनर्जानीहि मीनीहि मा ॥ २९ ॥ इति खेदमुपेयुषि मित्रजने प्रतिपन्नयतिक्षितिभृन्महिमा । निजगाद सरोरुहपाद इदम् ॥ ३० ॥ पर्याप्त नः लवयमुपत्यात्र सस्वाय कृत्वोत्साहं भूमिमशेषामपिधानात् ॥ यद्वद्देवं देवमनुष्यादिषु गृढम् ।। ३१ ।। ३८३ः कास्तेषां दम्भस्य कुभिरिर्भक्षकः कदा भवसि । पृथ्वी वृत्तम् ॥ २८ । [ क्षपेति । क्षपान्धसदृशान्य प्रकाशशालित्वाद्रात्र्यन्धसमानि यानि भेदवादिमतानि तत्र ये पान्थदुष्कथकाः पान्थवन्मुमुक्षु प्रति दुर्मार्गप्रदर्शकाः सकलभेदवादिनस्तेषां ये दम्भा स्तेषां कुक्षिभरिर्भक्षक इत्यर्थः ] ।। २८ ।। कश्चित्त्वतिविह्वलः पन्नवश्यं दर्शनं देहत्याशयेनाऽऽह । हे अभाचर्येह जीवद्द ३शायामेव किंकुर्वाणं किंकरतां प्राप्त निर्वाणं यस्यास्तया यया वाचा निजपादपद्मजुषां मत्यनां बुद्विकल्मषं समूलं रुन्वानस्त्वं शीघ्र नाऽऽयास्यासि चेतहिं सुबुद्धिभिः कृतः परिहासो यस्य तस्य ते दासस्य मे दुःखान्तो न भवेदिति हे स्तुत्य स पुनस्त्वं जानीहि मां मा मनीहि न घातय । शार्दूलविक्रीडितं वृत्तम् ॥ २९ ॥ इत्येवं मित्रजने खेदमुपेयुषि सति परिज्ञातो यतिराजस्य स्वगुरोर्महिमा येन स पद्मपादोऽर्थवता वचनेन शोकं शमयन्निदं वक्ष्यमाणमुवाच । तोटकं वृत्तम् ॥ ३० ॥ यदुवाच तदाह । नोऽस्माकं व्यं पर्याप्तमतो हे सखाय उपेत्य मिलित्वोत्साहं कृत्वा सर्वा भूमिमभिधानातिरोधानादन्वेष्यामोऽथानन्तरं भूववरराiण पातालानि तदनन्तरं दिवं देवमनुष्योरगादिगृढं महादेवमिव । ‘वेदै रम्त यमगा मत्तम यूरम्' ॥ ३१ ॥ [ कैब्यं दैन्यम् । उपेत्य प्राप्य । नोऽस्माकम् । पर्याप्तमलं दैन्य भितः परं नैव कर्तव्यमित्यर्थः ] ।। ३१ ॥ १ क. "नादेवान्वे'। ३८४ श्रीमच्छंकरदिग्विजयः । अनिर्विण्णवेताः समास्थाय यत्नं मुदुष्प्रापमप्यर्थमाप्रोत्यवश्यम् । मुहुर्विन्नजालैः सुरा हन्यमानाः मुधामप्यवापुर्हनिर्विण्णचित्ताः ॥ ३२ ।। दुरन्वेषणः स्यादुरुर्नस्तथाऽपि । स्वभानूदरस्थः शशीव प्रकाशै स्तदीयैर्गुणैरेव वेत्तुं स शक्यः ।॥ ३३ ॥ इक्षुचापागमापेक्षया निर्गतो वष्र्म तस्योचितं कृष्णवत्र्मद्युतिः ।। वित्रमाणां पदं सुभुवां भूपते प्रासुमर्हत्यकामाग्रणीः संयमी ॥ ३४ ॥ [ सर्गः १० ] एवमुक्तेऽपि दुःसाध्यमालोच्योत्साहमकुर्वत आलक्ष्याऽऽह । अनिर्विण्णं निर्वेद रहितं चित्तं यस्य स यत्नं सम्यगास्थाय सुदुष्पापमप्यर्थमवश्यं प्राप्रोति हि यस्मा न्मुहुर्विन्नजालैर्हन्यमाना अपि सुरा अनिर्विण्णचित्ता अतिदुर्लभामपि सुधां प्रापुः हियस्मादनिर्विण्णचित्ता अत एवंभूता अपि देवाः सुधामप्यवापुरितिवा । 'भुजंगमः यातं भवेधैश्चतुर्भि:' ।। ३२ ॥ यद्यप्यन्यगात्रप्रतिच्छन्न रूपत्वान्नोऽस्माकं गुरुदुरन्वेषणः स्यात्तथाऽपि यथा राहूद रस्थोऽपि चन्द्रः स्वीयैः प्रकाशैर्विज्ञातुं शक्यस्तद्वत्तदीयैर्गुणैरेव स गुरुर्वेत्तुं शक्य ॥ ३३ || [ स्वभान्विति । सुतरां न विद्यन्ते भानवः किरणा अस्थति स्वभानु सर्वथा तमोरुरूपत्वेन पकाशार्हानो राहुस्तस्योदरमिव यदुदरं मुखं तत्र तिष्टता तथा ] ॥ ३३ ॥ ननु तथाऽपि छ गतो यत्रान्वेप्य इति चेत्तत्राऽऽहै । कृष्णवत्र्मनो वङ्गेर्युि रिव द्युतिर्थस्य स इक्षुधन्वन: कामस्याऽऽगमापेक्षया यतिशरीरान्निर्गतः सुश्रु विभ्रमाणां पदं कामशास्त्रस्योविंतं राज्ञः शरीरं पासुमर्हति । कामागमापेक्षयैव ग न तु तजन्यसुखेच्छयेति बोधयितुमाह । कामविनिर्मुक्तानामग्रणीः । ' रैश्चतुर्वि स्रग्विणी संमता' ॥ ३४ ॥ १ क. ग. घ. 'टुति । वि'। २ क ग. घ. 'ह । इ'। ३ ग. 'तं वित्रभानुकान्ति रा'। [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ नित्यतृप्ताग्रयाय्याश्रिते निर्तृता प्राणिनो रोगशोकादिना नेक्षिताः ।। दस्युपीडोज्झिताः स्वस्वधर्मे रताः कालवर्षी स्वराण्मेदिनी कामसूः ॥ ३५ ॥ तदिहाऽऽलस्यमपास्य विचेतुं निरवधिसंसृतिजलधेः सेतुम् ।। देशिकवरपदकमलं यामो न वृथाऽन्नंहस्समत्र नयामः ।। ३६ ॥ इति जलरुहपदवचनं सर्वे मनसि निधाय निराकृतगवें ॥ कांश्चित्तत्र निवेश्य शरीरं रक्षितुमन्ये निरगुरुदारम् ॥ ३७ ॥ ते चिन्वन्तः शैलाच्छैलं विषयाद्विषयं भुवमनुवेलम् ॥ प्रापुर्धिकृतविबुधनिवेशा न्स्फीतानमरकनृपतेर्देशान् ।। ३८ ।। ३८५ नन्वेवमपि राज्ञां बहुत्वात्कथमस्य देशस्य राज्ञः शरीरे प्रविष्ट इति विज्ञेयमिति चेत्तत्राऽऽह । नित्यतृप्ताग्रगामिनाऽस्मदुरुणाऽऽश्रिते देशे पाणिन आनन्दिता यतो रोगशोकादिना नावेक्षिता यतश्चोरपीडाविनिर्मुक्ताः स्वस्वधर्मे रताश्च स्युः स्वराडिन्द्रः कालवर्षी स्यादूमिश्च कामसूः स्यात् ।॥३५॥ [कामेति । वाञ्छितफलप्रदा] ॥३५॥ तत्तस्मादस्मिन्काल आलस्यं विहायानाद्यनन्तसंसारसमुद्रस्य सेतुं देशिकवरचर णारविन्दं विचेतुं गच्छामोऽस्मिन्देशे वृथा कालं न नयाम: । ‘मात्रासमकं नवमो ल्गन्तम्’ ॥ ३६ ॥ इत्येवं पद्मपादस्य वचनं निराकृतगर्वे मनास सर्वे निधाय कांश्चिदुदारं गुरुशारीरं रक्षितुं तस्मिन्स्थाने निवेश्यान्ये निर्गताः ॥ ३७ ॥ ते पर्वतात्पर्वतं देशाद्देशं भूमिनिशं चिन्वन्तो विकृता देवानां निवेशा यैस्तान्स्फी तानमरकदृपतेर्देशान्प्रापुः प्राप्तवन्तः ॥ २८ ॥ ३८६ श्रीमच्छंकरदिग्विजयः । मृत्वा पुनरप्युत्थितमेनं श्रुत्वा वैन्यदिलीपसमानम् । त्यक्त्वा विरहजदैन्यममन्दं मत्वाऽऽचार्य धैर्यमविन्दन् ॥ ३९ ॥ ते च ज्ञात्वा गानविलोलं तरुणसिक्त धरणीपालम् ॥ विविशुः स्वीकृतगायकवेषा नगरं विदितसमस्तविशेषाः ॥ ४० ॥ राज्ञे ज्ञापितविद्यातिशया स्तेतत्संग्रहविधृतातिशया: ॥ रमणीशतमध्यगमवनीन्द्रं ददृशुस्तारावृतमिव चन्द्रम् ॥ ४१ ॥ रञ्जितमनोहरपश्चाद्रागम् ॥ गीतिगतज्ञोद्रीतश्रुतिसुस्व तानसमुलुसदग्रिमदेशम् ।। ४२ ।। [ सः १० ] मृत्वा पुनरप्युत्थितममरकसंज्ञ नृपं पृथुदिलीपतुल्यं श्रुत्वाऽऽचार्ये मत्वाऽमन्दं विरहजन्यं दैन्यं हित्वा वैर्ये पापुः ॥ ३९ ॥ ते च तरुणीषु सत्तं गानविलोलं भूपालं ज्ञात्वा स्वीकृतगायकवेषा नगरं विविशु र्यतो विदितसमस्तविशेषाः ॥ ४० ॥ राज्ञे ज्ञापितगानविद्यातिशयाः यतस्तस्य राज्ञः संग्रहणाय विधृतोऽतिशयो यैस्ते तारावृतं चन्द्रमिव तरुणीमध्यगतं भूमीन्द्र ददृशुः ॥ ४१ ॥ भूमीन्द्रं विशिनष्टि । वरचामरकराणां तरुणानां कङ्कणै रञ्जितो मनोहरः पश्चा द्भागो यस्य तं पुनश्च गीतिगतिशैरुद्रीतेन श्रवणसुखेन तानेन समुलसन्नमिदेशो यस्य तम् ॥ ४२ ॥ [ वरमुन्नतं यचामरं तद्विशिष्टाः करा हस्ता यासामेतादृशा यास्तरुण्यस्तासां यानि कङ्कणरवणानि रत्नवलयसिञ्जितानि तैर्मनोहरः सुन्दर पश्चाद्भागो यस्य स तथा ] [ गीतीति । गीतिगतिशैः संगीतशास्त्रशैर्यदुत्कर्षेण गीत मत एव श्रुतिसुखं कर्णानन्दजनकं यत्तानमेकतानीभूतनिषादादिसप्तस्वरगतमन्द्रगम्भी

  • एतेन मूले कङ्कणराजितेत्यत्र कङ्कणरवणेति पाठो ज्ञायते । अयमेव च च्छन्दोनुरोधेन समी

नितरच इति भाति । [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । धृतचामीकरदण्डसितातप वारणरञ्जितरलकिरीटम् ।। श्रितविग्रहमिव रतिपतिमाश्रित भुवमिव सान्तःपुरममरेशम् ॥ ४३ ॥ रुचिरवेषाः समासाद्य तां संसदं नयनसंज्ञावितीर्णासना भूभुजा ॥ समतिसृष्टास्तत मुस्वरं मूर्छनापदविदस्ते जगुमेहयन्तः सभाम् ॥ ४४ ॥ रतारारूयात्रविधभेदभित्रैकविंशत्यन्यतममूर्छनाविशेषजातं तेन समुलसन्नग्रिमदेशो यस्य तमित्यर्थः ] ॥ ४२ ॥ पुनश्च धृतश्चामीकरो हिरण्मयो दण्डो यस्य तथाभूतेन सितेनाऽऽतपवारणेन च्छत्रेण रञ्जितं रत्नकिरीटं यस्य तं स्वीकृतविग्रहं रातिपतिमनङ्गमिव । यद्वा । श्रित भूमिमन्तःपुरसहितं देवेशं पुरंदरमिव ॥ ४३ ॥ ज्ञया दत्तासना राज्ञा सम्यगाज्ञप्ता मूर्छनापदविदस्ते सभां मोहयन्तः सुस्वरं जगुः । मृछन्नालक्षण तु ।

  • क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् ।

सा मृर्छत्युच्यते ग्रामस्था एताः सप्त सप्त च' इति । 'श्रुतिभ्यः स्युः स्वराः षड्जर्षभगान्धारमध्यमाः । पञ्चमो धैवतश्याथ निषाद् इति सप्त ते' इत्युक्ताः सप्त । सामान्यतः स्वरस्वरुप तु 'श्रुत्यनन्तरभावी यः निग्धोऽनुरणनात्मकः । स्वतो रञ्जयति श्रोतुश्चित्तं स स्वर उच्यते' इति । श्रुतिर्नाम स्वरारम्भकावयवविशेषस्तदुक्तम् । ‘प्रथमश्रवणाच्छद्वः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा' । इति ३८७ १ ख. "प्तम इ'। ३८८ भृङ्ग तव संगतिमपास्य गिरिशृङ्गे तुङ्गविटपिनि संगमजुषि त्वदङ्गे । स्वाङ्गरचिताः सकलुषान्तरङ्गा संगमकृते भङ्गमुपयन्ति भृङ्गाः ॥ ४५ ॥ श्रीमच्छंकरदिग्विजयः । अथ मामलक्षणम् यथा कुटम्बिनः सर्वेऽप्येकीभूता भवन्ति हि । तथा स्वराणां संदोहो ग्राम इत्यभिधीयते । षडुग्रामो भवेदादौ मध्यमग्राम एव च । गान्धारग्राम इत्येतद्भामत्रयमुदाहृतम् । मन्दाचरोऽथ जीमूतः समुद्रो ग्रामकास्त्रयः । षडु मध्यमगान्धारास्त्रयाणां जन्महेतव वं:’ इति । [ सर्गः १० ] तथाचैवंभूतग्रामत्रयेऽपि प्रत्येकं सप्त सप्त च मूर्छना इत्येकविंशतिमूछना भवन्ति । तथाभूतमूर्छनापदविदस्ते सुस्वरं जगुरित्यर्थः । यत्र च्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः मात्कम् ॥ ४४ ॥ गानव्याजेन स्वगुरुप्रतिबोधनं कृतवतां तद्रानमुदाहरतेि । हे भृङ्ग श्रुतिसूत्रादिल क्षणकुसुममकरन्दास्वादनशील तव संगतिं संगममपास्य विहायोचवृक्षवति गिरिशृङ्गे संगमजुषि त्वदङ्गे तव शरीरे सति त्वच्छरीरस्य रक्षणाय रचिताः सकलुषं दुःखयु क्तमन्तरङ्गमन्तःकरणं येषां ते भृङ्गाः शिष्यास्तव संगमाथै भङ्गमुपैयन्ति भेदं प्रामुव न्तीत्यर्थः । ‘इन्दुवदना भजनैः सगुरुयुग्मैः’ ॥ ४५ ॥ [ अथ ते पद्मपादादयः संगीतच्छझना तादृगवस्थं श्रीमद्भगवत्पादं प्रति श्रीमद्भिरिन्दुवदनावलम्बनेन च्छन्दः सदृशस्य सरस्वत्यादीन्प्राति मासमात्रोत्तरं प्रत्युत्तरं प्रदास्यामीत्यादि प्रतिज्ञाघटित स्ववाक्यस्य भङ्ग एव संपादित इति द्योतयितुम् ‘इन्दुवदना भजसनै: स गुरुयुग्मै:’ इति डिण्डिमोदाहृतेन्दुवदनावृत्तेन प्रथमपादे समुपक्रम्याग्रे यच्छन्दो नोक्तमत्र गाथेति तत्सू रिभिः प्रोक्तमिति तदुदाहृतगाथालक्षणैकादशगीतानुकूलगधैः स्वगुरुमपि नृपशरीराव च्छिन्नत्वात्यबोधार्हतया प्रबोधमिव चक्रारीति सृचयंस्तद्रीतान्युदाहरति । भृङ्गेत्या दिना ] ॥ ४५ ॥ १ क. 'पयान्ति । २ क. "म् । नन्दावतोंऽथ । ३ क. सुभद्रो । ४ क. 'तिमूर्छ'। ५ कः [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । पञ्चशरसमयसंचयकृते प्राश्वं मुञ्चन्निवेह संचरसि प्रपञ्चम् ॥ च गतिरिति किंच किल वञ्चितोऽसौ ।। ४६ ॥ पर्वशशिमुख सर्वमपहाय पूर्व कुर्वदिह गर्वमनुसृत्य हृदपूर्व ॥ न स्मरसि वस्त्वस्मदीयमिति कस्मात्सस्मर तदस्मर परमस्मदुत्तया ॥ ४७ ॥ पञ्चशरस्य कामस्य यः समयः कलादिरूपः संकेतः सिद्धान्तो वा तस्य संचयार्थ माश्वं शिवगुरूद्भवं प्रपञ्चं शरीरं मुञ्चन्निवेहास्मित्राजशरीरे स्थाने वा संचरसि तथाच हे पञ्चजनेषु मनुजेषु मुख श्रेष्ठ । यद्वा।'यस्मिन्पञ्चपंचजना आकाशश्च प्रतिष्ठितस्तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्' इति श्रुत्युक्तानां सांख्यरीत्या । 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः पप्त । ३६८९ इति पञ्चविंशतितत्वानां मुख शुद्धात्मन् । पञ्चजनपदस्य पञ्चपश्चजनपरत्वाश्रय णातू । सिद्धान्तरीत्या वाक्यशेषस्थानां माणचक्षुःश्रोत्रान्नमनसां पञ्चजनानां मुखाधि ष्ठानेत्यर्थः । पञ्चाननमप्यगच्छञ्शिवं स्वस्वरूपमप्यनामुवन्गतिश्चासैौ त्वमिति हेतो कुतः खलु वञ्चितोऽसि । गाथा ॥ ४६॥ [ असँौ निरुक्तप्राक्तनशरीरावच्छेदेन शरणागतः शिष्यसंघः । त्वं किल गतिस्त्वमेव शरणागतास्मदादिजनानां मुक्तिरिति हेतोः । पश्वमुखमपि काशीमरणावच्छेदेन ब्रह्माद्वैतात्मैक्यसाक्षात्कारोत्पादनद्वारा कैवल्यप्रदं शिवमपीत्यर्थः । अनञ्चन्नपूजयन्सन्वश्चितः । चाऽवधारणे । किमाक्षेपे । उभयभ्रष्टत्वान्नष्ट एव किमिति योजना ] ॥ ४६ ॥ किंच हे शरत्पूर्णमासीचन्द्रमुख पूर्वे सर्वे शांन्तिदान्त्यादिकमपहायेह गर्वं कुर्वन्मा नसमनुसृत्यास्मदीयं वस्त्विति कस्मान्न स्मरसि तत्तस्माद्धे अस्मराकामास्मदुक्त्या परं स्वस्वरूपं संस्मर तत्परमिति वा ॥ ४७ ॥ [ ग तादात्म्याभिमानं कुर्वत्संपादयत् । एतादृशामपूर्वमभिनवं हृदन्तःकरणम् ] ॥ ४७ ॥ १ क. "ताऽसि । २६ प'। श्रीमच्छकरदिग्विजपः । नेतिनेत्यादिनिगमवचनेन निपुणं निषिध्य मूतमूर्तराशिम् ॥ यदशक्यनिह्नवं स्वात्मरूपतया जानन्ति कोविदास्तत्वमसि तत्त्वम् ॥ ४८ ॥ खाद्यमुत्पाद्य विश्वमनुप्रविश्य गूढमन्नमयादिकोशानुषजालो । कवयो विविच्य युक्तयवघाततो यत्तण्डुलवदाद्दति तत्त्वमसि तत्त्वम् ।। ४९ ॥ अस्मदुक्त्या परं स्मरेत्युक्त्वा । ‘अथात आदेशो नेति नेोति। अस्थूलमनण्वहस्चम वाघमनन्तरमबाह्यमपूवमनपरम' । अशाब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवश्च यत् । अन्नाघनन्त महत: पर ध्रुव [ सर्गः १० ] इत्यादिश्रुतिभिस्तं स्मारयन्ति । नेतिनेत्यादिनिगमवचनेन मृतमूर्नराशि पम्यडू निषिध्य सर्वाविष्ठानत्वान्निरवधिबावायोगात्प्रातिषेदुः स्वरूपत्वेन प्रतिषधसाक्षितयाऽ वस्थितत्वात्सत्यस्यापि सत्यमम्तीत्येवेपलब्वव्य । ‘अ पन्नेव स भवति' | 'असपद्रहोति वेद चेत्' इति श्रुतेश्च निषेदुमशक्यं यत् ‘अहं ब्रह्मास्मि’ इति स्वात्मरूपतया विद्वांसो जानन्ति तत्तत्वं परमार्थवस्तु त्वमसि ॥ ४८ ॥ तथा पश्वकोशविवेकेन कवयो यदात्मत्वेन प्रतिपद्यन्ते तत्तत्वं त्वमसीति स्मार यन्ति । आकाशादिकं विश्धमुत्पाद्यानुप्रविश्यान्नमयमाणमयमनोमयविज्ञानमयानन्दमय कोशलक्षणे तुषजाले गूढं युक्तिलक्षणावातेन कवयो विविच्य तण्डुलवद्यदाददति तत्तत्त्वं त्वमसि । तथाच श्रुतिः । “तस्माद्वा एतस्मादात्मन आकाशाः संभूतः । आका शाद्वायुः । वायोराग्रः । अग्रेरापः । अद्भयः पृथिवी । पृथिव्या ओषधयः । ओषधी भ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः'।'तस्माद्वा एतस्मादन्नरस मयात् । अन्योन्तर आत्मा प्राणमयः' । “तस्माद्वा एतस्मात्प्राणमयात् । अन्योऽ न्तर आत्मा मनोमयः'। “तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञान मयः'। “तस्माद्वा एतस्माद्विज्ञानमयादन्योन्तर आत्माऽऽनन्दमयः'। “सोऽकामयत बहु स्यां प्रजायेति'। “स तपोऽतप्यत । स तपस्तप्त्वा। इद : सर्वेभसृजत। यदि किं च । तत्सृष्टा तदेवानुपाविशत् । तदनुपविश्य । सच त्यचाभवत्' इत्याद्या । युक्तिस्ता वमितो देह आत्मा न भवति कार्थत्वाद्वटवत् । ननु विपक्षे बाधकाभावादप्रयोज [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । विषमविषयेषु संचारिणोऽक्षा चान्दोषदर्शनकशाभिघाततः ॥ स्वैरं संन्निवत्र्य स्वान्तरश्मिभिधरा बभ्रन्ति यत्र तत्त्वमसि तत्त्वम् ।। ५० ।। ३९१ कोऽयं हेतुरिति चेन्न । अकृताभ्यागमकृतविपणाशारूयबावकसद्भावात् । तथा विवादा स्पदः प्राण आत्मा न भवति जडत्वाद्धटवन् । तथा मनोमय आत्मा न भवाति विका रत्वाद्देहवत् । तथा विज्ञानमय आत्मा न भवति विलयाद्यवस्थावत्वाद्वटादिवत् । तथाऽऽनन्दमयोऽप्यात्मा न भवति कादाचित्कत्वादभ्रवत् । तस्मादानन्द एवाऽऽत्मा भवितुमर्हति नित्यत्वात् । य आत्मा न भवति नासौ निन्यो यथा देहादिः । ‘आत्मन आकाशः संभृत:’ इत्यादिश्रुत्याऽऽकाशादेरनित्यत्वावगमान्नानैकान्तिकतेति । नन्वाङ् पृर्वादनास्यविहरणे वर्तमानाद्ददातरात्मनेपदं स्यादित्यर्थकौतू ‘आडो दोऽनास्यविहरणे इति सूत्रादाददत इति भवितव्यमिति चेन्न । भिक्षामाददातीति पयोगवदत्र डिद्विाश घटस्याऽऽकारस्याग्रहणेनाऽऽददतीति पयोगस्य साधुत्वात् । सूत्रे डिद्विशिष्टाकार ग्रहणस्याडिद्विशिष्टादाकारानुत्तरस्य ददातेरात्मनेपदाभावज्ञापनार्थत्वात् || ४९ ॥ [अन्नेति । अत्र तुषपदेन पञ्चानामपि कोशानां तुच्छत्वं ध्वन्यते ] ॥ ४९ ॥ सर्वेन्द्रियालम्बनं तत्त्वं त्वमेवेति स्मारयन्ति । यथा विषमदेशेषु स्वैरं संचारिणोऽ धान्कशाभिघातेन राश्मिभिः सम्यङ्निवत्र्य शहूँ बन्नन्ति तथा विषमेषु विषयलक्षणेषु देशेषु स्वैरं संचारिण इन्द्रियलक्षणान्हयान्दोषदर्शनलक्षणकशाभिघातेन मनोवृत्तिलक्ष णरश्मिभिर्यस्मिन्परमात्मतत्त्वे धीमन्तो बन्नन्ति तत्तत्वं त्वमसि । तथाच श्रुतिः । आत्मानं रथिनं विद्धि शारीरं रथमेव तु । बुद्धिं तु सारार्थे विद्धि मनः पग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । यस्तु विज्ञानवान्भवति युतेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः' इति ॥ ५० ॥ [ पीरा धियमीरयन्ति सद्मद्विचारे प्रेरयन्तीति तथा विवेकेन धैर्यवन्तः पुरुषा इत्यर्थः] ॥ ५० ॥ श्रीमच्छंकरदिग्विजयः । व्यावृत्तजाग्रदादिष्वनस्यूतं तेभ्योऽन्यदिव पुष्पेभ्य इव सूत्रम् ॥ इति यदौपाधिकत्रयपृथक्त्वेन विदन्ति सूरयस्तत्वमसि तत्त्वम् ॥ ५१ ॥ पुरुष एवेदमित्यादिवेदेषु सावात्म्य हाटकस्यव मुकुटादतादात्म्य सरसमात्रायते तत्त्वमसि तत्त्वम् ॥ ५२ ॥ यश्चाहमत्र वष्र्मणि भामि सोऽसौ योऽसौ विभाति रविमण्डले सोहमिति ॥ वेदवादिनो व्यतिहारतो यदध्यापयन्ति पत्नतस्तत्त्वमसि तत्त्वम् ॥ ५३ ॥ अथ जाग्रत्स्वप्रसुषुप्त्युपाधिविलक्षणं तत्त्वं त्वमसीति स्मारयन्ति । अभात्मा जाग्र दाद्युपाधिभ्योऽन्यो व्यावर्तमानेषु तेष्वनुस्यूतत्वात्पुष्पेभ्यः सूत्रमिवत्येवमुपाधित्रयपृथ क्त्वेन यत्सूर्यो जानान्ति तत्तत्त्वं त्वमसि । स्पष्टं चेदं जनकयाज्ञवल्क्यादिसंवादेन श्रुत्या प्रतिपादितम् ॥ ५१ ॥ [ सूरयः शुकादयो विद्वांसः । व्यावृत्तेति । परस्पर भिन्नजाग्रदाद्यवस्थास्वित्यर्थः ] ॥ ५१ ॥ किश्च 'पुरुष एवेदं सर्वे यदूतं यञ्च भव्यम्’ ‘सर्वं खल्विदं ब्रह्म तजलान्’ ‘सदे सौम्येदम्’ ‘एकमेवाद्वितीयम्’ ‘ऐतदात्म्यमिदं सर्वम्’ ‘यथाँ सौम्यैकेन लोहमणिन सर्वे लोहमयं विज्ञातं स्याद्वाचाऽऽरम्भणं विकारो नामधेयं लोहमित्येव सत्यम्’ इत्या दिवेदेषु सर्वकारणतया सुवर्णस्य यथा कटकमुकुटादितादात्म्यं तथा यस्य सार्वात्म् [ सर्गः १०]

  • ख. ए. घ. 'सि । ५१ । किं"। २ ख. ग. "व सोम्ये '।

कुटकादि। 'उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्तिश्च लिङ्गान्येतानि षट्क्रमात्' इत्युक्तषाड़वतात्पर्यलिडै: स्वारस्येनोपदिश्यते तत्तत्वं त्वमासि ॥ ५२ ॥ किंच यश्चाहमस्मिञ्शरीरे विभामि सोऽसौ रविमण्डलस्थोऽस्ति योऽसौ रविमण्ड विभाति सोऽहमस्मीत्येवं व्यतिहारेण वेदवादिनः प्रयत्नतो यत्तत्वमध्यापयन्ति तत्तः त्वमसि । तथाच श्रुतिः । ‘तद्यत्तत्सत्यम्'। 'असौ स आदित्यो य एष एतस्मिन्मण्ड पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषस्तावेतावन्योन्यस्मिन्प्रतिष्ठितौ' इत्याद्या ॥ ५३ ।। ३ ख. ग. "था सोम्यै'। ४ [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । वेदानुवचनसद्दानमुखधर्म श्रद्धयाऽनुष्ठितैर्विद्यया युतैः ॥ विविदिषन्त्यत्यन्तविमलस्वान्ता ब्राह्मणा यद्रह्म तत्त्वमसि तत्त्वम् ॥ ५४ ॥ शमदमोपरमादिसाधनैधराः स्वात्मनाऽऽत्मनि यदन्विष्य कृतकृत्याः ॥ अधिगतामितसचिदानन्दरूपा न पुनरिह खिद्यन्ते तत्त्वमसि तत्त्वम् ॥ ५५ ॥ अविगीतमेवं नरपतिराकण्र्य वर्णितात्मार्थम् ॥ विससर्ज पूरिताशानेतान्निज्ञतकर्तव्यः ॥ ५६ ॥ किंच । वेदानुवचनसद्दानयज्ञतपोहितमिवमेध्याशानादिधर्मः श्रद्धयाऽनुष्ठितैर्विद्य योपासनया च युक्तैरत्यन्तनिर्मलानीन्द्रियाणि येषां ते ब्राह्मणा यद्रह्म विविदिषन्ति वेदितुमिच्छन्ति तत्तत्त्वं त्वमसि। तथाच श्रुतिः । ‘तमेतं वेदानुवचनेन ब्राह्मणा विवि दिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' । 'यद्विद्ययोपनिषदा करोति तद्वीर्यवत्तरं भव ति'। दानादेस्तत्वं तु भगवतोक्तम् । सात्त्विकत्ववेदानुवचनादेः प्रज्वलितार्धशिरस्कस्य जलराशिमवेशेच्छावदुत्कटेच्छां मति करणत्वं न तु सामान्येच्छां प्रति । अजागल स्तनायमानायास्तस्याः पूर्वमेव सिद्धत्वात् । यद्वाऽश्धेन जिगमिषतीत्यत्र गमनं प्रत्य श्धस्येव ज्ञानं पत्येव करणत्वमस्तु ॥५४॥[अत्यन्तेति । परमविमलमानसाः] ॥५४॥ किंच शमदमोपरमक्षान्तिसमाविश्रद्धालक्षणैः साधनैः स्वात्मस्वरूपेणाऽऽत्मनि बुद्धौ यदन्विष्य साक्षात्कृतं 'सत्यं ज्ञानमनन्तं ब्रह्म’ ‘विज्ञानमानन्दं ब्रह्म' इत्यादिश्रुतिबो धितमनन्तादिस्वरूपं यैस्ते कृतकृत्याः सन्तः पुनरिह संसारे जन्ममरणादिलक्षणं खेदं नाऽऽपुवन्ति तत्तत्वं त्वमसि । तथाच श्रुतिः । ‘शान्तो दान्त उपरतस्तितिक्षुः समा हित आत्मन्येवाऽऽत्मानं पश्ये' इति ‘श्रद्धवित्तो भूत्वा' इति च । यद्वैताः शिष्याणां पृथक्पृथगुक्तय इति बोध्यम् ॥ ५५ ॥ एवमविगीतमनिन्दितं वर्णितात्मवस्तु श्रुत्वा । ‘अर्थो विषयार्थनयोर्धनकारणवस्तुषु इति मेदिनी । निज्ञतं कर्तव्यं येन स नृपतिः पूरिता आशा येषां तानेताञ्शिा ष्यान्विससर्ज । १ क. 'तभे'। ३९३ २ क. कोशः । श्रीमच्छकरदिग्विजयः । उद्धोधितः सदसि तैरवलम्ब्य मूछ निर्गत्य राजतनुतो निजमाविवेश । गात्रं पुरोदितनयेन स देशिकेन्द्रः संज्ञामवाप्य च पुरेव समुत्थितोऽभूत् ॥ ५७ ॥ तदनु कुहरमेत्य पूर्वदृष्टं नरपतिभृत्यविसृष्टपावकेन । निजवपुरवलोक्य दह्यमानं झटिति स योगधुरंधरो विवेश ।। ५८ ।। सपाद दहनशान्तय महान्त नरमृगरुपमधोक्षजं शरण्यम् । स्तुतिभिरधिकलालसत्पदाभि स्त्वरितमतोषयदात्मवित्प्रधानः ॥ ५९ ॥ 'आर्याद्वितीयकेऽर्थे यद्रदितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीतिं तां मुनिते' । [ सर्गः १०] ॥ ५६ ॥ [पूरिताशानिङ्गितेनानुमोदनसूचितेनान्तःपृरितमनोरथान्पारितोषिकवि तवस्त्रविभूषणादिदानेन बहिरपि तथा ] ॥ ५६ ॥ सभायां तैः पद्मपादादिभिरुद्धोवितो मूछमवलम्ब्य पृर्वोक्तन्यायेन राजशरीरान्नि गैत्य निजं शरीरमाविवेश । स देशिकेन्द्रः संज्ञां चेतनामवाप्य च पुनरुत्थितोऽभून् ! वसन्ततिलका वृत्तम् ॥ ५७ ॥ ननु राजभृत्यविसृष्टाग्निा दह्यमानं शरीरं कथं विवेशेत्याशङ्कयाऽऽह । तस्माद्रा जतनुतो निर्गमनात्पश्चात्पूर्वदृष्टं गुहाछिद्रमेत्य नरपतिभृत्यविसृष्टपावकेन दह्यमानं निज शरीरमवलोक्य यतो योगधुरंधरोऽतो झटिति विवेश । पुष्पिताग्रा वृत्तम् ॥ ५८ ॥ [ नरेति । पद्मपादादिभिः पूर्वोक्तरीत्या स्वगमनावसरे तत्संरक्षणार्थमवस्थापितशिष्येषु दैवादसंग्रज्ञातसमामिवलम्ब्यैव मध्याहे सरस्तीरतरुच्छायादौ स्थितेषु सत्सु तत्काल मेव छिद्रमालक्ष्य राजभृत्यविनिहितवह्निनेत्यर्थः ] ॥ ५८ ॥ एवमपि दहनं शामितवानित्याकाङ्क्षायामाह । सपदि तत्क्षण आत्मवित्प्रधानः [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ३९५ श्रीशंकराचार्यो दहनस्य शान्तये महान्तं शरणे साधु नरसिंहरूपमधोक्षजमधोऽ क्षजन्यं ज्ञानं यस्मात्तं विष्णुमधिकं कलाभिर्लसन्ति पदानि यासु ताभिः स्तुतिभिः शीघ्रमतोषयत् । तथाहि । श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभेोगमणिरञ्जितपुण्यमूर्ते । योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १ ॥ ब्रोन्द्ररुद्रमरुदर्काकेरीटकंटिसंघट्टिताड़ त्रकमलामलकान्तिकान्त । लक्ष्मीलसत्कुचवसरोरुहराजहंस लक्ष्मीटापंह मम देहि करावलम्बम् ॥ २ ॥ संसारघोरगहने चरतो मुरारे मारोग्यभीकरमृगपवरार्दितस्य । भार्तस्य मत्सरनिदाघनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ।। ३ ।। संपारकूपमतिघोरनिदाघमूलं संप्राप्य दुःखशतसर्पसमाकुलम्य । दीनस्य देव कृपणांपदमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४ ॥ संसारसागरविशालकरालकालनक्रगाहमैसननिग्रहविग्रहस्य । व्यग्रस्य रागरसनोर्मिनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५ ॥ आरुह्य दुःखफलितं पतत। दयालो लक्ष्मीनृसिंह मम द करावलम्बम् ॥ ६ ॥ संसारसर्पघनवक्त्रभयोग्रतीत्रदंष्ट्राकरालविषदग्वविनष्टमृतः । नागारिवाहन सुधाविनिवास शैॉरं लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७ ॥ संपारदावदहनातुरभीकरोरुज्वालावलीभिरतिद्ग्-वतनूरुहस्य । त्वत्पादपद्मसरसशरणागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥ संसारजालपतितस्य जगन्निवाप सर्वेन्द्रियार्थबडिशार्वझ षोपमस्य । ोत्खण्डितप्रचुरतालुकमस्तकस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ।। ९ ।। संसारभीकरकरीशकराभिघातनिष्पिष्टमर्मवपुषः पकलार्तिनाश । प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ।। १० ।। अन्वस्य मे हृतविवेकमहाधनस्य 'चारैः प्रभो बलिभिरिन्द्रियनामधेयैः । मोहान्धकूपकुहरे विनिपातितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ।। ११ । लक्ष्मीपते कमलनाभ संपरेश विष्णो वैकुण्ठ कृष्ण मधुमृदन पुष्कराक्ष । ब्रह्मण्य केशव जनार्दन वासुदेव देवेश देहि कृपणस्य करावलम्बम् ।।१२॥५९॥ [ नरेति । नरमृगेन्द्ररूपधरमित्यर्थः । गिरिगुहादै सिंहवामपंभवमंस्कारादेवोक्तरू पस्तवनामिति तत्त्वम् ] ।। ५९ ।। ५ ख. 'णास्पद'। २ घ. "प्रासतनि'। ३ ग. ध. चार: । ४ ध, 'पयाऽत्र क' श्रीमच्छधकरदिग्विजयः । नरहरिकृपया ततः प्रशान्ते प्रबलतरे स हुताशने प्रविष्टः । निरगमदचलेन्द्रकन्दरान्ता द्विधुरिव वक्त्रबिलाद्विधुंतुदस्य ॥ ६० ॥ तदनु शमधनाधिपो विनेयै श्चिरविरहादतिवर्धमानहार्दैः ।। सनक इव वृतः सनन्दनाचै र्जिगमिषुराजनि मण्डनस्य गेहम् ॥ ६१ ॥ तदनु सदनममेत्य पूर्वदृष्टं गगनपथाद्वलितक्रियाभिमानम् ॥ विषयविषनिवृत्ततर्षमुचै रतनुत मण्डनमिश्रमक्षिपात्रम् ॥ ६२ ॥ तं समीक्ष्य नभसश्युतं स च माञ्जलिः प्रणतपूर्वविग्रहः । अर्हणाभिरभिपूज्य तस्थिवा नीक्षणैरनिमिपैः पिबन्निव ॥ ६३ ॥ [ सर्गः १० ] ततश्च नरहरिकृपया प्रबलतरे हुताशने प्रकर्षेण शान्ते सति तस्मिन्गुहायां वा मविष्ट: स श्रीशंकरो गिरीन्द्रकन्दरामध्यान्निरगमत् । विधुं तुदति हिनस्तीति विधुंतुदो राहुस्तस्य मुखलक्षणाद्विलाच्छशीव ।। ६० ।। ततः पश्चाद्विरहादतिवर्धमानसैौहार्दैः शिष्यैः सनन्दनाचैरावृतः सनक इव शम धनाधिपो मण्डनस्य गेहं गन्तुमिच्छुराजनि सम्यगभूत् ॥ ६१ ॥ तदनु गगनमार्गेण पूर्वदृष्टं मण्डनगेहमेत्य गलितक्रियाभिमानं यतो विषयलक्षणवि षान्निवृत्ताभिलाषं मण्डनमिश्रमुचैरक्षिपात्रमकृत ॥ ६२ ॥ आकाशादवतीर्णे तं श्रीशंकरं सम्यक्परप्रेम्णा दृष्टा स च मण्डनः प्राञ्जलिः पुनश्च प्रकर्षेण नम्रीकृतः पूर्वविग्रहः शिरोभागो येन स योग्याभिः पूजाभिरभिपूज्यानि मिपैरीक्षणैः पिबन्निव तस्थिवान् । रथोद्धता वृत्तम् ॥ ६३ ॥ [ अनिभिपैरौत्कण्ठ्यत टस्थैः । ईक्षणैरवलोकनैः ] ॥ ६३ ॥ [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । स विश्वरूपो बत सत्यवादी। पपात पादाम्बुजयोर्यतीशः ॥ गृहं शरीरं मम यच्च सर्व तवेति वादी मुदितो महात्मा ॥ ६४ ॥ प्रेयसा प्रथममर्चितं मुनिं प्राप्तविष्टरमुपस्थितं बुधैः ।। प्रश्रयावनतमूर्तिरब्रवी च्छारदाऽभिवदने विशारदा ॥ ६५ ॥ ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् । ब्रह्मणोऽधिपतिर्बहह्मन्भवान्साक्षात्सदांशवः ॥ ६६ ॥ सदसि मामविजित्य तथेच य न्मदनशासनकामकलास्वाप ।। तद्वबाधकृत कृतमाचर स्तदिह मत्र्यचरित्रविडम्बनम् ।। ६७ ।। ३९७ गृहं शरीरं यचान्यन्मर्दयं तत्सर्वे तवेति वाद। । किं भयेन याह । मुदितो यतो महात्माऽक्षुद्रस्वभावः स विश्धरूपो यतीनष्ट इति यदाट्तस्य पदकमलयाः पपात । बदात इषं । उपन्द्रवत्रा वृत्तम् ॥ ६४ ॥ एवं मण्डनकृतं सत्कारमुपवण्यै शारदावाक्यमुदाहर्तुमाह । अतिभियेण पत्या प्रथमं पृजितं प्राप्तासनं बुधैः सह समीपे स्थितं मुनिं पश्रयेण पेम्णा घणतमूर्तिर भिकथनेऽतिकुशाला सरस्वत्यब्रवीत् । रथोद्धता वृत्तम् ।। ६५ ।। तदुदाहरति । 'ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिः' इत्यादिमन्त्र प्रतिपादितः सदाशिवो हे ब्रह्मन्साक्षाद्भवानित्यर्थः ।। ६६ । [ ब्रह्मणश्चतुरानन स्येत्यर्थः । एवं चेदानीं तदवतारस्यास्य मद्भर्तुः संन्यासप्रदानपूर्वकानुग्रहणकरणेऽ तियोग्योऽसीति सूचितम् ] ॥ ६६ ।। ननु कामशास्रोक्ततत्कलासु त्वामपरिजित्य तद्विज्ञानार्थं यत्नं कृतवन्तं मां कथमेवं वदसीति चेत्तत्राऽऽह । सदसि मामविजित्य तथैव यत्कामशास्त्रे यास्तत्कलाः कामकलास्तास्वपि तत्कलावबोधार्थे यत्नमाचरितवानपि तन्मनुप्यचरित्रानुकरणमात्र मित्यर्थः । वृतविलम्बितं वृत्तम् ।। ६७ । [ हे मदनशासन कामान्तक कामकलासु विषये । मामविजित्य तथैव मत्प्रश्रानुसारेणैव ] ।। ६७ ।। ३९८ श्रीमच्छकरदिग्विजयः । त्वया पदावां विजितौ परात्म न्न तत्रपामावहतीड्य सर्वथा ॥ कृताऽभिभूतिर्न मयूस्वशालिना निशाकरादेरपकीर्तये स्खलु ॥ ६८ ॥ आदावात्म्य धाम काम प्रयास्या म्यर्हस्यच्छ मामनुज्ञातुमर्हन् ॥ इत्यामन्यान्तर्हितां योगशाक्तया पश्यन्देवीं भाष्यकर्ता बभाषे ।। ६९ ।। जानामि त्वां देवि देबस्य धातु वाचामाद्यां देवतां विश्वगुत्प्यै चिन्मात्रामप्यात्तलक्ष्म्यादिरुपाम् ॥ ७० ।। [ सर्गः १० ] स्वपराजयस्त्वावयोर्लजाहेतुर्न भवतीत्याह । त्वया यदावां विजिती तत्पर्वथाऽपि लज्जां नाऽऽवहति । ननु ब्रह्मणा सहितायाः सरस्वत्यास्तत्रपावहं कथं न भवतीति चेद्रह्मादिभिरपि स्तुत्यात्वत्तः पराजयो न तत्कर इत्याह । हे ईड्य । तत्त्वं कुत इत्यत अाह । परात्मन्निति । तत्र दृष्टान्तमाह । यथा सहस्त्रभानुना दिवाकरेण कृताऽ भिभृतिरभिभवश्चन्द्रादेरपकीर्तये न भवतीति प्रसिद्धं तद्वदित्यर्थः । उपजातिवृत्तम् ॥६८॥ [ परेति । एवं चेयं वास्तविकात्मत्वेनैव स्त तिर्न त्वैपचारिकत्वेन वश्वनेति व्यज्यते । नाऽऽवहति नैव संपादयतीति संबन्धः । अत एव कविसमयेऽप्युक्तम् । 'महत्परिभवः श्रेष्ठो न नीचादपि गौरवम् । कंसारे: पादघातेन कालयस्य विभूपणम्’ इति ] ॥ ६८ ॥ एवं स्तुत्वा ब्रह्मलोकगमनायानज्ञां प्राथेयते । आदै यत्स्वच्छं स्वीयं धाम तदवश्यं मयास्यामि तस्माद्धे अर्हन्मामनृज्ञातुं योग्योऽसि । माण्डनधामव्यावृत्यर्थ मादावित्युक्तम् । इत्यामन्त्र्यान्तर्हितां देवीं येोगशत्या पश्यन्भाप्यकारो जगाद शालिनी वृत्तम् ॥६९॥ [ आत्म्यं मामकम् । यदादाविहावतरणात्प्रागित्यर्थः] ॥६९॥ तदाह । हे देवि त्वां जानामि । कथंभूतामित्यत आह । देवस्य धातुर्हिरण्य गर्भस्य भार्या । तत्रापीष्टामतिपियां पुनश्चाष्टमृर्तेः शिवस्य सगभ्य । सहोदरां वाचामाद्य देवतां चिन्मात्रामपि विश्वरक्षणार्थं स्वीकृतलक्ष्म्यादि रूपामेवंभूतां त्वां जान।मी त्यर्थः ।। ७० ॥ [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तस्मादस्मत्कल्पितेष्वच्र्यमाना स्थानेषु त्वं शारदाख्या दिशन्ती ॥ इष्टानर्थावृष्यशृङ्गादिकेषु क्षेत्रेष्वास्स्व प्राप्तसत्संनिधाना ।। ७१ ।। तथेति संश्रुत्य सरस्वती सा प्रायात्प्रियं धाम पितामहस्य ।। आकस्मिकं विस्मयमीयुरुचैः ॥ ७२ ॥ तस्या यतीशाजितभर्तृयतित्वजात वैधव्यसंभवशुचा भुवमस्पृशन्त्याः । अन्तर्धिमेक्ष्य मुदितोऽजनि मण्डनोऽपि तत्साधु वीक्ष्य मुमुदे यतिशेस्वरश्च ॥ ७३ ॥ मण्डनमिश्रोऽप्यथ विधिपूर्व दत्त्वा वित्तं यागे सर्वम् ।। आत्मारोपितशोचिष्केशो भेजे शंकरमस्तमिताशः ॥ ७४ ।। एवं स्तुत्याऽभिमुखीकृत्य प्राथ्र्यमाह । तस्मादृष्यशृङ्गादिकेषु क्षेत्रेष्वस्मन्नि र्मितानि यानि तव स्थानानि तेषु पृज्यमाना शारदाख्या त्वमिष्टानर्थान्दिशन्ती पुनश्च पापं सतां संनिधानं यया तथाभूताऽऽस्स्व ।। ७१ ।। तथाऽस्त्विति प्रतिज्ञाय सा सरस्वती पितामहस्य प्रियं वाम पायात्तत्र संसदि तस्या अदर्शनं समीक्ष्यात्यन्तमाकस्मिकं विस्मयं पापुः ।। ७२ ।। एवं सदस्यानां मनोवृत्तं पदश्र्य मण्डनयतशयेोस्तदाह । यतीशेन जितस्य भर्तुर्य तित्वाजाताद्वैधव्यात्संभवन शोकेन भुवमस्पृशान्त्यास्तस्याः स्वभार्याया अन्तर्धानमेक्ष्य मण्डनोऽपि मुदितोऽभूत् । तत्साधु समीचीनं वीक्ष्य यतिशेखरोऽपि मुदितोऽभूत् । वसन्ततिलका वृत्तम् ॥ ७२ ततः किं वृत्तमित्यपेक्षायामाह । अथ शारदान्तर्धानाद्यनन्तरं मण्डनमिश्रोऽपि विधिपूर्व ‘तद्वैके प्राजापत्यामेवेटिं कुर्वन्ति । प्राजापत्यां निरूप्येष्टि सार्ववेदसदक्षिणाम् । ‘आत्मन्यमीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ३९९ १ क. 'स्मयमापुः ।। । ए ७२ ४० ० श्रीमच्छंकरदिग्विजयः । संन्यासगृह्याविधिना सकलानिकम ण्यह्नाय शंकरगुरुर्विदुषोऽस्य कुर्वन् ॥ कणे जगौ किमपि तत्त्वमसीति वाक्यं कणेजपं निखिलसंसृतिदुःखहानेः ॥ ७५ ॥ संन्यासपूर्वं विधिवद्धिभिक्षे पश्चादुपादिक्षदथाऽऽत्मतत्त्वम् ।। आाचार्यवर्य: श्रुतिमस्तकस्थं तदादिवाक्यं पुनराबभाषे ॥ ७६ ॥ त्वं नासि देहो घटवद्धयनात्मा रुपादिमत्वादिह जातिमत्वात् ॥ ममेति भेदप्रथनादभेद संप्रत्यपं विद्धि विपर्ययोत्थम् ॥ ७७ ॥ [ सर्गः १० ] इत्यादिश्रुतिस्मृत्युक्तमार्गेण सर्वे वित्तं यागे दत्त्वाऽऽत्मन्यारोपितः शोचिष्केशोऽ मिहोत्राझिर्येनास्तमिताऽस्तं गताऽऽशा यस्य स शंकरं भेजे सेवितवान् । मात्रास मकं वृत्तम् ॥ ७४ ॥ संन्यासप्रतिपादकगृह्यसूक्तविधिनाऽस्य विदुषः सर्वाणि कर्माण्यह्वायाञ्जसा सम्यः र्वेञ्श्रीशैकरगुरुः सर्वस्याऽऽध्यात्मिकादिरूपस्य संसृतिदुःखस्य हानेः कर्णेजपं सू कम् । ‘कर्णेजपः सूचकः' इत्यमरः । किमपि तत्त्वमसीतिवाक्यं कर्णे जैौ । वसन् तिलका वृत्तम् ॥ ७५ ॥ [ विदुषः पण्डितस्य । एतेनाधिकारसंपत्तिद्योत्यते ] ||७५ मण्डनोऽपि संन्यासपूर्वकं विधिवद्भिक्षां याचितवान् । पश्चादाचार्यवर्यः श्रीशंक श्रुतिमस्तकम्थमात्मत्स्वमुपदिष्टवान् । कथामतेि तत्राऽऽह । तत्वमसिवाक्यं पुनरा भाषेऽर्थसहित मुक्तवानित्यर्थः । उपजातिवृत्तम् ॥ ७६ ॥ तत्राऽऽदौ त्वंपदार्थमाह । इह दहादैौ त्वं देहो नासि यस्मात्स घटवदनाः क्षत्र हेतवो रूपादिमत्त्वान्मनुष्यत्वादिजातिमत्वात् । ममेदं शारीरमिति भेदमथनाः आत्मा तु । ‘अशब्दमस्पर्शमरूपमव्ययम् । अगोत्रम्' । इत्यादिश्रुत्युक्तोऽहमितिम यगोचरः । ननु मनुष्योऽहं स्थूलोऽहं कृशोऽहमित्यभेदसंपत्ययाद्देह भात्मा न स्यादिति तत्राऽऽह । अभेदसंप्रत्ययं विपर्ययादन्योन्यतादात्म्याध्यासादुि विद्धि । उपजातिवृत्तम् ॥ ७७ ॥ [ विपर्ययो भ्रमः ] ॥ ७७ ॥ [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । लोप्यो हि लोप्यव्यतिरिक्तलोपको दृष्टो घटादिः खलु तादृशी तनुः । दृश्यत्वहेतोळ्र्यतिरेकसाधने त्वत्तः शरीरे कथमात्मतागतिः ॥ ७८ ॥ नापीन्द्रियाणि खलु तानि च साधनानि दात्रादिवत्कथममीषु तवाऽऽत्मभावः ॥ चक्षुर्मदीयमिति भेदगतेरमीषां स्वप्रादिभावविरहाच घटादिसाम्यम् ॥ ७९ ॥ पद्यात्मतपा समुदायगा स्या देकव्ययेनापि भवेन्न तद्धीः ॥ प्रत्येकमात्मत्वमुदीर्यते चे नश्येच्छरीरं बहुनायकत्वात् ॥ ८० ॥ किंच लोप्यो घटादिः स्वव्यतिरिक्तो दण्डादिलॉपको यस्य तथाभूतो दृष्टः शारीरं व सादृशं स्वातिरिक्तलोपकमेव प्रसिद्धम् । तथाच लोप्यं यथा स्वातिरिक्तलोपक तथा दृश्यमपि स्वातिरिक्तद्रष्टकं ततश्च विमतं दृश्यं स्वातिरिक्तद्रष्टकं दृश्यत्वाद्धट वद्यद्यत्कर्म तत्तत्स्वातिरिक्तकर्तृकं यथा लोप्यो घटादिः स्वातिरिक्तलोपक इत्याशये नाऽऽह । दृश्यत्वहेतोरिति । एतस्माच्छरीराद्यतिरेकसाधने स्वातिरिक्तद्रधृकत्वसा धने तु दृश्यत्वहेतोः शरीर आत्मत्वावगतिः केनापि प्रकारेण न घटत इत्यर्थः ॥७८॥ ४०१ एवं देहादात्मानं विविच्येन्द्रियेभ्यस्तं विवेचयति । नापीन्द्रियाण्यात्मा तेषां साध नत्वाद्दात्रादिवत्तस्मादमीष्विन्द्रियेषु तवाऽऽत्मभावः केनापि प्रकारेण नोपपद्यते । तेषा मनात्मत्वेऽन्यदपि हेतुद्वयमाह । चक्षुरादेर्घटादिवदनात्मत्वमेव चक्षुर्मदीयमित्यादिभेदा वगतेः । स्वप्रमुषुप्तिभावे तत्सत्त्वेऽमीषां विरहाच । पश्यामि शृणोमीत्यादिप्रत्ययस्तु पृवेवद्रष्टव्यः । वसन्ततिलका वृत्तम् ॥ ७९ ॥ इन्द्रियसमुदाय आत्मोत प्रत्येकमिति विकल्प्याऽऽयं मत्याह । यथेषामिन्द्रि याणां समुदायगाऽऽत्मता स्यात्तकस्येन्द्रियस्य नाशे समुदायनाशादात्मताबुद्धिर्न स्यात् । द्वितीयमत्थाप्य निराचष्टे । प्रत्येकमात्मत्वमुच्यते चेत्तर्हि बहुनायकत्वेन विरुद्धक्रियत्वावश्यकत्वाच्छरीरमेव नश्येत् । इन्द्रवत्रा वृत्तम् ॥ ८० ॥ १ क. 'रुद्धादिक्रि'। ४०२ श्रीमच्छकरदिग्विजयः । आत्मत्वमन्यतमगं यदि चक्षुरादे श्चक्षुर्विनाशसमये स्मरणं न हि स्यात् ॥ एकाश्रयत्वान्नयमात्स्मरणानुभूत्या दृष्टश्रुतार्थविषयावगतिश्च न स्यात् ॥ ८१ ॥ मनोऽपि नाऽऽत्मा करणत्वहतो र्मनो मदीयं गतमन्यतोऽभूत् । इति प्रतीतेव्र्यभिचारितायाः मुप्तौ च तचिन्मनैसोर्विविक्तता ॥ ८२ ॥ अनयैव दिशा निराकृता न च बुद्धेरपि चाऽऽत्मता स्फुटम् ।। अपि भेदगतेरनन्वया त्करणादाविव बुद्धिमुज्झ भोः || ८३ ॥ [ सर्गः १० ] किंच यदि चक्षुरादेरन्यतमगोचरमात्मत्वं स्यात्तर्हि चक्षुर्विनाशसमये स्मरणं नैव स्यात्तत्र हेतुः स्मरणानुभवयोरेकात्माश्रयत्वात् । किंचव योऽहं दृष्टवान्सोऽहं शृणो मीति दृष्टश्रुतार्थविषया प्रत्यभिज्ञा च न स्यात् । तस्मादिन्द्रिययान्यतममप्यात्मा न भवैतत्यिर्थः । वसन्ततिलका वृत्तम् ॥ ८१ ॥ मन्वस्तु तर्हि मन एवाऽऽत्मेति तत्राऽऽङ् । मनोऽप्यात्मा न भवति करणत्वेह तोर्मदीयं मनोऽन्यतो गतमभूदिति भेदप्रतीतेः । सुषुप्तौ व्यभिचारितायाश्च चिन्मन सोवैलक्षण्यम् । उपजातिवृत्तम् ॥ ८२ ॥ [ सुप्तौ मनस इति शेषः । व्यभिचारिताया व्यभिचारित्वाद्विलीनत्वादिति यावत् । तत्तस्माद्धेतोश्चिन्मनसोरात्ममनसर्विकिक्तता विभिन्नताऽस्तीत्यर्थः ।। ८२ ।। उक्तन्यायं बुद्धावतिदिशति । अनयैव दिशा निराकृतत्वादुद्धेरप्यात्मता स्पष्टं यथा तथा नास्ति । स्फुटत्वमावेदयति । मदीया बुद्धिरन्यतोऽभूदिति भेदावगतेः सुषुप्तावन न्वयाच करणादाविव बुद्धिमप्यात्मत्वेन मैवाङ्गकुरु । वियोगिनी वृत्तम् || ८३ ।। [ करणादाविवेद्रियादाविव ] ।। ८३ ।। १ घ. च ते चिन्म'। २ ख. घ. ‘न सी विविक्ते । ८२ । अ'। ३. क. ख. घ. 'याण्यप्या'। ४ . ग. घ. 'वतीत्य'। ५ क. उतं न्या'। [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । नाहंकृतिश्चरमधातुपदप्रेयोगा त्प्राणा मदीया इति लोकवादान्। त्र प्राणोऽपि नाऽऽत्मा भवितुं प्रगल्भ सर्वोपसंहारिणि सन्मृषुझे ॥ ८४ ॥ एवं शरीराद्यविविक्त आत्मा त्वंशव्दवाच्योऽभिहितोऽत्र वाक्ये ॥ तदोदितं ब्रह्म जगन्निदानं कथं तदैक्यं प्रतिपादयेद्वच सर्वज्ञसंमूढपदाभिषिक्तयोः । ८५ ।। संदृष्टपूर्वा न च दृश्यतेऽधुना ॥ ८६ ॥ अस्तु तहंप्रत्ययगोचरोऽहंकार एवाऽऽत्मेति तत्राऽऽह । अहंकृतिरहंकारोऽ प्यात्मा न भवति । तत्र हेतुश्चरमेऽन्त्ये कृतिरिति धातुपदस्य प्रयोगात् । तर्हि सुषुप्ता वपि लयरहितः प्राण एवाऽऽत्माऽस्त्विति तत्राऽऽह । सर्वोपसंहारिणि सुषुप्तः सन्नपि प्राण भात्मौ भवितुं न शक्तः । तत्र हेतुर्मदीयाः प्राणाः इति लोकवादात् । इन्द्रवज्रा वृत्तम् ॥ ८४ ।॥ [ चरमेति । अहमिति नामपदादूर्व चरमभागे कृतिरिति हञ्धातुपदस्य प्रवादादुचारादित्यर्थः । अयं भावः । अहंकृतिशब्दवाच्य आत्मा न भवति । अहमितिकरणमहंकृतिरिति व्युत्पत्त्या तस्य क्रियावाचकत्वादिति] ॥८४॥ उपसंहरति । एवंभूतो देहादिविलक्षण भात्मा तदविविक्तस्त्वंपदवाच्यस्तत्वमसि वाक्येऽभिहितः । त्वंपदार्थ प्रदश्र्य तत्पदार्थमाह । तथाऽऽत्र वाक्ये तत्पदेन जगत्कारणं बस्रोक्तम् । अखण्डार्थमाह । तथाऽत्र वाक्ये पदद्वयबोध्यमैक्यमुदितम् । उपजाति वृत्तम् ॥ ८५ ॥ तत्त्वंपदार्थयोरैक्यं वाक्यार्थं श्रुत्वा शिष्य उवाच । सर्वज्ञसंमृढपदाभिषिक्तयोस्त त्वंपदार्थयोस्त्वदुक्तमैक्यं तत्वमासिवाक्यं कथं प्रतिपादयेत् । हि यस्मात्तम:प्रकाशयी रेकता पृर्वे नैव दृष्टा न चाधुना दृश्यते । तथाचायं पयोगस्तत्वमभिवाक्थैस्थतत्त्वंपदां र्थयोरैक्यं न संभवति विरुद्वधर्मवत्वात्तम:पकाशावदिति । ननु हेतुरस्तु साध्यं मास्तु । न च तम:प्रकाशयारप्येकतापत्तिस्तयोर्भावाभावरूपतया तदनुपपत्तेस्तस्माद्भावाभावरू

  • ख. ग. ध. प्रवादात्प्रा'। २. क. ग. 'पि प्रगल्भ: प्रा'। ३

४ ख. घ.'क्यस्य त' । ५ ख. य. "दार्थो न परस्पराभिन्न। । ४०३ क. ग. "त्मा न भवति न'। ४०४ श्रीमच्छकरदिग्विजयः । सत्यं विरोधगतिरस्ति तु वाच्यगेयं सोऽयं पुमानितिवदत्र विरोधहानेः ॥ आदाय वाच्यमविरोधि पदद्वयं त लक्ष्यैकबोधनपरं ननु को विरोधः ॥ ८७ ॥ [ सर्गः १० ] पोपाविसत्वादप्रयोजकत्वमस्येति चेन्न । तमसोऽपि भावरुपत्वात्तमोऽभावरूपमिति वादी प्रष्टव्यः । किमालेोकाभावमात्रं तमः किं वा रूपदर्शनाभावमात्रम् । भाद्येऽपि किमेकं तम एकैकालोकाभावः किंवा सर्वालोकाभावः । भाद्येऽपि किं प्रागभाव उत पध्वंसाभाव अनाहास्विदन्यांन्याभाव । त्रितयमपि न संभवाते सवितृ किरणसंतते देशे प्रदीपालोकजन्मविनाशयोः सतोस्रयाणां सत्वेऽपि तमोबुद्धय दर्शनात् । ननु प्रागभावाद्यवस्थासु तमोबुद्धयभावो विरोध्यालोकनिबन्धन इति चेत्तथाऽपि विरोध्यभावसहितप्रागभावादेस्तमोबुद्धयालम्बनत्वस्यावश्यैवक्तव्य त्वेन विरोध्यभावगिरा प्रागभावो#ी पध्वंसेऽनुपपत्तिः । तदुक्तौ प्रागभावे । अन्यो न्याभावोक्तावालोकसत्वेऽपि तदभावस्य भावात्तमोबुद्धिः स्यात् । द्वितीयेऽपि किमस्य सर्वेषामालोकानां संनिधानं निवर्तकमुतैकैकस्य । आचे सर्वालोकमन्तरेण तन्निवृत्तिर्न स्यात् । द्वितीयेऽप्येकैकस्य सर्वालोकाभावनिवर्तकत्वाभावात्तमोबुद्धयापत्तिः । अन्त्येऽपि किमेकैकस्य रूपस्य दर्शनाभावः उत सर्वस्य । अनाद्येऽपि किं रुरूपदर्श नमात्राभाव उत यत्र तमोबुद्धिस्तत्रत्यरुपदर्शनाभावः । नाऽऽद्यः । बहुलान्धका रसंवृतापवरकान्तरवस्थितस्यापि बहीरुपदर्शनेन सहापवरकान्तस्तमोदर्शनात् । न द्वितीयः । मागभावादिविकल्पासहत्वात् । ननु रूपवतो द्रव्यस्य स्पर्शवत्वनियमात्तद्र हितं तमः कथं रूपद्रव्यमवगम्यते । तथाच प्रयोगस्तमं नीरुपं स्पर्शविधुरत्वादाकाशा वदिति चेन्न । वायोरन्यत्र स्पर्शवद्रव्यस्य रूपवत्वनियमेऽपि रूपरहितस्य स्पर्शवतो वायोरभ्युपगमात्तथाच यत्स्पर्शवत्तदूपवद्यथा घटादिरिति व्यासेर्यथा वायौ भङ्गस्तथा यदूपवत्तत्स्पर्शवदिति व्यापेस्तमसि सङ्गः । न च प्रमाणाभावः । तमालमालाश्यामलं तम इत्युपलम्भादिति संक्षेपः ॥ ८६ ॥ एवमुक्तो गुरुराह । सत्यमियं विरोधावगतिस्तु वाच्यगाऽस्ति । एवमर्धमङ्गीकृत्यैक्यं कथं प्रतिपादयेदिति यदुक्तं तत्राऽऽह । सोऽयं पुमानिति वाक्यवदस्मिन्वाक्ये विरोधहानेरविरोधिवाच्यमादाय पदद्वयं तयोर्लक्ष्यक्यबंधनपरमेवं सति न कोऽपि विरोधः । अयमर्थः । यथा सोऽयं पुमानिति वाक्ये तच्छब्दार्थस्य तत्कालविशिष्टस्य पुंस इदंशाब्दार्थस्यैतत्कालविशिष्टस्य पुंसश्चक्यासंभवेऽपि सोऽयमिति पदयं जहद १ ख. ग. ध. आहेो अ'। 'ध्। २ क. ३यवैि । ३ ख. ग. घ. रोधाभा । ४ घ. दा [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तदुक्तम् । ४०५ जहीहि देहादिगतामहंधियं चिरार्जितां कर्मशटैः सुदुस्त्यजाम् ।। विवेकबद्धया परमेव संततं ध्यायाऽऽत्मभावेन यतो विमुक्तता ॥ ८ ॥ साधारणे वपुषि काकसृगालवद्भि मात्रादिकस्य ममतां त्यज दुःखहेतुम् । तद्वज्जैहीहि बहिरर्थगतां च विद्धं श्चित्तं बधान परमात्मनि निर्विशङ्कम् ॥ ८९ ॥ जह्वलक्षणया विरुद्धं तत्कालैतत्कालविशिष्टत्वांशं विहाय पुरुषमविरोधवाच्यांशमादाय तलक्ष्यैक्यबोधनपरं तद्वत्तत्त्वमसिवाक्यं सर्वज्ञत्वसंमूढत्वरूपस्य विरोधिनोंऽशास्य हानि कृत्वाऽविरोधिवाच्यविदेशमादाय पदद्वयं तलक्ष्यैक्यबोवनपरमिति । वसन्ततिलका वृत्तम् ॥ ८७ ॥ यस्मादेवं तस्माचरार्जितां देहादिगतामहंबुद्धिं परित्यज । कया मत्येति तत्राऽऽह । उक्तविवेकबुद्धया यतः कर्मशाठेरतिशयेन दुम्त्यजाम् । तहंमातिः क विधेयेति तत्राऽऽह संततं परमात्मानमेवाऽऽत्मभावेन चिन्तय । किं तत इति चेत्तत्राऽऽह । यतः परस्यैवाऽऽत्मभावेन चिन्तनाद्विमुक्तता लभ्यत इत्यथेः । ‘आत्मानं चेद्विजानीयाद्यमस्मीति पृम्पः । किमिच्छन्कस्य कामाय शरीरमनुपंज्वरेत् इति श्रुतेः । उपजातिवृत्तम् ॥ ८८ ॥ [ परमेवाऽऽत्यन्तिकनिर्विकल्पमेव यथा स्यात्तथेत्यर्थः । यतो विमुक्तताऽऽत्मभावेनाद्वैतात्मत्वेन संततं ध्येया ध्यातुं योग्या निदिध्यासनकालावच्छेदेनास्त्यतो देहादिगतामहंवियं ज हि त्यजेति पूर्वार्धगतेन सह संबन्धः ] ॥ ८८ ॥ यत्र ममताऽप्ययुक्ता तत्राहंतायाः का कथेत्याशयेनाऽऽह । काकादेः साधार णत्वाद्वपुषि दुःखहेतुं ममतां त्यज । तद्वहिरर्थविषयां च दुःखकारणभूतां तां परित्यज । यावतः कुरुते जन्तुः संबन्धान्मनसः पियान् । तवन्तोऽस्य निखन्यन्त हृदये शोकशाङ्कव: इति । ममता दुःखहेतुभूतेति त्वं जानामीत्याशयेनाऽऽह । हे विद्वन्निति । कर्त च्यमुपदिशति । निर्विशं समस्तशङ्काकलङ्कविनिर्मुक्तं विजातीयपत्ययररिं चित्तं परमात्मनि स्थापय । वसन्ततिलका वृत्तम् ॥ ८९ ।। १ क. ख. घ. 'तं ध्येयाऽऽ। २ ख. 'जहाहि । ३ ६. 'रुद्धत'। ४ क. ग. तावन्त एव ख् । ४०६ श्रीमच्छंकरदिग्विजयः । [ सर्गः १० ] स्तीराद्रिन्नो लिप्यते नापि तेन । एवं देही संचरञ्जाग्रदादौ तस्माद्रिन्नो नापि तद्धर्मको वा ॥ ९० ॥ जाग्रत्स्वप्रमुषुप्तिलक्षणमदोऽवस्थात्रयं चित्तनौ त्वय्येवानुगते मिथो व्यभिचरद्धीसंज्ञमज्ञानतः ।। क्लप्तं रज्ज्विदमंशके वमुमती छिद्राहिदण्डादिव त्तब्रह्मासि तुरीयमुज्झितभयं मा त्वं पुरेव भ्रमीः ॥ ९१ ॥ प्रत्यक्तमं परपदं विदुषोऽन्तिकस्थं दूरं तदेव परिमूढमतेर्जनस्य । अन्तर्बहिश्च चितिरस्ति न वेति कश्चि चिन्वन्बहिर्बहिरहो महिमाऽऽत्मशत्तेः ॥ ९२ ॥ नन् जाग्रत्स्वप्रसंचारिणस्तदभिन्नत्वात्तद्धर्मकत्वाद्वा कथं परमात्मनोऽभेदेन चिन्त नीयत्वमिति चत्तत्राऽऽह । यथा महामत्स्यस्तरात्तीरं संचरंस्तीराद्भिन्न एव न त्वभिन्नो नाॉप तेन तीरेण लिप्यते । एवमाध्यासिकसंबन्धेन देह्यात्मा जाग्रदादौ संचरं स्तस्माद्भिन्न एव नापि जाग्रदादिरूपधर्मवान्वा । तथाच श्रुतिः । तद्यथा महामत्स्य उभे कृले अनुसंचरति पृर्व चापरं चवमेवायं पुरुष एतावुभावन्तावनुसंचरति स्वप्रान्तं च बुद्रान्तं च' इति । शालेनी वृत्तम् ॥ ९० ॥ तर्हनुभूयमानं जायदाद्यवस्थात्रयं कस्यति चेत्तत्राऽऽह । जामदादिलक्षणमिदम वस्थात्रयं व्यभिचारं गच्छद्बुद्धिसंज्ञकं चित्स्वरूपे त्वय्येवानुगते कल्पितम् । तत्रेन्द्रि यजन्यज्ञानावस्था जाग्रदवस्था । इन्द्रियाजन्यविषया परोक्षज्ञानावस्था स्चमावस्था । अविद्यागोचराऽविद्यावृत्यवस्था सुषुप्त्यवस्था । अनुवृत्तं व्यावृत्तं कल्पितमित्यत्र दृष्टान्तमाह । रजोरिदमंशेऽनुवृत्तं व्यावृत्तं भूमिच्छिद्रपर्पदण्डादि यथा कल्पितं तद्वत् । तस्मादवस्थात्रयपरत्वातुरीयं शिवं चतुर्थमित्युक्तमत एव परित्यक्तनिरिवलभयं ब्रहास तस्मात्पर्ववद्रमं मा गाः । शार्दूलविक्रीडितं वृत्तम् ।। ९१ ।। एवं भूतं स्वात्मानं जनः किमिति नावगच्छतीति न शङ्कर्नयमात्मशाक्तर्महिम्रोऽ निर्वचनीयत्वादित्याशयेनाऽऽह । प्रत्यक्तमं प्रातिलोम्येनासजडदुःखात्मकाहंकारादिि लक्षणतया सचिदानन्दात्मत्वेनाञ्चति मकाशात् इति प्रत्यगातशयेन प्रत्यागत प्रत्य क्तमं परं पदं विदुषः समीपस्थं परिमृढमतेर्जनस्य तदेव दृरमंवंविधं चैतन्यमन्तर्व गा तथाऽपि कश्चनाशुद्वचित्तो बहिर्बििश्चन्वन्न वेत्ति । अहो आत्मशरेरयं महिमा [ मर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । यथा प्रपायां बहवो मिलन्ते क्षणे द्वितीये बत भिन्नमागः । प्रयान्ति तद्वद्रहुनामभाजो गृहे भवन्त्यत्र न कश्चिदन्ते ॥ ९३ ॥ मुस्वाय यद्यत्क्रियते दिवानिशं मुस्वं न किंचिद्धहुदुःखमेव तत् । विना न हेतुं सुखजन्म दृश्यते हेतुश्च हेत्वन्तरसंनिधौ भवेन् ॥ ९४ ॥ परिपक्कमतेः सकृच्छतं जनयेदात्मधियं श्रुतेर्वचः ॥ परिमन्दमते: शनै: शनै र्गुरुपादाब्जांनषेवणादिना ॥ ९५ ॥ करणेनापि गुरोर्निषेवणात् ॥ अपगच्छति मानसं मलं क्षमते तत्वमुदीरितं तैत: ॥ ९६ ।। ४०७ अथ तत्त्वज्ञानाव्यभिचारिपाधनाय वैराग्यायाऽऽह । यथा जलपानशालायां हवे। मिलन्ति क्षणे द्वितीये भिन्नमार्गाः प्रयान्ति । तथा गृहे बहुनामभाजो भवन्त्यन्ते मरणानन्तरमत्र गृहे कोऽपि न भवति । उपेन्द्रवज्रा वृत्तम् ॥ ९३ ।। किच दिवानिशं सुखाय यद्यत्क्रियते ततस्ततः किंचिदपि सुख न भवति प्रत्युत तस्माद्व हुदुःखमेव यतः पुण्यरूपं हेतुं विना सुखजन्म न दृश्यते हेतुश्च जन्मान्तरी यहेतोः संनिधौ भवेत् । ‘पुण्यः पुण्येन कर्मणा' इति श्रुतेः । वंशस्थं वृत्तम् ॥ ९४ ॥ तस्मादेवंभूतसंसाराद्विमुक्तिमिच्छता श्रुतिवचमाऽऽत्मसाक्षात्कार एव संपादनीयः ! “प च परिपकमतेः सकृच्छूवणेन मन्दमतेस्तु गुरुपादाब्जनिषेवणादिना शनै: शनैरि त्याशयेनाऽऽह । परीति । वियोगिनी वृत्तम् ॥ ९५ ॥ [ आदिनाऽहं ब्रह्मास्मीति निर्गुणाइंग्रहोपासनम् ] ॥ ९५ ।। शान: शनैरित्यादि विवृणोति । प्रणवाभ्यासस्योक्तस्य त्रिकालस्नानादिरूपस्य कमेण करणन गुरोर्विशेषेण शुश्रूषणाच मानसं मलमपगच्छति ततश्च कथितं तत्त्वं क्षमते वारणाय योग्यं भवति । ९६ ॥ ५ घ. मिलन्ति । २ स्त्र. घ. मनः । ४०८ श्रीमच्छछंकरदिग्विजयः । मनोऽनुवर्तेत दिवानिशं गुरौ गुरुर्हि साक्षाच्छिव एव तत्त्ववित् ।। निजानुवृत्त्या परितोषितो गुरु र्विनेयवक्त्रं कृपया हि वीक्षते ॥ ९७ ॥ सा कल्पवलुीव निजेष्ठमर्थ फलत्यवश्यं किमकार्यमस्याः ॥ आज्ञा गुरोस्तत्परिपालनीया सामोदमानीय विधातुमिष्टा ॥ ९८ ॥ गुरुपदिष्टा निजदेवता चे त्कुप्येत्तदा पालयिता गुरुः स्यात् ।। रुष्टे गुरौ पालयिता न कश्चि द्ररौ न तस्माज्जनयेत कोपम् ॥ ९९ ॥ [ सर्गः १० ] अथाना ‘यस्य देवे परा भक्तिर्यथा देने तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः । गुरुप्रसादात्परमात्मलाभ ।

  • तद्विद्धि प्रणिपातेन परिप्रश्रेन सेवया'

इत्यादिशास्त्रमनुसृत्य गुरुभक्तस्तत्त्वज्ञानान्तरङ्गपाधनत्वं बोधयितुमारभते । अ र्निशं मनो गुरावनुवर्तेत । अत्यावश्यकताबोधनाय लिङ्प्रयोगः । हि यस्मात्तत्त्वां दुरुः साक्षाच्छिव एव । तदुक्तम् । ‘गुरुर्बह्या गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुः पिता गुरुर्मता गुरुरेव परः शिवः’ इति । ननु शिवस्वरूपगुरोरनुवृत्तिः किमर्थं कर्तव्येति चेत्तत्राऽऽह । हि यस् त्स्वस्य गुरोरनुवृत्त्या परितोषितो गुरुः शिष्यमुखं कृपया वीक्षते । वंशस्थं वृत्तम् ॥९ किं तत इति तत्राऽऽह । सा गुरोराज्ञा सम्यक्परिपालनीया । यतः कल्पवत् स्वेष्टमर्थमवश्यं फलति किमसाध्यमस्या अत: साऽऽज्ञा मोदमानीय हर्षे प्राप्य वि तुमेिष्टा । उपजातिवृत्तम् ॥ ९८ ॥ किचेष्टदेवादपि गुरुर्गरीयानित्याशयेनाऽऽह । गुरूपदिष्टा निजदेवता कुप्येचे गुरुः परिपालयता स्यात् । रुटे गुरौ तु परिपालथिता कश्चिदपि नास्ति तस्मा कोपं कदाऽपि नोत्पादयेत् । तदुक्तं ब्रह्मवैवर्ते । 'शिवे रुष्ट गुरुस्राता गुरौ रुष्टे न कश्चन' इति ॥ ९९ ॥ [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । पुमान्पुमर्थ लभतेऽपि चोदितं भजन्निवृत्तः प्रतिषिद्धसेवनात् ॥ विधिं निषेधं च निवेदयत्यसौ गुरोरनिष्टच्युतिरिष्टसंभवः ॥ १०० ॥ आराधितं दैवतमिष्टमर्थ ददाति तस्याधिगमो गुरोः स्यात् ॥ नो चेत्कथं वेदितमीश्वरोऽय मतीन्द्रियं दैवतमिष्टदं नः ॥ १ ॥ तुष्ट गुरौ तुष्यति देवतागणो रुष्ट गुरौ रुष्यति देवतागणः ॥ पश्यन्नसौ विश्वमयो हि देशिकः ॥ २ ॥ एव पुराणगुरुणा परमात्मतत्त्व शिष्टो गुरोश्चरणयोर्निपपात तस्य ॥ धन्योऽस्म्यहं तव गुरो करुणाकटाक्ष पातेन पातिततमा इति भाषमाणः ॥ ३ ॥ ४०९ ननु विहितानुष्ठानात्प्रतिषिद्ववर्जनाचेष्टलाभोऽनिष्टनिवृत्तिश्च भविष्यत्यतः किं गुरु सेवयेत्याशङ्कवाऽऽह । यद्यपि प्रतिषिद्धसेवनान्निवृत्तो विहितं भजन्पुमान्पुमथै लभते तथाऽपि विधिनिषेधौ न स्वतो विज्ञातुं शक्यैौ किं त्वसैौ गुरुरेव विधिं निषेधं च निवेदयति । तस्माद्रुरोरेवानिष्टच्युतिरिष्टोत्पत्तिश्च । वंशस्थं वृत्तम् ॥ १०० ॥ नन्वाराधितं दैवतमेवेष्टमथै ददातीत्याशङ्कयाऽऽह । आराधितं दैवतमर्थं ददाति तथाऽप्यस्य दैवतस्य प्राप्तिर्गुरोरेव भवति नो चेन्नोऽस्माकमिष्टदमतीन्द्रियं दैवतमयमज्ञो वेदितुं विज्ञातुमीश्वरः समर्थः कथं स्यान्न केनापि प्रकारेणेत्यर्थः । उपजातिवृत्तम् ॥ १ ॥ देवगणस्य गुरुतुष्टयाद्यनुतुष्टयादिमत्वात्स एव प्रयत्नेन तोषणीय इत्याशये नाऽऽत् । तुष्ट इति । हि यस्मात्सदैव सदूपा आत्मदेवता आत्मभावेन पश्यन्नसँ देशिको विश्धमयः ॥ २ ॥ न्ततिलका वृत्तम् ॥ ३ ॥ एवं पुराणगुरुणा श्रीशंकराचार्येण परमात्मतत्त्वं प्रति शिक्षितो हे गुरो तव कटा क्षपातेन दुरीकृताज्ञानोऽहं धन्योऽस्मीति भाषमाणस्तस्य गुरोश्चरणयोर्निपपात । वस ४१० श्रीमच्छकरदिग्विजयः । [ सर्गः १० ] ततः समादिश्य मुरेश्वराख्यां दिगङ्गनाभिः क्रियमाणसख्याम् ॥ सच्छिष्यतां भाष्यकृतश्च मुख्या मवाप तुच्छीकृतधातृसौख्याम् ॥ ४ ॥ निस्विन्लनिगमचूडाचिन्तया हन्त याव त्स्वमनवधिकसैौख्यं निर्विशन्निर्विशङ्कम् ॥ बहुतिथमभितोऽसौ नर्मदां नर्मदां तां मगधभुवि निवासं निर्ममे निर्ममेन्द्रः ॥ ५ ॥ इतिवशीकृतमण्डनपण्डित प्रणतसत्करणत्रयदण्डितः ॥ सकलसद्रणमण्डलमण्डित स निरगास्कृतदुर्मतखण्डितः ॥ ६ ॥ कुसुमितविविधपलाशत्रमदलिकुलगीतमधुरस्वनम् ॥ पश्यन्विपिनमयासीदाशां कीनाशपालितामेषः ॥ ७ ॥ ततो दिगङ्गनाभिः समं क्रियमाणसख्यां सर्वदिग्व्याप्तां सुरश्चराख्यां समादिश्य तुच्छीकृतं हिरण्यगर्भसैौख्यं यया तां भाष्यकारस्य मुख्यां शिष्यतां चावाप । उप जातिवृत्तम् ॥ ४ ॥ [ दिगित्यादि । ईदृशीं सुरेश्धराख्याम् । समादिश्य धातूना मनेकार्थत्वात्सुप्रसन्नाद्भाप्यकारात्सम्यक्संप्राप्येत्यर्थः ] ॥ ४ ॥ सुरेश्वरसंज्ञां प्राप्य वासं क कृतवानित्याकाङ्क्षायामाह । निखिलवेदान्तचिन्तयाँ सर्व स्वस्वरूपमनवधिकसैाख्यं निर्विशाङ्क विशङ्कारहितं निर्विशन्बहुकालं नर्मदां कांतु कदां तां नर्मदां नदीमभिबोऽसौ निर्ममानां ममतारहितानामिन्द्र सुरेश्वरो मगधभूमौ वासं निर्ममे । मालिनी वृत्तम् ॥ ५ ॥ [ ततो भगवान्भाष्यकारः सकलाशप्यैः सह माहिष्मत्यां रेवातीर एव च परित: स्वच्छन्दं बहुदिवसमुवासेत्याह । निखिलेति मालिन्या ] ॥ ५ ॥ अथाऽऽचार्यवृत्तान्तमाह । इत्येवं वशीकृतो मण्डनपण्डितो येन पणतानां सतां करणत्रयं दण्डितं येन तत्र मनः प्राणायामाद्युपदेशेन वाङ्मनोपदेशेन कर्मानहोपदेशेन सर्वेः पद्रुणमण्डलैरलंकृतः कृतं दुर्मतानां खण्डितं खण्डनं येन स निरगात् । द्रुत विलम्बितं वृत्तम् ॥ ६ ॥ कामाशां प्रति निरगादित्याकाङ्क्षायामाह । कुसुमितेषु विविधपत्रेषु भ्रमद्भिर्धमर १ क. त्स्वपदमधि'। २ घ. 'रानिस्वान'। ३ क. 'या यावत्स्वपदं स्वस्य ब्रह्मणो लाकादप्यधि ४ क. ग. 'ख्यं यो नि'। ५ स्व. घ. डू श'। [ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तत्र महाराष्ट्रमुखे देशे ग्रन्थान्प्रचारयन्प्राज्ञतमः ॥ शमितमतान्तरमानः शनकैः सनकोपमोऽगमच्द्रीशैलम् ॥ ८ ॥ प्रफुलमलुिकाचनप्रसङ्गसङ्गतामित सदामदद्विपाधिपप्रहारशूरकेसरि व्रजं भुजंगभूपणप्रियं स्वयंभुकौशलम् ॥ ९ ॥ कलिकल्मपभङ्गायां सोऽद्रेराराचलत्तरङ्गायाम् । अधरीकृततुङ्गायां सस्रो पातालगामिगङ्गायाम् ॥ १० ॥ ४११ कुलैर्गीतो मधुरशब्दो यत्र तथाभूतं वनं पञ्यन्यमपालितां दक्षिणां दिशमष श्रीशक रोऽयासीन् । 'आर्याशाकलद्विनयं व्यत्ययगवितं भवद्यस्याः । सोद्रीतिः किल कथिता तद्वद्यत्यंशभेदसंयुक्ता' ।। ७ ।। तस्यां यमाशायां महाराष्ट्रप्रमुख देशे ग्रन्थान्प्रचारयन्प्राज्ञतमः शमितो मतान्त राभिमानो येन स सनकोपमः श्रीशैलं पर्वतमगमत् । 'आर्यापूर्वार्ध यदि गुरुणैकेनाधिकेन निधने युक्तम् । इतरत्तद्वन्निखिलं भवति यदीयमुदितेयमार्यार्गतिः ॥ ८ ॥ [शमितेति । शमितानि मतान्तरविषयाण मानानि भेदसाधकप्रत्यक्षादिमाणानि यन स तथा । यद्वा शमिता मतान्तरमाना अंतभिन्नमताभिनिविष्टा येन स तथेत्यर्थः ] ॥ ८ ॥ तं विशिनष्टि । प्रफुलमलिकानां वैनानां प्रसङ्गो यस्य स चासँी सङ्गतानामसं ख्यातानां मकाण्डानां शाखानां गन्धन बन्धुरः सुन्दरः प्रवातस्तेन कम्पिता वृक्षा यत्र तम् । 'मकाण्डो विटपे शास्ते' इति विश्वप्रकाशाः । सदामदानां गजाधिपानां पहारे शूराणां केपरिणां सिंहानां समृहो यत्र तं भुजंगभूषणस्य शिवम्य प्रियं हिरण्यगर्भस्य कौशलमित्यर्थः । पुरा लघुर्गरुस्ततो भवेच पश्चामरम्' ।। ९ ।। अद्रेः समीपं चलन्तस्तरङ्गा यम्याः पुनश्चाधरीकृनस्तुङ्गः पर्वतो यया। 'तुङ्गः पुंनागनगयम्तुङ्गः स्यादुन्नतेऽन्यवत् १ ख. , ' क्षिणदि' । २ ग. वन, य । ३ ग. नां गन्धस्न ' । ४१२ श्रीमच्छकरदिग्विजयः । [ सर्गः १० ] नमन्मोहभङ्गं नभोलेहिशृङ्गं त्रुटत्पापसङ्गं रटत्पक्षिभृङ्गम् ॥ समाश्लिष्टगङ्गं प्रहृष्टान्तरङ्गं तमारुह्य तुङ्गं ददर्शशलिङ्गम् ॥ ११ ॥ प्रणमद्रवबीजभर्जनं प्रणिपत्यामृतसंपदार्जनम् ॥ प्रमुमोद स मल्लिकार्जुनं भ्रमराम्बासचिवं नतार्जुनम् ॥ १२ ॥ तीररुहैः कृष्णायास्तीरेऽवात्सीत्तिरोहितोष्णायाः । आवर्जिततृष्णाया आचार्येन्द्रो निरस्तकाष्ण्ययाः ॥ १३ ॥ तत्रातिचित्रपदमत्रभवान्पवित्र कीर्तिर्विचित्रसुचरित्रनिधिः सुधीन्द्रान् ॥ अग्राहयत्कृतमसद्वहनिग्रहार्थ मयान्समग्रमुगुणान्महदग्रयापी ॥ १४ ॥ इति विश्वप्रकाशः । तथाभूतायां कलिकल्मषविनाशसमर्थायां पातालगामिगङ्गायां स श्रीशंकरः स्नानं कृतवान् । ‘आयप्रथमदलोत्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां तां गतिं गीतवान्भुजंगेशः’ ॥ १० ॥ तं तुङ्गमारुह्य शिवलिङ्ग ददर्श । तुङ्गं विशिनष्टि । नमतां मोहस्य भङ्गो यस्माद्भ गनास्वादनशीलानि शृङ्गाणि यस्य त्रुटन्पापस्य सङ्गो यस्माद्रटन्तः पक्षिणो भ्रमराश्च यस्मिन्सम्यगालेङ्गिता पातालगामिगङ्गा येन प्रहृष्टमन्तरङ्ग मनो यस्येति जडस्य सम नस्त्वमारोप्येयमुक्तिः । क्रियाविशेषणं वा । भुजङ्गप्रयातं वृत्तम् ॥ ११ ॥ ततश्च प्रणमतां संसृतिबीजानामविद्याकामकर्मवासनानां भर्जनं पुनश्च मोक्षलक्षणा मृतस्य संपादकं भ्रमराख्याम्बासहायं नतोऽर्जुनो यस्मै तथाभूतं मलिकार्जुनसंज्ञ परमेशलिङ्गं प्रणिपत्य प्रकर्षेण मोदमवाप । वियोगिनी वृत्तम् ॥ १२ ॥ [ अमृतसं पदो मोक्षलक्ष्म्या आर्जनमासमन्तात्संपादनं यस्मात्सः ] ॥ १२ ॥ ततश्च तीररुहैराम्रादिवृक्षः श्यामायास्तिरोहितमुष्णं यस्यां यया वाऽऽवर्जित तृट्तृष्णा च यस्या निरस्तं काष्ण्र्थ यस्यास्तथाभताया नद्यास्तर आचार्थेन्द्रोऽ वात्सीत् । गीतिः ॥ १३ ॥ [ आवाजता स्वसौष्ठवप्रकटनद्वारा सुसंपादिता तृष् स्वविषयकरातर्यया सा तथा ] ॥ १३ ॥ तत्र तमिस्तीरे पवित्रकीर्तिििचत्राणां सुचरित्राणां निर्मिहृदयाय्यत्रभवान्पूज् [ सर्गः १० ] धनंपतिसूरिकृतडिण्डिमाख्यटीकांसंवलितः । अध्यापयन्तमसदर्थनिरासपूर्व किंत्वन्यतीर्थयशसं श्रुतिभाष्यजातम् । आक्षिप्य पाशुपतवैष्णवीरशैव माहेश्वराश्च विजिता हि सुरेश्वराचैः ॥ ११५ ॥ केचिद्विस्मृज्य मतमात्म्यंममुष्य शिष्य भावं गता विगतमत्सरमानदोषाः ॥ अन्ये तु मन्युवशमेस्य जघन्यचित्ता निन्युः क्षणं निधनमस्य निरीक्षमाणाः ॥ १६ ॥ वेदान्तीकृतनीचशूद्रववसो वेदः स्वयंकल्पना पापिष्ठाः स्वमपि त्रयीपथमपि प्रायो दहन्तः स्वलाः ॥ साक्षाङ्कह्मणि शंकरे विदधति स्पधनिबंद्धां मतिं कृष्णे पौण्ड़कवत्तथा न चरमां किं ते लभन्ते गतिम् ॥ १० ॥ ४१३ श्रीशंकरोऽतिचित्राणि पदानि यस्मिन्नसद्वहाणां दुराग्रहाणां निग्रहोऽर्थः पयोजनं वा यस्य तथाभूतं कृतं शारीरकादि सुधीन्द्रान्समग्राः सुगुणाः शान्तिदान्त्यादयो येषु तामयाञ्श्रोष्ठानग्राहयत् । वसन्तांतलका वृत्तम् ।। १४ ।। तिरस्कृतान्यशास्त्रयशासं श्रुतिभाप्यसमूहमसदथैनिरासपूर्वमध्यापयन्तं भाष्यका रमाक्षिप्य स्थिताः पाशुपतादयः सुरेश्वरपद्मपादादिभिराक्षिप्य विशेषेण जिताः ॥१५॥ [ अन्येति । अन्ये एवाद्वैतत्वद्वैतव्यापकत्वाभ्यां लोकविलक्षणे एव तीर्थयशासी शास्त्र कीर्तिकुले यस्य तम् । श्रीभाष्यकारमाक्षिप्य तं पति पूर्वपक्ष कृत्वा ये स्थिताः । न तु विजयमाप्ताः किंतु ते । सुरेश्वराचैर्विजिता इत्यन्वयः ] ॥ १५ ॥ तत्र केवित्स्वीयं मतं परित्यज्य विगतमत्सरादिदोषाः सन्तोऽमुष्य श्रीशंकरस्य शिष्यत्वं प्राप्ता अन्ये तु कोपवशं गत्वा यतो मलिनचित्ता अस्य मरणं निरीक्ष माणाः कालं निन्युः ॥ १६ ॥ तथाचैवंविधा वेदान्तीकृतानि नीचानां शूद्राणां वचांसि यैः पुनश्च पापिष्ठाः स्वकल्पना एव वेदः कृतः स्वं वेदान्तप्रतिपाद्यमात्मानमपि वेदत्रयीपथमपि प्रायो दहन्तो ये खलाः साक्षाद्रह्मणि शंकरे स्पर्धया निबद्धां बुद्धिं श्रीकृष्णे मिथ्यावासुदे ववद्विदधाति ते तद्वत्किमन्त्यां गतिं विनाशं मोक्षं वा न लभन्तेऽपि तु पापुवन्त्येव । शार्दूलविक्रीडितं वृत्तम् ॥ १७ ॥ [ वेदान्तीकृतेति । अत एव वेदस्तु स्वयंकृताः पुरुषकृताः कल्पना एवेति वदन्तः ] ॥ १७ ॥ १ ख, ग. 'त्ततो न । ४१४ श्रीमच्छंकरदिग्विजयः । वाणी काणभुजी च नैव गणिता लीना कचित्कापिली शैवं चाशिवभावमेति भजते गहपदं चाऽऽर्हतम् ॥ दौर्ग दुर्गतिमश्रुते भुवि जनः पुष्णाति को वैष्णवं निष्णातेषु यतीशसूक्तिषु कथाकेलीकृतासूक्तिषु ॥ १८ ॥ तथागतकथा गता तदनुयायि नैयायिकं वचोऽजनि न चोदितो वदति जातु तौतातितः ॥ विदग्धांति न दग्धधीवैिदितचापलं कापिलं विनिर्दयविनिर्दलद्विमतसंकरे शंकरे ॥ ११४८ ॥ इति श्रीमाधवीये तत्कलाज्ञत्वप्रपञ्चनम् ॥ संक्षेपशशंकरजये सर्गेऽयं दशमोऽभवत् ॥ १० ॥ [ सर्गः १० ] शांकरसृक्तिषु निष्णातेष्वाचार्यविनेयेषु सत्सु कथाकेलीकृतासु नर्मकथात्वं प्राप्ता सृक्तिषु मध्ये काणादी तु वाणी नैव गणिता । कापिली सा तु कविलीना क गते त्यपि न ज्ञाता । शैवं पाशुपतानां तु वचोऽशिवत्वमाप्रेोति । आर्हतं च तद्रहपदं भजते । दौर्ग शाक्तानां च तदुर्गतिम श्रुते । वैष्णवं तत्पालयितुं समर्थः कोऽपि जनो नास्तीत्यर्थः ।। १८ || [कथेति । कथाक्रीडात्वमानीता आसमन्तात्सक्तयो यैस्ताट ३षु सत्सु ] || ११८ ॥ विनिर्दयं यथा स्यात्तथा विनिर्दूलान्वशीर्णतां मामुवन्विरुद्धमतानां संकरो येन तथाभूते शंकरे सति तथागतानां सुगतानां कथा गता विलयं प्राप्तां तथा नैयायिकव चस्तदनुयायि तदनुगाम्यजनितौतातितः कौमारिलश्चोदितः प्रेरितोऽपि नं च वदति पुनश्च विदितचापलं कापिलं वचो दग्धा पुष्टा स्थिता वा धीर्यस्य स न विदग्धि नाभिनन्दति नैव पुष्णातीति वाँ तदपि तथैव विलयं गतम् । पृथ्नी वृत्तम् ॥११४८॥ [ इति श्रीति । तदिति । तस्य भाप्यकृत: कलाज्ञत्वस्य पपश्चनं यथा स्यात्त थेत्यर्थः ] ॥ १० ॥ शावतंसरामकुमारसूनुवनपतिमृरिकृते श्रीशंकराचार्यवि जयडिण्डिमे दशमः सर्गः ।। १० ।। १ क. "प्ता नै'। २ क, "नि तदपि तथैव गतम् । तौ'। ३ ग. न व'। ४ घ. वा । पृ' [ सर्गः ११ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अथैकादशः सर्गः । तत्रैकदाऽऽच्छादितनैजदोषः पौलस्त्यवत्कल्पितसाधुवेषः ।। निर्मानमायं स्थितकार्यशेषः कापालिकः कश्चिदनल्पदोषः ॥ १ ॥ वश्येन्द्रियाश्चैर्मुनिभिर्विमृग्यम् । आदि श्य भाष्यं सपदि प्रशस्य मासीनमाश्रित्य मुनेिं रहस्यम् ।। २ ।। दृष्टैव हृष्टः स चिरादभीष्टं निर्धार्य संसिद्धमिव स्वमिष्टम् ।। महद्विशिष्टं निजलाभतुष्टं विस्पष्टमाचष्ट च कृत्यशिष्टम् ॥ ३ ॥ गुणांस्तवाऽऽकण्र्य मुनेऽनवद्या न्सार्वज्ञसौशल्यदयालुताद्यान् । द्रधुं समुत्कण्ठितचित्तवृत्ति भर्भवन्तमागां विदितप्रवृत्तिः ॥ ४ ॥ ४१५ अथोग्रमैरवनिर्जयं सपरिकरं वर्णयितुमुपक्रमते । तत्र तस्मिन्देश एकदाऽऽच्छा दितस्चीयदोषः सीताहरणायाऽऽगतरावणवत्काल्पितः साधुवेो येन स्थितः कार्यस्य शेषो यस्यानल्पा दोषा यस्मिस्तथाभूतः कश्चिदसौ कापालिको मायामानविनिर्मुक्तं मुनिमपश्यदित्यन्वयः । इन्द्रवज्रा वृत्तम् ॥ १ ॥ मुनिं विशिनष्टि । कामक्रोधादीनां वश्यो न भवतीति तथा तं वश्येन्द्रियाश्चैर्मु निभिर्विमृग्यं यशस्यं भाष्यं पपद्यादिश्य रहस्यमेकान्तमाश्रित्याऽऽसीनम् । उपजाति वृत्तम् ॥ २ ॥ स कापालिकश्चिराद्भीष्टं दृष्ट्रा स्वमिष्टं संसिद्धमिव निर्वार्य हृष्टो महद्भयो विशिष्ट श्रेष्ठ निजलाभेन तुष्टं कृत्यशिष्टं स्वकर्तव्यशेषं स्पष्टं यथा स्यात्तथोक्तवान् ॥ ३ ॥ तद्वचनमुदाहरति । हे मुनेऽनवद्यान्सर्वज्ञताद्यांस्तव गुणानाकण्र्य भवन्तं द्रधुं सम्यगुत्कण्ठिता चित्तवृत्तिर्यस्य विदिता . तव प्रवृत्तिर्येन तादृशोऽहमागतवानस्मि ॥४॥[विदितेति । विदिता ज्ञाता प्रवृत्तिस्त्वदीया लोकोपकारैकचेष्टा येन सः]॥४॥ १ क. 'र्वश्वसौ'। श्रीमच्छंकरदिग्विजयः । स्वमेक एवात्र निरस्तमोहः पराकृतद्वैतिवचःसमूहः ॥ आभासि दूरीकृतदेहमानः शुद्धाद्वयो योजितसर्वमानः ॥ ५ ॥ परोपकृत्यै प्रगृहीतमूर्ति रमत्र्यलोकेष्वपि गीतकीर्तिः ॥ कटाक्षलेशार्दितसज्जनार्ति सदुक्तिसंपादितविश्चपूर्तिः ॥ ६ ॥ समस्तवित्वादभिमानशून्यः । विजित्वरत्वाद्रलहस्तितान्य: परावरज्ञेषु भवादृशेषु ॥ कार्यार्थिनः काप्यनवाप्य कामं न यान्ति दुष्प्रापमपि प्रकामम् ॥ ८ ॥ [ सर्गः ११] स्वप्रयोजनासिद्धये स्तौति । अत्र लोके निरस्तमोहस्त्वमवैको यतः पराकृतो द्वैति बचसां समूहो येन स्वयं दूरीकृतदेहमानो योजित: सर्वस्मै मानो येन तथाभूतस्त्वम मानी मानद इत्युक्तः शुद्धाद्वयः परमात्मैवाऽऽभासि । पाठान्तरे शुद्धाद्वये योजिताि सर्वाणि प्रमाणानि येन स त्वमेकः सर्वोत्तमत्वेन प्रकाशस इति व्याख्येयम् ॥ ५ ॥ क्षमत्र्यलोकेष्विन्द्रादिदेवलोकेष्वपि गीता कीर्तिर्यस्य स कटाक्षलेशेनार्दिता नाशित् सञ्जनानामार्तः पीडा येन स सदुक्तिभिः संपादिता विश्धस्य पूर्वियेन । उपेन्द्रवज्र वृत्तम् ॥६॥ [सदिति । सदुक्त्या संपादिता विश्वस्य सकलमनोरथस्य पूर्तिर्येन ] || ६ विजित्वरत्वाद्विजयनशीलत्वाद्रले हस्विता इस्तेन गले गृहीता अन्ये वादिनो ये महावदान्योऽतिशयेन विश्राणनशलिः । उपजातिवृत्तम् ॥ ७ ॥ तथाचैवंविधेषु भवादृशेषु कार्यार्थिनोऽत्यन्तं दुष्प्रापमपि काममनवाप्य क कस्यांचिदप्यवस्थायां न गच्छन्ति किंतु प्राप्यैव यान्ति ॥ ८ ॥[कामं मनोरथम् ] ॥८ [ सर्गः ११ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ तस्मान्महत्कार्यमहं प्रपद्य निर्वर्तितं सर्वविदा त्वयाऽद्य ॥ कपालिनं प्रीणयितुं यतिष्ये कृतार्थमात्मानमतः करिष्ये ॥ ९ ॥ अनेन देहेन सहैव गन्तुं कैलासमीशेन समं च रन्तुम् ।। अतोषयं तीव्रतपोभिरुग्रं मृदुष्करैरब्दशतं समग्रम् ॥ १० ॥ तुष्टोऽब्रवीन्मां गिरिशः पुमर्थ मभीप्सितं प्राप्स्यसि मत्प्रियार्थम् ॥ जुहोषि चेत्सर्वविदः शिरो वा हुताशने भूमिपतेः शिरो वा ॥ ११ ॥ एतावदुक्त्वाऽन्तरधान्महेश स्तदादि तत्संग्रहणे धृताशः ।। चराम्यथापि क्षितिपो न लब्धो न सर्ववित्तत्र मयोपलब्धः ॥ १२ ॥ एवं स्तुत्याऽऽचार्यमभिमुखीकृत्य कथनीयमाह । यस्मादेवं तस्मात्सर्वविदा त्वया निष्पादितं महत्कार्यमासाय कपालिनं भैरवं मणियितुं यत्नं करिष्ये ततः कपालिपी णनादात्मानं कृतार्थं करिष्ये । उपजातिवृत्तम् ॥ ९ ॥ सर्वविदा त्वया निर्वर्तितामित्युक्तं तद्विवृणोति । अनेनेति । ‘उग्रः कपर्दी श्रीकण्ठः’ इत्यमरादुमं रुद्रम् । उपजातिवृत्तम् ।। १० ।। ४१७ ॥ ११ ॥ [ अमुं वक्ष्यमाणत्वेन बुद्धिस्थम् । तमेवार्थ स्फुटयति । अभीप्सितमि त्यादिना ] ॥ ११ ॥ तयोः सर्वज्ञाक्षितिपयो: संग्रह्णे धृताऽऽशा येन [ तदादि तदारभ्य ] ॥ १२ ॥ १ ख. 'रिशोऽमुम' । तत्र तयोर्मध्ये ॥ १२ ।। ४१८ श्रीमच्छकरदिग्विजयः । दिष्टयाऽद्य लोकस्य हिते चरन्तं सर्वज्ञमद्राक्षमहं भवन्तम् ॥ इतः परं सेत्स्यति मेऽनुबन्धः संदर्शनान्तो हि जनस्य बन्धः ॥ १३ ॥ मूर्धाभिषिक्तस्य शिरःकपालं मुनीशितुर्वा मम सिद्धिहेतुः ॥ आद्य पुनम मनसाऽप्यलभ्य ततः पर तत्रभवान्प्रमाणम् ॥ १४ ॥ शिरःप्रदानेऽदुतकीर्तिलाभ स्तवापि लोके मम सिद्धिलाभः ।। आलोच्य देहस्य च नश्वरत्वं यद्राचत सत्तम तत्कुरु त्वम् ॥ १५ ॥ तद्याचितुं न क्षमते मनो मे को वेष्टदापि स्वशरीरमुज्झतु ॥ भवान्विरक्तो न शरीरमानी परोपकाराय धृतात्मदेहः ॥ १६ ॥ दिष्टया भद्रं जातं मेऽनुबन्धः प्रकृतस्य कार्यस्यानुवर्तनं सेत्स्यति । 'दोषोत्पादेऽनुबन्धः स्यात्मकृतस्यानुवर्तने' इत्यमरः । यतो जनस्य बन्धो भवद्दर्शनावविरेव ॥ १३ ॥ [ सर्गः ११] इतः परं मेऽनुबन्धः सेत्स्यतीत्युत्केरतः परं राजा सर्वज्ञो वा मिलिष्यतीत्यभिप्राय नोपादद्यादित्याशयेनाऽऽह । मृधेति । तस्मात्सर्वविद्भवानव परं प्रमाणम् । आख्या नकी वृत्तम् ॥ १४ ॥ तस्मात्स्वस्य मम च लाभं देहस्य च नश्वरत्वमालोच्य शिरःपदानमुवितमेवेत्या शायेनाऽऽह । शिर इति । उपजातिवृत्तम् ॥ १५ ॥ [ सत्तम साधुश्रेष्ठ ]॥ १५ ॥ नन्वेवं याचितुं मनस्ते कुतः क्षमत इत्याशङ्कय भवतो विरक्तत्वादित्याह । ताच्छिरो याचितुं मनो मे नोत्सहते । यत इष्टदायि स्वशरीरं को वा त्यजतु भवांस्तु विरक्तत्वान्न देहमानी । संप्रति देहधारणमपि परोपकारायैव न त्वभिमाननिमित्तमि त्याह । परोकारापेति ॥ १६ ॥ [ सर्गः ११] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । जनाः परशकथानभिज्ञा नक्त दिवा स्वार्थकृतात्मचित्ताः ॥ रिपुं निहन्तुं कुलिशाय वज्री दाधीचमादात्किल वाञ्छितास्थि ॥ १७ ॥ दधीचिमुख्याः क्षणिकं शरीरं त्यक्त्वा परार्थे स्म यशःशरीरम् ॥ प्राप्य स्थिरं सर्वगतं जगन्ति गुणैरनध्यैः खलु रञ्जयन्ति ॥ १८ ॥ वपुर्धरन्ते परतुष्टिहेतोः केचित्पशान्ता दयया परीताः ॥ अस्मादृशाः केचन सन्ति लोके स्वार्थेकनिष्ठा दयया विहीनाः ॥ १२ ॥ परोपकारं न विनाऽस्ति किंचि त्प्रयोजनं ते विधुतैषणस्य । अस्मादृशाः कामवशास्तु युक्ता युक्त विजानन्ति न हन्त योगिन् ॥ २० ॥ ४१९ यद्यप्येवं तथाऽपि त्वं परशावहं कर्मानुष्ठातुं किमिति प्रवृत्तोऽसीत्याशङ्कयाऽऽह । सर्वेऽपि मनाः परशकथानभिज्ञा यतो दिवानिशं स्वार्थ तत्पर आत्मा देहेन्द्रि यादिचित्तं च येषाम् । तत्रोदाहरणमाह । शत्रु निहन्तुं वत्रनिर्माणायेन्द्रो दाधी चमभिलषितमस्थि स्वीकृतवान् । तथाच यदा सात्विकमुख्यानामियं दशा तदाऽस्मद्वि धानां का कथेति भावः । उपजातिवत्तम् || १७ ॥ वदान्यैर्भवादृशैस्तु स्थिरस्य सर्वगतस्य यशः:शरीरस्य प्राप्तये क्षणिकत्वाच्छरीरमपि सुत्याज्यमेवेत्याशयेनाऽऽह । दधीचिमुख्या इति । उपजातिवृत्तम् ॥ १८ ॥ तथाच केचित्पशान्ता दयया व्याप्ता भवादृशा: परतुष्टिहेतोः शरीरं धरन्तेऽस्मा ष्टशास्तु केचन दयया विहीनाः स्वाथैकनिष्ठा लोकं सन्ति ॥ १९ ॥ तस्मात्परोपकारिणा त्वयाऽवश्यं शिरो देयमित्याशायवानाह । परोपकारं विना किंचित्प्रयोजनं तव नास्ति । यतः पुत्रवित्तलोकैषणाविनिर्मुक्तो भवानित्याह । विधुतैष णस्येति । ननु त्वयाऽपि ममेदं युक्तं न वेति विचार्य वक्तव्यमित्याशङ्कयाऽऽह । अस्मादृशास्तु हे योगिन्कामवशात्वान्हो कष्टं युनायुक्ते न विनानन्ति ॥ २० ॥ ४२० श्रीमच्छकरदिग्विजयः । जीमूतवाहो निजजीवदायी दधीचिरप्यस्थि मुदा ददानः ॥ आचन्द्रतारार्कमपायशून्यं प्राप्तौ यशः कर्णपथं गतौ हि ॥ २१ ॥ यद्यप्यदेयं ननु देहवद्भि र्मयाऽर्थितं गर्हितमेव सद्रिः ॥ तथाऽपि सर्वत्र विरागवद्भिः किमस्त्यदेयं परमार्थविद्भिः ॥ २२ ॥ अखण्डमूर्धन्यकपालमाहु संसिद्धिदं साधकपुंगवेभ्यः ॥ विना भवन्तं बहवो न सन्ति तद्वत्पुमांसो भगवन्पृथिव्याम् ॥ २३ ॥ प्रयच्छशीर्ष भगवन्नमः स्ता दितीरयित्वा पतितं पुरस्तात् ॥ तमब्रवीद्वीक्ष्य मुधीरधस्ता स्कृपालुरावृत्तमनाः समस्तात् ॥ ९४ ॥ [ सर्गः ११ ] स्वशरीरमदानसदृशं यशः:साधनं त्वन्यन्नास्त्येवेत्याह । जीमूतवाहारूयो निजी वनदायी दधीचिश्च स्वास्थिदायी द्वावपि प्रलयपर्यन्तं नाशशून्यं यशः प्राप्तौ कर्णपथं गतौ हि प्रसिद्ध हि यस्मात्कर्णपथं गताविति वा ॥ २१ ॥ [ शङ्खचूडारूयनागं विमो चयितुं गरुडाय स्वप्रमाणपदो जीमूतवाहनो नागानन्दनाटकादौ सुपसिद्ध एव ]॥२१॥ ननु देहस्यादेयत्वं जनन्किमिदमतिनिन्दितं पार्थयस इत्याशङ्कय यद्यप्येवं तथाऽपि परमार्थवित्वात्सर्वत्र विरागवतां भवादृशानां किमप्यदेयं नास्तीत्यालोच्य मार्थनां करोमीत्याह । यद्यपीति ॥ २२ ॥ नन्वन्यः कश्चिदेवंविधोऽन्विष्य प्राथ्र्य इंत्याशङ्कय यथाविधवस्य शिरो मम सिद्धिहेतुस्तथाविधो भवानेव न त्वन्य इत्याह । साधकश्रेष्ठभ्यः संसिद्विदमखण्डमूर्ध म्यस्याखण्डितरेतसः कपालमाहुर्न च भवन्तं विना हे भगवंस्तथाविधवीर्यवन्तः पुमांसो बहवः पृथिव्यां सन्ति ॥ २३ ॥ अतोऽवश्यं त्वमेव शिरः प्रयच्छ ते नमोऽस्त्वित्युक्त्वाऽग्रे पतितमधस्ताद्वीक्ष्य सुधीः कृपालुः समस्तादाकृष्टमना अब्रवीत् । उपेन्द्रवत्रा वृत्तम् ॥ २४ ॥ १ ग. 'जानता किमि'। २ ग. प्रार्थत इ'। ३ घ. त्वदन्य । [ सर्गः ११ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । नैवाभ्यसूयामि वचस्त्वदीयं प्रीत्या प्रयच्छामि शिरोऽस्मदीयम् ।। को वाऽर्थिसात्प्राज्ञतमो वृकायं जानन्न कुर्यादिह बद्दपायम् ॥ २५ ॥ पतत्यवश्यं हि विकृष्यमाणं कालेन यत्नादपि रक्षमाणम् ॥ वऽममुना सिध्यति चेत्परार्थ स एव मत्यस्य परः पुमथ: ॥ २६ ॥ वर्ते विविक्तेऽधिसमाधि सिद्धिवि न्मिथः समायाहि करोमि ते मतम् । नाहं प्रकाशं वितरीतुमुत्सहे शिरःकपालं विजनं समाश्रय ॥ २७ ॥ शिष्या विदन्ति यदि चिन्तितकार्यमेत द्योगिन्मदेकशरणा विहतिं विदध्युः ॥ को वा सहेत वपुरतदपोहितुं स्वं को वा क्षमेत निजनाथशरीरमोक्षम् ॥ २८ ॥ ४२१ तद्वचनमुदाहरति । नेवेति । यत इह लोकं बहुनाशनिमित्तवन्तं नृकायं जानन्को वा प्राज्ञतमोऽर्थिसान्नकुर्यादपि तु कुर्यादेव । अन्यथा तस्य प्राज्ञतमत्वमेव कुत स्त्यमित्यर्थः । इन्द्रवज्रा वृत्तम् ॥ २५ ॥ [ त्वदीयं वचः । 'असूया तु दोषारोपो गुणेष्वपि' इत्यमरात्रैव गुणापलापेन दोषदुष्टं करोमीत्यर्थः ] ॥ २५ ॥ यतो यत्नादपि रक्ष्यमाणं शारीरं कालेनाऽऽकृष्यमाणमवश्यं पतति ततोऽनेन वष्र्मणा परमयोजनं सिध्यति चेत्तर्हि स एव मरणवर्मकस्य परः पुम्पार्थः । उपजा तिवृत्तम् ॥ २६ ॥ तस्माद्धे सिद्धिविद्यथा विविक्तऽहमधिपमावि समावैो वतें तथा भिथेो रहसि समा याहि तेऽभिमतं करोभि यतः शिरः कपालं प्रकटं दातुमहं नोत्सहेऽऽतो विजनं समाश्रय ॥ २७ ॥ कुत इति चेत्तत्राऽऽह । शिष्या यधेतचिन्तितं कार्ये जानन्ति तर्हि ते योगि न्विहति विदध्युस्तव कार्यस्य विनाशं कर्यः । यतो मदेकशरण । स्वशरीरत्यागव निजनाथशरीरमोक्षोऽप्यसह्य इत्याह । एतत्स्चं शारीरं त्यकं को वा सहेत निजनाथ शरीरस्य मोक्षं च को वा क्षेमेत । वसन्ततिलका वृत्तम् ॥ २८ ॥ 1 ध. सहेत तौ संविदं वितनुतामिति संप्रहृष्टौ योगी जगाम मुदितो निलयं मनस्वी ॥ श्रीशंकरोऽपि निजधामनि जोषमास प्रोचे न किंचिदपि भावमसौ मनोगम् ॥ २९ ॥ शूली त्रिपुण्ड्री पुरतोऽवलोकी ककालमालाकृतगात्रभूषः । संरक्तनेत्रो मदघूर्णिताक्षो योगी ययौ देशिकवासभूमिम् ॥ ३० ॥ शिष्येषु शिष्टेषु विदूरगेषु स्रानादिकार्याय विविक्तभाजि ॥ श्रीदेशिकेन्द्रे तु सनन्दनाख्ठय भीत्या स्वदेहं व्यवधाय गृढे ॥ ३१ ॥ तं भैरवाकारमुदीक्ष्य देशिक स्त्यतुं शरीरं व्यधित स्वयं मनः ॥ आत्मानमात्मन्युदयुङ्ग यो जप न्समाहितात्मा करणानि संहरन् ॥ ३२ ॥ इत्येवं तौ श्रीशंकरकापालिकौ संविदं वितनुतां संभाषणं संकेतं वा कृतवन्तौ ततो योगी मनस्वी मुदितः सञ्जगाम । श्रीशंकरोऽपि निजधामनि जोषमास तूष्ण बभूव । मनोगं भावमसैौ किंचिदपि न प्रोक्तवान् ॥ २९ ॥ कंकालानां शरीरास्थां मालया कृता गात्रभूषा येन | इन्द्रवत्रा वृत्तम् ॥ ३० [ पुरत इति । पुरतोऽग्रतः कश्चिद्भाष्यकारशिष्यादिम कदाचिदवलोकयिष्यती। भीत्याऽवलोको यस्यास्तीति तथेत्यर्थः । मदेति । सुरापानमदेन घुर्णितानि भामित न्यक्षाणि ‘अथाक्षमिन्द्रिये' इत्यमरादिन्द्रियाणि यस्य सः] ।। ३० ।। श्रेष्ठषु शिष्येषु स्नानादिकार्याय विदूरगेषु सत्सु श्रीदेशिकेन्द्रे तु सनन्दनाख्य द्रीत्या देहं गूढे व्यवधाय विविक्तभाजि साति ययावित्यन्वयः ॥ ३१ ॥ तं भैरवाकारं कपालिनं वीक्ष्य श्रीशंकरः शरीरं त्यतुं स्वयं मनो व्यधात् । सम् हिदान्तः करण: प्रणवं जपन्यः करणानि संहरन्नात्मानं त्वंपदार्थमात्मनि तप्तद थेऽयुङ्ग । इन्द्रवंशा वृत्तम् ॥ ३२ । [ आत्मानं त्वंपदलक्ष्यम् । आत्मनि तत्प लक्ष्ये चिन्मात्रे । योजयन्नेकत्वेनानुसंदधत्सन्नित्यर्थः । उदयुङ्गासंप्रज्ञाताख्यनिर्विः [ सर्गः ११ ] १ क. ख. ग. जयन्स'। २ ख ग. घ. 'षु श्री'। [ सर्गः ११ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृतदेवराज्यम् ॥ योगीशमासादितनिर्विकल्पं सनत्सुजातप्रभृतेरनल्पम् ॥ ३३ ॥ जत्रुप्रदेशे चिबुकं निधाय व्यात्तास्यमुत्तानकरौ निधाय ।। जानूपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम् ॥ ३४ ॥ आसीनमुचीकृतपूर्वगात्रं सिद्धासने शेषितबोधमात्रम् । चिन्मात्रविन्यस्तहृषीकवर्ग समाधिविस्मारितविश्वसर्गम् ॥ ३५ ॥ विलोक्य तं हन्तुमपास्तशङ्कः स्वबुद्धिपूर्वार्जिततीव्रपङ्कः । प्रापोद्यतासि: सविधं स याव द्विज्ञातवान्पद्मपदोऽपि तावत् ॥ ३६ ॥ ४२३ ल्पसमाधिनिष्ठोऽभूदित्यन्वयः । तत्र प्रत्यहारधारणाध्यानानि हेतुत्वेन द्योतयस्तं विशिनष्टि । समाहितेत्यादिशेषेण ] ॥ ३२ ।। भैरैवो भैरवाकारः कापालिकः सनत्सुजातादेः सकाशादनल्पम् । आख्यानकी वृत्तम् ।। ३३ ॥ [ सनदित्यादि । सनत्सुजातादेरप्यनल्पं महान्तमित्यर्थः] ।॥३३॥ अंससंधिप्रदेशे चिबुकमधरोष्ठावःप्रदेशं निधाय व्यात्तास्यं विवृतमुखं जानूपर्यु तानकरौ निधाय । साम्यर्धम् । कान्तं शोभन्तम् । उपजातिवृत्तम् ॥ ३४ ॥ [मेक्षितेति । निरीक्षितनासिकाग्रमित्यर्थः] ॥ ३४ ॥ उच्चीकृतमुचैः कृतं पूर्वगात्रं शिरोभागो येन । सिद्धासने । 'मेढ़ादुपरि विन्यस्य सव्यं गुल्फे तथोपरि । गुल्फान्तरं च विन्यस्य सिद्धाः सिद्धासनं विदुः’ इत्युक्त आसीनं शेषितमवशेषितं चिन्मात्रं येन तत्रैव विन्यस्त इन्द्रियवगों येन समाधिना विस्मारितः सर्वेसगों येन ॥ ३५ ॥ एवं तं श्रीशंकरं विलोक्यापास्तशङ्कः स्वबुद्धिपूर्वमर्जितस्तीव्रः पङ्कः पापं येन मोद्य १ ग.घ. 'रवाख्यो भै"। २ क. 'धितं वि'। ४२४ श्रीमच्छंकरदिग्विजयः । त्रिशूलमुद्यम्य निहन्तुकामं गुरु यतात्मा समुदक्षतान्तः । स्थितश्रुकोप ज्वलितामिकल्पः स पद्मपादः स्वगुरोर्हितैषी ॥ ३७ ॥ प्रह्वादवश्यं परमं महस्तत् ॥ भृत्वा ददशग्रदुरीहचेष्टाम् ॥ ३८ ॥ स तत्क्षणक्षुब्धनिजस्वभाव प्रवृद्धरुङ्किस्मृतमत्र्यभावः ।। आविष्कृतात्युग्रवृसिंहभाव समुत्पपातातुलितपभावः ।। ३९ ।। सटाछटास्फोटितमेघसंघ स्तीव्रारवत्रासितभृतसंघः ।। संवेगसंमार्छितलोकसंघ: किमेतदित्याकुलदेवसंघ ॥ ४० ॥ तखड़: स कापालिको हन्तुं यावत्पविवमाचार्यसमीपं प्राप पद्मपदोऽपि तावद्विज्ञा [ सर्गः ११ ] त्रिशूलमुद्यम्य गुरुं निहन्तुकामं कपालिनं यतात्मा मनपि समुदैक्षत । दृष्टा तत्र स्थित एव स पद्मपादो ज्वलदमिकल्पश्धुकोप यत स्वगुरोर्हितैषी । उपेन्द्रवः वृत्तम् ॥ ३७ ॥ [ पूर्वपद्य उद्यतासिपदेन तच्छिरश्छेदार्थ खङ्कस्यैवाध्वीकृतत्वेऽ कश्चिन्मां मत्येव तच्छिष्योऽकस्माद्धन्तुमायास्यति चेत्तद्धननाय वामकरण त्रिशू मित्यादि ] ३७ ।। अथानन्तरं स्मरतामतिहरणे हादवश्यं प्रह्वादाधनं नृहरेस्तत्परमं स्वरूपभूतं म् स्तेजः स्मरन्स एष पद्मपादो नृसिंहो भूत्वा तम्योग्रां दुरीहचेष्टां ददर्श यतो मश्रमिद्भ उपजातिवृत्तम् ।। ३८ || [ उग्रेति । उग्राख्यस्य दुरीहस्य दुवेष्टस्य दुरभिलाषस्य कापालिकस्य चेष्टां ददर्शत्यन्वयः ] ॥ ३८ ॥ स पद्मपादः प्रवृद्वरुट्टप्रवृद्धरोषः । उपजातिवृत्तम् ॥ ३९ ॥ सटानां स्कन्धरोम्णां छटया समृहेन स्फोटितो मेघसंघो येन । तत्रशब्देन वा।

  • ख. ग. घ. प्रङ्लाद'।

२ ख. ग. ध. प्रट्ठाद'। [ सर्गः ११ ] धनपतिमूरिकृतडिण्डिमाख्यटीकासंवलितः । क्षुभ्यत्समुद्रं समुदृढरौद्रं रटन्निशाटं स्फुटदद्रिकूटम् ॥ ज्वलद्दिशान्तं प्रचलद्धरान्तं प्रविश्यदक्षं दलदन्तरिक्षम् ॥ ४१ ॥ जवादभिद्रुत्य शितस्वरुप्रै दैन्येश्वरस्येव पुरा नस्वागैः ॥ क्षिपत्रिालस्य स तस्य वक्षो ददार विक्षिप्तमुरारिपक्ष: ॥ ४२ ॥ दंष्टान्तरपोतदुरीहदेहः ॥ निन्ये तदानीं नृहरिर्विदीर्ण द्युपट्टनाट्टालिकमट्टहासम् ॥ ४३ ॥ आकर्णयंस्तं निनदं बहिर्गता उपागमन्नाकुलचित्तवृत्तयः ॥ व्यलोकयन्भैरवमग्रतो मृतं ततो विमुक्तं च गुरुं मुखोपितम् ।। ४४ ।। ४२५ भूतसंघो येन । संवेगेन संमृछितो संमोहिता लोकसंघो येन । किमेतदित्याकुलां देवसंघो यस्मात्स समुत्पपातेतिपूर्वेण संबन्धः ॥ ४० ॥ क्षुभ्यत्समुद्रमित्यादि क्रियाविशेषणम् । क्षुभ्यन्समुद्रो यस्यां क्रियायां समुदृढं रौद्र मत्यन्तभयानकं रटन्तो निशाटा राक्षसाद्यो यस्यां ज्वलन्तो दिशामन्ताः प्रान्तभागा यस्यां प्रचलट्टमेरन्तो यस्यां भ्रश्यन्त्यक्षाणि जनानामिन्द्रियाणि यस्यां दलदन्तरिक्ष यस्यां तथा जवादभिद्रुत्यति परेणान्वयः ॥ ४१ ॥ जवादभिद्रुत्य शितस्वरुः शितस्वरुस्तीक्ष्णं वत्रं तद्वदुनेखायें: पुरा दैत्येश्ध रस्य हिरण्यकशिपोरिव क्षिपत्रिशूलस्य तस्य कापालिकस्य वक्षः क्षिप्तः सुरारिपक्षो येन स नृसिंहो ददार ॥ ४२ ॥ ततश्च तत्तादृगत्युग्रनखायुवानां सिंहानामप्रयो दंष्ट्रान्तरे प्रोतो दुरीहस्य दुश्चेष्टस्य कापालिकस्य देहो येन स नृहरिस्तदानीं विदीर्णा द्युपट्टनानां स्वर्गनगराणामट्टालिका थेन तथाभूतमट्टहासं विस्तारितवान् ॥ ४३ ॥ बहिर्गताः सर्वे विनेयास्तं शब्दमाकर्णयन्नाकुलचित्तवृतयः समीपमागतवन्त १ ख. ग. घ. मूर्छितो। २ घ. 'र्वेणैव सै। दृष्टवन्त श्रीमच्छंकरांदिग्विजयः । हादवश्यो भगवान्कथं वा प्रसादितोऽयं नृहरिस्त्वयेति । सविस्मयैः स्निग्धजनैः स पृष्टः सनन्दनः सस्मितमित्यवादीत् ॥ ४५ ॥ पुरा किलाहो बलभूधराग्रे पुण्यं समाश्रित्य किमप्यरण्यम् । ध्यायन्ननेकान्दिवसाननैषम् ॥ ४६ ॥ किमर्थमेको गिरिगह्वरेऽस्मि न्वाचंयम त्वं वससीति शाश्वत् । केनापि पृष्ठोऽत्र किरातयूना प्रत्युत्तरं मागहमित्यवोचम् ॥ ४७ ।। आकण्ठमत्यदुतमत्र्यमूर्तिः कण्ठीरवात्मा परतश्च कश्चित् ।। मृगो वनेऽस्मिन्मृगयो वसन्मे भवत्यही नाक्षिपथे कदाऽपि ।। ४८ ।। ४४ अभागत्य चाग्रतो मृतं भैरवसंज्ञ कापालिकं ततो भैरवाद्विमुक्तं च सुखेन स्थितं गुरुं [ सर्गः ११ ] सनन्दनः पचपादः सस्मितं यथा स्यात्तथेति वक्ष्यमाणमुक्तवान् । ४५ ।। तद्वचनमुदाहरति । पृवै खल्वहो बलसंज्ञस्य पर्वतस्याये पुण्यं किमपि वनं समा श्रित्य भकवश्यमेनं हरिं भगवन्तं ध्यायन्ननेकान्दिवसानहं नीतवान् ।। ४६ ।। हे वाचंयमास्मिन्गिरिगह्वरे किमर्थमेकस्त्वं वसपीति केनापि किरातयूना पुरा शाश्व तत्पृष्टोऽहमिति वक्ष्यमाणं प्रत्युत्तरमुक्तवान् ।। ४७ ।। तदाह । कण्ठपर्यन्तमत्यदुता नरमूर्तिर्यस्य परतश्च सिंहात्मा काश्चन्मृगोऽस्मिन्वने वसन्झे मृगयो व्याव ममाक्षिमार्गे कदापि न भवति । अहो अतिकष्टम् ॥ ४८ ॥ १ ख. ग. घ. प्रह्लाद'। २ ख. नृसिहं । [ सर्गः ११ ] धनपतसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ इतीरयत्येव मयि क्षणेन वनेचरोऽयं प्रविशन्वनान्तम् । निबध्य गाढं नृहरिं लताभिः पुण्यैरगण्यैः पुरतो न्यधान्मे ॥ ४९ ॥ महर्षिभिस्त्वं मनसाऽप्यगम्यो वनेचरस्यैव कथं वशेऽभूः । इत्यदुताविष्टहृदा मयाऽसौ विज्ञाप्यमानो विभुरित्यवादीत् ।। ५० ।। एकाग्रचित्तेन यथाऽमुनाऽहं ध्यातस्तथा धातृमुखैर्न पूर्वेः ॥ नोपालभेथास्त्वमितीरयन्मे कृत्वा प्रसादं कृतवांस्तरोधिम् ।। ५१ ।। अाकण्र्य तां पद्मपदस्य वाणी मानन्दमप्रैरग्विलैरभावि । जगर्ज चोचैर्जगदण्डभाण्डं भूत्रा स्वधान्ना दलयनृसिंहः ।। ५२ ।। ततस्तदाभटचलत्समाधिः स्वात्मप्रबोधोन्मथितन्युपाधिः ।। उन्मील्य नेत्रे विकरालवक्त्रं व्यलोकयन्मानवपञ्चवक्त्रम् ॥ ५३ ।। ४२७ इत्येवं मयि कथयत्येव सत्ययं वनेचरो वनमध्यं क्षणमात्रेण प्रविशत्रुहारं लता भिर्गीढं निबध्य मे पुण्यैरगण्यैर्ममाग्रे स्थापितवान् ॥ ४९ ॥ अदुतेनाऽऽश्वर्येणाऽऽविष्टं मनो यस्य तथाभूतेन मयेत्येवं विज्ञाप्यमानोऽसौ विभुर्तृहरिरिति वक्ष्यवाणमुक्तवान् ॥ ५० ॥ तदुदाहरति । यथाऽमुना किरातयूनैकाग्रचित्तेनाहं ध्यानस्तथा पूर्वह्मादिभिरपि न ध्यातोऽतस्त्वं नोपालभेथा इति कथयन्मे प्रसादं कृत्वा तिरोधानं कृतवान् । इन्द्र वत्रा वृत्तम् ॥ ५१ ॥ पद्मपादस्य तां वाणीं श्रुत्वाऽखिलैरानन्दमयैरभावि सर्वेऽध्यानन्दममा अभूवन् । अनल्पेन स्वतेजसा जगद्भाण्डं दलयनृसिंहो जगर्ज च । उपजातिवृत्तम् ॥ ५२ ॥ ततस्तस्य गर्जनानन्तरं तस्याऽऽभटेन साहंकारनादेन चलन्समाविर्यस्य स्वात्म ४२८ श्रीम वजयः । चन्द्रांशुसोदर्यसटाजटालं तातीयनेत्राब्जकनन्निटालम् ॥ सहोद्यदुष्णांशुसहस्रभासं विध्यण्डविस्फोटकृदट्टहासम् ॥ ५४ ॥ नस्वाग्रनिर्भिन्नकपालिवक्ष स्थलोचलच्छोणितपङ्किलाङ्गम् । श्रीवत्सवत्संगलवैजयन्ती श्रीरत्नसंस्पर्धितदबामालम् ॥ ५५ ॥ मुरासुरत्रासकररातिघोर स्वाकारसारव्यथिताण्डकोशम् ।। दंष्ट्राकरालानननिर्यदमि ज्वालालिसंलीढनभोवकाशम् ॥ ५६ ॥ स्वरोमकूपेोद्वतविस्फुलिङ्ग प्रचारसंदीपितसर्वलोकम् ॥ जम्भद्विडुज्तृम्भितशंभुदम्भ संस्तम्भनारम्भकदन्तपेषम् ॥ ५७ ॥ [ सर्गः ११] साक्षात्कारेणोन्मथिताः कारणादित्रय उपाधयो यस्य स श्रीशंकरो नेत्रे उन्मील्य करालवक्त्रं मानवपश्चास्यं नृसिंहमवलोकयन् ।। ५३ ।। तं विाशेनाष्टि । चन्द्रकिरणसदृशाभिः सटाभिर्जटालं व्याप्तं ततीयनेत्रकमलेन कनत्स्फुरन्निटालं मस्तकं यस्य सहोद्यतां सूर्यसहस्राणां भा इव भा यस्य ब्रह्माण्डवि स्फोटकरोऽट्टहासो यस्य तम् ।। ५४ ।। नखाग्रेण निर्भिन्नात्कपालिवक्षस्थलादुचलच्छगितस्य पङ्केन व्याप्तान्यङ्गानि यस्य तं श्रीवत्सो नाम रोम्णामावर्तस्तेन युक्तं दक्षिणवक्षो यस्य तम् । ‘वत्सः पुत्रादिवर्षयोः । ‘तर्णके नोरसि झीबम्’ इति मेदिनी । गले वैजयन्त्या श्रीरत्नेन कौस्तुभमणिना च संस्पर्धिनी तस्य कपालिन अत्राणां माला यस्य तम् ॥ ५५ ॥ देवासुरत्रासकरस्यातिवोरस्य स्वाकारस्य सारेण बलेन व्यथितोऽण्डकोशो येन दंष्ट्राभि: करालान्मुखान्निर्गच्छदन्निज्वालालिभि संलढः समास्वादितो नभोवकाशो येन तम् ॥ ५६ ॥ स्वरोमकूपेभ्य उद्रतानां विस्फुलिङ्गानां प्रचारेण संदीपिताः सर्वलोका येन जम्भम [ सर्गः ११] धनपतिसूरिकृतडिण्डिमाख्यटीकांसंवलितः । मा भूदकाण्डे प्रलयो महात्म म्कोपं नियच्छेति गृणद्भिरारात् ।। ससाध्वसैः प्राञ्जलिभिः सगात्र कम्पैर्विरिश्यादिभिरथ्र्यमानम् ॥ ५८ ॥ विलोक्य विद्युचपलोग्रजिह्व यतिक्षितीशः पुरतो ऋसिंहम् ।। अभीतिरेडिष्ट तदोपकण्ठं स्थितोऽपि हपश्रपिनद्धकण्ठ ॥ ५९ ।। नरहरे हर कोपमन्नर्थदं तव रिपुर्निहतो भुवि वर्तते । कुरु कृपां मयि देव सनातनीं जगांददं भयमति भवदृशा ।। ६० ।। तव वपुः किल सत्त्वमुदाहृतं तव हि कोपनमण्वपि नोचितम् !! तदिह शान्तिमवामुहि शर्मणे हरगुणं हरिराश्रयसे कथम् ॥ ६१ ।। ५४ सुरविशेषं द्वेष्टीति जम्भद्विडेिन्द्र उज्जूम्भित उलसितः शंभुर्महादेवस्तयोर्दम्भस्यै क्षमापनकैतवस्य षत्संस्तम्भनं तस्याऽऽरम्भको दन्तपेषो यस्य ॥ ५७ ॥ [ दम्भो ‘दम्भस्तु कैतवे कल्के' इति मेदिन्याः संहारकालिकजगद्भयरचनकैतवविशेषः] ॥५७॥ हे महात्मन्नसमये पलयो मा भूदतः कोपं नियच्छेत्येवं ससाध्वसैः सगात्रकम्पैः प्राञ्जलिभिरैदरात्स्तुवद्भिर्बह्मादिभिः प्राथ्यैमानम् ॥ ५८ ॥ [ आरादूर एव ] ॥५८॥ विद्युद्धचपलोग्रजिह्वमेवंभूतं नृहरिं पुरतो विलोक्य तदा समीपं स्थितोऽपि भीति रहितो हर्षाश्रुभिः पिनद्धः कण्ठो यस्य स यतिराजः श्रीशंकरः स्तुतवान् । उपेन्द्र वत्रा वृत्तम् ॥ ५९ ॥ हे नरहरे कोपमुपसंहर । यतोऽनर्थदं यदर्थमाविष्कृतः स तु तव शत्रुनिहतः सन्भुवि वर्ततेऽतो हे देव सनातनीं मयि कृपां कुरु । किंच भवत्कोप दृष्टया सर्वमिदं जगद्भयमेति । द्रुतविलम्बितं वृत्तम् ॥ ६० ।। किंच तव विष्णोर्वपुः खलु सत्त्वमुदाहृतं हि यतस्तव कोपनमण्वपि नोचितं तत्त ४२९

  • गृणद्रिरारादित्यत्र गृणद्रिराद्रादितिपाठानुरोधेनेदम् । आदर्शपुस्तकेषु तु नायमुपलभ्यते ।

१ क. 'काले प्र'। २ क. ख. १. 'स्य क्षगाप'। ४३१० श्रीमच्छकरदिग्विजयः । सकलभीतिषु दैवतैम स्मर न्सकलभीतिमपोह्य सुखी पुमान् ।। भवति किं प्रवदामि तवेक्षणे परमदुर्लभमेव तवेक्षणम् ।। ६२ ।। स्मृतवतस्तव पादसरारुह मृतवतः पुरुषस्य विमुक्तता ।। तव कराभिहतोऽमृत भैरवो न हि स एप पुनर्भवमेष्यति ॥ ६३ ।। दितिजसूनुममुं व्यसनार्दितं सकृदरक्षदुदारगुणा भवान् ।। सकलगत्वमुदीरितमस्फुटं प्रकटमेव विधित्सुरभूत्पुरः ॥ ६४ ॥ [ सर्गः ११ ] स्मादस्मिन्काले युग्वाय शान्त पापुहि । तवैतन्नोचितमिति साक्षपमाह । रुद्रगुणं तमः सत्त्वगुणा विष्णुस्त्वं कथमाश्रयसं ॥ ६१ !। एवं कोपशान्ति प्रार्थयित्वा स्तैतैि । हे दैवर्तम सकलभीतिषु स्मरंन्सैन्सर्वभयम पोह्य पुमान्मुखी भवति । तव दर्शने सति किं प्रवदामि' स यद्भवति न तद्वतुं शक्य मित्यर्थः । तस्मात्तव दर्शनं परमदुर्लभमेव ।। ६२ । [ सकलेति । हे अ ‘अकारो वासुदेवः स्यात्' इत्यकाक्षरकोशादयि विष्णो इत्यर्थः । दैवतं स्वस्वोपास्यपारमेश्वरली लाविग्रहविशेषावच्छिन्त्रं हरिहरादिपदवाच्यं चैतन्यमिति यावत् ] ।। ६२ ।। अथ कापालिकस्य वमोक्षाय व्याजनाऽऽह । तव पादकमलं स्मृतवतो मृतवतः पुरुषस्य विमुक्तता भवति । अयं तु भैरवस्तव करेणाभिहतः सन्मृतोऽतः स एष पुन संसृतिं न प्राप्स्यतीत्यर्थः ।। ६३ ।। भक्तरक्षणं तद्वचनपालनं च तव स्वभाव एवेत्याह । दितिजस्य हिरण्यकशिपो पुत्रममुं दुःखार्दितं प्रह्लादमुदारगुणो भवान्सकृद्रक्षत् । कासाविति पित्रा पृष्टेन तेनोदीरितं सर्वत्रैवास्तीति सर्वगत्वमस्फुटं प्रकटमेवविधातुमिच्छुः पुरोऽग्रे भवान्प्रा दुरभूत् || ६४ ।। १ ग. ‘तमं स्म। २ ख. सत्त्वगणी । ३ ग. *ति । दै'। ४ ग. ‘तमं त्वां स'। ५ ख. 'रन्स वै'। ६ ग. घ. "न्स स'। ७ ख. ग. "मि य'। ८ क. ख. चं प्रह्लादममुमुदा । [ मर्गः ११] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । सृजसि विश्वमिदं रजसाऽऽवृत स्थितिविधौ श्रितसत्त्व उदायुधः ॥ अवसि तद्धरणे तमसाऽऽवृतो हरसि देव तदा हरसंज्ञितः ॥ ६५ ॥ तव जनिर्न गुणास्तव तत्त्वतो जगदनुग्रहणाय भवादिकम् । तव पदं खलु वाङमनसातिगं श्रुतिवचश्चकितं तव बोधकम् ॥ ६६ ॥ नरहरे तव नामपरिश्रवा त्प्रमथगुह्यकदुष्टपिशाचकाः ।। अपसरन्ति विभोऽमुरनायका न हि पुरःस्थितये प्रभवन्त्यपि ॥ ६७ ॥ त्वमेव सर्गस्थितिहेतुरस्य त्वमेव नेता ऋहरेऽस्विन्लस्य ॥ त्वमेव चिन्त्यो हृदयेऽनवद्ये त्वामेव चिन्मात्रमहं प्रपद्ये ॥ ६८ ।। ४३१ त्वमेव ब्रह्मादिरूपेण सृष्टयादिकं करोषीत्याह । रजसाऽऽवृतो विश्वं सृजसि । स्थितिविधौ स्वीकृतसत्त्व उद्यतायुधः पालयसि । तस्य हरणसमये हे देव तमसाऽऽ वृतस्तदा हरसंज्ञितो हरासि ॥ ६५ ॥ वस्तुतस्त्वजस्य जन्म निर्गुणस्य गुणाश्च नैव सन्ति । त िजन्मादिकं किमर्थमित्यन आह । तव जन्मादिकं जगदनुग्रहणाय । यतस्तव पदं वाङ्मनसातिगम् 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इत्यादिश्रुतेः । तर्हि ‘तं त्वैोपनिषदं पुरुषं पृच्छामि’ इति श्रुतेः कथं पुरुषस्य श्रुतिगम्यतेति चेत्तत्राऽऽह । श्रुतिवचश्चकितं सत्तव बोधकम्। 'अस्थूलमनणु' इत्येवं निषेवमुखेन लक्षणावृत्या च बोधयति । न तु साक्षा दित्यर्थः ।। ६६ ।। यद्यपि नामरूपादिविनिर्मुक्तस्त्वं तथाऽपि हे नरहरे तव नामपरिश्रवणात्ममथाद योऽपसरन्ति दूरतरं गच्छन्ति । हे विभो दैत्यनायकास्तु पुरःस्थितयेऽपि समर्था न भवन्ति ।॥ ६७ ।। तथाच यतः सगादिहेतुर्नियश्रादिश्च त्वमेवातस्त्वामेव चिन्मात्रमहं प्रपद्य इत्याह । १ ख. ग. घ. 'तः । ६५। न. च ज'। २. क. 'ति कथं श्रु'। श्रीमच्छंकरदिग्विजयः । [ सर्गः ११] हतो वराको हि रुषं नियच्छ विश्वस्य भूमन्नभयं प्रयच्छ ॥ एते हि देवाः शममर्थयन्ते निरीक्ष्य भीताः प्रतिखेदयन्ते ॥ ६९ ।। द्रष्टुं न शक्या हि तवानुकम्पा हीनैर्जनैर्निह्नतकोटिशंपाम् ।। मूर्ति तदात्मनुपसंहरेमां पाहि त्रिलोकीं समतीतसीमाम् ॥ ७० ॥ कल्पान्तोज्नृम्भमाणप्रमथपरिवृढप्रौढलालाटवह्नि ज्वालालीढत्रिलोकजनितचटचटाध्वानधिकारधुर्य: ॥ मध्येब्रह्माण्डभाण्डोदरकुहरमनैकान्त्यदुस्थामवस्थां स्त्यानस्त्यानो ममायं दलयतु दुरितं श्रीवृसिंहाट्टहासः ॥ ७१ ॥ त्वमेवेति । उपजातिवृत्तम् || ६८ || [ अस्य जन्यजगतः । अनवद्य इति च्छेदः । निदर्दोष इत्यर्थः ] ॥ ६८ ॥ एवं स्तुत्वा रोषशान्ति पुनः प्रार्थयते । हि यस्मद्वराको हतोऽत: कोपं नियच्छ । हे भूमंस्तेन च विश्धस्याभयं प्रयच्छ । हि यस्मादेते देवाः शमं प्रार्थयन्ते । निरीक्ष्य भीताः प्रतिखेदं प्रापुवान्ति ॥ ६९ ॥ [ एत इत्यङ्गल्या नभःसंस्थितानां प्रागुक्तब्रह्मा दिदेवानां निर्देशो ध्वन्यते ]॥ ६९ ॥ किंच हि यस्मात्तवानुकम्पा हीनैर्जनैद्रष्टुं न शक्या तत्तस्माद्ध आंत्मन्निमां तिरस्कृ तकोटिविद्युतं मृतिमुपसंहर । तेन च भयात्पमतिक्रान्तसीमां त्रिलोकीं पाहि ॥७०॥ अथेदानीं श्रीवृसिंहाट्टहासं वर्णयंस्तस्मादुरितशमं पार्थयति । कल्पान्त उनृम्भ माणस्य प्रमथपरिवृढस्य रुद्रस्य प्रौढो यो लालाटवह्निस्तस्य ज्वालाभिरालीढायां त्रिलोक्यां जनितस्य चटचवटाशब्दस्य विकारे धुर्यः । पुनश्च मध्येब्रह्माण्डोदरकुहरं ब्रह्माण्डभाण्डात्मकपात्रजठरच्छिद्रमध्ये योऽनैकान्त्यनाव्यभिचारेण दुस्था दुर्घटैकरू पेण स्थितिर्यस्या अनेकरूपां जन्ममरणादिलक्षणामवस्थां प्रति स्त्यानस्त्यानोऽनल घनो वह्निमूर्तिः । *स्त्यानं स्निग्धेऽपि च घने त्वनलालस्ययोरपि' इति मेदिनी । एवंभूतोऽयं श्रीनृसिंहाट्टहासो मम दुरितं दलयतु । स्रग्धरा वृत्तम् || ७१ ॥ [ सर्गः ११ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । न्मन्थेनोत्क्षोभिदुग्धोदधिलहरिमिथःस्फालनाचारघोरः ॥ कल्पान्तोन्निद्ररुद्रोचतरडमरुकध्वानबद्धाभ्यसूयो घोपोऽयं कर्णघोरः क्षपयतु नृहरे रंहसां संहतिं नः ।। ७२ ॥ क्षुन्दानो मडूक्षु कल्पावधिसमयसमुज्जूम्भदम्भोदगुम्फ स्फूर्जद्दम्भोलिसंघस्फुरदुरुरांटितास्वर्वगर्वप्ररोहान् । ४३३ र्गम्भीरस्तेऽट्टहासो हर हर नृहरे रंहसांऽहांसि हन्यात् ॥ ७३ ॥ एवं विशिष्टनुतिभिर्तृहरौ प्रशान्ते स्वं भावमेत्य मुनिरेष बभूव शान्तः ॥ स्वप्रानुभूतमिव शान्तमनाः स्मरंस्त मात्मानमात्मगुरवे प्रणतिं चकार ॥ ७४ ॥ किंच मध्ये व्यानद्धस्य सम्यग्बद्धस्य वातंधयो वायुपो वासुकिसंज्ञः सर्पस्तलक्ष णस्य गुणस्य वलनस्याऽऽवेष्टनस्याऽऽवानं स्थापनं यत्र स चासैौ मन्थनाद्रिर्मन्दरा चलस्तेन यी मन्थो मन्थनं तेन क्षोभिणः क्षीरसमुद्रस्य लहरीणां यो मिथःस्फालना चारस्ताडनाचारस्तद्वद्धोरस्तस्माद्धोर इति वा । श्रुतश्च कल्पौन्त उन्निद्रस्य रुद्रस्योचै डेमरुकशब्देन बद्धाऽभ्यसूया येन तथाभूतो यं कर्णघोरो नृहरेघपो नोंऽइसां पापानां समुदायं क्षपयतु ॥ ७२ ॥ किंच कल्पान्तसमये समुज्नृम्भतामम्भोदानां गुम्फे समृहे स्फूर्जतामशनीनां संघस्य स्फुरद्यदुरुरटितं बृहद्रर्जन तस्यानल्पान्गर्वप्ररोहान्मङ्कक्षु क्षुन्दान आशु चूर्णीकु वाणः । पुनश्च क्रीडायै यो वराहेन्द्रस्तस्य नासायाः सरभसं सवेगं विसरन्यो घोरो घूधलक्षणः शब्दस्तस्य श्ररिव श्रीर्यस्य स गम्भीरस्ते नृहरेरदृहासो हे हर हरेति संभ्रमे वीप्सा । वेगेन नः पापानि हन्यातू ॥ ७३ ॥ एवं विशिष्टस्तुतिभिर्तृहरौ पशान्ते सत्येष मुनिः पद्मपादः भावमेत्य शान्तो स्वं बभूव । ततश्च शान्तमनाः स्वप्रानुभूतमिव तं स्वात्मानं स्मरन्सन्स्वगुरवं नात प्रकर्षेण चकार । वसन्ततिलका वृत्तम् ॥ ७४ ॥ १ ग. 'ल्पान्तोन्नि'। २ ख. घ. 'व तमात्मा' ४३४ श्रीमच्छवकरदिग्विजयः । चारित्र्यमेतत्प्रयतविसंध्यं भक्तया पठेद्यः शृणुयादवन्ध्यम् । तीत्र्वाऽपमृत्यु प्रतिपद्य भक्ति स भुक्तभोगः समुपैति मुक्तिम् ॥ १२२३ ॥ इति श्रीमाधवीये तदुग्रभैरवनिर्जयः ॥ संक्षेपशंकरजये सर्ग एकादशोऽभवत् ॥ ११ ॥ अथ द्वादशः सर्गः । अथैकदाऽसौ यतिसार्वभौम स्तीर्थानि सर्वाणि चरन्सतीथ्यैः । घोरात्कलेगपितधर्ममागा द्रोकर्णमभ्यर्णचलार्णवौघम् ॥ १ ॥ उक्तचारित्र्यपठनादेः फलमाह । चारित्र्यमिति । यतः पावधानः । अव न्ध्यमनिष्फलम् । उपजातिवृत्तम् ॥ १२२३॥ [ प्रयतः पृतः पन्नित्यर्थः ] ॥ ७५ ॥ [ सर्गः १२ ] [ इति श्रीति । तदिति । तं श्रीशंकराचार्ये प्रत्यागतो य उग्रः शिरःपंहरणकामु कत्वाद्भयंकर एतादृशो यो भैरवी मैरवप्रणीततत्रविशेषमतनिष्ठः कापालिकविशेषस्तस्य नितरां निरुक्तनाशावविर्जयः पराजयो यत्र स तथेत्यर्थः ] ।। ११ ।। इति श्रीपरमहंसपरिव्राजकाचार्यबालगोपालतथिश्रीपूज्यपादशिप्यदत्त वंशावतंसरामकुमारसूनुधनपातिसृरिकृते श्राशंकराचार्थविजयड़ि [ण्डम एकादशः सर्गः ॥ ११ ॥ अथ द्वादशस्य टीका । अथ हस्तामलकादिपसङ्गः सपरकरं वर्णयितुमारभते । अथानन्तरमेकस्मिन्काले यतिचक्रवर्ती श्रीशांकरः शिष्यैः सह सर्वाणि तीर्थानि चवरन्घोरात्कलेगॉपितो रक्षितो धर्मो येन तमभ्यर्णोऽविदूरश्चलः समुद्रस्यैोधो रयो यस्य तं गोकर्णमागात् ।'अभेश्चावि दूर्ये' इत्यनेनार्दैर्निष्ठाया इण्निषेधः । उपजातिवृत्तम् ॥ १ ॥ [ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । विरिश्विनाम्भोरुहनाभवन्द्य प्रपश्वनाट्यादुतसूत्रधारम् | नुष्टाव वामार्धवधूटिमस्त दुष्टावलप मणगमन्महशम् ॥ २ ॥ वपुः स्मरामि कचन स्मरारे बलाहकाद्वैतवदावदश्रि । सौदामनांसाधितसंप्रदाय समर्थनादेशिकमन्यतश्च ।। ३ ।। चञ्चन्मृगाश्चत्तरदक्षपाणि । साकाङ्क्षकीरान्यकरं महोऽस्मि ॥ ४ ॥ गत्वा च प्रणमन्सन्महेशं तुष्टाव । कथं भृतमिति तत्राऽऽह । विििश्वनेन ब्रह्मणा ।

  • विरिश्वोऽथ विरश्च च ब्रह्मण्यपि विारीश्चनः

इति विश्धप्रकाशः । कमलनाभेन विष्णुना च वन्द्यम्। यतः प्रपञ्चलक्षणस्य नाट्य स्यादुतसूत्रधारं कृटस्थत्वे सति तत्कर्तृत्वेनाऽऽश्चर्यरूपं नाटकाचार्यम् । यतो माया सचिवमित्याह । वामावें वधूटर्वधूर्यस्य तं तथाऽप्यस्तां दुष्टानां कामक्रोवार्दानामव लपा यस्मात्तम् ॥ २ ॥ ४३५ वादिनी श्रीर्यस्मिन् । अन्यतो वामभागतश्च विद्युता सावितस्य मेघाविनाभावादिरू पस्य संप्रदायस्य समर्थनायां देशिकं गुरुम् ।। ३ ।। किंच वामाङ्गलक्षणे सीन्नि क्षेत्रे । सीमा घटिास्थितिक्षेत्रेष्वण्डकोशेऽपि च त्रियाम्' इति मेदिनी । अङ्कुरन्त्यां रोहन्त्यां किरणलक्षणायां तृण्यायां तृणपमृहे चश्चन्मृ गंण स्फुरतरो दक्षिणहस्तो यस्ये तत्तथा सव्यान्यस्य दक्षिणभागस्य शोभैव कलम: सस्यम् । कलम: पुंसि लेखन्यां शालैं। पाटचरेऽपि च इति मेदिनी । तस्याग्रस्य भक्षणे साकाङ्क्षः कीरः शुकोऽन्यकरे वामहस्ते यस्य तन्महोऽहमस्मि । तत्र शिवकरे मृगः पार्वतीहम्ते शुक इति बोध्यम् ॥ ४ ॥ १ ग. घ. स्मरामः । २ क. ख. घ. दामिनी “ । ५ ख. ग. घ. "रय तथा । ३ फ. 'रा-५। ब्र' । ४ ख. *क्षणसी'। ४३६ श्रीमच्छंकरदिग्विजयः । महीधकन्यागलसङ्गतोऽपि माङ्गल्यतन्तुः किल हालहालम् ।। यत्कण्ठदेशेऽकृत कुण्ठशक्ति मैक्यानुभावादयमस्मि भूमा।॥ १ ॥ गुणत्रयातीतविभाव्यमित्थं गोकर्णनाथं वचसाऽर्चयित्वा । तिस्रः स रात्रीत्रिजगत्पवित्रे क्षेत्रे मुदैष क्षिपति स्म कालम् ॥ ६ ॥ वैकुण्ठकैलासविवर्तभूतं हरन्नताघं हरिशंकराख्यम् । दिव्यस्थलं देशिकसार्वभौम स्तीर्थप्रवासी नचिरादयासीत् ॥ ७ ॥ १त्रमापनोदाय भिदावदाना मद्वैतमुद्रामिह दर्शयन्तौ । आराध्य देवौ हरिशंकरौ स द्वद्यर्थाभिरित्यर्चयति स्म वाग्भिः ॥ ८ ॥ किंच धराधरस्य हिमाचलस्य कन्याया गलेन संलम्रोऽपि माङ्गल्यतन्तुः सौभा ग्यसूत्रं यस्य कण्ठदेशे हालाहलं कुण्ठशक्तिमकृत । सोऽयं भूर्मक्यानुभावादहमेवास्मि ॥ ५ ॥ [ हालहालमिति प्रयोगस्तु च्छन्दोनुरोधादेव ] ॥ ५ ॥ गुणातीतैर्विभाव्यं विर्भावनीयं गोकर्णनाथामित्थं वचसाऽर्चयित्वा तिस्रो रात्रीविज गत्पवित्रे क्षेत्रे स एष मुदा कालं क्षिपति स्म । ६ ।। [ सर्गः १२] ततश्च वैकुण्ठकैलासयोर्विवर्तभूतं स्वातिरिक्ताकारेण वर्तत इति विवर्तस्तदूपं तयो रूपान्तरं नताघं हरत् । हरिशंकराख्यं दिव्यं स्थलं तीर्थप्रवासी देशिकसार्वभौमः शीघ्रमेवागात् ॥ ७ ॥ भेदवादिनां भ्रमापनोदायास्मलोकेऽद्वैतमुद्रां दर्शयन्तौ हरिशंकरौ देवावाराध्य स श्रीशंकर इति वक्ष्यमाणपकारेण द्यर्थाभिर्वाग्भिरर्चयति स्म ॥ ८ ॥

  • ख. 'भावनी'। २ घ. भैरवादीनां । [ सर्गः १२ ]

धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । वन्द्य महासोमकलाविलासं गामादरेणाऽऽकलयन्नादिम् ॥ मैनं महः किंचन दिव्यमड़ी कुर्वन्विभुर्मे कुशलानि कुर्यात् ॥ ९ ॥ ता एवोदाहरति । वन्धं संप्तष्यदिभिर्वन्दनीयम् । महतः सोमस्य पलयाब्वनी रस्य कलाभिरंशैः कलायां मूले वा विलासः क्रीडा यस्य । सोमः कुबेरे पितृदेवतायां वसुपभेदे च सुवाकरे च । दिव्यौषधीश्यामलतासमीरकरनीरेषु च वानरे च इति विश्धप्रकाशाः । ‘कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके' इति मेदिनी। सोमकस्य वेदापहारकस्यासुरस्य लावी नाशको लासः क्रीडा यस्येति वा । तथाभूतमनादिं सर्वकारणत्वादकारणं मैंनं मात्स्यं दिव्यमप्राकृतं किचनाचिन्त्यं तेजोऽङ्गीकुर्वन्गां नौकारूपां भूमिमादरेणाऽऽकलयन्विकर्षन्विभुरनन्तशक्तिव्यापको विष्णुर्मे कुशलानि कुर्यात् । तथाचेोक्तम् । रुपं स जगृहे मात्स्यं चाक्षुषोदधिसंग्वे । नाव्यारोप्य महामय्यामपाद्वैवस्वतं मनुम्’ इति “अहं त्वामृषिभिः साकं महीनावमुदन्वति । विकर्षन्विचरिष्यामि यावङ्काही निशा प्रभो। ५५ ४३७ इति च । अनादिभृतां गां वेदवाचमादरादाकलयन्प्रत्याहरन्निति वा तथाचोक्तम् । अतीते प्रलयापाय उत्थिताय स वेधसे । इति । पक्षे सोमस्य चन्द्रस्य कलाया विलासो यस्मिस्तया सह विलासो यस्येति वा । सोमानां हिमालयेोद्भवानां दिव्यौपीनां कलाभिरिति वा । पोमस्य कर्परस्येति वा । अनादिभूतां गां श्रुतिमादरेणाऽऽकलयन्विचारयन् । गां वृषभमादरेण प्रेरयन्निति वा । मेनाया हिमाचलभार्याया जातं किंचन पार्वतीलक्षणं महोऽङ्गकुवन्निति व्याख्ये यम् । इन्द्रवत्रा वृत्तम् ॥ ९ ॥ ४३८ श्रीमच्छंकरदिग्विजयः । यो मन्दरागं दधदादितेया न्सुधाभुजः स्माऽऽतनुतेऽविषादी ॥ स्वामद्रिलीलोचितचारुमूर्ते कृपामपार स भवान्विधत्ताम् ॥ १० ॥ उछासयन्यो महिमानमुचे स्फुरद्वराहीशकलेवरोऽभूत् ॥ तस्मै विदध्मः करयोरजस्र सायंतनाम्भेोरुहसामरस्यम् ॥ ११ ॥ एवं मत्स्यावतारमभिधायाथ कमठावतारं निरूपयन्नाह । यो मन्दरारूयमचलं दध दादितेयान्देवान्सुधाभुज आतनुते स्माविषादी खेदरहितः स भवानद्रेर्मन्दराचलस्य लीलायां भ्रमणात्मविलासार्थमुचिता योग्या चारुमूर्तिर्यस्य तस्य संबोधनं हेऽद्रिली लोचितचारुमूर्ते कूर्ममूर्ते स्वामपारां कृपां विधत्ताम् । पक्षे यो मन्दरागं मन्दरारूयपा दपं दधद्विषादी स्वयं विषभक्षको देवान्सुवाभुजो व्यातनुते स्माद्रौ कैलासे या लीला विलासस्वस्यामुचिता चारुमूर्तिर्यस्येति व्याख्येयम् । [ सर्गः १२] अगः स्यान्नगवत्पृथ्वीधरपादपयोः पुमान् । मन्दरस्तु पुमान्मन्थशैले मन्दारपादपे' इति मेदिनी । उपजातिवृत्तम् ॥ १०॥ [सुधेति । अमृताशिन इत्यर्थः । मन्देति । मन्दः स्वतःशून्यत्वालोकदृष्टिकल्पितत्वाच्च स्वल्पो यो रागस्तमित्यर्थः । दधद्धारय न्सन्निति यावत् ] ॥ १० ॥ अथं वराहावतारं वर्णयन्नाह । य उचैर्महेभूमेर्मानं चित्तोन्नतिमुलासयन्स्फुरैन्यो वराह्याः सूकर्या ईशो वराहीशास्तत्कलेवरस्तद्विग्रहोऽभूत् । ‘मानाश्चित्तोन्नतौ ग्रहे' इति विश्धप्रकाशः । पक्षे वराहीशकलेवरः शेषविग्रहस्तस्मै वराहीशो वासुकिः कलेवरे यस्येति वा । हस्तयोर्मुकुलितपद्मसाम्यमजस्र विदध्मः ॥ ११ ॥ [ उछासयन्निति । 'वाचिः पङ्किर्महिः केलिरित्याद्या हृस्वदीर्घयोः इति वाचस्पतेय महेः पृथ्व्या मानं विस्तारमुचैरूध्र्वम् । उलासयन्दंष्ट्राग्रेण धार यन्सन्नित्यर्थः । सायंतनेति । सायंकालिककमलसाम्यं मुकुलितत्वेन संपुटमित्यर्थः । पक्षे महिमानं सर्वेश्वरत्वेन माहात्म्यमित्यर्थः ] ॥ ११ ॥ १ क घ. 'थ वाराह'। २ ग. 'रन्त्या व । [ सर्गः १२ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । समावहन्केसरितां वर यः सुरद्विषत्कुञ्जरमाजघान । प्रह्लादमुच्छासितमादधानं पञ्चाननै तं प्रणुमः पुराणम् ॥ १२ ॥ उदैतु बल्याहरणाभिलाषो पो वामनो हार्यजिनं वसानः ॥ तपांसि कान्तारहितो व्यतानी दाद्योऽवतादाश्रमिणामयं नः ॥ १३ ॥ येनाधिकोद्यत्तरवारिणाऽऽथु जितोऽर्जुनः संगररङ्गभूमौ ॥ नक्षत्रनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथाः ।। १४ ।। ४३९ अथ वृसिंहावतौरं निरूपयन्नाह । तं पश्चास्यं सिंहं परमात्मानं पुराणं सदैकरसं प्रणुमः । तं कमिति तत्राऽऽह । यो वरां . केसरितां नृहरितां समावहन्पुराद्वषतां कुञ्जरं हिरण्यकशिपुमाजघान तं पुनः प्रह्लादमुलासितमादधानम् । पक्षे पञ्चमुखं सदा शिवं यः के शिरसि सरितां नदीनां मध्ये वरां श्रेष्ठां श्रीगङ्गां समावहन्सुरशात्रं गजा सुरमाजघान । मकर्षेणाऽऽल्हादमुलासितमादधानमित्यर्थः ॥ १२ ॥ अथ वामनावतारं वर्णयन्नाह । यो बलेः सकाशात्रैलोक्याहरणाभिलाषः सुन्दरं मृगचर्म वसानो वामन उदैदुदितोऽभूत् । कान्तया रहितस्तपांसि व्यतानीत्सोऽयमा श्रमिणामाद्यो ब्रह्मचारी नोऽस्मानवतात् । पक्षे यो मनोहारि मनोज्ञमजिनं वसानो दक्षाध्वराद्वलेराहरणाभिलाष उदैत्कान्तया सत्या । उपजातिवृत्तम् ॥ १३ ॥ अथ परशुरामावतारं निरूपयन्नाह । येनाधिकं यथा स्यात्तथोद्यत्तरेण वारिणा बालकेन परशुरामेणार्जुनः कार्तवीर्यः शीघ्र संगररङ्गभूमौ युद्धरङ्गभूमौ जितः । वारिर्वग्गजबन्धन्योः स्रीकृीबेऽम्बुनि बालके । ‘अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्यादृवले पुनरन्यवन्' इति मेदिनी । नक्षत्रनाथवचन्द्रवत्स्फुरितेन तेन केनापि नाथेन वयं सनाथाः । पक्षेऽविकं शिरस्युद्यत्तरं वारि जलं यस्यार्जुनः पार्थः । नक्षत्रनाथेन स्फुरितोऽलंकृत इत्यर्थः ॥ १४ ॥

  • क. प्रह्लाद'। २ ग. ‘रं वर्णय'। ३ घ. 'द्विषां कु'। ४ ख. ग. घ. 'वं के। ५ क. ष्ठां ग। ४४०

विलासिनाऽलीकभवेन धात्रा कामं द्विषन्तं स दशास्यमस्यन् ॥ देवो धरापत्यकुचोष्मसाक्षी देयादमन्दात्मसुस्वानुभूतिम् ॥ १५ ॥ श्रीमच्छकरदिग्विजयः । श्रीरामचन्द्रावतारं निरूपयन्नाह । अलीकमसत्यो भवः संसारो यस्मिस्तथाभूतेन विलासिना स्वधाम्रा स्वज्योतिषा यथेष्टं द्विषन्तं रावणमस्यत्रुत्क्षिपन्नाशायन्धरा भूमि स्तस्या अपत्यं सीता तस्याः कुचयोरुष्णतायाः साक्षी साक्षाद्रष्टा स देवोऽमन्दसुखा नुभूतिममितब्रह्मानन्दानुभवं देयात्। पक्षे दशेन्द्रियाणि मुखानि यस्य तथाभूतं द्विषन्तं कामस्यन्धरस्य पर्वतस्यापत्यं पार्वती तस्याः कुचोष्मसाक्षीति व्याख्येयम्। वरो गिरौ। ‘कापसतूलके कृर्मराजे वस्वन्तरेऽपि च ' इति मेदिनी ।। १५ ।॥ [ विलासीति । विलसन्त्यमोघत्वेन सर्वदा शोभन्त इति तथा ते च ते नालीका: शारविशेषाः “नालीकः शरशाल्याज्ञेष्वब्जखण्डे नपुंसकम् [ सर्गः १२ ] इति मेदिन्याः प्रसिद्धा एव तेभ्यो भवति विश्वामित्रोपदिष्टाखिलधनुर्वेदनिमित्तका स्रद्वारा प्रादुर्भवतीति तथा तेनेत्यर्थः । एतादृशेन धाम्रा ] [ देवो दीव्यतीति तथा जिगीषारसिकः क्रीडारापिकश्चेत्यर्थः । पक्षे विलासिना विशेषेण प्रकाशमानेन । दशेति । मदनम् ] ।। १५ ।। ‘चक्षरागः प्रथमं चित्तासङ्गस्ततोऽथ संकल्पः । निद्राछेदस्तनता विषयनिवृत्तिस्त्रपानाशा । उन्मादो मृन्छ मृतिरित्येताः स्मरदशा दशैव स्युः' इत्युक्तश्चक्षुरागाद्दिशावस्थारुपाण्येव विश्वभक्षणार्थमास्यानि यस्य तमित्यर्थः । एतादृशं द्विषन्तम् ‘आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरुपेण कौन्तेय दुष्परेणानलेन च' इति 'ज्ञान त्वात्मैव मे मतम्’ इति च स्मृतेज्ञनिद्वषद्वारा स्वद्वेषं कुर्वाणं तथा [ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्पटीकासंवलित ॥ उत्तालकेतुः स्थिरधर्ममूर्ति हलाहलस्वीकरणोग्रकण्ठः ।। स रोहिणीशानिशचुम्ब्यमान निजोत्तमाङ्गोऽवतु कोऽपि भूमा ॥ १६ ॥ विनायकेनाऽऽकलिताहितापं निषेदुषोत्सङ्गभुवि प्रहृष्यन् । यः पूतनामोहकचित्तवृत्ति रव्यादसौ कोऽपि कलापभूषः ॥ १७ ॥ ४४१ अथ बलरामावतारं वर्णयन्नाह । उचतालकेतुः स्थिरा धर्ममयी धर्माय वा मुर्ति र्यस्य हालाहलयोः सुराहलयोः स्वीकरणः ! 'हाला सुरायाम्' इति मेदिनी । तथाऽपि श्रेष्ठकण्ठो रोहिणीशेन वसुदेवेनानिशं चुम्ब्यमानमुत्तमाङ्गं शिरो यस्य स कोऽपि भूमाऽवाङ्मनसगोचरः । ‘यत्र नान्यत्पश्यति नान्यच्छुणोति नान्यद्विजानाति स भूमा ' 'यो वै भूमा तत्सुखम्’ इति श्रुत्युपलक्षितः परमात्माऽवतु। पक्ष उत्कृष्टताले गीतकाले केतू रुग्यस्य । मोक्षधर्ममयी मोक्षधर्मीय वा मूर्तिर्यस्य मोक्षधर्मस्य मूर्तिः कार्य तत्प्राप्य इति वा । हालाहलस्य विषस्य स्वीकरणेनोग्रकण्ठोहालाहलस्वीकरणोऽपि श्रेष्ठकण्ठ इति वा । रोहिणीशश्चन्द्रः । ‘तालः करतलेङ्गष्ठमध्यमायां च संमिते । गीतकालक्रियामाने करस्फाले दुमान्तरे । केतुर्ना रुक्पताकारिग्रहोत्पातेषु लक्ष्मणि । स्थिरा भूशालपण्यन शनैौ मोक्षे बले त्रिषुः' ।

  • मूर्तिः कार्यकाठिन्ययोः स्त्रियाम्' इति मेदिनी ॥ १६ ॥ [ उत्तालेति । उत्क

टस्तालस्तालाख्यवृक्ष एव केतौ ध्वजे यस्य स तथेत्यर्थः ] ॥ १६ ॥ अथ श्रीकृष्णावतारं वर्णयन्नाह । आकलिताद्दितापं समासादिताहितापं यथा स्यात्तथोत्सङ्गभुवि समीपस्थाने निषेदुषा निषण्णेनोपविष्टन विनायकेन गरुडेनोपल क्षितो यः पूतनाया मोहिका चित्तवृत्तिर्यस्य । कलापो बहँ भूषाऽलंकारो यस्यासै। कोऽपि वर्णयितुमशक्यः प्रहृष्यन्सन्नव्यात् । संसृतिलक्षणादनर्थादवतु । पक्ष अभाक लिताः शुण्डया समासादिताः शिवशिरसि स्थापिता आपो यस्यां क्रियायां तथाऽङ्क स्थाने निषेदुषा विनायकेन विघ्रराजेनोपलक्षितो यः पूतं पवित्रं नाम यस्योद्दिकेषु स्वचिन्तकेषु चित्तवृत्तिर्यस्य तेषां चित्तवृत्तिर्यस्मिन्निति वा । कलापस्तूर्ण भूषा यस्या ४४२ पाठीनकेतोर्जयिने प्रतीत सर्वज्ञभावाय दयैकसी ॥ प्रायः क्रतुद्वेषकृताद्राय बोधैकधा स्पृहयामि भूत्रे ॥ ९८ ।। व्यतीत्य चेतो विषयं जनानां विद्योतमानाय तमोनिहन्त्रे ॥ भूयांसि मे सन्तुतमां नमांसि ॥ १९ ॥ सावित्यर्थः ॥ १७ ॥ [ उत्सङ्गेति । कालियमर्दनकाल उत्सङ्गभुवि निकटभुवि ] [अकलितेति । आकलितोऽज्ञातोऽहितापः सर्पविषसंतापो यथा स्यात्तथा प्रहृष्यन्सन्नि त्यर्थः] [पक्षे कलापभूषः कलाः पातीति तथा चन्द्रः स भूषा यस्य स तथा] ॥१७॥ [ सर्गः १२] अथ बुद्धावतारं निरूपयन्नाह । पाठीनकेतोमनकेतोः कामस्य जयिने । ‘मारजिलो कजिजिनः' इत्यमरः । प्रतीतः प्रख्यातः सर्वज्ञभावो यस्य तस्मै दयैकसीन्ने । प्रायः क्रतुषु यज्ञेषु द्वेषो येषां तेषु कृत आदरो येन । तैः कृत आदरो यस्मिन्निति वा । तरुमै बोवैकधान्ने भून्ने स्पृहयामि । एवंभूतं प्राघुमिच्छामि । पक्षे क्रतौ संकल्पे द्वेषो येषां तेषु कृत भादरो येन । यद्वा । दक्षक्रतौ द्वेषवत्सु वीरभद्रादिषु कृतादरायेति व्याख्येयम् । इन्द्रवज्रा वृत्तम् ॥ १८ ॥ [ क्रांत्विति । क्रतौ संकल्पे द्वेषो येषां योगिनां तैः कृत आदरो यत्र ] ॥ १८ ॥ कल्क्यवतारं वर्णयन्नाह । जनानां चेतो विषयं व्यतीत्य विद्योतमानायाचिन्त्य विग्रहं स्वीकृत्य प्रकाशमानाय । कल्पात्मतमोनिहन्त्रे । सतामावासाय कृत अभाशयो येन सतः सत्ययुगस्येति वा । सदामावासो यस्मिस्तथाभूते कृतयुगेऽभिप्रायो यस्येति वा । परिच्छिन्नतां शातयति । भून्ने मम भूयांसि नमांसि नमस्कारा अतिशयेन सन्तु । पक्षे चेवतोऽगोचरतया प्रकाशामानाय स्वयंप्रकाशायात एव चक्षुःसहकृतभानुवदृत्या रूढः संस्तमोनिहन्तेत्याह । अज्ञानलक्षणतमोनिहन्त्रे पुनः परिपूर्णानन्दरूपाय परब्र ह्मणे । सदैव वासाय कृतः सर्वस्थाऽऽशयोन्तः करणं येन । सतामावास काश्यादै कृतोऽभिमायो येनेति वा । उपजातिवृत्तम् ॥ १९ ॥ १ घ. 'रं वर्णय'। २ घ. 'केतोः का'। [ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ वृषाकपायीवरयोः सपयाँ वाचाऽतिमोचारसयेति तन्वन् । मुनिप्रवीरो मुदितात्मकामो मूकाम्बिकायाः सदनं प्रतस्थे ॥ २० ॥ अड़े निधाय व्यसृमात्मजातं महाकुलौ हन्त मुहुः प्ररुद्य ॥ तदेकपुत्रौ द्विजदंपती स दृष्टा दयाधीनतया शुशोच ॥ २१ ॥ अपारमञ्चत्यथ शोकमस्मि न्नभूयतोचैरशरीरवाचा ॥ जायेत संरक्षितुमक्षमस्य जनस्य दुःखाय परं दयेति ॥ २२ ॥ आकण्र्य वाणीमशरीरिणीं ता मसाविति व्याहरति स्म विज्ञः ॥ सत्यं तवैकस्य तु शोभते सा ॥ २३ ॥ ४४३ उपसंहरति । इत्येवमतिक्रान्तकदलीफलरसया वाचा लक्ष्मीपार्वत्यधीशायोः पूजां वितन्वन्मुदितश्चासावात्मकामश्च मुदिता आत्मकामा येनेति वा । स मुनिप्रवीरो मूकाम्बिकायाः सदनं पतस्थे । उपजातिवृत्तम् ।। २० ।। तत्र जातं वृत्तान्तमावेदयाति । विगतमाणमात्मजमङ्के निधाय । हन्तेत्यतिकटे । मुहुः परुद्य महाव्याकुलौ यतः स एवैकः पुत्रो ययोस्तौ दंपती दृष्टा स श्रीशंकरो द्यावीनतया शुशोच । उपजातिवृत्तम् ॥ २१ ॥ [ तत्र मार्गे संपत्रं कंचिदृत्तान्तं कथयति । अङ्क इति ] ॥ २१ ॥ एवमस्मिञ्श्रीशाकरेऽपारं शोकं गच्छति सत्युचैरशरीरवाचाऽभूयताशारीरिणी वाग भूत् । तामुदाहरति । संरक्षितुमक्षमस्य नरस्य दया परं केवलं दुःखायैव जायेतेत्ये वमभूयतेत्यर्थः ।। २२ ।। तामशारीरिणीं वाचमाकण्यसौ विज्ञः श्रीशंकर इति व्याहराति स्म । तदाह इदं सत्यं जगत्रयीरक्षणकुशलस्यैवं वक्तस्तैववैकस्य तु सा दया शोभते । तथाच दयया समर्थन त्वयैतयोः शोकोऽपाकरणीय इति भावः ॥ २३ ॥ ४४४ श्रीमच्छंकरदिग्विजयः । इतीरयत्येवं यतौ द्विजाते सुतः सुखं सुप्त इवोदतिष्ठत् ॥ समीपगैः सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये च ॥ २४ ॥ रम्योपशल्यं कृतमालसाल रसालहिँतालतमालशालैः ॥ सिद्धिस्थलं साधकसंपदां त न्मूकाम्बिकायाः सदनं जगाहे ॥ २५ ॥ उचावचानन्दजबाष्पमुच रुद्वीर्णरोमाञ्चमुदारभक्तिः ॥ अम्बामिहापारकृपावलम्बां संभावयन्नस्तुत निस्तुलं सः ॥ २६ ॥ पारेपरार्ध पदपद्मभा:मु षष्टयुत्तरं ते त्रिशतं तु भासः ॥ अविश्य वह्नयर्कमुधामरीची नालोकवन्त्यादधते जगन्ति ॥ २७ ॥ इत्येवं यतौ कथयत्येव ब्राह्मणस्य सुतः सुखं सुप्त इवोत्थितः । सर्वस्मै जनाय हितं सर्वजनीनमस्य श्रीशंकरस्य चारित्र्यमालोक्य समीपगैर्विशेषेण विस्मयश्च प्राप्तः ।

  • सर्वजनाछञ्खश्चेति खः' ।। २४ ।।

[ सर्गः १२] कृतमालैः सालादिवृक्षविशेषे रम्यमुपशल्यं ग्रामान्तं यस्य । ‘ग्रामान्त उपशाल्यं स्यात्' इत्यमरः । साधकसंपदां सिद्धिस्थलं तन्मूकाम्बिकायाः सदनं जगाहे । उपजा तिवृत्तम् ॥ २५ ॥ उच्चो ब्रह्मलोकानन्दोऽवचो नीचो यस्मात्तथाभूतानन्दजन्यबाष्पमुचैरुद्रीर्णरोमाश्वं च यथा स्यात्तथोदारभक्तिः स श्रीशंकर इह लोकेऽपारकृपावलम्बामम्बां पूजयन्नि स्तुलं निरुपमै यथा स्यात्तथा स्तुतवान् । इन्द्रवज्रा वृत्तम् ॥ २६ ॥ [ अपारेति । अपारकृपामनम्तानुकम्पामेवावलम्बत इति तथा तामित्यर्थः ] ॥ २६ ॥ स्तुतिमेव दर्शयति । परार्वस्य परार्धसंख्यायाः पारे तामतिक्रान्ता यास्तव चरणकम लभासो मयूखास्तासु षष्टयुत्तरं त्रिशतं तु भासो वह्निसूर्यचन्द्रानाविश्य जगन्यालोक १ ग. ‘स्य चरित्रमा' । १ स्व. ग. ध. भीचैर्यस्मा'। [ सर्गः १२] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अन्तश्चतुःषष्टयुपचारभद रन्तेवसत्काण्डपटप्रदानैः । आवाहनाचैस्तव देवि नित्य माराधनामादधते महान्तः ॥ २८ ॥ अम्बोपचारेष्वधिसिन्धुषष्टि शुद्धाज्ञयोः शुद्धिदमेकमेकम् ॥ सहस्रपत्रे द्वितये च साधु तन्वन्ति धन्यास्तव तोषहेतोः ॥ २९ ॥ आराधनं ते बहिरेव केचि दन्तर्बहिश्चैकतमेऽन्तरेव । अन्ये परे त्वम्ब कदापि कुर्यु नैव त्वदैक्यानुभवैकनिष्ठाः ॥ ३० ॥ वन्त्यादधते कुर्वन्ति । भासस्त्वणिमादिभिरावृतां मयूखैरित्यादि वदता श्रीनाथेनोक्ता वेदितव्याः ॥ २७ ॥ ४४५ हे देवि महान्तोऽन्तर्मनस्यावाहनासनारोपणसुगन्धितैलाभ्यङ्गम जनशालापवेशना चैश्चतुःषष्टयुपचारभेदैस्तथाऽन्तेवसत्काण्डपटपदानैरन्ते वमतां काण्डपटानां दृष्यावो लम्बिवायुसंचारार्थानां पटानां मदानैह देवि महान्तो नित्यमारावनामादपते कुर्वन्ति । “अपटी काण्डपटः स्यातू’ इति वैजयन्ती ॥ २८ ॥ किंच हेऽम्ब चतुःषष्टयुपचारेषु मध्य एकमेकमुपचारं शुद्वाज्ञयाद्वैिताये सहस्र दले धुवमण्डलसंज्ञे पदे च धन्याः पुरुपास्तव तपाथै साधु ,म्यक्तन्वन्ति विस्तार यन्ति । उपजातिवृत्तम् ॥ २९ ॥ हेऽम्ब केचित्प्राकृतास्तवाऽऽराधनं बहिरेव कुर्युरेकतमे मध्यमास्त्वन्तर्बहिश्चैवान्य उत्तमास्त्वन्तरेवापरेऽत्युत्तमास्तत्त्वविदस्तु हेऽम्ब कदाऽपि न कुर्युः । कुत इति चेत्त त्राऽऽह । यतस्त्वदैक्यानुभवैकनिष्ठास्त्वया सह स्वस्य पदक्यं तस्यानुभवं विज्ञाने मुख्या निष्ठा येषां ते इन्द्रवज्रा वृत्तम् ॥ ३० ॥ १ ख. ग. ध. 'घाथै सा "। श्रीमच्छंकरदिग्विजयः । अष्टोत्तरत्रिंशतियाः कलास्ता स्वध्यः कलाः पञ्चनिवृत्तिमुख्याः ॥ तासामुपर्यम्ब तवाडूधिपमं विद्योतमानं विबुधा भजन्ते ॥ ३१ ॥ कालाग्रुिपेण जगन्ति दग्ध्वा सुधात्मनाऽऽपुाव्य समुत्सृजन्तीम् ।। ये त्वामवन्तीममृतात्मनेव ध्यायन्ति ते सृष्टिकृतो भवन्ति ॥ ३२ ॥ हामाधारशक्तिः १ यं धूम्रार्चिः २ रमूष्मा ३ लं ज्वलिनी ४ वं ज्वालिनी ५ शं विस्फुलिङ्गिनी ६ षं सुश्रीः ७ सं सूपाया ८ ई कविता ९ ढुं कव्यवाहा १० कंभं तपिनी ५१ खंबं तापिनी १२ गंफं धूम्रा १३ घंपं मरीची १४ डैनं ज्वालिनी १५ चंधं रुचिः १६ छंदं सुषम्रा १७ जंथं भोगदा १८ झंते विश्धा १९ व्रणं बोधिनी २० रंहं धारिणी २१ गंवं क्षमा २२ अममृता २३ ऑां मानदा २४ इं पुंष्पा २५ ई तुष्टि: २६ उं पुष्टिः २७ ऊँ रातः । २८ घं धृतिः २९ ऋटुं शशिनी ३० लं चन्द्रिका ३ १ लू कान्तिः ३२ एं ज्योत्स्ना ३३ फै श्रीः ३४ ऑ प्रीतिः ३५ औौं गदा ३६ ॐ पूर्णा ३७ अः पूर्णामृता ३८ इत्येता या अष्टोत्तरत्रिंशतिकलास्तासु पञ्च कला बोधिनीममुखा निवृत्तिप्रधोनाः *पराध्यः श्रेष्ठास्तासामुपरि हेऽम्ब विद्योतमानं प्रकाशमानं तव चरणारविन्दं विबुधा देवा पण्डिताश्च भजन्ते ॥ ३१ ॥ [ अष्टोत्तर त्रिंशतीति । अष्टोत्तरमूध्वै यस्याः सैतादृशी त्रिंशतिः संख्या यथा स्यात्तथेत्यर्थः । एवं च क्रियाविशेषणत्वेन कीबत्वात्रैवापप्रयोगत्वापातिारीति बोध्यम् । अध्याँ अघय पूजाविधयेऽहौ रश्मिध्यानात्मकपूजोपयोगिन्य इत्यर्थः ] ॥ ३१ ॥ [ सर्गः १२ ] यतस्त्वदीयभजनं सृष्टिकर्तृत्वादिसामथ्र्यसंपादकमित्याह । कालाभिरूपेण जगन्ति दग्ध्वा सुवात्मनाऽऽसाव्य समुत्सृजन्तीममृतात्मनैव च पालयन्तीं त्वां ये ध्यायन्ति ते सृष्टिकर्तारो भवन्तीति योजना । उपजातिवृत्तम् ॥ ३२ ॥

  • नामैकदेशे नामप्रहणमिति न्यायानुसारेणेदम् ।

१ घ."स्वध्र्या: क"। २ ग. ये पालयन्ती"। ३ ख. यंपं । ४ क. ग. ढंनं । ५ क. ग. घ. जर्जतं । ६ क. ख. ग. घ. जंणं । ७ ख. घ. णंठं । ग. णं८ । ८ क्र. पुष्या । ९ क. ख. घ. 'धानास्ता । [ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ ये प्रत्यभिज्ञामतपारविज्ञा धन्यास्तु ते माग्विदितां गुरुक्तया । सैवाहमस्मीति समाधियोगा त्वां प्रत्यभिज्ञाविषयं विदध्युः ॥ ३३ ॥ आधास्चक्रे च तदुत्तरस्मि स्राराधयन्त्यैहिकभोगलुब्धाः ।। उपासते ये मणिपूरके त्वां वासस्तु तेषां नगराद्रहिस्ते ॥ ३४ ॥ अनाहते देवि भजन्ति ये त्वा मन्तः स्थितिस्त्वन्नगरे तु तेषाम् ॥ श्रुद्धाज्ञयोर्ये तु भजन्ति तेषां क्रमेण सामीप्यसमानभोगौ ॥ ३५ ॥ ४४७ तथाच ये सविशेषां त्वामेवं ध्यायन्ति त एवंभूता भवन्ति ये तु निर्विशेषां त्वाम भेदेन जानन्ति ते तु धन्या एवेत्याह । ये तु गुरुक्याऽऽदौ विदितां समाधियोगा त्सैवाहमस्मीति त्वां प्रत्यभिज्ञाविषयं विदध्युस्ते सचिदानन्दलक्षणं ब्रह्माहमस्मीति प्रत्यभिज्ञामतस्याद्वैतमतस्य पारं जानन्तीति ते तथाभूता धन्या इत्यर्थः । इन्द्रवत्रा वृत्तम् ।। ३३ । [ अथैतदपेक्षयाऽप्युत्तमाधिकारिणामहंग्रहोपासनमाह । ये प्रत्य भिज्ञामतेति । तत्तदंतोलेखिज्ञानं प्रत्यभिज्ञासैवाहमित्याकारकं सगुणं वा निर्गुणं वा सत्तमहं ब्रह्मास्मीत्यादिवदहंग्रहोपासनाख्यमनुसंधानं तस्य यन्मतं निर्गुणाहंग्रहोपास नादेव साक्षात्कारद्वारा मोक्ष इति सिद्धान्तस्तस्य यः पारः परमोऽवधिस्तं जानन्तीति तथा ] ॥ ३३ ॥ इदानीं तत्तचक्रे ध्यानस्य फलं वदन्स्तौति । ऐहिकभोगलुब्धा हेमनिभे चतुदैले मूलाधारसंज्ञे चक्रे तथा तस्मादावारचक्रादुत्तरस्मिन्षड्दले विदुमाभे स्वाधिष्ठानसंज्ञ आराधयन्ते ये तु दशदले धूम्रवर्णे मणिपूरकाख्ये त्वामुपासते तेषां तु वासस्तव नग राद्वहिरेव भवति । उपजातिवृत्तम् ॥ ३४ ॥ हे देव्यनाहतसंज्ञे द्वादशदले पिङ्गलवणें चक्रे ये त्वां भजन्ति तेषां तु त्वन्नग रेऽन्तः स्थितिः । शुद्धे षोडशदले धूम्रवर्णे विशुद्धसंज्ञे चक्रे तु ये भजन्ति तेषां सामीप्यम् । सहस्रदले करवणे आज्ञाचक्रे ये' तु भजन्ति तेषां त्वत्समैनो भोगो भवति ॥ ३५ ॥ १ क. ये भ'। २ घ. 'मानभो । ४४८ श्रीमच्छंकरदिग्विजयः । सरोरुहे त्वामनुसंदधानः । चतुर्विधैक्यानुभवास्तमोहः सायुज्यमम्बाश्चति साधकेन्द्रः ॥ ३६ ॥ श्रीचक्रशट्चक्रकयोः पुरोऽथ श्रीचक्रमन्वोरपि चिन्तितैक्यम् ।। चक्रस्य मन्त्रस्य ततस्तवैक्यं क्रमादनुध्यायति साधकेन्द्रः ॥ ३७ ॥ ध्रुवमण्डलाख्ये सहस्रपत्रे कमले त्वामनुपंदधानश्चतुर्विवैक्यानुभवेन निरस्तो मोहो यस्य सोऽत एव साधकेन्द्रो हेऽम्ब सायुज्यं प्राप्तोति ॥ ३६ ॥ [ अत्र साधकेन्द्र इत्येकवचनं साधकश्रेष्ठत्वकथनं च तावत्पर्यन्तं वायुसंरोधपूर्वकमन:संरोधस्यातिर्दूल भत्वध्वननार्थमेव ] ॥ ३६ ॥ अनुभवम्य च तुर्विध्यं विवृणोति । पुर आदै । बिन्दुत्रिकोणवसुकोणदशारयुग्ममन्वस्रनागदैलसंयुतषोडशारम् । वृत्तत्रयं च धरणीसदनत्रयं च श्रीचक्रमेतदुदितं परदेवतायाः । चतुर्भिः शिवचत्रैश्च शक्तिचत्रैश्च पञ्चभिः । नवचक्रेश्च संसिद्धं श्रीचक्र शिवयोर्वपुः ।। त्रिकोणमष्टकोणं च दशाकोणद्वयं तथा । चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च ।। बिन्दुश्चाष्टदलं पद्मं तथा षोडशपत्रकम् । चतुरस्त्रं चतुरं शिवचक्राण्यनुक्रमात् ।। त्रिकोणे बैन्दवं श्लिष्टमष्टारेऽष्टदलाम्बुजम् । दशारयोः षोडशारं भूगृहं भुवनास्रके ।। २वानामां५ शाक्तानां चक्राणां च परस्परम् । अविनाभावसंबन्प यो जानाति स चक्रवित् । त्रिकोणरूपिणीशक्तिर्विन्दुरूपः सदाशिवः । अविनाभावसंबन्धं तस्माद्विन्दुत्रिकोणयोः ।। एवं विभागमज्ञात्वा श्रीचक्र य: समर्चयत् । न तत्फलमवाप्रेोति ललिता वा न तुष्यति' ।। इत्यादिवचनैरुक्तस्य श्रीचक्रस्योक्तचक्रषट्कस्य च चिन्तितं योगिभिः स्मृतमैक्यं १ ख. "युयमाप्रो'। [ सर्गः १२] २ क. ग. ध. 'दशसं । [ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ इति तां वचनैः प्रपूज्य भैक्षौ दनमात्रेण स तुष्टिमान्कृतार्थः ॥ बहुसाधकसंस्तुतः कियन्तं समयं तत्र निनाय शान्तचेताः ॥ ३८ ॥ श्रयति स्म ततोऽग्रहारकं श्री वलिसंज्ञ स कदाचन स्वशिष्यैः ।। अनुगेहहुतामिहोत्रदुग्ध प्रसरत्पावनगन्धलोभनीपम् ॥ ३९ ॥ यतोऽपमृत्युर्बहिरेव याति भ्रान्त्वा प्रदेशं शनकैरलब्ध्वा । दृष्टा द्विजातीन्निजकर्मनिष्ठा न्दूरान्निषिद्धं त्यजतोऽप्रमत्तान् ॥ ४० ॥ यस्मिन्सहस्रद्वितयं जनाना मयाहितानां श्रुतिपाठकानाम् ।। वसत्यवश्यं श्रुतिचोदितामु क्रियासु दक्षं प्रथितानुभावम् ॥ ४१ ॥ साधकेन्द्रोऽनुध्यायति । अथानन्तरं श्रीचक्रमत्रयोरपि चिन्तितैक्यमनुध्यायति । ततस्तदनन्तरं चक्रस्य तवैक्यं मत्रस्य चैक्यमित्येवं क्रमादनुध्यायति ॥ ३७ ॥ उपसंहरति । इतीति । कियन्तं समयं कालं निनाय नीतवान् । ‘विषमे ससजा गुरू समे यश्च वसन्तमालिका सा'।। ३८ ।। चेवत्सभरा ४४९ ततः कदाचित्स्वशिष्यैः सह स श्रीशंकरः श्रीवलीति संज्ञा यस्य तं द्विजग्रामकं श्रयाति स्म । तं विशिनष्टि । प्रतिगृहं हुतादग्निहोत्रदुग्धात्पसरता पावनेन गन्धेन लोभनीयं माथ्येम् ।। ३९ ।। पुनस्तमेव वर्णयति । शनकैभ्रान्त्वा निजकर्मनिष्ठान्दूरान्निषिद्धं त्यजतः प्रमादशून्या न्द्विजातीन्नरान्दृष्टा पदेशमलब्ध्वाऽपमृत्युर्यस्माद्वहिरेव याति । उपजातिवृत्तम् ॥ ४० ॥ [ प्रदेशं ग्रामनिवसज्जनकृतदुराचारजन्यं स्वावस्थानस्थलमित्यर्थः ] ॥ ४० ॥ यस्मिन्नाहिताभीनां वेदपाठकानां जनानां द्विसहस्रमवश्यं वेदविहितासु क्रियासु दक्ष मथितप्रभावं वसति ॥ ४१ ॥ ४५० मध्ये वसन्यस्य करोति भूषां पिनाकपाणिर्गिरिजासहायः ।। हारस्य यष्टेस्तरलो यथा वै रात्रेरिवेन्दुर्गगनाधिरूढः ॥ ४२ ॥ तत्र द्विजः कश्चन शास्त्रवेदी प्रभाकराख्यः प्रथितानुभावः ॥ प्रवृतिशाखैकरतः सुबुद्धि रास्ते क्रतून्मीलितकीर्तिवृन्दः ॥ ४३ ॥ गावो हिरण्यं धरणी समग्रा सद्धान्धवा ज्ञातिजनाश्च तस्य । सन्त्येव किं तैर्न हि तोष एभिः पुत्रो यदस्याजनि मुग्धचेष्टः ॥ ४४ ॥ न वक्ति किंचिन्न शृणोति किंचि द्धयायन्निवाऽऽस्ते किल मन्दचेष्टः ॥ रुपेषु मारो महसा महस्वा न्मुखेन चन्द्रः क्षमया महीसमः ॥ ४५ ॥ [ सर्गः १२ ] किंच गिरिजासहायः पिनाकपाणिर्मध्ये वसन्यस्य भूषां करोति । तत्र दृष्टान्तद्व यमाह । यथा हारस्य यष्टेर्लतिकायास्तरलो मध्यमणिभूषां करराति । ‘तरलश्चञ्चले षिड़े भास्करेऽपि त्रिलिङ्गकः । हारमध्यमणौ पुंसि' इति मेदिनी । यथा वा गगनाविरूढश्चन्द्रो रात्रेभूषां करोति तद्वत् ॥ ४२ ॥ तत्र तस्मिन्ग्रामे शास्त्रज्ञः प्रभाकरसंज्ञः कश्चनाऽऽस्ते स्म । तं विशिनष्टि । प्रवृ तीति । क्रतुभिरुन्मीलितं कीर्तिवृन्दं येन सः ॥ ४३ ॥ तैः सद्भिः किं न किमपि । हि यस्मादेभिः सर्वेस्तोषो नास्ति । तोषाभावे हेतुर्य द्यस्मादस्य पुत्रो मुग्वचेष्टोऽजनि ! इन्द्रवज्रा वृत्तम् ॥ ४४ ॥ [ मुग्धेति । मुग्धव चेष्टा यस्य स तथा ] ।। ४४ ॥ तदीयां तां चेष्टामेव दर्शयति । नेति । तदीयं रूपं वर्णयति । रूपेषु मारः कामः । महसा तेजसा महस्वान्सूर्यः । उपजातिवृत्तम् ॥ ४५ ॥ [ महीसमः पृथ्वीतुल्य इत्यर्थः ] ॥ ४५ ॥ १ ख. ग. घ. 'यं स्वरू'; [ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ग्रहग्रहाकि जडवद्विचेष्टते किंवा स्वभावादुत पूर्वकर्मणः ॥ संचिन्तयंस्तिष्ठति तत्पिताऽनिशं समागतान्मधुमना बहुमुश्रुतान् ॥ ४६ ॥ शिष्यैः पशिष्यैर्बहुपुस्तभारै समागतं कंचन पूज्यपादम् ॥ शुश्राव तं ग्राममनिन्दितात्मा निनाय सूर्नु निकटं स तस्य ॥ ४७ ॥ न शून्यहस्तो नृपमिष्टदैवं गुरु च यायादात शास्त्रावत्स्वयम् । सोपायनः प्राप गुरुं व्यशिश्रण त्फलं ननामास्य च पादपङ्कजे ॥ ४८ ॥ अनीनमत्तं च तदीयपादयो जर्जडाकृतिं भस्मनिगूढवह्निवत् । स नादातष्ठत्पाततः पदाम्बुज प्राय: स्वजाड्यं प्रकटं विधित्सति ॥ ४९ ॥ ४५१ अधुना तत्पितृचेष्टां दर्शयति । तत्पितेत्येवमनिशं संचिन्तयन्समागतान्बहुश्रुतान्य छुटुमनास्तिष्ठति स्म ॥ ४६ ॥ [ ग्रहेति । ‘ग्रहो निग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैहिकेयोपरागयो इति मेदिन्याः प्रकृते ग्रहः पूतनादिः पिशाचविशेष एव तत्कर्तृकत्वात्तस्य यो ग्रहो ग्रहणं तस्माद्धेतोरित्यर्थः ] ॥ ४६ ॥ ततः कदाचिद्वहुपुस्तकभारैः शिष्यैः सह तं ग्रामं प्रति समागतं कंचन पूज्यपादं शुश्राव । ततश्चानिन्दितात्मा स प्रभाकरस्तस्य पूज्यपादस्य निकटं पुत्रं नीतवान् । आाख्यानकी वृत्तम् ॥ ४७ ॥ किं शून्यहस्त एव गतो नेत्याह । शून्यहस्त इति । ‘रिक्तहस्तस्तु नोपेयाद्राजानं दैवतं गुरुम्’ इति शास्त्रवित्स्वयं सोपायनो गुरुं श्रीशंकरं प्राप। किं तदुपायनमित्यपेक्षायामाह । फलं व्यशिश्रणत्मायच्छत् । अस्य गुरोः पादकमले ननाम च । उपजातिवृत्तम्॥४८॥ भस्मना निगूढवह्निवजडतुल्याकृतिं तं पुत्रं च तदीयपादयोरनीनमत् । भस्मनीति भित्रं वा पदम् । स पुत्रः प्रायः स्वजाड्यं प्रकटं विधातुमिच्छति ॥ ४९ ॥ ४५२ श्रीमच्छंकरदिग्विजयः । तं देशिकेन्द्रः कृपयोदतिष्ठिपत् ॥ उत्थापिते स्वे तनये पिताऽब्रवी द्वद प्रभो जाड्यममुष्य किंकृतम् ॥ ५० ॥ पञ्चाष्ट जातस्य विनाऽवबोधम् ॥ नाध्यैष्ठ वेदानलिस्वच नाण नचीकरं चोपनयं कथंचित् ॥ ५१ ॥ क्रीडापरः क्रोशति बालवर्ग स्तथापि न क्रीडितुमेष याति । बालाः शठा मुग्धमिमं निरीक्ष्य संताडयन्तेऽपि न रोषमेति ॥ ५२ ॥ भुङ्के कदाचिन्न तु जातु भुङ्के स्वेच्छाविहारी न करोति चोक्तम् ॥ तथाऽपि रुष्टेन न ताडयतेऽयं स्वकर्मणा वर्धत एव नित्यम् ॥ ५३ ॥ [ सर्गः १२] उपात्तो गृहीतस्तदीयहस्तो येन स देशिकेन्द्रः श्रीशंकर उदतिष्ठिपदुत्थापित वान् ॥ ५० ॥ [ भवाङ्मुखमधोमुखम् । कृपया । शनकैः । उदतिष्ठिपत् । उत्था पितवानित्यन्वयः । अथैतत्पिता तं प्रति तज्जाड्यकारणं पप्रच्छेत्याह । उत्थापित इति ] ॥ ५० ॥ तजाड्यमेव वर्णयति । वर्षाणीति । पञ्चाष्ट त्रयोदशा । नाध्यैष्ट नैवाधीतवान् । अर्णान्वर्णान् । यथाकथंचिदुपनयं कृतवानस्मि ॥ ५१ ॥ [ अवबोधं विना व्यावहा रिकज्ञानं विनेत्यर्थः । भगवान्निति संबुद्धयैतत्तत्वं त्वदृतेऽन्यः कोऽपि न वेत्तीति सूच्यते ] ॥ ५१ ॥ एवं जाड्यं मदश्यदुतां तस्य चेष्टां वर्णयति क्रीडापर इति द्वाभ्याम् ॥ ५२ ॥ [ तत्र केचिद्दष्टाः शिशवस्त मग्वमिमं श्रत्वा यद्यपि संताड्यन्ते तथाऽप्येष नैव रोष मेतीत्याह । बाला इति ] ॥ ५२ ॥ यद्यप्येवं तथाऽांपे रुटन मयाऽयं न ताडयतं || ५३ ॥ [ किंच भोजनेऽप्यस्या नुत्साह एव यदा तदा कैवाऽन्यवार्तेत्याह । भुङ्कः इति । रुटेन मयेति शेषः । स्वक र्मणा नित्यं वर्धत एवायमिति संबन्धः ] ॥ ५३ ॥ [ सर्गः १२ ] धनपतिसूरिकृताडण्डिमाख्यटीकासंवलितः । इतीरयित्वोपरते च विप्रे पप्रच्छ तं शंकरदेशिकेन्द्रः ॥ कस्त्वं किमेवं जडवत्प्रवृत्त स चाब्रवीद्धालवपुर्महात्मा ॥ ५४ ॥ नाहं जडः किंतु जडः प्रवर्तते मत्संनिधानेन न संदिहे गुरो ॥ पड़र्मिपड्भावविकारवर्जितं मुखैकतानं परमस्मि तत्पदम् ॥ ५५ ।। ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य निरुप्य विद्वन् ।। पचैः परैरद्वदशभिर्बभाषे चिदात्मतत्त्वं विधुतप्रपञ्चम् ॥ ५६ ॥ ४५३ इत्येवं कथयित्वा प्रभाकर उपरते सति तं शंकरदेशिकेन्द्रः पप्रच्छ ॥ ५४ ॥ कस्त्वमिति प्रश्रमस्योत्तरं वतुमादौ किमेवं जडवत्पवृत्तः इत्यत्राऽऽह । नाहं जड किंतु मत्संनिधानेन जडः प्रवर्तते । हे गुरोऽस्मिन्नर्थेऽहं न संदिहं तस्माच्छोकमोह क्षुधापिपासाजरामृत्युलक्षणषडूर्मिभिर्जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते नश्यतं त्युक्तषड्भावविकाँरश्च राहितं सुखैकतानं परं सर्वोत्तमं तत्पदमहमस्मि । परं देहेन्द्रि याद्यतिरिक्तं प्रत्यक्चैतन्यं तत्पदं शोधिततत्पदार्थभिन्नमिति वा ।। ५५ ॥[मुखेति । आनन्दैकरसमित्यर्थः ] ॥ ५५ ॥ हे विद्वन्ममेवैषाऽनुभूतिर्मुमुक्षुवर्गस्य भूयादिति निरूप्यान्थेद्वादशभिः पदैर्विधुतम पञ्धं चिदात्मतत्वं बभाषे तथा हि । निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः । रविलॉकचेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा ।। १ ।। यमग्न्युष्णवन्नित्यबोधस्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि । पवर्तन्त अाश्रित्य निष्कम्पमेकं स नित्योपलब्धिस्वरुपोऽहमात्मा ।। २ ।। मुखाभासको दर्पणे दृश्यमानो मुखत्वात्पृथक्त्वेन नैवास्ति वस्तु । चिदाभासको धीषु जीवोऽपि तद्वत्स नित्योपलष्धिस्वरूपोऽहमात्मा ॥ ३ ॥ यथा दर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाईनमेकम् । तथा धीवियोगे निराभासको यः ग्य नित्योपलब्धिरवरूपोऽहमात्मा ॥ ४ ॥ ५७ ४५४ श्रीमच्छंकरदिग्विजयः । प्रकाशयन्ते परमात्मतत्त्वं करस्थधात्रीफलवद्यदेकम् ।। श्लोकास्तु हस्तामलकाः प्रसिद्धा स्तत्कर्तुराख्याऽपि तथैव वृत्ता ॥ ५७ ॥ विनोपदेशं स्वत एव जात परात्मबोधो द्विजवर्यसूनोः ॥ व्यस्मेष्ठ संप्रेक्ष्य स देशिकेन्द्रो न्यधात्स्वहस्तं कृपोत्तमाङ्गे ॥ ५८ ॥ [ सर्गः १२] मनश्चक्षुरादेर्वियुक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः । मनश्चक्षुरादेरगम्यस्वरूप: स नित्योपलब्धिवस्वरूपोऽहमात्मा ॥ ५ ॥ य एको विभाति स्वतः शुद्धचेताः प्रकाशस्वरूपोऽपि नानेव धषु । शाररावादकस्था यथा भानुरेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ६ ॥ यथाऽनेकचक्षु:प्रकाशो रविर्न क्रमेण प्रकाशकरोति यकाश्यम् । अनेका धियो यस्तथैकप्रबोधः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ७ ॥ विवस्वत्प्रभातं यथा रुपमक्ष प्रगृह्णाति नाऽऽभातमेवं विवस्वान् । तथा भात आभासयत्येकमक्ष स नित्योपलब्धिस्वरुपोऽहमात्मा ॥ ८ ॥ यथा सूर्य एकोऽप्यनेकश्चलासु स्थिरास्वप्सु चैकोऽग्भिाव्यस्वरूपः । चलासु प्रभिन्नः स्वधीष्वेक एव स नित्योपलब्विस्वरूपोऽहमात्मा ॥ ९ ॥ घनच्छन्नदृष्टिर्घनच्छन्नमर्क यथा मन्यते निप्प्रभं चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १० ॥ समस्तेषु वस्तुष्वनुस्यूतमेकं समस्तानि वस्तूनि यं न स्पृशन्ति । वियद्वत्सदा शुद्धमच्छस्वरूप: स नित्योपलब्धिस्वरूपोऽहमात्मा || ११ ॥ उपाधों यथा भदता सन्मणीनां तथा भेदता बुद्धिभदषु तंऽपि । यथा चन्द्रिकाणां जले चञ्चलत्वं तथा चञ्चलत्वं तवापीह विष्णो ॥ १२ ॥ इति । उपजातिवृत्तम् ॥ ५६ ॥ यदेकं परमात्मतत्वं तत्करस्थामलकफलवत्पकाशयन्तेऽतस्ते लोकास्तु हस्ताम लकाः प्रसिद्धास्तेषां कर्तुराख्याऽपि तथैव हस्तामलक इति वृत्ता प्रवृत्ता उपजाति वृत्तम् ॥ ५७ ॥ उपदेशं विना स्वत एव द्विजवर्यसृनोः परात्मबोधो जात इति संप्रेक्ष्य विस्मयं १ ग. 'विमुक्तः । २ क. घ. 'घु स एवो। [ सर्गः १२] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मुते निवृत्ते वचनं बभाषे स देशिकेन्द्रः पितरं तदीयम् ॥ वस्तुं न योग्यो भवता सहायं न तेऽमुनाऽथे जडिमास्पदेन ॥ ५९ ।। स वेत्ति सम्यङ्न च वक्ति किंचित् ॥ नो चेत्कथं स्वानुभवैकगर्भ पद्यानि भाषेत निरक्षरास्य ॥ ६० ॥ न सक्तिरस्यास्ति गृहादिगोचरा नाऽऽत्मीयदेहे नमतोऽस्य विद्यते । तादात्म्यताऽन्यत्र ममेति वेदनं यदा न सा स्वे किमु बाह्यवस्तुषु ।। ६१ ।। इतीरयित्वा भगवान्द्विजात्मजं ययौ गृहीत्वा दिशमीप्सितां पुनः । विप्रोऽप्यनुव्रज्य ययौ स्वमन्दिरं कियत्प्रदेशं स्थिरधर्बहुश्रुतः ॥ ६२ ॥ ४५९ प्राप्तो देशिकेन्द्रो द्विजवर्यसूनोः शिरसि स्वहस्तं न्यधात् ॥ ५८ ॥ [ स्वहस्तं निज दक्षिणपाणिम् ] ॥ ५८ ॥ उदाहृतपद्यान्युक्त्वा सुते निवृत्ते मति देशिकेन्द्रस्तदीयं पितरं वचनं बभाषे । तदाह । भवता सहायं वस्तुं योग न भवति । किंचामुना जडतास्पदेन तव किंचि त्प्रयोजनं नास्ति ।॥ ५९ ।। नन्वेवं भृतेन तवापि किं प्रयोजनमित्याशङ्कयाऽऽह । पुराभवस्य पूर्वजन्मनोऽ भ्यासस्य वशेन स तव पुत्रः सर्वे जानाति ॥ ६० ॥ न वस्तुं योग्यो भवता सहायामयत्र हेतुमाह । अस्य गृहादिविषया सक्तिरास देहादन्यत्र क्तिर्नास्ति । तथाऽऽत्मीयदेहे भ्रमात्तादात्म्यताऽस्य न विद्यते । तथा ममति ज्ञानमस्य न विद्यते । सा तादात्म्यता तु यदा स्वे देहे नास्ति तदा बाह्यव स्तुषु सा नास्तीति किमुवक्तव्यम् ।। ६१ । [ भ्रमतोऽनाद्यविद्यादिभ्रमेणे त्यर्थः ] ॥ ६१ ॥ इतीरथित्वा भगवान्द्विजात्मजं गृहीत्व पुनरीप्सितां दिशं ययौ। । प्रभाकरसंशो ४५६ श्रीमच्छकरदिग्विजपः । ततः शतानन्दमहेन्द्रपूर्वे: सुपर्ववृन्दैरुपगीयमानः.! पद्माद्भघ्रिमुख्यैः सममाप्तकाम क्षोणीपतिः शृङ्गगिरिं प्रतस्थे ॥ ६३ ॥ यत्राधुनाऽप्युत्तममृष्यशृङ्ग स्तपश्चरत्यात्मभृदन्तरङ्गः ॥ संस्पर्शमात्रेण वितीर्णभद्रा विद्योतते यत्र च तुङ्गभद्रा ।। ६४ ।। अभ्यागताचल्पितकल्पशाखा कूलंकपाधीतसमस्तशाखाः ।। इज्याशतपत्र समुल्लसन्तः शान्तान्तराया निवसन्ति सन्त ॥ ६५ ।। [ सर्गः १२] विमोऽपि कियत्प्रदेशमनुव्रज्य स्वमन्दिरं ययौ। ननु स्वपुत्रवियोगे व्याकुलतां किमिति न प्रापेत्याशङ्कयाऽऽह । स्थिरधार्यतो बहुश्रुतः ॥ ६२ ।। ततस्तदनन्तरं विष्णुपमुखैर्देववृन्दैरुपगीयमानः पद्मपादादिभिः सहाऽऽप्तकामानां राजा शृङ्गगिरिं प्रतस्थे । शतानन्दो मुनेभेदे देवकीनन्दनेऽपि च ' इति मेदिनी ।। ६३ । [आप्तति । ‘योऽकाम आप्तकाम आत्मकाम:’ इत्यादिश्रु तेर्बह्मनिष्टचक्रवर्तिवर इत्यर्थः ] ।। ६३ ।। संस्पर्शमात्रेण वितीर्ण समर्पितं भद्रं कल्याणं यया सा तुङ्गभद्राख्या नदर्भ विद्योतते ।। ६४ ।॥ [ अव पद्यद्वयेऽपि यच्छब्दानुरोधात्पृर्वपद्ये ते शृङ्गगिरिं पतस्थ इति तच्छब्दाध्याहारो बोध्यः । आत्मेति । आत्मन्यद्वैतब्रह्मण्येव धृनमन्तरङ्गमन्त:- करणं योगमन्निा थेन स तथेत्यर्थः । अधुनाऽपि कलावपि ] ॥ ६४ ॥ त्र थे सन्तो व सन्ति तान्विशिनष्टि । अभ्यागतानां पूजयाऽल्पीकृतानां कल्प वृक्षशाखानां कृलंकषा अवता: सर्वशाखा रिज्याशः सम्यगुलसन्तः शान्तान्त राय: शान्तविन्नाः इन्द्रवत्रा वृत्तम् ॥ ६५ ॥ १ ख. ध. भधृतान्त'। २ . भू1 ।। ३ । ।. ध. '.'.५।। ४ क. ख. ५. यत्र । [ सर्गः १२ :] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अध्यापयामास स भाष्यमुख्या न्ग्रन्थान्निजांस्तत्र मनीषिमुख्यान् । आकर्णनप्राप्यमहापुमर्था नादिष्ट विद्याग्रहणे समर्थान् ॥ ६६ ॥ पराणुदत्प्राणितमांस्यशेषम् ॥ निरस्तजीवेश्वरयोर्विशेषं व्याचष्ट वाचस्पतिनिर्विशेषम् ॥ ६७ ॥ प्रकल्प्य तत्रेन्द्रविमानक्कल्पं प्रासादमाविष्कृतसर्वशिल्पम् ।। प्रवर्तयामास स देवतायाः । पूजामजाचैरपि पूजतायाः ॥ ६८ ॥ या शारदाम्बेत्यभिधां वहन्ती कृतां प्रतिज्ञां प्रतिपालयन्ती । अद्यापि शृङ्गेरिपुरे वसन्ती प्रद्योततेऽभीष्टवरान्दिशन्ती ॥ ६९ ॥ तस्मिन्पर्वते मनीषिमुख्याञ्श्रवणमात्रेण प्राप्यो महापुरुषार्थो मोक्षो यैस्तानुपादिष्ट विद्याग्रहणे समर्थान्स श्रीशंकरो भ,प्यपमुखान्निजान्ग्रन्थानध्यापयामास । आकर्णनेन प्राप्यो महापुमर्थो येभ्यस्तान्ग्रन्थानिति वा ॥ ६६ ।। शेषमनन्तं मन्दाक्षनम्र लज्जया नम्र त्र कलयन्कुर्वन्निवाशेषं यथा स्यात्तथा प्राणि नामान्तरतमांस्यज्ञानानि पराणुदपाकरोत् । यतो वाचम्पतिना निर्विशेषं यथा भवति तथा निरस्तजीवेश्वरयोर्विशेषपं व्याचष्ट । उपजातिवृत्तम् ॥ ६७ ॥ ततश्च तस्मिन्पर्वत इन्द्रविमानसदृशमाविष्कृतसर्वशिल्पं प्रासादं प्रकल्प्याजादैरपि पूजिताया देवतायाः पृजां स प्रवर्तयामास । अत्र पाश्वः । मठं कृत्वा तत्र विद्यापी ठनिर्माणं कृत्वा भारतीसंप्रदायं निजशिप्यं चकार । स याति नरकं घोरं यावदाभूतसंप्लवम्' । कंचिाच्छष्यं सुरेश्वराख्यं पीठा ध्यक्षमकरंदिति ॥ ६८ ॥ सा देवता केत्याकाङ्क्षायामाह । येति ।। ६९ ॥ ४५७ १ घ. 'ज्ञां खलु पा । २ घ. महापुरुषार्था । ३ घ. 'स्यपा'। ४५८ श्रीमच्छकरदिग्विजयः । चित्तानुवर्ती निजधर्मचारी भूतानुकम्पी तनुवाग्विभूतिः ।। कश्चिद्विनेयोऽजनि देशिकस्य यं तोटकाचार्यमुदाहरन्ति ॥ ७० ॥ स्नात्वा पुरा क्षिपति कम्बलवस्वमुख्यै रुचासनं मृदु समं स ददाति नित्यम् । संलक्ष्य दन्तपरिशोधनकाष्ठमग्रयं बाह्यादिकं गतवते सलिलादिकं च ॥ ७१ ॥ श्रीदेशिकाय गुरवे तनुमार्जवस्त्रं विश्राणयत्यनुदिनं विनयोपपन्नः ॥ श्रीपादपद्मयुगमर्दनकोविदश्च च्छायेव देशिकमसौ भृशमन्वयाद्यः ॥ ७२ ॥ गुरोः समीपे न तु जातु तृम्भते प्रसारयन्नो चरणौ निषदांत ॥ नोपेक्षते वा बहु वा न भाषते न पृष्ठदशीं पुरतोऽस्य तिष्ठति ॥ ७३ ॥ [ सगेः १२ ] अथ तत्र यदृत्तं तद्दर्शयितुमारभते । चित्तानुवर्तति । तन्वी सृक्ष्मा वाग्विभूति यैस्य समन्दभाषण इत्यर्थः । देशिकस्य कश्चिच्छिष्योऽर्जन्यभूत् ॥ ७० ।। स सदैव गुरुशुश्रूषणपर इत्याह । पुरा गुरुन्नानात्पृर्वे स्नात्वा कम्बलवस्त्रप्रमुखै रुचासनं मृदु कोमलं समं समानं क्षिपति करोति तं तं कालं संलक्ष्यैव न त्वाज्ञप्तां नित्यं दन्तपरिशोधनकाg५3यं शास्त्रोक्तं ददाति । बाह्यादिकं गतवते जलमृत्तिकादिकं च ददाति । वसन्ततिलका वृत्तम् ॥ ७१ ॥ विश्राणायाति प्रयच्छति स्म । योऽसँी देशिकं छायेवान्वगच्छत् ॥ ७२ ॥ [ श्रीति । श्रियं यागैश्वर्यसंपदं दिशन्ति तत्साधनयुक्त्युपदेशद्वारा कथयन्तीति श्रादेशिका योगीन्द्रास्तेषामयः शुद्धद्वितात्मैक्याविषयकदृढापरोक्षप्रबोधलक्षणः शुभा वहो विाविर्येभ्यो ब्रह्मविद्रयस्तेषां गुरुः प्रथमसंप्रदायपवर्तकस्तस्मा इत्यर्थः । तन्विति । तनोः शारीरस्य माजेनं माजस्तस्य वस्त्रमित्यर्थः ] || ७२ ॥ वक्तव्यं नोपेक्षते वा बहु वा न भाषते । वंशस्थेन्द्रवंशामिश्रितत्वादुपजातिः । इत्थं किलान्यास्वपि मिश्रितासु स्मरान्ति जातिप्विदमेव नाम’ इत्युक्तत्वात् ।। ७३ ।। १ क. ख. घ. 'जनि ॥ ७० ॥ २ क. 'दि च । [ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तिष्ठन्गुरौ तिष्ठति संप्रयाते गच्छन्बुवाणे विनयेन शृण्वन् । अनुच्यमानोऽपि हितं विधत्ते यचाहितं तच तनोति नास्य ।। ७४ ।। तस्मिन्कदाचन विनेयवरे स्वशाटी प्रक्षालनाय गतवत्यपवर्तनीगाः ।। थाख्यानकर्मणि तदागममीक्षमाणो भक्तपु वत्सलतया विललम्ब एषः ॥ ७५ ।। शान्तिपाठमथ कर्तुमसंख्ये पृद्यतेषु स विनेयवरेषु । स्थीयतां गिरिरपि क्षणमात्रा देष्यतीति समुदीरयति स्म । ७६ ॥ तां निशम्य निगमान्तगुरूतिं मन्दधीरनधिकार्यपि शास्त्रे ॥ किं प्रतीक्ष्यत इति स्म ह भित्तिः पद्मपादमुनिना समदर्शि ॥ ७७ ॥ ४५९ किंच गुरौ तिष्ठति सति तिष्ठंस्तस्मिन्संप्रयाते गच्छन्बुवाणे विनयेन शृण्वन्सन्न कथ्यमानोऽपि हितं गुरोरहितं तच विस्तारयति । उपजाति विधत्ते यचास्य न वृत्तम् ॥ ७४ ॥ एवंभूते तस्मिञ्शिष्यवरे कदाचित्स्वशाटीप्रक्षालनागापवर्तनीगा नदीजलानि प्रात गतवति सति तस्थाऽऽगमनर्भीक्षमाणो भक्तषु वत्सलतया व्याख्यानाख्ये कर्मणि विललम्बे। गः स्वर्गे च बलीवर्दै रश्मौ च कुलिशे पुमान् । स्री सँौरभेयीदृग्बाणदिग्वाग्भूम्यप्सु भून्नि च इति मेदिनी । वसन्ततिलका वृत्तम् ।। ७५ ।। अथानन्तरमसंख्यातेषु शिष्यवरेषु शान्तिपाठं कर्तुमुद्यतं षु सत्सु स देशिकेन्द्र स्थीयतां गिरिरपि ।। ७६ ।। क्षणमात्रादेष्यतीति गिराति स्म । स्वागता वृत्तम् तां वेदान्तरूपां गुरुक्ति निशम्ये भेदबुद्धित्वाद्भित्तिः कुञ्जयतुल्यो जड: शास्त्रेऽन विकार्यपि किमर्थ प्रतीक्ष्यत इति स्म ह पद्मपादमुनिना समदर्शि' । इति सूचनार्थ १ क. 'म्य मन्दबु। २ क. ख. गा . 'शि'। ॥ ७७ ॥ अ' । ४६० तस्य गर्वमपहर्तुमस्वर्व स्वाश्रयेषु करुणातिशयाच ।। व्यादिदेश स चतुर्दश विद्या सद्य एव मनसा गरिनात्रे ।। ७८ ।। सोऽधिगम्य तदनुग्रहमद्रयं तत्क्षणेन विदितास्विलविद्यः । ऐष्ट देशिकवरं परतत्त्व व्यञ्जकैर्ललिततोटकवृतैः ॥ ७९ ।। भित्तिः समदर्शितेति वा ।। ७७ । [ इति स्म हेत्येवाभिप्रायेणेत्यर्थः । पोति । भित्तिः समदर्शि चक्षुरादिचेष्टया पदर्शितेत्यन्वयः ] ।। ७७ ।। अखर्वमनल्पं तस्य पद्मपादस्य गर्वमपाकर्तु स्वयमेवाऽऽश्रयो थेषां तथाभूतेषु स्वभक्तेषु करुणाया अतिशयाच स श्रीशंकरस्तत्क्षण एव गिरिनान्ने चतुर्दश विद्या मनसाऽऽदिदेश ।। ७८ ।। स गिरिरम्यं तस्य गुरोरनुग्रहमधिगम्य तत्क्षणेन विदिताखिलविद्यः ।

  • भगवत्रुद्धौ मृतिजन्मजले सुखदुःखझषे पतितं व्यथितम् ।

कृपया शरणागतमुद्धर मामनुशाध्युपसन्नमनन्यगतिम् ॥ १ ॥ विनिवत्र्य रतिं विषये विषमां परिमुच्य शरीरविबद्भमतिम् । परमात्मपदे भव नित्यरतो जहि मोहमयं भ्रममात्ममते ।। २ ।। विसृजान्नमयादिषु पञ्चसु तामहमस्मि ममेति मतिं सततम् । दृशिरूपमनन्तमजं विगुणं त्दृदयस्थमवेहि सदाऽहमिति ।। ३ ।। जलभेदकृता बहुतेवरवेर्धटिकादिकृता नभसोऽपि यथा । मतिभेदकृता तुं तथा बहुता तव बुद्विदृशोऽविकृतस्य सदा ।। ४ ।। दिनकृत्प्रभया सदृशेन सदा जनवित्तगतं सकलं स्वचिता । विदितं भवताऽविकृतेन सदा यत एवमतोऽसि सदेव सदा ।। ५ ।। [ सर्गः १२]

  • अग्रिमं पद्यद्वयं ‘घ' पुस्तके ‘भगवनुदधौ' इत्यादिो कपञ्चका प्रागधिकं दृश्यते ।

सकलं मनसा क्रियया जनितं समवेक्ष्य विनाशितया त जगत् । निरविद्यत कश्चिदतो निखिलादविनाशकृते यतितव्यमिनि ।। १ ।। प्रतिपित्सुरसावविनाशिपदं यतिधर्मरतो यातिमेव गुरुम् । वेदितात्मवकलं समुपेत्य कविः प्रणिपत्य निवेदितवान्स्वमतम् ” ।। २ ।।

क. नु । [ सर्गः १२] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ४६१ श्रीमद्देशिकपादपङ्कजयुगीमूला तदेकाश्रया तत्कारुण्यसुधावसेकसहिता तद्भक्तिसद्वलुरी ॥ त्दृद्य तोटकवृत्तांतरुचिरं पद्यात्मकं सत्फलं लेभे भोनुकुमनोतिसत्तमशुकैरास्वाद्यमानं मुहुः ॥ ८० ॥ येनौन्नत्यमवापिता कृतपदा कामं क्षमायामियं निःश्रेणिः पदमुन्नतं जिगमिषोव्येम स्पृशन्ती परम् । वंश्या काऽप्यधरीकृतत्रिभुवनश्रेणी गुरूणां कथं सेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तमः ॥ ८१ ॥ इत्यादिभिर्गुरुशिष्यसंवादेन परतत्त्वव्यञ्जकैः ‘इह तोटकमम्बुधिसैः प्रथितम्’ इत्यु क्तलक्षणैस्तोटकवृतैः सह देशिकवरं श्रीशंकरं प्रत्यागतवानित्यर्थः । स्वागता वृत्तम् ॥ ७९ ।। श्रीमद्देशिकस्य पादपङ्कजयुगलं मूलं यस्याः स श्रीशंकर एव एक आश्रयो यस्यास्तस्य कारुण्यसुधावसेकेन सहिता तस्य गिरेर्भक्तिलक्षणा सद्वलरी तोटकवृत्त लक्षणेन वृन्तेन सवबन्धेन इयं सुन्दरं भोतुं मनो येषां तैः सत्तमलक्षणैः शुकैर्मुहु रास्वाद्यमानं पद्यात्मकं फलं लेभे । शार्दूलविक्रीडितं वृत्तम् ॥ ८० ॥ अत्र विस्मयो न कार्य इत्याशयेनाऽऽह । येनौन्नत्यं प्रापिता सती भूमौ यथेष्टं कृतपदा लब्धास्पदा । अधरीकृतत्रिभुवनपङ्किः । गुर्वी श्रेष्ठा गुरूणां सेवोन्नतं परं पदं मोक्षं गन्तुमिच्छोः काऽपि वंशोद्भवा निःश्रेणिरधिरोहणी तस्य यतीशितुर्गिरे स्तमोऽज्ञानं विरलं कथं न कुवर्ति ॥ ८१ ॥ [ क्षमायां भूमौ पक्षे परापराधसहिष्णु तायामित्यर्थः । काममत्यन्तम् । कृतपदा कृतावलम्बेति यावत् । उन्नतमुचतमं पदं स्थानं पक्षेऽद्वैतं ब्रहोत्यर्थः । जिगमिषोर्गन्तुमिच्छोः पक्षे मुमुक्षोः । परमुत्कर्ट पक्षेऽद्वैत ब्रह्माख्यम् । व्योम नभः पक्षे चिदाकाशम् । स्पृशन्त्यवलम्बमाना सतीति यावत् । काऽप्यमूल्यगुणा । वंश्या वंशाज्जाता वेणुविशेषसंभवेत्यर्थः । पक्षे ब्रह्मविद्यावंशपरंप रासंजातेति । यावत् अत एव । अधरीकृतेति । अधरीकृता नीचतां नीता त्रिभुव नश्रेणी त्रैलोक्यपङ्गिरपि यया सा तथेत्यर्थः । कथं न विरलं कुर्वीतापि तु विनाश येदेवेति योजना ] ॥ ८१ ॥ १ क. ख. घ. 'तन्तरु'। २ ग. घ. 'युगुलं । ३ क. घ. वृत्तेन । ४ क. घ. प्रवन्धेन । ४६२ श्रीमच्छंकरदिग्विजयः । रयमज्ञातसुपर्वसूक्तिकोऽपि ॥ दययैव गुरोस्रयीशिरोर्थ स्फुटयनैक्षि विचक्षणः सतीथ्र्यः ॥ ८२ ॥ अथ तस्य बुधस्य वाक्यगुम्फं निशमय्यामृतमाधुरीधुरीणम् ॥ जलजाङ्घ्रमुखाः सतीथ्र्यवर्याः स्मयमन्वस्य सविस्मया बभूवुः ॥ ८३ ॥ भत्तयुत्कपोत्प्रादुरासन्यताऽस्मा त्पद्यान्येवं तोटकाख्यानि सन्ति । तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टाः शिष्टवंश्यं मुनीन्द्रम् ॥ ८४ ॥ अद्यापि तत्प्रकरणं प्रथितं पृथिव्यां तत्संज्ञया लघु महार्थमनल्पनीति ॥ शिष्टैर्गुहीतमतिशिष्टपदानुविद्धं वेदान्तवेद्यपरतत्त्वनिवेदनं यत् ॥ ८५ ॥ [ सर्गः १२] अथानन्तरमयमज्ञाताः सुप्रस्तावा यासु तथाभूताः सूक्तयो येन तथाभूतोऽपि । पर्व क़ीबं महे ग्रन्थौ प्रस्तावे लक्षणान्तरे' इति मेदिनी । गुरोर्दययैव तोटकवृत्तपद्यजातैस्रयशिरसामर्थ स्फुटयन्सतीयैर्गुरोः शिप्यैर्विचक्षण ऐक्षि दृष्टः । मालभारिणी वृत्तम् ॥ ८२ ॥ [ अज्ञातेति । भकलित गीर्वणवागपीत्यर्थः ] ॥ ८२ ॥ अथानन्तरं तस्य वाक्यानां संदर्भममृतमाधुरीधुरीणं निशम्य पद्मपादप्रमुखाः सत थ्र्यवर्या गर्व परित्यज्य सविस्मया बभूवुः ॥ ८३ ॥ तोटकाख्यपद्यपादुर्भाव एव तदाख्यामवृत्तिनिमित्तमित्याह । भक्तीति । यतोऽस्मा द्रिरेः सान्त समीचीनानि तोटकसंज्ञानि पद्यानि प्रादुरासंस्तस्मादेनं शिष्ट वंशापसृतं शिष्टा वेदाचाररतास्तेोटकाचार्यमाहुः । शालिनी वृत्तम् ॥ ८४ ॥ वेदान्तवेद्यपरतत्त्वनिवेदनं यत्तत्प्रकरणमद्यापि पृथिव्यां तत्संज्ञया मथितम् । तद्वि शिनाष्टि । लघु सन्महान्तोऽथ यस्मिन्ननल्पा नीतयो युक्तयो यस्मिन्नतिश्रेष्ठपदैरनु विद्धं युक्तं तदत एव शिष्टगृहीतम् । वसन्ततिलका वृत्तम् ॥ ८५ || [ पञ्चश्लोका त्मकत्वालघुत्वम् । चतुर्लक्षण्यखिलशास्त्रार्थसारसंग्राहकत्वान्महार्थत्वम् । शिष्यप्रार्थ सर्गः १२] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ४६३ तोटकाह्वयमवाप्य महर्षे ख्यातिमाप स दिशासु तदादि । पद्मपादसदृशप्रतिभावा न्मुख्यशिष्यपदवीमपि लेभे ॥ ८६ ॥ पुमर्थाश्चत्वारः किमुत निगमा ऋक्प्रभृतय प्रभेदा वा मुक्तेर्विमलतरसालोक्यमुस्वराः ॥ मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा विदुः शिष्यान्हस्तामलकमुखराञ्शंकरगुरोः ॥ ८७ ॥ स्फारद्वारप्रघाणद्विरदमदसमुछोलकछोलभृङ्गी संगीतोछासभङ्गीमुखरितहरितः संपदोऽकिंपचानैः ॥ निष्ठीव्यन्तेऽतिदूरादधिगतभगवत्पादसिद्धान्तकाष्ठा निष्ठासंपद्विजूम्भन्निरवधिसुखदस्वात्मलाभैकलोभैः ॥ ८८ ॥ नात्मकप्रथमश्लोकोपन्यासमात्रेणैव पूर्वोत्तरकाण्डयोः साधनादिभावलक्षणसंगतिसूचक त्वादनल्पनीतित्वमपीति ध्येयम् । ] ||८५ ॥ महर्षेः श्रीशंकरात्तोटकाख्यामवाप्य तदारभ्याऽऽशासु ख्यातिमाप । स्वागता वृत्तम् ॥ ८६ ॥ [ दिशासु । भागुरिमतेन टाप्] ।। ८६ ।। हस्तामलकपद्मपादसुरेश्वरतोटकाख्येष्वाचार्यशिष्येषु विबुधकृतविमर्श दर्शयति । धर्मार्थकाममोक्षारूयाश्चत्वारः किमुतग्र्यजुःसामाथर्वणाख्या वेदाः किंवा सालोक्यम मुखाः सालोक्यसामीप्यसारूप्यसायुज्याख्या मुक्तभेदा माहोस्विद्रह्मणो मुखानीति विबुधा देवाः पण्डिता वा चिरं विमृश्य विचार्य हस्तामलकादीञ्शंकरगुरोः शिष्या न्विदुः । शिखरिणी वृत्तम् ।। ८७ ।॥ [ हस्तामलकस्याऽऽद्यत्वं त्वनुपदिष्टब्रह्मवि द्यावत्वेऽपि श्रीमद्भाष्यकारदर्शन एव प्रकटितस्वानुभवत्वादेवेति बोध्यम् ] ॥ ८७ ।। स्फारद्वाराणां विस्तीर्णद्वाराणां प्रघाणेषु बाह्यप्रकोष्ठषु द्विरदानामैरावतप्रभृतीनां गजानां मदस्य समुलोलेष्वतिचञ्चलेषु कोलेषु या भृङ्गयस्तासां संगीतस्योछास भङ्गन्या मुखरिता मुखरीकृता ध्वनिता हरितो दिशो यासु ताः स्वर्गसंपदोऽधिगता या भगवत्पादसिद्धान्तकाष्ठा तस्यां निष्ठायाः संपद उलसन्निरवधिकसुखदस्य स्वात्मनो लाभस्यैको मुख्यो लोभो येषां तैरपिचानैरयुदरैिर्निष्ठीव्यन्ते थूक्रियन्ते । स्रग्५॥ वृत्तम् ॥ ८ ॥ समिन्धानो मन्थाचलमथितसिन्धूदरभव त्सुधाफेनाभेनामृतरुचिनिभेनाऽऽत्मपशसा ॥ निरुन्धानो दृष्टया परमह पन्थानमसतां पराधृष्यैः शिष्पैरमत विशिष्यैष मुनिराट् ॥ १३१२ ।। इति श्रीमाधवीपे तद्धस्तधात्र्यादिसंश्रयः । संक्षेपशंकरजये सर्गेऽयं द्वादशोऽभवत् ॥ १२ ॥ अथ त्रयोदशः सर्गः । ततः कदाचित्प्रणिपत्य भक्तया सुरेश्वराये गुरुमात्मदेशम् ॥ शारीरकेऽत्यन्तगभीरभावे वृत्ति स्फुटं कर्तुमना जगाद ।॥ १ ॥ [ सर्गः १३] मन्थाचलेन मथितात्सिन्धोर्भवन्त्याः सुधायाः फेनस्याऽऽभावदाभा यस्यामृतका न्तिनिभेन ततुल्येन स्वयशसा देदीप्यमानः स्वदृष्टयाऽपरं निकृष्टं परमन्यं वाऽसतां पन्थानं निरुन्धानः परैरधृष्यैः शिष्यै सह मुनिराट्श्रीशंकरो विशेषेणारमत। शिखरिणी वृतम् ॥ १३१२ ।॥ [ अमृतेति । पीयूषकिरणसदृशेनेति यावत । यद्वा । अमृते कैवल्ये विषये रुचिः मीतिर्नितरां भाति प्रस्फुरति येन तत्तथा तेनेत्यर्थः ] ॥ ८९ ।। [इति श्रीति । तद्धस्तेति । तस्य भगवत्पादस्य इस्तधात्रयादेईस्तामलकादेरा दिना तोटकाचार्यः संश्रयोऽवलम्बो यत्र स तथेत्यर्थः ] ।। १२ ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यदत्तवं शावतंसरामकुमारसूनुधनपतिसूरिकृते श्रीशंकराचार्यवि जयडिण्डिमे द्वादशः सर्गः ॥ १२ ॥ अथ वार्तिकान्तब्रह्मविद्यामवृत्तिं सपरिकरां निरूपयितुमारभते । ततः कदाचिदा त्मोपदेष्टारं यद्वाऽऽत्मदानामीशं गुरुं भक्त्या प्रणिपत्य सुरश्धरायऽत्यन्तं गैभीरो भावो यस्य तथाभूते शारीरकभाष्ये वृत्तिं स्फुटं यथा स्यात्तथा कर्तुमना बभाषे । उपजातिवृत्तम् ॥ १ ॥ १ घ. *श्वराचार्योऽ। २ ख. ग, घ. गम्भीरो । [ सर्गः १३] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मम यत्करणीयमस्ति ते त्वमिमं मामनुशाध्यसंशयम् ।। तदिदं पुरुषस्य जीवितं यदयं जीवति भक्तिमान्गुरौ ॥ २ ॥ इतीरिते शिष्यवरेण शिष्यं प्रोचे दरीयानतिहृष्टचेताः ।। मत्कस्य भाष्यस्य विधेयमिष्टं निबन्धनं वार्त्तिकनामधेयम् ॥ ३ ॥ द्रष्टुं सतर्क भवदीयभाष्यं गम्भीरवाक्यं न ममास्ति शक्तिः । तथाऽपि भावत्क टाक्षपाते यते यथाशक्ति निबन्धनाय ॥ ४ ॥ अस्त्वेवमित्यार्यपदाभ्यनुज्ञा मादाय मूर्धा स विनिर्जगाम । अथाम्बुजाङ्प्रेर्दयिताः सतीथ्र्या स्तं चित्सुखाद्या रहसीत्थमूचुः ।। ५ ।। ४६ यदुवाच तदाह । मम यत्ते करणीयमस्ति तत्त्वमिमं मामसंशयमनुशाध्याज्ञापय । यतो यदयं गुरौ भक्तिमान्सञ्जीवति तदिदमेव पुरुषस्य जीवितम् । वियोगिनी वृत्तम् ॥ २ ॥ मत्कस्य मदीयस्य भाष्यस्य वार्तिकनामधेयमिष्टं निबन्धनं त्वया विधेयम् । उपजातिवृत्तम् ॥ ३॥ [ वार्तिकेति । ‘उक्तानक्तदरुक्तानां चिन्ता यत्र प्रवनेते । तं ग्रन्थं वार्तिकं प्राहुर्वार्तिकज्ञा मनीषिणः’ इति पाराशरपुराणोक्तलक्षणवार्तिकसंज्ञकमित्यर्थः ] ॥ ३ ॥ इत्युक्तः शिष्य उवाच । तर्कयुक्तं गम्भीरवौक्यं भवदीयभाष्यं द्रधुमपि मम शक्ति नोस्ति तद्वार्तिकविधानसामथ्र्य तु दूरनिरस्तम् । यद्यप्येवं तथाऽपि भवदीयकटाक्षपाते सति यथाशक्ति निबन्धनार्थ यत्नं कुर्वे ॥ ४ ॥ [ सतर्कम् । अनेकविधभेदवाद्युन्मूल कैस्तकैः प्रमाणानुग्राहकैव्यौप्यारोपेण व्यापकारोपयुक्तिविशेषैः सहितमित्यर्थः]॥४॥ अस्त्वेवमित्यार्यपादाभ्यनुज्ञां मूर्धाऽऽदाय स सुरेश्वरो विनिर्जगाम । अथानन्तरं १ घ. 'वाचं न'। २ ग. 'वाचं भ। ४६६ श्रीमच्छंकरदिग्विजयः । योऽयं प्रयक्षः क्रियते हिताय हिताय नायं विफलत्वनर्थम् ॥ प्रत्येकमेवं गुरवे निवेद्य बोद्धा स्वयं कर्मणि तत्परश्च ॥ ६ ॥ यः सार्वलौकिकमपीश्वरमीश्वराणां प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः । कर्मव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशितेति ॥ ७ ॥ प्रत्येकमस्य प्रलयं वदन्ति पुराणवाक्यानि स तस्य कर्ता ॥ व्यासो मुनिजैमिनिरस्य शिष्य स्तत्पक्षपाती प्रलयावलम्बी ॥ ८ ॥ [ सर्गः १३] पद्मपादस्य प्रियाः सतीथ्यः शिष्याश्चित्सुखाद्यास्तं श्रीशंकराचार्य रहस्यनेन वक्ष्य माणप्रकारणाचुः ।५ ॥ योऽयं पयत्नो हिताय क्रियेतेऽयं हिताय न भवति । किं त्वयमनर्थे विशेषेण फलत्विति संभावनायां लोट् । इत्येवं प्रत्येकं गुरवे निवेद्योचुरित्यन्वयः । तदुदाहरति । स्वयं विद्वान्कर्मणि तत्परश्च य इति परेण संबन्धः ॥ ६ ॥ [ प्रयत्नः सुरेश्वराचार्य द्वारा वार्तिकरचनरूप । श्रीमद्भिरित्यार्थिकम् । हिताय क्रियते । यद्यपि सकलाज ज्ञासुसंशयाद्युच्छेदद्वारा मोक्षसिद्धयर्थमनुष्ठीयते तथाऽप्यसौ हिताय न भवति ] ॥ ६ ॥ यों मण्डनः सार्वलौकिकं सर्वलोकप्रसिद्धमीश्वराणां ब्रह्मादीनामीश्वरमपि बहुयुक्ति भिरुत्तरज्ञः प्रत्याख्यातवान् । एवंविधेन क्रियत इति व्यवहितेनान्वयः । कथमित्या काङ्क्षायामाहुः । कमेव स्वर्गनरकादिफलं ददाति । न त्वेवंविधोऽन्यो जगदीशिताऽ स्तीत्येवं प्रत्यादिदेश । वसन्ततिलका वृत्तम् ॥ ७ ॥ [नाकेति । ‘स्वर्गनाक' इत्यमरा त्स्वर्गनरकादीत्यर्थः । भादिना मनुष्यशरीरादेहः] ॥ ७ ॥ ननु तस्य को दोषो जैमिनेरेवाभिपायस्य तथाविधत्वादित्याशङ्कयाऽऽहुः । अस्य प्रत्यक्षादिभिः संनिधापितस्य जगतः प्रलयं प्रत्येकं पुराणवाक्यानि वदन्ति तस्यू पुराणवाक्यजातस्य स प्रसिद्धो व्यासो मुनिः कर्ता जैमिनिरस्य शिष्योऽतस्तत्पक्षपा तित्वावश्यंभावेन प्रलयावलम्बीत्यवश्यमभ्युपगन्तव्यम् । उपजातिवृत्तम् ॥ ८ ॥ १ क. 'यते तुभ्यं हि'। [ सर्गः १३ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । गुरोश्च शिष्यस्य च पक्षभेदे कथं तयोः स्यादुरुशिष्यभावः । तथाऽपि यद्यस्ति स पूर्वपक्ष सिद्धान्तभावस्तु गुरुक्त एव ॥ ९ ॥ आ जन्मनः स खलु कर्मणि योजितात्मा कुर्वन्नवस्थित इहानिशमेव कर्म । बृते पररांश्च कुरुतावहिताः प्रपन्ना त्स्वर्गादिकं मुखमवाप्स्यथ किं वृथाध्वे ॥ १० ॥ एवंविधेन क्रियते निबन्धनं यदि त्वदाज्ञामवलम्ब्य भाष्यके ।। मा च्यावि मूलादपि वृद्धिमिच्छता ॥ ११ ॥ संन्यासमप्येष न बुद्धिपूर्वकं व्यधत्त वादे विजितो वशो व्यधात् ॥ तस्मान्न विश्वासपदं विभाति नो मा चीकरोऽनेन निबन्धनं गुरो ॥ १२ ॥ ४६७ विपक्षे बाधकमाहुः । गुरोश्च शिष्यस्य च पक्षभेदे सति तयोर्गुरुशिष्यभावः कथं स्यात् । अङ्गीकृत्याप्याहुः । यदि पक्षभेदोऽस्ति तथाऽपि स शिष्यपक्षः पूर्वपक्षः सिद्धान्तत्वं तु गुरुक्त गुरुप्रतिपादिते पक्ष एवेत्यर्थ ।॥ ९ ॥ किंच स खल मण्डन अभा जन्मनः कर्मणि योजितात्माऽनिशामिह लोके कर्म कुर्व त्रेवावस्थितः समाहिताः प्रयत्नात्कर्म कुरुत स्वर्गादिकं सुखं प्राप्स्यथ व्यर्थमागे किमिति परांश्च बूते । वसन्ततिलका वृत्तम् ॥ १० ॥[ वृथाध्वे वृथा व्यर्थो योऽध्वा मार्गस्तस्मिन्नित्यर्थः ] ॥ १० ॥ तथाचैवंविधेन त्वदाज्ञामवलम्ब्य भाष्यके यदि निबन्धनं क्रियते तर्हि स भाष्यं केवलं कर्मपरं योक्ष्यते तस्माद्वद्धिमिच्छता त्वया मृलादपि मा च्यावि। प्रच्युतिर्न विधे येत्यर्थः । उपजातिवत्तम् ॥ ११ ॥ नन्विदानीं तु स्वीकृतसंन्यास इयं संभावना नास्तीत्याशङ्कयाऽऽहुः । संन्यास समपीति । तस्मान्नोऽस्माकं विश्वासस्थानं न विभाति तथाच हे गुरोऽनेन निबन्धनं मा चीकरो नैव कारय ॥ १२ ॥ ४६८ श्रीमच्छंकरदिग्विजयः । [ सर्गः १३] यः शकुयात्कर्म विधातुमीप्सितं सोऽयं न कर्माणि विहातुमर्हति ॥ यद्यस्ति संन्यासविधौ दुराग्रही जात्यन्धमूकादिरमुष्य गोचरः ॥ १३ ॥ एव सदा भट्टमतानुसारणा बुवन्त्यसौ तन्मतपक्षपातवान् ॥ एवं स्थिते योग्यमदो विधीयतां न नोऽस्ति निर्बन्धनमत्र किंचन ॥ १४ ॥ पुरा किलास्मासु सुरापगायाः पारे परस्मिन्विचरत्सु सत्सु ॥ अाकारयामास भवान्नशाषा न्भत्तिं परिज्ञातुमिवास्मदीयाम् ॥ १५ ॥ तदा तदाकण्य समाकुलषु नावर्थमस्मासु परिभ्रमत्सु ॥ सनन्दनस्त्वेष वियत्तटिन्या झरीमभिपस्थित एव तूर्णम् ॥ १६ ॥ भाट्टमतपक्षपातित्वादयं योग्य एवेत्याहुः । ईप्सितं कर्म विधातुं यः शाकुयात्सोऽयं कर्माणि त्यतुं नार्हति यदि संन्यासविधौ दुराग्रहोऽस्ति तर्हमुष्य संन्यासविधेर्जा त्यन्धादिर्विषय इत्येवं भट्टमतानुसारिणो वदन्ति । असावपि भट्टमतपक्षपातवान् । एवं स्थिते यद्योग्यं तद्विधीयतामस्माकं त्वत्र किंचन निर्बन्धनमाग्रहो नास्तीत्यर्थः । तथा चोत्तं भटैः । 'तत्रैवं शक्यते वतुं येऽन्ये पङ्ग्वादयो नराः । गृहस्थत्वं न शक्यन्ते कर्तु तेषामयं विधिः । नैष्ठिक ब्रह्मचर्य वा परिव्राजकताऽपि च । तैरवश्यं ग्रहीतव्या तेनाऽऽदावेतदुच्यते’ इत्यादि । इन्द्रवंशा वृत्तम् ॥ १३ ॥ १४ ॥ केन तर्हि वृत्तिर्विधेयेत्यपेक्षायां पञ्चपादेनेति वतुं तद्योग्यतामाविष्कुर्वन्ति । पुरेति। सुरापगाया देवनद्या गङ्गाया ।। १५ ।। तस्मिन्काले तदाकारणमाकण्यै समाकुलेषु नौकार्थमितस्ततः परिभ्रमत्स्वस्मास्वेष सनन्दनस्तु वियन्नद्या झरीमाश्वभिमस्थित एव ॥१६॥ [झरीं प्रवाहसरणिम्] ॥१६॥ १ क. ग. श३यन्ते । [ सर्गः १३ ] धनपतिरिकृतडिण्डिमाख्पटीकासंवलितः । अनन्यसाधारणमस्य भाव माचार्यवर्ये भगवत्यवेक्ष्य ॥ तुष्टा त्रिवत्र्मा कनकाम्बुजानि प्रादुष्करोति स्म पदे पदे च ॥ १७ ।। पदानि तेषु प्रणिधाय युष्म त्सकाशमागाद्यदयं महात्मा । ततोऽतितुष्टो भगवांश्चकार नाम्रा तमेनं किल पद्मपादम् ।। १८ ।। स एव युष्मञ्चरणारविन्द सेवाविनिर्धतसमस्तभेदः ॥ आजानसिद्धोऽर्हति सूत्रभाष्ये वृत्ति विधातुं भगवन्नगाधे ॥ १९ ॥ यद्वाऽयमानन्दगिरिर्यदुग्र तपःप्रसन्ना परमेष्ठिपत्नी ॥ भवत्प्रबन्धेषु यथाभिसंधि व्याख्यानसामथ्र्यवरं दिदेश ॥ २० ॥ कर्मकतानमतिरेष कथं गुरो ते विश्वासपात्रमवपद्यत विश्चरुपः ॥ भाष्यस्य पद्मपद एव करोतु टीका मित्यूचिरे रहसि योगिवरं विधेयाः ॥ २१ ॥ ४६९ त्रिवत्र्मा त्रिमार्गा गङ्गा ॥ १७ ॥ [ भगवतीति । दीर्घच्छेदे गङ्गविशेषणं च च्छेदे त्वाचार्यवर्यविशेषणमिति बोध्यम् । मादुष्करोति स्म पादुर्भावयामास ]॥१७॥ तेषु तुष्टया त्रिपथगया प्रादुष्कृतेषु वरकमलेषु पदानि संस्थाप्य भवत्सकाशं यतोऽयं महात्माऽऽगतवांस्ततोऽतिसंतुष्टो भवांस्तमेनं नाम्रा खलु पद्मपादं चकार ॥ १८ ॥ अभाजानसिद्धः स्वभावत एव सिद्धः ॥ १९ ॥ यद्वाऽयमानन्दगिरिः सूत्रभाष्ये वृतिं विधातुमर्हति । यतो यस्योग्रतपसा प्रसन्ना सरस्वती भवदभिप्रायानुसारिव्याख्यानसामथ्र्यवरं दिदेश ॥ २० ॥ हे गुरो कर्मकतानमतिरेष विश्वरूपस्तव कथं विश्वासपात्रमवपद्यत तत्पात्रभूतो जातोऽतः कमैकतानमतेर्विश्वरूपस्याविश्वसनीयत्वाद्भाष्यस्य पद्मपाद एव टीकां करो. त्विति रहसि योगिवरं श्रीशंकरं शिष्या उचिरे । वसन्ततिलका वृत्तम् ॥ २१ ॥ ४७० श्रीमच्छकरदिग्विजयः । सनन्दनो वाक्यमुदाजहार । आचार्य हस्तामलकोऽपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् ॥ २२ ॥ यतः करस्थामलकाविशेषं जानाति सिद्धान्तमसावशेषम् । अतोऽह्यमुष्मै भवतैव पूर्व मदायि हस्तामलकाभिधानम् ॥ २३ ॥ वाणगा समाकण्य सन्नन्दनस्य सामिस्मितं भाष्यकृदावभाषे । नैपुण्यमन्यादृशमस्य किंतु समाहितत्वान्न बहि: प्रवृत्तिः ॥ २४ ॥ अयं तु बाल्ये न पपाठ पित्रा नियोजितः सादरमक्षराणि । न चोपनीतोऽपि गुरोः सकाशा दध्यैष्ठ वेदान्परमार्थनिष्ठः ।। २५ ।। [ सर्गः १३] अत्रान्तरे समीपमागतः स सनन्दनः शीघ्र वाक्यं समुदाजहार । तदाह । हे आचार्य भवत्कृतौ वार्तिकं कर्तुमेष हस्तामलकोऽपि समर्थः। आख्यानकी वृत्तम् ॥२२॥ [अपिना सुरेश्वरे त्वौदासीन्यमात्रं सूचितम्। न तु चित्सुखादिवत्पर्वथाऽनर्हत्वम्]॥२२॥ यतः करस्थामलकसदृशं सर्वे सिद्धान्तमप जानाति । अत एवामुष्मं भवतव हस्ता मलकाभिधानमदायि । उपजातिवृत्तम् ॥ २३ ॥ सनन्दनस्य वाचं समाकण्यर्धस्मितं यथा स्यात्तथा भाष्यकारो जगाद । तदाह । अस्य हस्तामलकस्य नैपुण्यमनुपमं परं तु समाहितत्वादस्य बहिः प्रवृत्तिर्न भवति । उपजातिवृत्तम् ॥ २४ ॥ समाहितत्वादित्याद्युक्तं विवृणोति । अयं तु बाल्ये पित्रा सादरं नियोजितोऽप्य क्षरणि न पपाठ । तेनोपनीतोऽपि गुरोः सकाशात्परमार्थनिष्ठो वेदान्न चावीतवान् । उपजातिवृत्तम् ॥ २५ ॥ [ सर्गः १३ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । बालैर्न चिक्रीड न चान्नमैच्छ न्न चारुवाचं ह्यवदत्कदाऽपि ।। निश्चित्य भृतोपहतं तमेन मानिन्यरेऽस्मन्निकटं कदाचित् ।। २६ ॥ अस्मानवेक्ष्यैव मुहुः प्रणम्य कृताञ्जलौ तिष्ठति बालकेऽस्मिन् ॥ इमामपूर्वा प्रकृतिं विलोक्य विसिऽिमये तत्र जनः समेत: ।। २७ ।। कस्त्वं शिशो कस्य सुत: कुतो वे त्यस्माभिराचष्ट किलैप पृष्ठः ।।

  • विस्मापयन्वृत्तमयैर्वचोभिः ॥ २८ ॥

तदा कदाऽप्यश्रुतिगोचरं त दाकण्र्य वाग्वैभवमात्मजस्य । पिता प्रपद्यास्य परं प्रहर्ष समश्रयां वाचमुवाच विज्ञ: ।। २९ ।। ४७१ न चिक्रीड क्रीडां न चकार ॥ २६ ॥ [ बालैः सहायं न चिक्रीड कदाऽपीति सर्वत्र योज्यम् । कचिदपि देशे काले वा नैव । भूतोपहतं पिशा क्रीडामकररांiदत्यथ: चग्रस्तम् । निश्चित्य निणीय ] ॥ २६ ॥ प्रकृतिं स्वभावम् । तत्र तस्मिन्स्थाने । समेतः संमिलितः ॥ २७ ॥ ‘कस्त्वं शिशो कस्य कुतोऽसि गन्ता किं नाम ते त्वं कुत आगतोऽसि । एतन्मयो वद चार्भक त्वं मत्वीतये मीतिविवर्धनोऽसि' । इत्यस्माभिः पृष्टः पद्यमयैर्वचोभिर्विस्मापयन्नात्मानमानन्दघनस्वरूपमाचष्ट । इन्द्र वत्रा वृत्तम् ॥ २८ ॥ तस्मिन्काले कदाऽप्यश्रुतिगोचरं पुत्रस्य तद्वाग्वैभवमाकण्यस्य पिता परं महर्षे माप्य विज्ञः सप्रश्रयां वाचमुवाच । उपजातिवृत्तम् ॥ २९ ॥

  • एवं ह्यत्र प्रक्रिया पूर्वे वचसां प्रयोजकत्वमाश्रित्य णिजनन्तरं तेषां प्रयोज्यत्वमाश्रियैतदर्थस्य

च प्रयोजकत्वमाश्रित्य पुनर्णिच् ततः शतप्रत्ययः । एते शतपुफोरमगतिः प्रत्युक्तः । ४७२ श्रीमच्छकरदिग्विजयः । जनैर्जडत्वेन विनिश्चितोऽपि ब्रवीति यद्येष परात्मतत्त्वम् ॥ प्रज्ञोन्नतानामपि दुर्विभाव्यं किं वण्र्यतेऽर्हन्भवतः प्रभावः ॥ ३० ॥ आ जन्मनः संसृतिपाशमुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव ।। प्रफुल्छराजीवने विहारी कथं रमेत क्षुरके मरालः ॥ ३१ ॥ विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदाप्रधृत्यत्र वसत्युदारः । आा शैशवादात्मविलीनचेता कथं प्रवर्तेत महाप्रबन्धे ॥ ३२ ॥ श्रुत्वेति पप्रच्छुरमुं विनेया स्वामिन्विनैव श्रवणाद्युपायैः । अंलब्ध विज्ञानमयं कथं वा भवानिदं साधु विदांकरोतु ॥ ३३ ॥ तानब्रवीत्संयमिचक्रवत कश्चित्पुरा यामुनतीरवतीं ॥ बभूव सिद्धः किल साधुवृत्त सांसारिकेभ्यः मुतरां निवृत्त ॥ ३४ ॥ [ सर्गः १३] तामुदाहरति । जनैरिति । प्रज्ञयोन्नतानामपि दुर्विभाव्यं परमात्मतत्त्वं यचेष त्वत्समीपमागतो ब्रवीति तर्हि हेऽईन्भवत: प्रभावः किं वण्र्यते । उपजाति वृत्तम् ॥ ३० ॥ तस्मादा जन्मनो जन्मप्रभृति संसृतिपाशमुक्तोऽयं विश्धगुरोस्तवैव शिष्योऽस्तु । यतः प्रफुलपद्मवने विहारी हंसः क्षुरके वने कथं रमेत ॥ ३१ ॥ इति विज्ञाप्य तस्मिन्मभाकरे निर्गते सति ॥ ३२ ॥ अथं विज्ञानं कथं लब्धवानिदं भवान्साधु सम्यग्बोधयतु ।। ३३ ।। एवं पृष्ट भाचार्यस्तस्य प्राग्भवीयं वृत्तान्तमुक्तवानित्याह । तानिति ॥ ३४ ॥ [ सर्गः १३ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तस्यान्तिके काचन विप्रकन्या द्विहायनं जातु निवेश्य बालम् ॥ क्षणं प्रतीक्षस्व शिशु द्विजेति स्रातुं सस्वीभिः सह निर्जगाम ॥ ३९ ॥ अत्रान्तरे दैववशात्स बाल श्चङ्क्रम्यमाणो निपपात नद्याम् ॥ मृतं तमादाय शिशु तदीया श्चक्रन्दुरुचैः पुरतो महर्षेः ॥ ३६ ॥ आक्रोशमाकण्र्य मुनिः स तेषा मत्यन्तस्विन्नो निजयोगभूम्रा ॥ प्राविक्षदङ्गं पृथुकस्य तस्य स एष हस्तामलकस्तपस्वी ॥ ३७ ॥ तस्मादयं वेद विनोपदेशं श्रुतीरनन्ताः सकलाः स्मृतीश्च । सर्वाणि शास्राणि परं च तत्त्व मज्ञातमेतेन न किंचिदस्ति ॥ ३८ ॥ तत्तादृगात्मा न बहि: प्रवृत्तौ नियोगमर्हत्ययमत्र वृत्तौ ॥ स मण्डनस्त्वर्हति बुद्धतत्वः सरस्वतीसाक्षिकसर्ववित्वः ॥ ३९ ॥ जातु कदाचित्तस्य सिद्धस्य समीपे काचन विप्रकन्या द्विवर्ष बालकं संस्थाप्य हे द्विज क्षणमात्रं बालं प्रतीक्षस्वेत्युक्त्वा सखीभिः सह स्नातुं निर्जगाम ॥ ३५ ॥ महर्षेः पुरतश्चक्रन्दुराक्रोशं चक्रुः ॥ ३६ ॥ तस्य पृथुकस्य बालस्याङ्गं शरीरं प्रविवेश स तपस्व्येष हस्तामलकः ॥ ३७ ॥ [ निजेति । स्वयोगैश्वर्यमहिन्नेत्यर्थः ] ॥ ३७ ॥ यस्मादेवं तस्मादयमुपदेशं विनैवानन्ताः श्रुतीः सकलाः स्मृतीश्च सर्वाणि च शास्त्राणि परं च तत्त्वं जानाति किं बहुनाऽनेनाज्ञातं किंचिदपि नास्ति । ३८ । तत्तस्मात्तादृगात्माऽयं हस्तामलको बहिः प्रवृत्तावत्र भाष्ये वृत्तौ नियोगं नार्हति । स मण्डनस्त्वर्हति । यतो बुद्धतत्त्वः सरस्वतीसाक्षिकं सर्वज्ञत्वं यस्य सः ॥ ३९ ॥ मयत्नालब्ध एवंविधः स न रोचेत चेत्तर्हि तथाविधोऽन्यो न दृश्यते । आख्या १ ख. एव । २ घ. 'स्ख्ये ४७३ व ह'। ४७४ तत्तादृशात्युज्ज्वलकीर्तिराशिः समस्तशास्त्रार्णवपारदर्शी । आसादितो धर्महितः प्रयत्ना त्स चेन्न रोचेत न दृश्यतेऽन्यः ।। ४० ।। अहं बहूनामनभीष्टकार्य न कारयिष्ये हि महानिबन्धे ॥ किंचात्र संशीतिरभून्ममातो यदेककार्ये बहवः प्रतीपाः ॥ ४१ ॥ भवन्निदेशाद्रगवन्सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् । श्रीमच्छकरदिग्विजयः । - मतिप्रकर्षे विदितो हि सर्वतः ॥ ४२ ॥ सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधानु भाष्ये ।। न वार्तिकं तत्तु परप्रतिज्ञ यधात्प्रतिज्ञां स हि नृढनदीक्षः ।। ४३ ।। [ सर्गः १३] नकी वृत्तम् ।। ४० । [ तत्तादृशेति । एतेन लोकशास्त्राभयमवृत्तिचातुर्यमपि तत्र पृचितम् ] ॥ ४० ॥ ननु भवदभीष्टं चेत्तहिं कारथितव्यमिति तत्राह । अहमिति । महानिबन्धे बहू नामनभीष्टं कार्यं न कारयिष्ये किंच यत एकस्मिन्कार्ये बहवः प्रतिकृला अतोऽत्र मंशयो ममोत्पन्न इत्यर्थः । उपजातिवृत्तम् ।। ४१ । [ संशति: किमिदं निर्वित्रं स्यान्नवेति संदेहः ] ।। ४१ ।। एवमुक्ता वनया न दृश्यतेऽन्य इत्युनक्तमसहमाना ऊचुः । ह भगवन्भवदाज्ञात : सनन्दन ईप्सितं भाप्ये निबन्धं करिष्यति । यतः स ब्रह्मचर्यादङ्गीकृताश्रमो मतेः प्रकष यस्थै स सर्वतो विज्ञातश्च । वंशस्थं वृत्तम् ।। ।। ४२ एवमुक्त आचार्य उवाच । जनानां नन्दयिता सनन्दनो भाप्ये निबन्वमेकं विद् धातु न तु वार्तिकं तत्तु परमतिज्ञ परस्य प्रतिज्ञा यस्मिन् । हि यतै: नृत्नदाक्षः सुरेश्वरः प्रतिज्ञां व्यधात् । उपेन्द्रवत्रा वृत्तम् ॥ ४३ ॥ [ नूत्नेति । नृत्ना नर्वाना दीक्षः संन्यासदीक्षा यस्य स तथा । एतादृशा: स सुरेश्वरः ] ॥ ४३ ॥

  • क. 'दृशोऽत्यु'। २ क. घ. 'स्य सर्व'। ३ क. ख. ग. यत: स्वीकृतदी' । [ सर्गः १३ ]

धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । आदिश्येत्थं शिष्यसंघं यतीन्द्र प्रोवाचेत्थं नूत्रभिक्षु रहँस्तम् । भाष्ये भिक्षो मा कृथा वार्त्तिकं त्वं नेमे शिष्याः सेहिरे दुर्विदग्धाः ॥ ४४ ॥ तात्पर्य ते गेहधर्मेषु दृष्टा तत्संस्कारं सांप्रतं शङ्कमानाः ।। भाष्ये कृत्वा वात्तिकं योजयेत्स भाष्यं प्राहुः स्वीयसिद्धान्तशेषम् ।। ४५ ।। नाग्त्येवासावाश्रमस्तुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्धः । द्वारि द्वास्थैर्वारिता भक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ।॥ ४६ ॥ इत्याद्यां तां किंवदन्तीं विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वयनल्पे । न्कृत्वा महां दर्शयाध्यात्मनिष्ठम् ।। ४७ ।। इत्थं शिष्यसंघमादिश्य यतीन्द्रो रहासि स्थितं नृत्नभिक्षु सुरेश्वरं वक्ष्यमाणम कारेण पोवाच । हे भिक्षो भाष्ये त्वं वात्तिकं मा कृथा यतो दुर्विदैग्वत्वादिमं शिप्या न सेहिरे । शालिनी वत्तम् ।। ४४ ॥ शङ्कमानैस्तैर्यदुक्तं तद्दर्शयति । गेहिधर्मेषु तव तात्पर्य वीक्ष्य सांपतं तत्संस्कारं शाङ्गमानाः प्राहुः । भाष्ये वात्तिकं कृत्वा स्वीयसिद्धान्तशेषं भाप्यं स योजयेत् । संभावनायां लिङ् । शालिनी वृत्तम् ॥ ४५ ॥ [ स्वीयेति । स्वीयसिद्धान्तः पृर्वमी मांसावार्तिककृत्कुमारिलभट्टाचार्यशिष्यत्वेन स्वस्य तदेकसंमतो यः सिद्धान्तः स शेषोऽङ्गं यस्य तत्तथा ! अथवा स्वीयसिद्धान्तस्य शेषमङ्गीभूतमित्यर्थः ] ॥ ४५ ।। किंच तुर्याश्रमो वेदे सिद्धो नास्त्येवेति माण्डनः सिद्धान्तो भिक्षमाणा द्वारि द्वास्थै वर्यमाणास्ते मण्डनस्य वेश्मान्त: प्रवेशं न लभन्त इत्याद्यां किंवदन्ती जनश्रुआत विदित्वा तेषामनल्पेऽक्षुद्रेऽपि त्वयि प्रत्यया नाऽऽसीत् । तर्हि मया किं कर्तव्य मिति चेत्तत्राऽऽह । स्वातन्त्र्यात्त्वमध्यात्मनिष्ठमेकं ग्रन्थं कृत्वा मह्य दर्शय ॥ ४६ ॥ [ भिक्षमाणाः संन्यासिन इत्यर्थः ] ॥ ४६ ॥ ४७ ॥ ४७५ १ घ. "हस्थम् । २ क. 'दग्धा इमे । विद्वन्यद्वत्प्रत्ययः स्यादमीषां शिष्याणां नो ग्रन्थसंदर्शनेन ॥ इत्युक्त्वेमं वार्त्तिकं सूत्रभाष्ये नाभूद्धाहेत्पाप स्वेदं च किंचित् ॥ ४८ ॥ शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा वेनं स्वतम्रकृतिनिर्मितये न्ययुङ्क । नैष्कम्र्यसिद्धिमचिराद्विदधत्स चेत्थं न्याय्यामविन्दत मुरेश्वरदेशिकाख्याम् ॥ ४९ ॥ नैष्कम्र्यसिद्धिमथ तां निरवद्ययुक्ति निष्कर्मतत्त्वविषयावगतिप्रधानाम् ।। आद्यन्तहृद्यपदबन्धवतीमुदारा माद्यन्तमैक्षततरां परितुष्टचेताः ॥ ५० ॥ ग्रन्थं दृष्टा मोदमानो मुनीन्द्र स्तं चान्येभ्यो दर्शयामास हृद्यम् ॥ तेषां चाऽऽसीत्प्रत्ययस्तद्वदस्मि न्यद्वचान्यस्तत्वविद्यः स नेति ॥ ५१ ॥ [ सर्गः १३] हे विद्वन्यथा ग्रन्थसंदर्शनेन नोऽस्माकमीषां शिष्याणां प्रत्ययः स्यादिति सुरे धरमुक्त्वा हाहा सूत्रभाष्ये वार्तिकं नाभूदिति किंचित्खेदं प्राप ।। ४८ ।। एवं शिष्योक्तिभिः शिथिलितः स्वमनोरथेो यस्यासौ श्रीशांकर एनं सुरेश्वरं स्वत श्रकृतिनिर्मितये न्ययुङ्कः । स च नियुक्तोऽचिरादेव नैष्कम्यैसिद्धिं विदधदित्थं योग्यां सुरेश्वरदेशिकारूयामविन्दत । वसन्ततिलका वृत्तम् ॥ ४९ ॥ [ शिथिलितेति । शिथिलितो विशाकलित आत्मविद्यामद्वार्तिकविषयको मनोरथः सुरेश्वरेणैवाद्वैतबह्मसू त्रभाष्य एव वार्तिकं कर्तव्यमिति संकल्परूपमनोवृत्तिविशेषो यस्य स तथेति यावत् । एतादृशः सन् । यावत्स्चतम्रकृतिनिर्मितये न्ययुङ्ग । तावदेव सोऽपि । चशब्दोऽ प्यथेः ] ।। ४९ ।। निष्कर्मतत्त्वविषयाऽवगतिः प्रधानं यस्यामाद्यादन्तपर्यन्तं मनोज्ञतपदबन्धवतीमेवं भूतां तां परितुष्टचेता अभाचार्य आद्यन्तं सम्यगैक्षत ।। ५० ॥ यथा योऽस्मादन्यः स एवं तत्त्वविन्नास्तीति तथा तेषामस्मिन्प्रत्ययश्चाऽऽसीत् । शालिनी वृत्तम् ॥ ५१ ॥ [ सर्गः १३] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । यत्राद्यापि श्रूयते मस्करीन्द्र नैिष्कर्माऽऽत्मा यत्र नैष्कम्र्यसिद्धिः । स्तन्माहात्म्यात्सर्वलोकादृतोऽभूत् ॥ ५२ ॥ आचार्यवाक्येन विधित्सितेऽस्मि न्वित्रं यदन्ये व्यधुरुत्ससर्ज ॥ शापं कृतेऽस्मिन्कृतमप्युदारै स्तद्वात्तिकं न प्रसरेत्पृथिव्याम् ॥ ५३ ॥ नैष्कम्र्यसिद्धयाख्यनिबन्धमेक कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा । विश्वासैमुक्त्वाऽऽथ पुनर्बभापे स विश्वरुपो गुरुमात्मदेवम् ॥ ५४ ॥ न ख्यातिहेतोर्न च लाभहेतो नप्यर्चनायै विहितः प्रबन्धः । नैोलुङ्घनीयं वचनं गुरुणां नैनोलुङ्घने स्याद्ररुशिष्यभावः ॥ ५५ ॥ ४७७ यत्र ग्रन्थेऽद्यापि यतीन्द्वैर्निष्कर्माऽऽत्मा श्रूयते । यत्र नैष्कम्र्यस्य मोक्षस्य सिद्धिः । तस्मात्रैष्कम्यैसिद्धेनन्नाऽयं ग्रन्थवयों ववृधे । तस्मान्माहात्म्यात्सर्वलोकैरादृतोऽभूत् ।। ५२ । [ निष्कर्मा ‘कर्मण्यकर्म यः पश्येत्' इति स्मृतेः कर्मशब्दितदृश्यशून्य इत्यर्थः ] ॥ ५२ ॥ आचार्येद्भविष्यमालक्ष्य हाहेत्युक्तं तद्दर्शयति । आचार्यवाक्येनास्मिन्वार्तिके विधातुमिष्टे सति यतोऽन्ये वित्रं व्यधुरस्मिन्कृतेऽस्मान्निमित्तात्सुरेश्वरः शापमुत्ससर्ज । सूत्रभाष्यस्य वार्तिकमुदारैः कृतमपि पृथिव्यां न पसरतू । इन्द्रवज्रा वृत्तम् ।। ५३ ॥ विश्धासं च प्राप्याऽऽचार्येत्याद्युक्त्वाऽथ पुनरुवाच । उपजातिवृत्तम् !॥ ५४ ।। यदुवाच तदाह । नेति । इन्द्रवज्रा वृत्तम् ॥ ५५ ॥ [ अर्चनायै पूजायै । तर्हि किमर्थं विहितोऽयं प्रबन्ध इत्यत्राऽऽह । नेति । तत्र हेतुमाह । नेति ] ॥ ५५ ॥

  • ग. 'द्य चोक्त्वा । वि' । २ ग. 'समाप्राप्य पु' । ३ ध. नो लड्ध' । ४ घ. नो लड्' ।

५ ग. ५३ ॥ वक्त्वा तं प्रन्थं निवेद्य च विश्वामं प्राप्याथ '। ४७८ श्रीमच्छकरदिग्विजयः । पूर्वे गृहित्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् ।। न यौवनं वृद्धमुपैति तद्व ब्रजन्हि पूर्वस्थितिमोज्झ्य गच्छेत् ॥ ५६ ॥ अहं गृही नात्र विचारणीयं किं ते न पूर्व मन एव हेतुः । बन्धे च मोक्षे च मनो विशुद्धो गृही भवेद्वाऽप्युत मस्करी वा ।। ५७ ।। नास्त्येव चेदाश्रम उत्तमादि कथं च तत्प्राप्तिनिवृत्तिगामिनौ । प्रतिश्रवौ नौ कथमल्पकालौ न हि प्रतिज्ञा भगवन्निरुद्धा ।। ५८ ।। तात्पर्यं ते गेहि धर्मेषु दृष्टत्युक्तं तत्राऽऽह । पूर्वे गृहित्वेऽपि तत् चभावो गृहिस्व भावा न भवाम नोति । तद्वत्तथा व्रजन्गमनं कुर्वन्पृििस्थतिं परित्यक्त्वैव गच्छेदित्यर्थः । उपजाति वृत्तम् ॥ ५६ ॥ किचात्रास्मिलोकेऽहं गृहीति न विचारणीयम् । यतस्ते किं पृर्वमिह जन्मनि जन्मान्तरे वा गृहिणो न बभूवुरपि त्वायुरेव । तस्माद्रहित्वं यातित्वे वा मन एव हंतुः । न केवलमेतावदेवापि तु बन्वे च मोक्षे च मन एव हेतुः । नन्व त इत्युक्तत्वात् । तस्माद्विशुद्धो गृहीं भवेद्वा मस्करी वा भवेदुभयथाऽपि न्यूनाधिक्यं नास्तीत्यर्थः ।। ५७ ।। नास्त्येवासावा श्रमस्तुर्य इत्थमित्युक्तं तत्राऽऽह । नास्त्येवेति । हे उत्तमाऽऽदि राश्रमो नास्त्येव वेत्तत्प्राप्तिनिवत्तिगामिन नावावयो: प्रतिश्रवावहं पराजित: संन्यासं प्राप्स्याम्यहं पराजितस्तं हास्यामीत्यरूपं कथं स्तस्तत्राप्यल्पकालैं। यदि तुर्याश्रमो मम्भिमतो नाभृत्तर्हि प्रतिज्ञा मया निरुद्धाऽभूदित्याशयेनाऽऽह । न हीति ॥ ५८ ॥ [ अलपेति । अल्पः सद्यः कृतत्वाददीर्घः कालो ययोम्त।वित्यथे: ] [ निरुद्ध त्यक्ता स्यात्संन्यासाख्यतुरीयाश्रमस्यैवाभावात्तद्विषयकप्रतिज्ञाऽपि वन्ध्यापुत्रविवा हकरणप्रतिज्ञावत्यत्व भवेदित्याशयः ] ॥ ५८ ॥ १ ख. ग. . "मिना'। २ ग. "मानुम' [ सर्गः १३] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । संभिक्षमाणा न लभन्त एव चे दृहमवश गुरुणा मवशनम् । कथं हि भिक्षा विहिता ननूत्तमा को नाम लोकस्य मुखापिधायकः ॥ ५९ ॥ तत्त्वोपदेशाद्विदितात्मतत्वो व्यधामह सन्यस्सन कृतात्मा ॥ विरागभावान्न पराजितस्तु वादो हि तत्त्वस्य विनिर्णयाय ॥ ६० ॥ पुरा गृहस्थेन मया प्रबन्धा नैयायिकादौ विहिता महार्थाः । इतः परं मे हृदयं चिकीर्ष त्वदङ्घ्रसेसवां न विलङ्घ्य किंचित् ॥ ६१ ॥ श्रद्धामद्वैतबद्धादरबुधपरिषच्छेमुषीसंनिपण्णा मर्वाग्दुर्वादिगर्वानलविपुलतरज्वालमालावलीढाम् ॥ सिक्त्वासूक्तामृतौधैरह परिहसञ्जीवयस्यद्य सद्य को वा सेवापटुः स्याद्रणतरणविधौ सद्भरोनैव जाने ॥ ६२ ॥ ४७९ यच्च द्वारि द्वास्थैरित्याद्युक्तं तत्राऽऽह । संभिक्षमाणा इति । गुरुणा भगवता प्रवेशनं कथं विहितं कथं च मद्रहे ननृत्तमा भिक्षा विहिता । यदपि किंवदन्तीत्या द्युक्तं तत्रांप्याह । लोकस्य मुखस्यापिधायक: को नाम न कोप्यस्तीत्यर्थः ।॥ ५९ ॥ यत्तु , संन्यासमप्येष न बुद्धिपूर्वमित्याद्युक्तवन्तस्तत्राऽऽह । पूर्वं कृतात्मा पश्चात् त्वोपदेशाद्विदितात्मतत्वोऽहं वैराग्यात्संन्यमनं व्थवां न तु पराजितो हि यस्माद्वाद स्तत्वविनिर्णयाय ॥ ६० ॥ [ यतोऽहं पृवं कृतात्मा टत अात्मा शास्त्रसंस्कारसं स्कृता बुद्धिर्येन स तथेत्यर्थः । पश्चात्तत्त्वोपदेशाच्छीमद्भिः कृताद्रह्मात्मैक्योपदेशात् । विदितेति ] [ विरागेति । द्वैतस्य मृगाम्बुवन्मिथ्यात्वेन तत्र विषये वैराग्याद्धेतो रिति यावत् ] ॥ ६० ॥ यत्तु भाष्ये कृत्वेत्यादि तत्राऽऽह । पुरेति । इतः परं मे हृदयं त्वदङ्वसेवां विलङ्घ्य न किंचित्कर्तुमिच्छु ॥ ६१ ॥ [नैयायिकात्रै नैयायिकादेः खण्डनाविषय इत्यर्थः । एतेन शास्त्रवासनाक्षयशालित्वं सूचितम् । अत एव । इतः परमिति]॥६१॥ तथाचैवंविधस्य सदुरोस्तव सेवा केनापि कथमपि कर्तु न शक्येन्याह । अद्वैते ५ त. 'त्राऽऽह । ४८० श्रीमच्छकरदिग्विजयः । [सर्गः १३] इत्युक्त्वोपरते सुरेश्वरगुरौ तेनैव शारीरके नो संभाव्यहात्र वार्त्तिकमिति प्रौढं शुग िशनैः । धीराम्रयः शमयन्विवेकपयसा देवेश्वरेण त्रयी भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभून्मुनिः ॥ ६३ ॥ भावानुकारिमृदुवाक्यनिवेशितार्थ स्वीयैः पदैः सह निराकृतपूर्वपक्षम् ॥ सिद्धान्तयुक्तिविनिवेशिततत्स्वरुपं दृष्टाऽभिनन्द्य परितोषवशादवोचत् ॥ ६४ ॥ बद्ध आदरो यैस्तथाभूतबुधपरिषच्छेमुष्यां संनिषण्णाम् । अद्वैतबद्धादरा या बुधसमु दायबुद्विस्तस्यां सम्यास्थितामिति वा । अर्वाचीनानां दुर्वादिनां गर्वलक्षणस्यानलस्य विपुलतरज्वालालक्षणेया मालया विपुलतरया ज्वालामालयेति वा । अवलीढामास्वा दितां श्रद्धां सूक्तामृतौधैः सिक्त्वाऽऽहहाद्य सद्यः परिहसञ्जीवयसि । ततो रणतर णावधानसदृशायामव भूतस्य सदुरस्तव सवाया का वा पटुः स्यात् । स्रग्वरा वृत्तम् । ॥ ६२ ॥ [ सूक्तेति । सुष्ठ सूत्रभाष्यादिरूपाणि यान्युक्तानि भाषणानि तान्येवा मृत॥नि तेषामोघा: संघासैरित्यर्थः । सिक्त्वा संसिच्य । हे भगवन्भाष्यकार । त्वमद्य प्रकारे विषये । सेवापटुः को वा स्यादित्यहं तु नैव जान इति योजना ] ।। ६२ । । इत्युक्त्वा सुरेश्वरगुरावुपरते सति । अहहेत्यत्यन्तखेदे । तेन सुरेश्वरेणैवात्र शारी रके व॥र्तिकं नो संभावति औ शोकाभिं धराय: श्रीशकरो विवेकपयसा शनै: शमयन्वेदत्रयीभाष्ये सुरेश्वरेण वार्तिकद्वयं कारयितुं स मुनिर्बद्धादरोऽभूत् । शार्दूल विक्रीडितं वृत्तम् ॥ ६३ ॥ [ त्रयीति । तैत्तिरीयबृहदारण्यकवृसिंहपूर्वतापिनीयो पनिषत्रयीभाष्यपरीत्यर्थः । स मुनिः श्रीशंकराचार्थः । वार्तिकत्रयमित्यार्थिकम् । तथा। वार्तिकेति । पश्चीकरणवार्तिकं तथा दक्षिणामर्तिस्तोत्रवार्तिकं चेति वार्तिकद्वय मित्यर्थः । एवं च वार्तिकपश्चकमिति यावत् ] ॥ ६३ ।। भावानुसारिभिमृदुभिर्वाक्यैर्विनिवशितोऽर्थो यत्र । स्वयैः पदैर्निराकृत: पूर्वपक्षो यन्त्र । सिद्धान्(युक्तिभिर्विनिवेशितं तस्य सिद्धान्तस्य स्वरुपं यत्र । तं तदीयं ग्रन्थं छाऽभिनन्द्य स श्रीशंकर: परितोषवशाद्वोचत् । वसन्ततिलका वृत्तम् ।। ६४ ।।

  • मृले स्याद्रणतरणविधावित्यत्र स्यादृणतरणविधाविति पाठानुरोधेनेदम् । [ सर्गः १३ ]

धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । सत्यं यदात्थ विनयिन्मम याजुषी या शाखा तदन्तगतभाष्यनिबन्धइष्टः । तद्वात्तिकं मम कृते भवता प्रणेयं सचेष्टितं परहितैकफलं प्रसिद्धम् ॥ ६५ ॥ तद्वत्वदाया स्वलु काण्वशास्वा ममापि तत्रास्ति तदन्तभाष्यम् । तद्वात्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्तिः ॥ ६६ ॥ तत्रोभयत्र कुरु वार्तिकमार्तिहारि कीर्ति च याहि जितकार्तिकचन्द्रिकाभाम् ॥ मा शङ्किः पूर्वमिव दुःशठवाक्यरोधी मद्वाक्यमेव शरणं व्रज मा विचारीः ॥ ६७ ॥ श्रीविश्वरूपो विदुषां वरिष्ठः ।। चकार भाष्यद्वयवार्तिके द्वे ह्याज्ञा गुरुणां ह्यविचारणीया ॥ ६८ ॥ ४८१ तदाह । हे विनयिंस्त्वं यदुक्तवानसि तत्सर्वं सत्यमतो मम या याजुषी तैत्तिरेयी शाखा तस्या अन्तगत यो भाष्यलक्षणो ममेष्टो निबन्धस्तस्य वार्तिकं मदर्थं भवता प्रणेयम् । यतः सतां चेष्टितं परहितैकफलं प्रसिद्धम् ॥ ६५ ॥ तद्वत्वदीया खलु या काण्वशाखा तत्रापि मम तदन्तभाष्यमस्ति तस्य वार्तिकम पीटं विवेयम् । यतः सतां प्रवृत्तिः परोपकारायेत्यर्थः ।। ६६ ।। आवश्यकताबोधनाय पुनराह । तत्रोभयत्र तापत्रयनिबर्हणणं वार्तिकं कुरु । जिता कार्तिकचन्द्रिकाया आभा यया तथाभूतां कीर्ति च प्राप्नुहि । नन पूर्ववदधुनाऽपि विनेयवाक्यै रोधस्यावश्यंभावित्वात्किमर्थ तत्करणे मया दक्षिा स्वीकार्येति शङ्का त्वया न कर्तव्येत्याह । मा शङ्कीति । कुत इति चेत्तत्राऽऽह । मद्वाक्यमेव शरणमतस्त त्करणार्थं गच्छ विचारं मा कुरु । वसन्ततिलका वृत्तम् ।। ६७ ।। इत्थं भगवत्पदेन श्राशंकरेणोक्तो विदुषां वरिष्ठः स श्रीसुरेश्वरो भाष्यद्वयस्य वार्तिके द्वे चकार । हि यस्माद्ररूणामाज्ञाऽविचारणीयैव । उपजातिवृत्तम् ॥ ६८ ॥ [ भगवदिति । भगवत्यैश्वर्यवती पदे चरणौ यस्थ स तथा तेनेत्यर्थः । यद्वा भगवन्तो विष्ण्वाद्यवतारत्वेनैश्वर्यवन्तः पझापादाचार्यादयः शिष्याः पद्येोर्थस्येत्यादि ] ॥६८॥ ४८२ श्रीमच्छंकरदिग्विजयः । आज्ञा गुरोरनुचरैर्न हि लङ्घनीये त्युक्त्वा तयोर्निगमशेखरयोरुदारम् । निर्माय वार्तिकयुगं निजदेशिकाय निःसीमनिस्तुलनधीरुपदां चकार ॥ ६९ ॥ सनन्दना नाम गुरारनुज्ञया भाष्यस्य टीकां व्यधितेरित: पराम् ।। यत्पूर्वभागः किल पञ्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥ ७० ॥ व्यासर्षिसूत्रनिचयस्य विवेचनाय टीकाभिधं विजयांडण्डिममात्मकीर्ति: ॥ निर्माय पद्मचरणो निरवद्ययुक्ति दृढध प्रबन्धमकरोद्ररुदक्षिणां स ।। ७१ ।। आलोचयन्नथ तदा नु गतिं ग्रहाणा मृचे मुरेश्वरसमाह्वमुपह्वरे सः ।। पञ्चैव वत्स चरणाः प्रथिता इह स्यु स्तत्रापि सूत्रयुगलद्वयमेव भूम्रा ।। ७२ ।। [ सर्गः १३ ] एतदेव विवृणोति । गुरोराज्ञाऽनुचरर्न हि लङ्घनीयेत्युक्त्वा वेदान्तयोस्तैत्तिरीय बृहदारण्यसंज्ञयोस्तयोभप्ययोरुदारं वार्तिकद्वयं निर्माय सीमारहिता निरुपमा धीर्यस्य स सुरेश्वरो निजदेशिकायोपदां चकारोपायनभूतं कृतवान् । वसन्ततिलकावृत्तम् ।।६९॥ सनन्दनो नाम गुरोरनुज्ञया प्रेरितः परां भाष्यस्य टीकां व्यधात् । यस्याः पूर्व भागः पञ्चपादिकेति प्रसिद्धः । तच्छेषेभागा वृत्तिरिति प्रथीयसी पख्याता ।। ७० ।। व्यासाख्यार्षिसूत्रकदम्बस्य विवेचनायाऽऽत्मकीर्तेर्विजयडिण्डिमं यतो निरवद्ययु क्तिभिर्यथितं टीकासंज्ञ प्रबन्धं निर्माय स पझपादो गुरुदक्षिणामकरोत् । वसन्तति लका वृत्तम् ॥ ७१ ।। अथानन्तरं सूर्यादिग्रहाणां गतिमालोचयन्सुरेश्वरसमाख्यमेकान्ते स श्रीशंकरो बभाषे । हे वत्सेह लोकं पचैव चरणाः पथिताः स्युरिह टीकायामिति वा । तत्रापि बाहुल्येनसूत्रचतुष्टयमेव प्रथितं स्यात् ।। ७२ ॥ १ क. "क्तिस्यूतं प्र'। ख. 'क्तिह्ययं प्र'। २ फ. 'पगा । [ सर्गः १३] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । प्रारब्धकर्मपरिपाकवशात्पुनस्त्वं वाचस्पतित्वमधिगम्य वसुंधरायाम् ॥ भव्यां विधास्यसितमां मम भाष्यटीका माभूतसंलयमधिक्षिति सा च जीयात् ॥ ७३ ॥ इत्येवमुक्त्वाऽथ यतीश्वरोऽसा वानन्दगिर्यादिमुनीन्स हुत्वा । कुरुध्वमद्वैतपररान्निबन्धा नित्यन्वशान्निर्ममसार्वभौमः ॥ ७४ ।। ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दो रानन्दाचलमुस्वरा महानुभावाः ।। आतेनुर्जगति यथास्वमात्मतत्वा म्भोजाकन्विशादतरान्बहून्निबन्धान् ॥ १३८७ ॥ इति श्रीमाधवीये तद्वात्तिकान्तप्रवर्तनः ॥ संक्षेपशंकरजये पृर्णः सर्गस्रयोदशः ॥ १३ ॥ ४८३ एवं तद्दत्तशापस्य सार्थक्यं मदश्र्य सूत्रभाष्यवृत्तकरणसंकल्पस्यापि तत्त्वमाह । प्रारब्धेति । भूमौ वाचस्पतित्वं प्राप्य भव्यां मम भाप्यटकां सम्यग्विधास्यसि सनन्दनकृतटीकासाम्यं वारयति । प्रलयपर्यन्तं क्षिता सा च जीवनं प्रामुयादिति वरप्रदानम् || ७३ ।। इत्येवं सुरेश्वरमुक्त्वाऽथानन्तरमसौ यतीश्वर आनन्दगिर्यादिमुनीनाहूयाद्वैतपरा न्निबन्धान्कुरुध्वमिति स निर्ममचक्रवत्र्याज्ञप्तवान् । उपजातिवृत्तम् ॥ ७४ ॥ ते सर्वेऽप्यानन्दगिरिमुख्या महानुभावा देशिकेन्दोरनुमतिमाप्य स्वमात्मानमनाति क्रम्य यथामत्यात्मतत्त्वाम्भोजाकन्विशदतरान्निबन्वानासमन्ताद्विस्तारितवन्तः । प्रह र्पणी वृत्तम् ॥ १३८७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यद्त्तवं शावतंसरामकुमारसूनुवनपतिसृरकृते श्रशंकराचार्थविजयङि ण्डिम त्रयोदशः सर्गः ॥ ५३ ॥ ४८४ श्रीमच्छकरदिग्विजयः । अथ चतुर्दशः सर्गः । अथाब्जपात्कर्तुमनाः स तीर्थ यात्रामयाचिष्ट गुरोरनुज्ञाम् ।। देया गुरो मे भगवन्ननुज्ञा देशान्ददृक्षे बहुतीर्थयुक्तान् ॥ १ ॥ स क्षेत्रवासो निकटे गुरोय वासस्तदीयाडूघ्रिजलं च तीर्थम् ।। गुरुपदेशेन यदात्मदृष्टि सैव प्रशस्ताऽस्खिलदेवदृष्टिः ।। २ ।। शुश्रूषमाणेन गुरोः समीपे स्थेयं न नेयं च ततोऽन्यदेशे । विशिष्य मार्गश्रमकशैितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥ ३ ॥ द्विधा हि संन्यास उदीरितोऽयं विबुद्धतत्वस्य च तदुभुत्सोः ॥ तत्त्वंपदार्थक्य उदीरितोऽयं यत्नात्वमर्थः परिशोधनीयः ।। ४ ।। [ सर्गः १४] अथ पद्मपादकृतां तीर्थयात्रां निरूपयितुमुपक्रमते । अथानन्तरं स पद्मपादस्ती र्थयात्रां कर्तुमना गुरोरनुज्ञामयाचिष्ट । याश्वामेवाऽऽह । हे भगवन्गुरोऽनुज्ञा देया बहुतीर्थयुक्तान्देशान् द्रष्टुमिच्छामि । उपजातिवृत्तम् ॥ १ ॥ एवं पार्थितो गुरुरुवाच । गुरोर्निकटे यो वासः स एव क्षेत्रवासः ॥ २ ॥ यस्मादुरुसमीपे स्थितस्य देशान्तरगमनप्राप्यं समस्तं प्राप्तमेवाभूत् । शुश्रूषमाणेन शिष्येण गुरोः समीपे स्थेयं गुरुसमीपादन्यदेशे नैव गन्तव्यम् । यतोऽन्यत्र गमने संन्यासधर्मदौर्लभ्यं दुःखबाहुल्यादित्वतिरिच्यत इत्याशयेनाऽऽह । अतिशयेन मार्गश्रमेण कर्शितस्य निद्राभिभृत्या किमपि त्वंप्रदादिचिन्तनीयं न संभवति ॥ ३ ॥ अयं संन्यासश्च द्विधा । विद्वत्संन्यासो विविदिषासंन्यासश्चेति द्विपकारक उक्त स्तत्र विबुद्धतत्त्वस्य विक्षेपनिवृत्त्या जीवन्मुक्तिसुखार्थ आद्यस्तत्वबुभुत्सोस्तत्वंपदैक्ये तदर्थोऽयं भवदादिभिराश्रितो द्वितीय उक्तः । तस्मात्तदर्थं त्वमर्थः प्रयत्नाच्छोधनीयो न तु तदपघातकं तीर्थाटनादि कर्तव्यमिति भावः ॥ ४ ॥ १ घ. 'कार उ'। [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । संभाव्यते व च जलं क च नास्ति पाथ शय्यास्थलं कचिदिहास्ति न च क चास्ति । शय्यास्थलीजलनिरीक्षणसक्तचेता पान्थो न शर्म लभते कलुषीकृतात्मा ॥ ५ ॥ ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपायः ।। स्थातु च गन्तु च न पारयत तदा सहायोऽपि विमुञ्चतीमम् ॥ ६ ॥ स्नानं प्रभाते न च देवतार्चनं क चोक्तशौचं क च वा समाधयः ।। इक चाशनं कुत्र च मित्रसंगतिः पान्थो न शाकं लभते क्षुधातुरः ।। ७ ।। नास्त्युत्तरं गुरुगिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान्गुरुपाश्र्ववासः । श्रेयानिति प्रथमसंयमिनामनेका न्देशानवीक्ष्य हृदयं न निराकुलं मे ।। ८ ।। तीर्थयात्रायास्तदभिघातकत्वं स्फुटयन्नाह । संभाव्यत इति । पाथो जलम् । इह मार्गे । वसन्ततिलका वृत्तम् ।। ५ ।। किंच यदि चेज्वरातिसारादिरोगजालं बाषेत तर्हि कोऽप्युपायो नास्ति । न पारयेत नैव शकुयात् । उपजातिवृत्तम् ।। ६ । [ अपिनाऽन्यो विमुञ्चतीति कैमुत्य सिद्धमेव ] ।। ६ ।। न च क चेति वा मध्यमणिन्यायेनोभयत्र संबन्धनीयम् ।। ७ । [ प्रभाते पात:- काले स्नानं न भवति । चः समुचये । देवतामानसार्चनं यद्यपि भस्मस्नानं विवायापि कर्तु शक्यमथापि तदपि तदा जिगमिषाक्षिप्तचित्तत्वात्रैव भवतीत्यर्थः] ।। ७ ।। एवमुक्तः पद्मपाद उवाच । यद्यपि गुरुवर्चस उत्तरं नास्ति तथाऽपीहोत्तरं वक्ष्ये । एवं प्रतिज्ञां विधाय यत्स क्षेत्रवास इत्याद्युक्तं तत्राऽऽह । सत्यमिति । गुरुसमीप वासः श्रेयानिति भगवान्यदाह तत्सत्यं तथाऽप्याद्या ये संयमिनस्तेषामनेकान्देशानवीक्ष्य मे हृदयमव्याकुलं न भवति । हे संयमिनां प्रथमेति वा । वसन्तातिलका वृत्तम् ॥ ८ ॥ ४८९ १ ख. 'चनस्योत्त'। ४८६ श्रीमच्छंकरदिग्विजयः । सर्वत्र न कापि जलं समस्ति पश्चात्पुरस्तादथ वा विदिक्षु ॥ मागे हि विद्येत न मुव्यवस्थः सुखेन पुण्यं क नु लभ्यतेऽधुना ॥ ९ ॥ जन्मान्तररार्जितमघं फलदानहेतो व्यध्यात्मना जनिमुपैति न नो विवादः । साधारणादिह च वा परदेशके वा ॥ कर्म ह्यभुक्तमनुवर्तत एव जन्तुम् ॥ १० ॥ इह स्थितं वा परतः स्थितं वा कालो न मुञ्चेत्समयागतश्चेत् ॥ तद्देशागत्याऽमृत देवदत्त इत्यादिकं मोहकृतं जनानाम् ॥ ११ ॥ मन्वादयो मुनिवराः खलु धर्मशात्रे धर्मादि संकुचितमाहुर्रातिप्रवृद्धम् । देशाद्यवेक्ष्य न तु तत्सराणिं गतानां शौचाद्यतिक्रमकृतं प्रभवेदघं नः ॥ १२ ॥ संभाव्यत इत्यादि यदुक्तं तत्राप्याह । सर्वत्रेति । न विद्यते सुव्यवस्था यस्य स यद्यप्येवं तथाऽप्यधुना सुखेन पुण्यं कापि न लभ्यतेऽतस्तदर्थं दुःखमपि सोढव्य मित्यर्थः । उपजातिवृत्तम् ॥ ९॥ [सर्वत्र कापि जलं सम्यङ्नैवास्तीत्यर्थः ] ॥९ ॥ यदपि ज्वरातिसारादीत्युक्तं तत्राप्याह । जन्मान्तरार्जितं पापं फलदानार्थं रोगा त्मना जन्मेपैतीत्यत्रास्माकं विवादो नास्ति तथाऽपीह वा परदेशके वा साधारणाज निमुपैति । हि यस्माद्भुक्तं कर्म जन्तुमनुवर्तत एव । वसन्ततिलका वृत्तम् ॥ १० ॥ कालो मृत्युः स्वसमय आगतश्चेदिह स्थितं परदेशे स्थितं वा नैव मुञ्चेत् । यत्तु तद्देशगमनेन देवदत्तोऽमृत मृतवानित्यादिकं जनानां वचस्तत्वविवेककृतमित्याह । तद्देशगत्येति । उपजातिवृत्तम् ॥ ११ ॥ [ समयेति । समये प्रारब्धपरिसमाप्ति क्षण आगत: समयागत इत्यर्थः ] ॥ ११ ॥ यत्तु स्नानमित्याद्युक्तं तत्राऽऽह । मनुपराशरादयो मुनिवराः किल धर्मशास्त्रे देशा द्यवेक्ष्यातिप्रवृद्धं धर्मादि संकुचितमाहुः । तथाच स्मृतिः । १ क. 'दत्तो [ सर्गः १४ ] मृनवा'। [ सर्गः १४] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । दैवेऽनुकूले विपिनं गतो वा समापुयाद्वाञ्छितमन्नमेषः ।। हियेत नश्येदपि वा पुरस्थं तस्मिन्प्रतीपे तत एव सर्वम् ॥ १३ ॥ गृहं परित्यज्य विदेशगो ना मुस्वं समागच्छति तीर्थदृश्वा । गृहं गतो याति प्रातिं पुरस्ता त्तदागमादत्र च किं निमित्तम् ॥ १४ ॥ देशे कालेऽवस्थितं तद्विमुक्तं ब्रह्मानन्दं पश्यतां तत्र तत्र ॥ चित्तैकाग्रये विद्यमाने समाधिः सर्वत्रासौ दुर्लभो नेति मन्ये ॥ १५ ॥

  • देशं कालं तथाऽऽत्मानं द्रव्यं द्रव्यप्रयोजनम् ।

उपपत्तिमवस्थां च ज्ञात्वा शैौचं समारभेत्’ ॥ इत्याद्या । तथाच देशाद्यवेक्ष्य तेषां सरणिं गतानामस्माकं शैौचाद्यतिक्रमनिमित्त मपं न भवेत् । वसन्ततिलका वृत्तम् ॥ १२ ॥ ४८७ यत्तु क चाशनं पान्थो न शाकं लभते क्षुधातुर इत्युक्तं तत्राऽऽह । दव इति । तस्मिन्दैवे । पीपे मतिकृले'। अतस्तत एव पतीपादनुकूलाद्वा दैवादेव ! उप जातिवृत्तम् ॥ १३ ॥ किंच गृहं परित्यज्य विदेशगस्तीर्थदृश्धा ना पुमान्सुखं यथा स्यात्तथा समाग च्छति गृहे स्थितस्तदागमात्पूर्वमेव मरणं यातीत्यत्र च किं निमित्तं तस्य परदेशगम नाभावात् । उपेन्द्रवज्रा वृत्तम् ॥ १४ ॥ [ तीर्थेति । तथै पश्यतीति तीर्थदृश्धा । एतादृशः सन् ] | १४ ॥ १ ग, घ. 'ले च स्थि"। २क. 'भो नैव म'। ३ ख. 'ले सति तत ए"। यत्तु किमु चिन्तनीयं क च वा समाधय इत्युक्तं तत्राऽऽह । देश इति । वस्तु तस्ताभ्यां देशकालाभ्यां विमुक्तं ब्रह्मानन्दं पश्यतां तत्र तत्र देशे काले चितैकाग्ये विद्यमाने सति सर्वत्रासौ समाविर्दर्लभो नेति मन्ये । शालिनी वृत्तम् । १५ ॥ ४८८ श्रीमच्छकरदिग्विजपः । सत्तीर्थसेवा मनसः प्रसादिनी देशस्य वीक्षा मनसः कुतूहलम् ॥ क्षिणोत्यनर्थान्सुजनेन संगम स्तस्मान्न कस्मै भ्रमणं विरोचते ॥ १६ ॥ अटाध्यमानोऽपि विदेशसंगतिं लभेत विद्वान्विदुषाऽभिसंगतिम् ॥ बुधो बुधानां खलु मित्रमीरितं स्वलेन मैत्री न चिराय तिष्ठति ।। १७ ।। समीपवासोऽयमुदीरितो गुरो र्विदेशगो यद्धदयेन धारयेत् ।। समीपगोऽप्येष न संस्थितोऽन्तिके न भक्तिहीनो यदि धारयेद्धदि ॥ १८ ॥ परिपुष्णाति मतिं शनैः शनैः । परिपुष्टमतिर्विवेकवा ञ्शनकैर्हयगुणं विमुञ्चति ॥ १९ ॥ [ सर्गः १४] किंच सत्तीर्थसेवा मनसो विशोधिनी देशस्यापूर्वस्य दर्शनं मनसः कुतूहलं सुजनेन सङ्गोऽनर्थान्नाशयति । तस्मादेवंविधं भ्रमणं कस्मै विशेषेण न रोचते । उपजातिवृत्तम् ॥ १६ ॥ [ सत्तीर्थेति । एवं च बहुगुणत्वात्सर्वस्मा अपि तीर्थयात्रार्थे भ्रमणं रोचत एवोति भावः ] | १६ ।। यदपि कुत्र च मित्रसंगतिरित्युक्तं तत्राप्याह । विदेशे सम्यग्गतिमटमानः कुर्वा णोऽपि विद्वान्विदुषाऽभिसंगतिं लभेत । बुधानां बुध एव खलु मित्रं कथितम् । यत खलेन मैत्री चिराय न तिष्ठति । वंशस्थं वृत्तम् ॥ १७ ॥ यत्तु गुरोः समीपे स्थेयमित्याद्युक्तं तत्राऽऽह । गुरोः समीपे वासोऽयं कथितो विदेशागो यदि हृदयेन गुरुं धारयेत् । समीपगोऽप्येष सभीपे न स्थितो यदि भक्ति हीनो हृदि तं न धारयेत् ॥ १८ ॥ सुजनसमागमोऽपि सुजनस्यैव फलतीत्याह । सुजनः सुजनेन संगतः शनैः शनै स्तत्सङ्गेन बुद्धिं वर्धयति । परिपुष्टमतिर्विवेकवान्सन्हेयं गुणं दुःखादि रजआदि वा विमुञ्चति । वियोगिनीं वृत्तम् ॥ १९ ॥ [ हेयस्त्याज्यो यो गुणो रजभादिस्तभि त्यर्थः । विमुञ्चति लोभादित्यागेन जहावत्यर्थः ] ॥ १९ ॥ [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ४८९ यद्याग्रहोऽस्ति तव तीर्थनिषेवणायां विघ्रो मयाऽत्र न खलु क्रियते पुमर्थे ॥ चित्तस्थिरत्वगतये विहितो निषेधो मा भूद्विशेषगमनं त्वतिदुःस्वहेतुः ॥ २० ॥ नैको मागें बहुजनपदक्षेत्रतीर्थानि याता चौराध्वानं परिहर मुखं त्वन्यमार्गेण याहि ।। विप्राग्रपाणां वसतिविततिर्यत्र वस्तव्यमीष नो चेत्सार्ध परिचितजनैः शीघ्रमुद्दिष्टदेशम् ॥ २१ ॥ सद्रिः सङ्गो विधेयः स हि सुखनिचयं सूयते सज्जनाना मध्यात्मैक्ये कथास्ता घटितबहुरसाः श्राव्यमाणाः प्रशान्तैः ॥ कायकेशं विभिद्युः सततभयभिदः श्रान्तविश्रान्तवृक्षा स्वान्तश्रोत्राभिरामाः परिमृषिततृषः क्षोभितक्षुत्कलङ्काः ॥२२॥ एवमुक्तो गुरुरुवाच । यदीति । अत्र तीर्थसेवारूपे पुरुषार्थे चित्तस्थैर्यावगतये मया निषेधो विहित एवमनुज्ञाप्य शिक्षणं करोति । अतिदुःखहेतुर्विशेषगमनं माभूत् । वसन्ततिलका वृत्तम् ॥ २० ॥ किंच यतो बहुजनपदक्षेत्रतीर्थानि गच्छतामेको माग न भवत्यतैश्चैौराध्वानं परि त्यज सुखं यथा स्यात्तथा त्वन्यमार्गेण गच्छ । किंच विपाणां वसतिविततिर्निकेतन पङ्किर्यत्र तत्र वस्तव्यम् । तत्रापीषन्न तु बहुकालं । विपाणां वसतिवितातनस्ति चेत्प रिचितजनैः सहोद्दिष्टं देशं ३ीघ्धं याहि । मन्दाक्रान्ता वृत्तम् ॥ २१ ॥ [ उद्दिष्ट देशं संकेतितक्षेत्रादिदेशम् ] ॥ २१ ॥ किच सद्भिः सङ्गो विधेयो हि यस्मात्स सङ्गः सज्जनानां सुखनिचयं जनयति । कुत इत्यत आह । यतस्तैः प्रशान्तै: श्राव्यमाणा अध्यात्मैक्ये कथा: काय । विभिद्युः । ता विशिनष्टि । घटितो बहुरसो यासु । सततं यदूयं संसृतिलक्षणं तद्भिन्दन्तीति तथा । सततं भयं भिन्दन्तीति वा । तथा संसृसिमार्गे श्रान्तानां विश्रामवृक्षाः पुनश्च मनःश्रोत्राभिरामाः परिमार्जिता तृष्णा पिपासा च याभिः । क्षोभितः क्षुलक्षणः कलङ्क याभिस्ताः । स्रग्धरा वृत्तम् ॥ २२ ॥ [ अध्यात्मैक्ये विषये ] ॥ २२ ॥

  • ख. ग. घ. 'तां चोरा' । २ ख. ग. घ. 'तथोरा' । ३ क. तङ्कवाञ्छ। पि' । श्रीमच्छंकरदििग्वजयः।

सत्सङ्गोऽयं बहुगुणयुतोऽप्येकदोषेण दुष्टो यत्स्वान्तेऽयं तपति च परं सूयते दुःखजालम् ॥ स्वल्वासङ्गो वसतिसमये शर्मदः पूर्वकाले प्रायो लोके सततविमलं नास्ति निर्दोषमेकम् ॥ २३ ॥ मार्गे यास्पन्न बहुदिवसान्पाथसः संग्रही स्या तस्माद्दोषो जिगमिषुपदप्राप्तिविन्नस्ततः स्यात् ॥ प्राप्योद्दिष्टं वस निरसनं तत्र कार्यस्य सिद्धे लाद्भ्रंशोऽभिलषितपदप्राप्त्यभावोऽन्यथा हि ॥ २४ ॥ मार्गे चोरा निकृतिवपुष संवसेयुः सहैव च्छन्नात्मानो बहुविधगुणैः संपरीक्ष्या: प्रयत्नात् ॥ देवान्वस्त्रं लिखितमथ वा दुर्विधा नेतुकामा विश्वासोऽतोऽपरिचितवृषु प्रोज्झनीयो न कार्यः ॥ २५ ॥ तिष्ठयुश्चेद्रिक्षवस्तेऽभिगम्याः । पूज्याः पूज्यास्तद्यतिक्रान्तिरुग्रा श्रेयस्कार्य निष्फलीकर्तुमीशाः ॥ २६ ॥ [सर्गः १४] यत्स्वस्यान्तेऽयं सङ्गस्तपति संतापयति । चो हेतौ । यतो दुःखजालं पसूयते । यतो वियोगात्पूर्वकाले वाससमये सङ्गः सुखदः प्रसिद्धस्तथाच लोक एकमपि वस्तु सततविमलं निर्दोषं पायो नास्ति । मन्दाक्रान्ता वृत्तम् ॥ २३ ॥ किंच बहदिवपान्मार्गे यास्यअवलमात्रस्यापि संग्रही न स्याद्यतस्तस्मात्संग्रहात्स र्वस्वहरणरूपो दोषःस्यात्ततस्तस्माद्दोषाद्रन्तुमिच्छोरभिलषितपदप्राप्तिविन्नः स्यात् । किंचोद्दिष्ट देशं प्राप्य तत्र वस वापं कुरु । अन्यथा मध्ये वापे क्रियमाणे कार्यस्य निरसनं बावः सिद्धेर्मलाशोऽभिलषितपद प्राप्त्यभावश्च स्यान् ॥ २४ ॥ सर्देव वसेयुः । ते प्रयत्नात्सम्यक्परीक्ष्या यतस्ते द्रष्टा देवान्वस्त्रं पुस्तकं वा नेतु कामाः । अतोऽपरिचितनरेषु प्रकर्षेण हेयो विश्वासः कदाऽपि न कर्तव्यः ॥ २५ ।। किंच मार्गस्य मध्ये ततो बहियजनाभ्यन्तरे वा भिक्षवश्चेत्तिष्ठयुस्तर्हि तेऽभि गम्या यतः पूज्याः पूजायोग्याः पूयनीया यतस्तेषां व्यतिक्रान्तिरुग्रा यतः श्रेय स्काथै निष्फलीकर्तु समर्थाः । शालिनी वृत्तम् ॥ २६ ॥ [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ ४९१ यदापदपदं सदा यतिवर स्थितं वस्तु त न्मतं भज मितंपचान्मनसि मा कृथाः प्राकृतान् । कषायकलुषाशयक्षतिविनिवृतः सन्मत मुखी चर मुखे चिरास्फुरति संततानन्दता ॥ २७ ॥ इत्थं गुरोर्मुस्वगुहोदितवाक्सुधां ता मापीय हृष्टहृदय: स मुनिः प्रतस्थे । प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराचै कालं कियन्तमनयत्सह शृङ्गकुधे ॥ २८ ॥ अधिगम्य तदाऽऽत्मयोगशाक्त रनुभावेन निवेद्य चाऽऽश्रवेभ्य: ॥ अवलम्बिततारकापथोऽसा वचिरादन्तिकमाससाद मातुः ॥ २९ ॥ तत्राऽऽतुररां मातरमैक्षतासौ ननाम तस्याश्चरणौ कृतात्मा । सा चैनमुद्वीक्ष्य शरीरतापं जहौ निदाघार्त इवाम्बुदेन ॥ ३० ॥ उपदेशसारमाह । हे यतिवराऽऽपदामपदं सर्वानर्थशून्यं वस्तु यस्मिन्स्थितं तन्मतं सदा भज । मितंपचवान्कदर्यान्पामरान्मनासेि मा कृथाः । पुनश्च कषायेण कलुष स्याऽऽशयस्य क्षत्या विशेषेण निवृतः सन्मतं यस्य तथाभूतः सुखी चर । यत: सुखे चिरात्संततानन्दता स्फुरति । पृथ्वी वृत्तम् ।। २७ । [ कषायेति । कषायेण प्राकृतः तजनचिन्तनजन्यरज आदिदोषे विशेषेण यत्कलुषं ‘कलुषं वृजिन' इत्यमरात्पापं तस्य याऽऽशयादन्तःकरणात्क्षतिध्र्वस्तिस्तया विनिवृतः संप्रहृष्टोऽत एव सन्मतः सतां मान्यः सन्सुखी चरेति संबन्धः ] [ संततानन्दतापिरादखण्डं स्फुरति स्वात्मत्वेन भातीत्यथेः ] ।। २७ ।। इत्थं गुरोर्मुखलक्षणाया गुहाया उदितां वाक्सुधां तामापीय ऋष्टहृदयः स मुनिः पद्मपादः पतस्थे । तं पस्थाप्य गुरुवरोऽथानन्तरं सुरेश्वराचैः सह कियन्तं कालमृ प्यशृङ्गाख्ये भूधरेऽनयत् । वसन्ततिलका वृत्तम् ॥ २८ ॥ तदाऽऽत्मयोगशात्तेरनुभावेन मातुवृत्तान्तमविगम्याऽऽश्रवेभ्यो वचनस्थितेभ्यो यतिभ्यो विनिवेद्य तं वृत्तान्तं विज्ञाप्य चावलम्बितस्तारकामाग गगनमार्गे येनासँी श्राशंकरोऽचिरान्मातुः समीपमाससाद । मालभाiरण वृत्तम् ॥ २९ ॥ निदाघेन ग्रीष्मसंतापेनाऽऽर्तः संतप्तः । आख्यानकी वृत्तम् ॥ ३० ॥ [कृतेति । श्रीमच्छंकरदिग्विजयः । असावसङ्गोऽपि तदाऽऽद्रचेता स्तामाह मोहान्धतमोपहर्ता ॥ अम्बायमस्त्यत्र शुचं जहीहि

  • ब्रवीहि किं ते करवाणि कृत्यम् ॥ ३१ ॥

दृष्टा चिरात्पुत्रमनामयं सा हृष्टान्तरात्मा निजगाद मन्दम् ।। अस्यां दशायां कुशली मया त्वं दिष्टयाऽसि दृष्टः किमतोऽस्ति कृत्यम् ॥ ३२ ॥ इनः परं पुत्रक गात्रमेत द्वोढुं न शक्रोमि जरातिशीर्णम् ॥ संस्कृत्य शास्रोदितवत्र्मना त्वं सदृत्त मां प्रापय पुण्यलोकान् ॥ ३३ ॥ सुतानुगां सूक्तिमिमां जनन्याः श्रुत्वाऽथ तस्यै मुस्वरुपमेकम् ॥ मायामयाशेषविशेषशून्यं मानातिगं स्वप्रभमप्रमेयम् ॥ ३४ ॥ ब्रह्मवित्सार्वभौमोऽपि लोकसंग्रहाथै तस्या मातुश्चरणौ ननामेति संबन्ध । तदुक्त स्कन्द 'संन्यस्ताखिलकर्माऽपि पितुर्वन्द्यो हि मस्करी । 'सर्ववन्येन यतिना पसूर्वन्द्या प्रयत्नतः' इति ] ॥ ३० ॥ क्षेऽम्बायं तव पुत्रोऽस्ति शुचं शोकं त्यज । उपजातिवृत्तम् ॥ ३१ ॥ आमयराश्तिं पुत्रं चिरादृष्टा । इन्द्रवज्रा वृत्तम् ॥ ३२ ॥ आनुषङ्गिकं कृत्यमप्याह । इत इति । ननु नेदं सतां वृत्तमिति चेत्तत्राऽऽह । हे सदृत्त तवातितेजस्वित्वादेतावता सत्ताभङ्गो नास्तीत्याशयः । उपजाति वृत्तम् ।। ३३ ।। एवमुक्तः श्रीशंकरोऽन्तर्भूतसर्वलोकसुखं ब्रह्मानन्दं प्रापयितुं प्रवृत्त इत्याह सुंतवि

  • इदं चिन्त्यम् । ईडुणयोः प्रवृत्तेर्दू:साधत्वात् । आदर्शपुस्तकेषु

मां ब्रहीत्यादि तु तत्र पठितुं युक्तम् । [ सर्गः १४ ]

  • ग. घ. सुतमनुसृतां न।

तु सर्वेष्विदमेवोपलभ्यते । [ सर्गः १४ ] धमपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । उपादिशब्रह्म परं सनातनं न यत्र हस्ताडून्निविभागकल्पना ॥ अन्तर्बहिः संनिहितं यथाऽम्बरं निरामयं जन्मजरादिवर्जितम् ॥ ३५ ॥ सौम्यागुणे मे रमते न चित्तं रम्यं वद त्वं सगुणं तु देवम् ।। न बुद्धिमारोहति तस्वमात्रं यदेकमस्थूलमनण्वगोत्रम् ॥ ३६ ॥ निशम्य मातुर्वचनं दयालु स्तुष्टाव भक्तया मुनिरष्टमूर्तिम् ॥ प्रस्थापयामास स च स्वदृतान् ॥ ३७ ॥ षयै न तु दाहादिसंस्कृत्यनविकारियत्यनुगां जनन्या सृतिं श्रुत्वाऽनन्तरं तम्यै पुखरूपमेकं परं ब्रहोपादिशदिति परेणान्वयः । तद्विशिनष्टि । मायेति । अत एव प्रत्यक्षादिप्रमाणातीतम् । तर्हि कथं भातीति चेत्तत्राऽऽह । स्वपभं स्च पकाशम् । अत् एवापमेयं फलव्याप्त्यभावात् ॥ ३४ ॥ ३५॥ [उपादिशदिति । अम्बग्माकाशम् । तथा चाऽऽस्रायते । 'आकाशवत्सर्वगतश्च नित्यः' इति ] ।। ३५ ।। एवमुपदिष्टा जनन्युवाच । हे सौम्य नगुण म चित्तं न रमतेऽतो रम्य सगुणं तु देवं त्वं वद । कुतो न रमत इति चेत्तत्राऽऽह यदेकं स्थूलत्वादिनिर्मुन्तं तत्त्वमात्र तदुद्धिंनाऽऽररोहति । यद्यस्मादिति वा || ३६ ।। एवं मातुर्वचनं निशम्य दयालुर्मुनिः श्रीशंकराचार्योऽष्टमृर्ति महादेवं 'भुजंगप्रयातं भवेचैश्चतुर्भिः’ इत्युक्तलक्षणैर्भुजंगप्रयाताख्यः पथैर्भक्तया तुष्टाव । तथाहि । अनाद्यन्तमाद्ययं परं तत्त्वमर्थ चिदाकारमेकं तुरीयं त्वमेयम् । हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महः शैवमीडे ।। १ ।। स्वशक्तयादिशाक्त्यन्तसिंहासनस्थं मनोहारिसर्वाङ्गरत्नादिभूषम् । जटाचन्द्रगङ्गास्थिसंपर्कमौलिं पराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ २ ॥ शिवेशानतत्पृरुषाघोरवामादिभिर्बह्मभिर्हन्मुखैः षङ्गिरडैः । अनौपम्यषटत्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति का वा ॥ ३ ।। प्रवालपवाहप्रभाशोणमर्ध मरुत्वन्मणिश्रीमहःश्याममर्धम् । गुरु स्यूतमेकं वपुश्चैकमन्तः स्मरामि स्मरापात्तसंपत्तिहेतुम् ॥ ४ ॥ १ क न्मतदादि'। ४९३ २ क. 'या ज '। ४९४ श्रीमच्छंकरदिग्विजयः । विलोक्य ताञ्शूलपिनाकहस्ता त्रैवानुगच्छेयमिति बुवन्त्याम् ॥ तस्यां विसृज्यानुनयेन शैवा नस्तौदथो माधवमादरेण ॥ ३८ ॥ [ सर्गः १४ ] स्वसेवासमायातदेवासुरेन्द्रानमन्मौलिमन्दारमालाभिषिक्तम् । नमस्यामि शंभो पदाम्भोरुहं ते भवाम्भेधिपोतं भवानविभाव्यम् ॥ ५ ॥ जगन्नाथ मन्नाथ गौरीश नाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् । महःस्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ६ ॥ महादेव देवेशा देवादिदेव स्मरारे पुरारे यमारे हरेति । बुवाणः स्मरिष्यामि भक्त्या भवन्तं ततो मे दयाशील देव प्रसीद ।। ७ ।। विरूपाक्ष विश्वेश विश्वाधिकेश त्रयीमूल शंभो शिव त्र्यम्बक त्वम् । प्रसीद स्मर त्राहि पश्यावपुष्य क्षमस्वाऽऽमुहतीक्ष पाहि क्षिपामः ॥ ८ ॥ त्वदन्यः शरण्यः पपन्नस्य नेति प्रसीद स्मरन्नोऽवहन्यास्तु दैन्यम् । न चेत्ते भवेद्भक्तवात्सल्यहानिस्ततो मे दयालो दयां संनिवेहि ।। ९ ।। अयं दानकालस्त्वहं दानपात्रं भवान्नाथ दाता त्वदन्यं न याचे । भवद्भक्तिमेव स्थिरां देहि मह्य कृपाशील शंभो कृतार्थोऽस्मि तस्मातू ।। १० ।। पशु वेत्सि चेन्मां त्वमेवाविरूढः कलङ्कति वा मृ िधत्से त्वमेव । द्विजिह्वः पुनः सोऽपि ते कष्ठभृषा त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥११॥ न शक्रोमि कर्तु परद्रोहलेशां कथं मयिसे त्वं न जाने गिरीश । तथा हि प्रसन्नोऽसि कस्यापि कान्तासुतद्रोहिणो वा पितृद्रोहिणो वा ॥१२॥ स्तुतिं ध्यानमचर्चा यथावद्विधातुं भजन्नप्यजानन्महेशावलम्बे । त्रपन्तं सुतं त्रातुमये मृकण्डोर्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १३ ॥ अकण्ठे कलङ्कादनङ्गे भुजंगादपाणौ कपालादभालेऽनलाक्षात् । अमैौलौ शशाङ्कादवामे कलत्रादहं देवमन्यं न मन्ये न मन्ये ॥ १४ ॥ इति । स च महादेवः स्तुत्या प्रसन्नः स्वदूतान्प्रेषयामास || ३७ ।। शूलपिनाकहस्तांस्ताञ्शिवदूतान्दृष्टाऽहं नैवानुगच्छेयमिति बुवन्त्यां तस्यां जनन्यां सत्यां शिवदृताननुनयेन विसृज्य लक्ष्मीपतिं स्तुतवान् ।। ३८ ।। [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । भुजगाधिपभोगतल्पभाजं कमलाङ्कस्थलकल्पिताङ्घ्रपद्मम् ।। अभिवीजितमादरेण नीला वसुधाभ्यां चलमानचामराभ्याम् ॥ ३९ ॥ विहिताञ्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन । धृतमृतिभिरस्रदेवताभिः परितः पञ्चभिरश्वितोपकण्ठम् ॥ ४० ॥ महनायतमालकमलाङ्ग मुकुटीरत्नचयं महार्हयन्तम् ॥ शिशिरेतरभानुशीलिताग्रं हरिनीलोपलभूधरं हसन्तम् ॥ ४१ ॥ तत्तादृशं निजसुतोदितमम्बुजाक्षे चित्ते दधार मृतिकाल उपागतेऽपि ।। चित्तेन कंजनयनं हृदि भावयन्ती तत्याज देहमबला किल योगिवत्सा ।। ४२ ।। ४९५ माधवं विशिनष्टि । भुजगाधिपस्य शेषस्य भोगात्मकं देहात्मकतल्पं शय्यां भज तीति तथा तं कमलाया लक्ष्म्या अङ्कस्थल उत्सङ्गस्थले कल्पिते स्थापिते चरणक मले येन तं नीलावसुधांख्याभ्यां स्वभार्याभ्यां चलमानाभ्यां चामराभ्यां वीजितम् । वसन्तमालिका वृत्तम् ॥ ३९ || [ आदरेण प्रेम्णा ] ।। ३९ ।। विहिताञ्जलिना विनतानन्द वृता गरुडेन रथेनाग्रतो निषेव्यमाणं धृतमृर्तिभिः पञ्चभिः शङ्खचक्रगदाधनुष्खडाख्यास्रदेवताभिः परितोऽश्वितोपकण्ठं स्फुरत्समी पम् ॥ ४० । [ विनतेति । विनताया अमृतमदानद्वारा कद्रदास्यात्सकाशान्नि माँचनेन परमहर्षकव ] ।। ४० ।। पूजनीयं तमालवत्कोमलमङ्ग यस्य मुकुटीकृतं रत्नसमुदायं महार्हयन्तमत एव शिशिरेतरभानुरुष्णगुः सूर्यस्तेन शीलितायं शोभिताग्रमिन्द्रनीलमणिभूधरं हस न्तम् ।। ४१ । [ महार्हयन्तं स्वमुकुटस्थितत्वादतुलशोभाशालिनं. कलयन्तमिति यावत् ] ।। ४१ ।। तत्तादृशं निजसुतोदितं कमलनयनं माधवं चित्ते दधार । मृतिकाल उपागते चित्तेन तं दृदि भावयन्ती साऽबला योगिवद्देहं तत्याज । वसन्ततिलका वृत्तम् ॥ ४२ ॥ १ ग. 'धाभ्या स्व' । श्रीमच्छकरदिग्विजयः । ततः शरचन्द्रमरीचिरोचि वैिचित्रपारिपुवकेतनाढ्यम् ॥ विमानमादाय मनोज्ञरुपं प्रादुर्बभूवुः किल विष्णुदूताः ॥ ४३ ॥ वैमानिकांस्तान्नयनाभिरामा विमानमारोप्य विराजमान मनायि तैः सा बहुमानपूर्वम् ॥ ४४ ॥ इयमर्चिरहर्वलक्षपक्षा पडुदङमाम्पसमानिलार्कचन्द्रान् । चपलावरुणेन्द्रधातृलोका न्क्रमशोऽतीत्य परं पदं प्रपेदे ।। ४५ ।। स्वयमेव चिकीषुरेय मातु श्वरमं कर्म समाजुहाव बन्धून् ।। किमिहास्ति यते तवाधिकार कितवेत्येनममी निनिन्दुरुचैः ॥ ४६ ॥ अनन्लं बहुधाऽर्थिताऽपि तस्मै बत नाऽऽदत्त च बन्धुता तदीया ॥ वांखिलांस्तानशपच निर्ममेन्द्रः ॥ ४७ ॥ [ अम्बुजेति । अम्बुजायाः कमलाया आक्षिणी नेत्रे यस्मिन्स तथा तमित्यर्थः । एतेन परमसुन्दरत्वं तत्र सूच्यते ] ॥ ४२ ॥ विचिव कम्पमानैध्र्वजैराढ्यम् । उपजातिवृत्तम् ॥ ४३ ॥ विराजमानं विमानमारोप्य सा तैर्बहुमानपूर्वमानीता ॥ ४४ ॥ अर्चिरग्रिहर्दिनं वलक्षपक्षः शुक्रुपक्ष: षडुदङ्मासा उत्तरायणमासाः समा संव त्सरः । इयं सत्यर्चिराद्यभिमानिदेवता वायुसूर्यचन्द्रविद्युद्वरुणादिलोकांश्च क्रमशोऽ तीत्य परं पदं वैकुण्ठं प्रपेदे । वसन्तमालिका वृत्तम् ॥ ४५ ॥ मातुरन्त्यं दाहादिकर्म स्वयमेव कर्तुमिच्छुर्बन्धून्समाहूतवान् । हे यते कितव वश्व कास्मिन्कर्मणि तवाधिकारः किमस्तीत्येवममी बन्धव उचैर्निनिन्दुः ॥ ४६ ॥ न केवलं निन्दामेव कृतवन्तोऽपि तु बहुधा प्रार्थिताऽपि तदीया बन्धुता । बते [ सर्गः १४] १ ख. ग. घ. "स्तीत्यमी । [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । संचित्य काष्ठानि सुशुष्कवन्ति गृहोपकण्ठे धृततोयपात्रः ॥ स दक्षिणे दोष्णि मन्थ वहिं ददाह ता तन्न च संयतात्मा || ४८ ।। न याचिता वह्निमदुर्यदस्मै शशाप तान्स्वीयजनान्सरोषः इतः परं वेदबहिष्कृतास्ते द्विजा यतीनां न भवेच भिक्षा ।। ४९ ॥ यहापकण्ठषु च वः श्मशान मद्यप्रभृत्यांस्त्वति ताञ्शशाप ।। अद्यापि तद्देशभवा न वेद मधीयते नो यमिनां च भिक्षा ॥ ५० ॥ तदाप्रभृत्येव गृहोपकण्ठे ष्वासीच्छूमशानं किल हन्त तेषाम् ।। महत्सु धीपूर्वकृतापराधो भवेत्पुनः कस्य सुग्वाय लोके ॥ ५१ ॥ ति खेद आश्चर्ये वा । अनि नाऽऽदत्त। अथानन्तरं कोपव्याप्तान्तःकरणोऽसौ निर्म मेन्द्रः श्रीशंकरस्तान्सवान्बन्धृनशपत् ॥ ४७ ॥ गृहसमीपे सुशुष्कवन्ति काष्ठानि संचित्य धृतं जलपात्रं येन स मातुर्युक्षिणे बाहौ वहिं ममन्थ तेन च तां मातरं संयतात्मा ददाह । उपजातिवृत्तम् ॥ ४८ ॥ अशपांदित्यत् विवृणोति । यद्यस्माद्याचिता वह्निमस्म नादुस्तस्मात्सरषस्तान्स्वा यजनाञ्शशाप । इतः परं ते द्विजा वेदबहिष्कृता भवन्तु यतीनां भिक्षा चैषां गृहेषु न भवेत् । उपेन्द्रवज्रा वृत्तम् ॥ ४९ ॥ वो युष्माकं गृहसमीपे चाद्यप्रभृति श्मशानमस्त्वित्येवं ताञ्शशाप । ग्रन्थकृदाह । अद्यापि तद्देशभवा वेदाध्ययनं न कुर्वन्ति । यतीनां भिक्षा च नास्ति । उपजात वृत्तम् ।। ५ अभव विस्मयो न काय यतो महत्सु बुद्धिपूर्वकं कृतोऽपराधो लोके पुनः कस्यापि सुखाय न भवति || ५१ ॥ ४९७ १ क. 'हे न । ४२८ श्रीमच्छंकरदिग्विजयः । शान्तः पुमानिति न पीडनमस्य कार्य शान्तोऽपि पीडनवशान्कुधमुद्वहेत्सः । शीन: मुस्वोऽपि मथितः किल चन्दननु स्तीब्राहुनाशाजनको भवति क्षणेन ।। ५२ ।। यद्यप्यशास्त्रीयतया विभाति तेजस्विनां कर्म तथाऽप्यनिन्द्यम् ॥ विनिन्द्य कृत्यं किल भार्गवस्य ददुः स्वपुत्रान्कतिचिद्वकाय ॥ ५३ ॥ इति स्वजननीमसौ मुनिजनैरपि प्रार्थितां यतिक्षितिपांतर्गतिं वितमसं स नीत्वा तत स्ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥ ५४ ॥ [ सर्गः १४ ] महत्प बद्धिपर्वमपराधो न कार्ये इति बोधितमथ शान्तोऽपि न पीडनीय इत्याह । शान्त: पुमानिति विश्रम्भेणास्य शान्तस्य पीडनं न कार्यम् । कुधं क्रोधवम् । तत्र दृष्टान्त: । शीत इति । चन्दनद्रश्चन्दनदुमस्तीव्रस्यैाऽऽसमन्तादुताशास्याग्रेर्ज नक: ।। ५२ || नन्वशास्त्रीयमेतत्कर्म किमित्याचार्येरनुष्ठितमित्याशङ्कयाऽऽह । यद्यप्यशास्त्रीयतया विभाति तथाऽपि तेजस्विनां कर्म निन्धं न भवति । तदुक्तम् । धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वः सर्वभुजो यथा ' । भार्गवस्य परशुरामस्य विनिन्द्य कृत्यं समातृकभ्रातृहननरूपम् । यथाच केविन्मु नया वृकाय पुत्रान्ददुः । भृगुवंश्यस्य कस्यचिन्मुनेः कृत्यं प्रार्थिताप्रदानरुपं विनिन्द्य ददृिित वा । उपजातिवृत्तम् ॥५३॥ [भार्गवस्य परशुरामस्य विनिन्द्यकृत्यमपि मातृवव लक्षणं गृह्ययं कमपि यथा तेजस्वित्वादनिन्द्य तद्वदित्यर्थः । यद्वा भार्गवस्य जमदग्रेः शापेन पुत्रत्रयहननरूपं विनिन्द्यकृत्यमप्यत्र तेजस्वित्वादनिन्द्य वि लति योजना । तद्विनि द्यत्वमेव व्यतिरकमुखेन प्रथयति ददुरित्यादिशेषेण । अत्र कतिचिदपि लोकाः स्वपु त्रान्वृकाय वृकवदकस्मादूक्षकाय मृत्यवे ददुः किमपि तु नैव ददुरिति संबन्धः । अनेन तु तदपि शापतः कृतमित्यस्य कर्मणस्तथात्वमित्याशयः ] ।। ५३ ।। इत्येवं मुनिजनैरपि प्रार्थितां पुन: पतनवर्जितामनल्पसैौख्यस्य संदोहिनीं तमोस् १ क. 'द्रम'। २ क. 'स्याऽऽहुता। [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अथ तत्सहायजलजाङ्घ्रयुपागम च्छुरभीप्सितेऽत्र विललम्ब एपकः । जलजाङ्घ्ररप्यथ पुरा निजाज्ञया कृतवानुदीच्यबहुतीर्थसेवनम् ॥ ५५ ॥ आससाद शनकादश मुन र्यस्य जन्म व मुधाघटी स्मृता ॥ सा श्रुतिः सकलरोगनाशिनी योऽपिबज्जलधिमेकबिन्दुवत् ॥ ५६ ॥ अद्राक्षीत्सुभगाहभूषिततर्नु श्रीकालहस्तीश्वरं लिङ्गे संनिहितं दधानमनिशं चान्द्र कलां मस्तके ।। पार्वत्या करुणारसाद्वैमनसाऽऽश्लिष्टं प्रमोदास्पदं देवैरिन्द्रपुरोगमैर्जय जयेत्याभाष्यमाणं मुनिः ।। ५७ ।। ४९९ हितां गतिं सोऽसँ यतिराजः स्वजननीं नीत्वा पृथ्वातले ततस्ततोऽन्यमतनिबर्हणे प्रयतं कृतवान् । पृथ्वी वृत्तम् ।। ५४ ॥ अथ तस्मिन्नन्यमतशातने सहायस्य पद्मपादस्योपागमनमिच्छुगभिलषिते तस्मिन्नेष श्रीशंकरो विलम्बं चक्रे । अथ जलजाड़घिरपि निजाज्ञया पृर्वे प्रथममुदीच्यबहुतीर्थ सेवनं कृतवान् । 'सजसा जगं भवति मत्रुभाषिणी' ॥ ५५ ॥ मुनेरगस्त्यस्य दिशं दक्षिणां वसुधवाघट। मृत्कुम्भ। यम्य सा प्रसिद्वा श्रुतिः श्रव णम् । सकलरोगनाशिनी । यच्छतिरिति वा पाठ: । यः समुद्रमेकबिन्दुवदपिबन् । रथोद्धता वृत्तम् ॥ ५६ ॥ [ यम्य मुनेर्जन्म । वसृधेति । मृकुम्भीत्यर्थः ] ।। ५६ ।। तस्य दिशि लिङ्गे संनिहितं श्रकालहस्ती'व' मुनिरद्राक्षीत् । त ििशनष्टि । सुभगेनाहिना भूषिता तनुर्यस्यानिशं चान्द्र कलां मस्तके दधानं करुणारपेनाऽऽद्रं मनो यस्यास्तया पार्वत्याऽऽलिङ्गिन्तं प्रमोदस्थानमिन्द्रयमुखैर्देवैर्जय जयेत्याभाष्यमा णम् । शार्दूलविक्रीडितं वृत्तम् ॥ ५७ ॥ [ करुणेति । ब्रह्मविद्यया मयाऽयं पर मात्मरूपः परशिवोऽनालिङ्गितश्चेतू 'शिवमद्वैतं चतुर्थं मन्यन्ते' इति श्रुतेरद्वैतचिन्मात्रा दस्मात्कथं मुमुक्षुणामविद्याविनिवृत्तिः स्यादिति दयावच्छिन्नरमशदितब्रह्मात्मैक्यान न्दस्निग्धचित्तयेत्यर्थः । मनि: श्रापद्मपादाचाये: ] || ५७ ।। ५०० श्रीमच्छकरदिग्विजयः । स्नात्वा सुवर्णमुस्खरीसलिलाशयेऽन्त र्गत्वा पुनः प्रणमति स्म शिवं भवान्या ॥ स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ॥ ५८ ॥ लव्ध्वाऽनुज्ञां तज्ज्ञराट्कालहस्ति क्षेत्रात्काञ्चीक्षेत्रमागात्पवित्रम् ।। वृद्धाः प्राहुर्यद्धि लोके ह्यमुष्मिन् ॥ ५९ ॥ तत्रैकांम्राधीश्वरं विश्वनाथं नत्वा गम्यं स्वीयभाग्यातिशीत्या ॥ देवीं धामान्तर्गतामन्तकारे हर्द रुद्रस्येव जिज्ञासमानाम् ॥ ६० ॥ कैलुालेशं द्राक्ततो नातिदूरे लक्ष्मांकान्त सवसन्त पुराणम् । कारुण्याम्वान्तमन्तादिशून्यं दृष्टा देवं संतुतोषेकभक्तया ॥ ६१ ॥ सुवर्णमुखर्या नद्याः सलिलाशयेऽन्तः स्नात्वा पुनर्गत्वा भवान्या सहितं शिवं पण मति स्म । भावपुष्पैरर्चयित्वा मनसा स्तुतिं चकार । वसन्ततिलका वृत्तम् ॥ ५८ ॥ ॥ ५९ ॥ [ तज्ज्ञेति । ब्रह्मवित्सार्वभौमः श्रीपद्मपादाचार्य इत्यर्थः । यत्काञ्ची क्षेत्रम् । अमुष्मिन्निति । परलोके । संसारेति । मुमुक्षोर्मरणादिद्वारा । प्रसिद्धं साधनं वृद्धाः प्राहुरित्यध्याहृत्य योजना ] ॥ ५९ ॥ [सर्गः १४ ] स्वीयभाग्यातिशयेन प्राप्यं धामान्तर्गतामन्तकस्यार रुद्रस्य हार्द जिज्ञासमानामिव स्थितां देवीं च नत्वा ततो झटिति नातिदूरे संवसन्तं कैलालेशाख्यं लक्ष्मीकान्तं देवं दृझैकभक्त्या तुतोषेति परेणान्वयः । शालिनी वृत्तम् ॥ ६० ॥ [ तत्रैकात्रेश्वरं कामाक्षीं च प्रणम्य तन्निकटस्थं कलालग्रामनायकं लक्ष्मीकान्तमपि वीक्ष्यास्तौदित्याह । तत्रेत्यादियुग्मेन ] ॥ ६० ॥ स्वान्तं मनः । आद्यन्तरहितमाद्यन्तादिसर्वविकारशून्यम् ॥ ६१९ ॥ १ क. 'कान्त्याधा'। २ ग. कृष्णालेशं । ३ ग कृष्णालेशाख्यं । [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । पुण्डरीकपुरमाययौ मुनि र्यत्र नृत्यति सदाशिवोऽनिशम् ।। वीक्षते प्रकृतिरादिमा हृदा पार्वतीपरिणांतिः शुचिस्मिता ।। ६२ ।। ताण्डवं मुनिजनोऽत्र वीक्षते दिव्यचक्षुरमलाशयोऽनिशम् ।। जन्ममृन्युभयभेदि दर्शना नेत्रमानसविनोदकारकम् ॥ ६३ ॥ किंचात्र तीर्थमिति भिक्षुगणेन कश्चि त्पृष्टोऽब्रवीच्छिवपदाम्बुजसक्तचित्तः । देवोऽथ संन्यधित दिव्यसरित्सुतीर्थम् ॥ ६४ ॥ शिवाज्ञयाऽभूदिति तीर्थमेत च्छिवस्य गङ्गां प्रवदन्ति लोके ।। स्रानादमुष्यां विधुतोरुपापाः शनैः शनैस्ताण्डवमीक्षमाणाः ॥ ६५ ॥ ५०१ आदिमाऽऽद्या प्रकृतिः पार्वतीरुपेण परिणता नृत्यन्तं शिावं सदा वीक्षते । रथो द्वता वृत्तम् ॥ ६२ ॥ [ अथास्य व्याघ्रपुरगमनमाह । पुण्डरीकेति ] ॥ ६२ ॥ जन्ममृत्युभयभेदकं दर्शनान्नेत्रमानसविनोदकारकं ताण्डवं दिव्यचक्षरमलाशयो मुनिजनोऽत्रानिशं वीक्षते । जन्ममृत्युभयभेदि यद्दर्शनं तस्मादिति वा ॥ ६३ ॥ किं चात्र तीर्थमिति पद्मपादादिभिक्षुगणेन पृष्टः कश्चिच्छिवपदाम्बुजसक्तचित्तोऽ ब्रवीत् । संपार्थितो महादेवोऽत्र गङ्गां सस्माराथ स्मरणानन्तरं दिव्यसरित्सुतीर्थे संन्नि धापितवती । वसन्ततिलका वृत्तम् ॥ ६४ ॥ एतत्तीर्थे शिवाज्ञयाऽभूदिति हेतोरेतत्तीर्थे शिवगङ्गति लोके पवदन्ति । ये पव दन्ति तानाह । अमुष्यां गङ्गायां स्नानाद्विधुतोरुपापाः शनैः शनैस्ताण्डवमीक्षमाणाः । उपजातिवृत्तम् ॥ ६५ ॥ श्रीमच्छकरदिग्विजयः । १ [ सर्गः १४] शिवस्य नाट्यश्रमकर्शितस्य श्रमापनोदाय विचिन्तयन्ती । शिवेति गङ्गापरिणामगाऽभू ततोऽथ वैतत्प्रथितं तदाख्यम् ॥ ६६ ॥ नृत्यत्तीरहतस्खलज्जलगतेः पर्यापतद्भिन्दुकं पाश्र्व स्वावसतेर्विनोदवशतो यज्जकन्यापयः ॥ नृत्यं तन्वति धूर्जटौ विगलितं प्रेङ्गजटामण्डला तेनैतच्छिवजान्हवीति कथयन्त्यन्ये विपश्चिज्जनाः ॥ ६७ ।। स्रायं स्रायं तीर्थवयेऽत्र नीत्यं वीक्ष वीक्षं देवपादाब्जयुग्मम् ।। शोधं शोधं मानसं मानवोऽसौ वीक्षेतेदं ताण्डवं शुद्धचेताः ॥ ६८ ॥ शुद्धं महद्वर्णयितुं क्षमेत पुण्यं पुरारिः स्वयमेव तस्य । निमज्ज्य शंभुद्युसरित्यमुष्यां दाक्षायणीनाथमुदीक्षते यः ॥ ६९ ॥ शिवगङ्गानाम्न्यन्यत्प्रवृत्तिनिमित्तमाह । नाट्यश्रमकर्शितस्य शिवस्य श्रमापनोदाय विचिन्तयन्ती शिवा पार्वती गङ्गेति परिणामगाऽभूत्ततोऽथवा शिवगङ्गारूयमेतत्तीर्थ प्रार्थितम् । उपेन्द्रवज्रा वृत्तम् ॥ ६६ ॥ [ विचिन्तयन्तीति हेतोः शिवा गौर्येव । मङ्गेति । गङ्गारूपेण यः परिणामस्तं गच्छतीति तथेत्यर्थः ] ॥ ६६ ॥ यज्जह्नकन्यापयो धूर्जटौ नृत्यति सति प्रेङ्गतश्चलतो जटामण्डलाद्रालतं तेनैतत्ती थेमन्ये विपश्चिजनाः शिवजाह्नवीति कथयन्ति । प्रेङ्कजटामण्डलं विशिनष्टि । नृत्यता तीरेण हतस्य स्खलतो जलस्य गतिस्मिन् । स्वस्याऽऽवसतेनिकतनात् । पयो विशि नाष्टि । पाश्धे पर्यापतन्तो बिन्दुका बिन्दवो यस्य । शार्दूलविक्रीडितं वृत्तम् ॥ ६७ ॥ [ विनोदेति । ताण्डवविलासवशत इत्यर्थः ] ॥ ६७ ॥ तस्मादास्मंस्तीर्थवर्ये स्रात्वा स्नात्वा देवपादाब्जयुग्मं दृष्ट्रा दृष्टा मन: शोधयित्वा शोधयित्वाऽसौ शुद्धचित्तो मानव इदं ताण्डवं वीक्षेत । शालिनी वृत्तम् ॥ ६० ॥ एतच्छुद्धं पुण्यं वर्णयितुं शिवातिरिक्तो न क्षम इत्याशयेनाऽऽह । शुद्धमिति । योऽमुष्यां शंभुशुरिति निमज्य दाक्षायणीनाथं वीक्षते तस्य। उपजातिवृत्तम्।। ६९ ।। . 'स्य । स्वमिकेतनस्य पार्श्व इति वा । शर': २ ख ग घ. शिवद्युसरिति । [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । इतीरितः शंकरयोजितात्मा केनापि भिक्षुर्मुदितो जगाहे ॥ तीर्थं तदापुत्य ननाम शंभो रङ्घं जितात्मा भुवनस्य गोपुः ॥ ७० ॥ रामसेतुगमनाय संदधे मानसं मुनिरनुत्तमः पुनः । वत्र्मनि प्रयतमानसो ब्रज न्संददर्श सरितं कवेरजाम् ॥ ७१ ।। यन्पवित्रपुलिनस्थलं पयः सिन्धुवासरसिकाप विष्णवे ।। अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ।। ७२ ।। सह्यपर्वतसुतातिनिर्मला म्भोभिषिक्तभगवत्पदाम्बुजे ।। आकलय्य बहुशिष्यसंवृतः प्रास्थिताभिरुचितस्थलाप सः ।। ७३ ।। गच्छन्गच्छन्मार्गमध्येऽभियातं गेहं भिक्षुमतुलस्याऽऽजगाम ।। दृष्टा शिष्यैस्तं चिरेणाभियातं मोदं प्रापन्मातुलः शास्रवेदी ॥ ७४ ॥ ५०३ इत्येवं केनापि कथितः शंकरे योजितमन्तःकरणं येन स भिक्षुः पद्मपादो मुदितो जगाहेऽवगाहनं कृतवान् ॥ ७० ॥ पुनरनुत्तमो मुनिः पद्मपादो रामसेतुगमनाय मनो दधे । पयतं मनो येन स पथि गच्छन्कवेरजां कावेरी नदीं ददर्श । रथोद्धता वृत्तम् ॥ ७१ ॥ यस्याः पवित्रपुलिनस्थलं क्षीरसमुद्रवासरसिकायापि व्यापकायापि हिरण्यवाससे पद्मनाभादिनाम्रा शोभमानायाभ्यरोचत ॥७२॥ [हिरण्येति । पीताम्बराय ]||७२॥ सह्यपर्वतसुताया अतिनिर्मलेनाम्भसाऽभिषिक्त भगवत्पदाम्बुजे आकलय्य ध्यात्वा बहुशिष्यसंवृतः सोऽभिरुचितस्थलाय मास्थित प्रस्थानं कृतवान् । रथोद्धा वत्तम् ॥७३.] शिष्यैः सहितम् । शालिनी वृत्तम् ।। ७४ ।। श्रीमच्छधकरदिग्विजयः । शुश्राव तं बन्धुजनः सशिष्यं स्वमातुलागारमुपेयिवांसम् । आगत्य दृष्टा चिरमागतं तं जहर्ष हर्षातिशयेन साश्रुः ॥ ७५ ॥ रुरोद कश्चिन्मुमुदेऽत्र कश्चि जहास पूर्वाचरितं बभाषे । कश्चित्प्रमोदातिशयेन किंचि द्वचः स्वलद्रीः प्रणनाम कश्चित् ॥ ७६ ॥ उऊचेऽथ तं ज्ञातिजनः प्रमोदी दृष्टा चिरायाक्षिपथं गतोऽभूः ॥ दिदृक्षते त्वां जनताऽतिहाद त्तथाऽपि शक्रोषि न वीक्षणाय ॥ ७७ ॥ पुत्राः समित्रा न न बन्धुवर्ग न राजबाधा न च चोरभीतिः ॥ कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ।। ७८ ।। शास्वोपशाखाश्चितमेव वृक्षं बाधन्त आगत्य न तद्वहीनम् ॥ यथा तथा वा धनिनं दरिद्रा बाधन्त आगत्य दिने दिने स्म ।॥ ७९ ॥ [सर्गः १४ ] आख्यानकी वृत्तम् ।। ७५ ॥ ७६ ॥ -[ शुश्रावेत । बन्धुजनः पूवाश्रमसंबन्धि जनः ] ।। ७५ ।। अथानन्तरं तं दृष्ट्रा पमोदी ज्ञातिजन ऊचे । यतश्चिरकालात्त्वमक्षिमार्ग प्राप्तोऽ स्यतो जनताऽतिन्नेहात्त्वां दिदृक्षते तथाऽपि त्वं वीक्षणाय न शक्रोषि । तथाच नेह बाधा तव नास्तीत्यर्थः ।। ७७ ।। किंच सर्वबाधाविनिर्मुक्तत्वात्कृतार्थतामूलपदं यतित्वमेवेत्याह । पुत्रा इति । तेषा मभावे तत्केंता बाधा नास्तीत्यर्थः । धनिनामेव बाधा न तु निष्किश्चनानामिति स दृष्टान्तमाह । पुष्पवन्तं फॉलत महान्तम् । वृक्षामात परणान्वय ॥ ७८ ॥ शाखोपशाखाभिराश्वतं व्याप्तमलंकृतं वा । तथा वा तथैव ।॥७९॥ [ शाखेति । पक्ष्यादय इति शेषः ] ।। ७९ ।। १ ग. 'स्कृतबा'। [ सर्गः १४] धनपतिमूरिकृतडिण्डिमाख्यटीकासंवलित । कुटुम्बरक्षागतमानसाना मायाति निद्राऽपि सुखं न जातु ॥ क वा निषेवा महतां भवेन्नः ॥ ८० ॥ विपात्कुतश्चिद्रहमागतान्नः ॥ कालोऽत्यगात्ते बहुरद्य दैवा तीर्थस्य हेतोर्तृहमागतस्त्वम् ॥ ८१ ॥ यथा शकुन्ताः परवर्धितान्दुमा न्समाश्रयन्ते सुखदांस्त्यजन्त्यपि ।। परमकृप्तान्मठदवतायहा न्यति: समाश्रित्य तथोज्झति धुवम् ॥ ८२ ॥ यथा हि पुष्पाण्यभिगम्य षट्पदाः संगृह्य सारं रसमेव भुञ्जते ॥ तथा यतिः सारमवापुवन्सुखं गृहाद्रहादोदनमेव भिक्षते ॥ ८२ ॥ किंच कुटुम्बरक्षागतमानसानामस्माकं सुखं यथा भवति तथा कदाचिन्निद्राऽपि नाऽऽयाति । तथाचैवंविधानां नः क देवताचदि ॥ ८० ॥ [ कुटुम्बेति । भवाङ् शामिति महतामित्यत्र विशेष्यमार्थिकम् ।। ८० ।। १५००५ कस्माचिद्देशान्नो गृहमागतात्कस्माचिद्विमादिति वा । इन्द्रवत्रा वृत्तम् ॥ ८१ ॥ तीर्थस्य हेतोस्त्वं गृहमागतोऽसि न तु ममतावशाद्यतेः स्वीयत्वेन गृहपरिग्रहाभा वादित्याशयेन सदृष्टान्तमाह । यथा शकुन्ताः पक्षिणः परवार्धतान्वृक्षान्सुखदान्समा श्रयन्ते त्यजन्त्यपि । असुखदांस्तांस्त्यजन्यपीति वा । तथा यतिः परमकृप्तान्मठान्दे वतागृहांश्च सुखदान्समाश्रित्य ध्रुवमुज्झत्यपि । वंशस्थं वृत्तम् ॥ ८२ ॥ तत्रापि तत्तद्रहे यतेर्गमनं भ्रमरवृत्पीडाकरं न भवतीत्याह । यथेति । सुखं यथा स्यात्तथा । उपजातिवृत्तम् ॥ ८३ ॥ १ क. 'सानां नाऽऽया' ॥ २ क. 'खं न भ'। ३ क. ख. 'पि । त'। ५०६ श्रीमच्छकरदिग्विजयः । यतेर्विरज्यात्मगति: कलत्रं देहं गृहं संपतमेव सौख्यम् । विरक्तिभाजस्तनयाः स्वशिष्याः किमर्थनीयं यतिनो महात्मन् ॥ ८४ ॥ मनोरथानां न समाप्तिरिष्यते पुनः पुनः सतनुत मनारथान् ।। दारानभीप्सुर्यतते दिवानिशं तान्प्राप्य तेभ्यस्तनयानभीप्सति ।। ८५ ।। अनाप्नुवन्दुःस्वमसौ मृतीत्रं प्राप्तोति चेष्टेन वियुज्यते पुनः । सवात्मना कामवशस्य दुःस्व तस्माद्विरक्तिः पुरुषेण काय ॥ ८६ ॥ तन्मूलमाहुर्महतां निषेवाम् ।। भवादृशास्तेन च दूरदेशे परोपकाराय रसामटन्ति ।। ८७ ।। [ सर्गः १४] किंच यतेः किमपि प्रार्थनीयं नास्तीत्याह । यतेर्विरज्ययाऽऽत्मावगति: सैव भार्या हे महात्मन् ॥ ८४ ॥ [ यतेरिति । विरज्य वैराग्यं संपाद्य याऽऽत्मगतिर्नाम द्वैतमिथ्यात्वानुभवपूर्विकाऽद्वैतत्वेनाऽऽत्मप्राप्तिरित्यर्थ । सैव कलत्रं भार्येति यावत् । ‘कायो देहः छीबपुंसोः' इत्यमरः । संयतमेव संयमनमेव । ‘तत्रितयं संयमः’ इति पातञ्जलसूत्राद्धारणाध्यानसमाध्यभिधसाधनत्रयजन्यं जीवन्मुक्तिविलसनमव सौरूयं भवतीत्यर्थः ] ।। ८४ ।। कामवशास्य तु दुःखमेवेत्याह मनोरथानामितिद्वाभ्याम् । तेभ्यो दारेभ्य ।। ८५ ॥ दारादीननाप्रवन्दुःखमेव सुतीत्रं प्राप्नोति पुनरिटेन च वियुज्यते ॥ ८६ ।। विरक्तिश्च भवद्विवानां महतां सेवया शुद्धचेतसो भवतीत्याह । मनसो विशुद्धिं विरक्तमूलमाहुः । तस्या विशुद्धेमूलं महतां निषेवामाहुस्तेन कारणेन च भवादृशाः परोपकाराय दूरदेशे भूमिटन्ति ॥ ८७ ॥ [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । न्तमोकः । यदृच्छयोपनतं समीपे प्राप्त भोग्यं येभ्यस्ते ।। ८८ ।। । अज्ञातगोत्रा विदितात्मतस्वा लोकस्य दृष्टया जडवद्विभान्तः ॥ चरन्ति भूतान्यनुकम्पमानाः सन्तो यदृच्छोपनतोपभोग्या ।। ८८ ॥ चरन्ति तीर्थान्यपि संग्रहीतुं लोकं महान्तो ननु शुद्धभावाः । २द्धात्मविद्याक्षपितोरुपापा स्तज्जुष्टमम्भो निगदन्ति तीर्थम् ।। ८९ ।। चस्तव्यमत्र कतिचिद्दिवसानि विद्धं स्त्वद्दर्शनं वितनुते मुदितादि भव्यम् ॥ एष्यद्वियोगचकिता जनतेयमास्ते दुःस्वं गतेऽत्र भवितेति भवत्यसङ्गे ॥ ९० ॥ कोशं क्रेशमलस्य लास्यगृहमप्युद्रंहसामालयं पैशून्यस्य निशान्तमुत्कटमृषाभाषाविशेषाश्रयम् ॥ हिंसामांसलमाश्रिता घनधनाशंसानृशंसा वयं वज्यं दुर्जनस्संगमं करुणया शोध्या यतीन्दो त्वया ॥ ९१ ॥ १९०७ तीर्थान्यपि लोकसंग्रहार्थे चरन्ति न तु स्वशुद्धयर्थम् । यतः शुद्धभावा यतः शुद्धा त्मविद्याक्षपितोरुपापाः । ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्यपदेशात्’ इति न्यायात् । तथाचैवंविधैस्तैर्जुष्टं जलं तीर्थं निगदन्ति । तेषां तत्र गमनं लोकसंग्रहा थेमेवेत्यर्थः ॥ ८९ ॥ [ निगदन्ति शास्त्रज्ञा इति शेषः ] ।। ८९ ।। एवं स्तुत्याऽभिमुखीकृत्य प्रार्थयते । हे विद्वन्नत्र कतिचिद्दिवसानि वस्तव्यं यतो भव्यं शुभं योग्यं वा भवद्दर्शनं मुदितादि वितनुते । इयं जनता त्वसङ्गे भवति त्वाय गते सत्यत्र दुःखं भविष्यतीति विचार्याधुनैव भविष्यै दुःखेन चकिताऽऽस्ते। वसन्त तिलका वृत्तम् ॥ ९० ।। अत्र निवासं विधाय वयं त्वया संशोध्या इति बन्दवः साक्रोशमाहुः । छेशमलस्य कोशं पात्रमपिचोत्कटरंहसामतिसाहसानामालयं पैशून्यस्य परदोषसूचकताया निशा श्रीमच्छंकरदिग्विजयः । संयुनक्ति वियुनक्ति देहिनं दैवमेव परमं मनागपि ॥ इष्टसंगतिनिवृत्तिकालयो निर्विकारहृदयो भवेन्नरः ।। ९२ ॥ मध्याह्नकाले क्षुधितस्तृषार्त क मेऽन्नदातेति वदनुपैति ॥ यस्तस्य निर्वापयता क्षुधार्ते कस्तस्य पुण्यं वदितुं क्षमेत ॥ ९३ ॥ सायं प्रातर्वह्निकार्य वितन्व न्मज्जंस्तोये दण्डकृष्णाजिनी च ॥ नित्यं वणीं वेदवाक्यान्यधीय न्क्षुद्ध्वा शीर्घ गेहिनो गेहमेति ॥ ९४ ॥ ‘निशान्तत्रिषु शान्ते स्यात्कीबं तु भवनोषसे। : [ सर्गः १४] इति मेदिनी । उत्कटमृषाभाषणस्य विशेषेणाऽऽश्रयं भाषाविशेषाणांमिति वा । हिंसया मांसलं व्यासं त्यतुं योग्यं दुर्जनानां संगमो यत्र तथाभूतं स्फुरदूहमाश्रिता अत एव घनीभूतया धनतृष्णया क्रूराः । घना दृढा धनाशंसा येषामिति भित्रं वा पदम् । घनवनस्याऽऽशंसा येषामिति वा समासः । एवंभूता वयं हे यतीन्दो त्वया करुणया शोध्या इत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ ९१ ॥ एवमुक्तः पद्मपाद उवाच । परमं ब्रह्मादिकं क्षुद्रं स्तम्बादिकमपि देइिनं दैव मेव संयुनक्ति वियुनाक्त च । तस्मादिष्टसंगतिनिवृत्तिकालयोर्नरो निर्विकारहृदयो भवेत् ॥ ९२ ॥ यत्तु प्रसूनवन्तमित्याद्युक्तं तत्राऽऽह । मध्याह्नकाल इति । उपजातिवृत्तम् ॥ ९३ ॥ [मध्याद्वेति । यत्यादिरित्यार्थिकम् ] ॥ ९३ ॥ किंचाऽऽश्रमत्रयोपजीव्यत्वादपि पुण्यभाग्गृहस्थ इत्याशयेन ब्रह्मचारिणस्तदुप जीवकतामाह । सायमिति । दण्डकृष्णाजिने अस्य स्त इति तथाभूतो वणीं ब्रह्मा च. नित्यं वेदवाक्यानि पठन्क्षुद्ध्वा क्षुधां प्राप्य शीघ्र गेहिनो गेहमेति । शालिनी वत्तम् ॥ ९४ ॥ [ सगः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । उचैः शास्त्र भाषमाणोऽपि भिक्षु स्तारं मन्त्रं संजपन्वा यतात्मा ॥ मध्येघस्त्रं जाठराग्रौ प्रदीप्त दण्डी नित्यं गेहिनो गेहमेति ॥ ९५ ।। यदन्नदानेन निजं शरीरं पुष्पगस्तपा5य कुरुत मुतात्रम् । कर्तुस्तदर्ध ददतोऽन्नमर्ध मिति स्मृतिः संववृतेऽनवद्या ॥ ९६ ।। पुण्यं गृहस्थेन विचक्षणेन गृहेषु संचेतुमलं प्रयासात् ॥ विनाऽपि तत्कर्तृनिषेवणेन तीर्थादिसेवा बहुदुःस्वसाध्या ॥ ९७ ॥ गृही धनी धन्यतरो मतो मे तस्योपजीवन्ति धनं हि सर्वे ॥ चौर्येण कश्चित्प्रणयेन कश्चि द्दानेन कश्चिद्धलतोऽपि कश्चित् ॥ ९८ ॥ अथ यतेस्तामाह । उचैरिति । तारं प्रणवं घस्रस्य दिनस्य मध्ये । इन्द्रवत्रा वृत्तम् ॥ ९५ ॥ ५०९ वानप्रस्थस्य तामाह । यस्यान्नदानेन निजं शरीरं पुष्णन्नयं तपस्वी सुतीत्रं तपः कुरुते तपः कर्तुस्तस्य तपसोऽधं तस्यात्रं ददतोऽर्वमिति स्मृतिः प्रववृते । उपजाति वृत्तम् ॥ ९६ ॥ [ संववृते संपवृत्ताऽस्तीत्यर्थः ] ॥ ९६ ।। नन्वेवमपि गृहव्ययस्य गृहस्थस्य तीर्थादिसेवाजन्यं पुण्यं तु दुर्लभमेवेति चेत्त त्राऽऽह । विचक्षणेन गृहस्थेन पयासाद्विनाऽपि प्रयासकर्तृनिषेवणेन पुण्यं संचेतुमलं शक्यते । तीर्थादिसेवायाः प्रयाससाध्यत्वं प्रसिद्धमेवेत्याह । तीर्थादीति ॥ ९७ ॥ न केवलं ब्रह्मचार्यादय एव गृहस्थमुपजीवन्त्यपि तु सवे एवेत्याह । गृहीति । हि यस्मात् ॥ ९८ ॥ [ बलं परचक्रम् ] || ९८ ॥ १ ख. 'श्चिच्छल'। श्रीमच्छंकरदिग्विजयः । संतोषयेद्वेदविदं द्विजं यः संतोषयत्येष स सर्वदेवान् । तद्वेदविप्रे निवसन्ति देवा इति स्म साक्षाच्छतिरेव वक्ति ॥ ९९ ॥ स्वधर्मनिष्ठा विदिताखिलार्था जितेन्द्रियाः सेवितसर्वतीर्थाः ।। परोपकारव्रतिनो महान्त आयान्ति सर्वे गृहिणो गृहाय ॥ १०० ॥ गृही गृहस्थोऽपि तदश्रुते फलं यत्तीर्थसेवाभिरवाप्यते जनैः । तत्तस्य तीर्थ गृहमेव कीर्तितं धनी वदान्य: प्रवसेन्न कश्चन ॥ १ ॥ बहि:स्थिता गोमृगपक्षिमुख्याः । जीवन्ति जीवाः सकलोपजीव्य स्तस्माद्वही सर्ववरो मतो मे ॥ २ ॥ शरीरमूलं पुरुषार्थसाधनं तचान्नमूलं श्रुतितोऽवगम्यते । तच्चान्नमस्माकममी संस्थितं सर्व फलं गेहपतिद्रुमाश्रयम् ॥ ३ ॥ [ सर्गः १४ ! किंच यो वेदविदं विपं संतोषयेत्स एष सर्वान्देवान्संतापयति । तद्वेदविप्रे वेदविदि ब्राह्मणे ॥ ९९ ॥ ननु तथाऽपि स्वयमेव प्रवासं कृत्वा पुण्यं कुतो न संपादनीयमिति चेत्तत्राऽऽह स्वेति द्वाभ्याम् ।। १०० ।। तत्तस्मात्तस्य गृहमेव तीर्थ कीर्तितमतो धनी वदान्यो दाता स्यान्न तु कश्चनापि प्रवासं कुर्यादित्यर्थः ।। १ ।। गृहिणः सर्वश्रेष्ठत्वं पुनरुपपादयति । अन्तःस्थिता इति ॥ २ ॥ किंच शरीरं मृलं यस्य तथाविधं पुरुषार्थसाधनं तच शरीरमन्त्रं मृलं यस्य तत्तथाभूतम् । १ ख. ग. घ. 'स्थित मृ' । २ ख. ग. घ. 'स्थितं गो' । ३ ख. ग. घ स्थितमिति । [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ब्रवीमि भूयः शृणुताऽऽदरेण वो गृहागतं पूजयताऽऽतुरातिथिम् ।। संपूजितो वोऽतिथिरुद्धरेत्कुलं निराकृतात्विक भवतीति नोच्यते ॥ ४ ॥ विनाऽभिसंधिं कुरुत श्रुतीरितं कर्म द्विजा नो जगतामधीश्वरः । तुष्येदिति प्रार्थनयाऽपि तेन स्वान्तस्य शुद्धिर्भविताऽचिरेण वः ॥ १०५ ।। ससंरम्भश्लिष्यत्मुफणितिवधूटीकुचतटी पटीवत्पाटीरागारवनवपङ्काङ्कितहृदः ।। तथाऽप्येते पूता यतिपांतिपदाम्भोजभजन क्षणक्षीणकेशाः सदयहृदयाभाः सुकृतिनः ॥ ६ ॥ ५११ 'अन्नादेव खल्विमानि भूतानि जायन्ते' इति श्रुतेरवगम्यते ॥ ३ ॥ [गेहेति । गेहपति गृहस्थ एव दुमः कल्पद्रुमस्तदाश्रयमस्तीत्यर्थः ] ॥ ३ ॥ एवमुक्त्वा पुनः परमहितोपदेशाय ससाधनतामापादयति । ब्रवीमीति । युष्माकं गृहानागतमातुरमतिथिमादरेण पृजयतेत्यादरपदमत्राप्यनुष अजनीयम् । किमत इति चेत्त त्राऽऽह । संपूजितोऽतिथिर्वः कुलमुद्धरेत् । निराकृतात्तस्मात्कि भवतीति चेत्तदत्यन्तम निष्टत्वान्मया नोच्यते ॥ ४ ॥ किंच श्रुतिचोदितं नित्यादिकर्म फलाभिसंधिं विना कुरुत हे द्विजा जगतामधीश्व रस्तुष्येदिति प्रार्थनयाऽपि नो कुरुत तेन तथाभूनेन निष्कारणकर्मणा वोऽन्तःकरणस्य शुद्धिरचिरादेव भविष्यति ।। १०५ ॥ [ अभिसंधिं विना फलेच्छां विनैव ] ।। ५ ।। यदपि भवादृशा इत्याद्युक्तं तत्राप्याह । ससंरम्भं यथा भवति तथा लिप्यन्त्यो याः सुफाणिातिवधुटयः प्रियवादिन्यो वध्वस्तासां कुचतट्याः पटीवदाचरता पाटीरेण चन्दनमयेनाऽऽगरवेणागरुमयेन च नवेन पङ्केनाङ्कितमन्तर्बहिश्चान्तःकरणं येषां यद्यप्येवंभूता एते वयं तथाऽपि यतिपतेः श्रीशंकरस्य पदकमलयोर्भजनोत्सवेन क्षणाः छेशा येषां भजनक्षण इति वा । ‘कालविशेषोत्सवयोः क्षणः' इत्यमरः । शिखारणी वृत्तम् ॥ ६ ॥ ५१२ श्रीमच्छकरदिग्विजयः । संदिश्येत्थं बन्धुतां भिक्षुराजो भिक्षां चक्रे मातुलस्यैव गेहे । पप्रच्छैनं मातुलो भुक्तवन्तं किं स्विच्छन्नं पुस्तकं शिष्यहस्ते ॥ ७ ॥ टीका विद्वन्भाष्यगेति बुवाणं तां देहीति प्रोचिषे दत्तवांश्च । अद्राक्षीत्तां मातुलस्तस्य बुद्धिं दृष्टाऽऽनन्दीत्खेदमापच किंचित् ॥ ८ ॥ प्रबन्धनिर्माणविचित्रनैपुणीं दृष्टा प्रमोदं स विवेद किंचित् । मतान्तराणां किल युक्तिजालै र्निरुत्तरं बन्धनमालुलोचे ।। ९ ।। गुरोर्मतं स्वाभिमतं विशेषा न्निराकृतं तत्र समत्सरोऽभूत् । साधुर्निबन्धोऽयमिति बुवाण स्तं साभ्यसूयोऽपि कृताभिनन्द: ।। ११० ।। सेतुं गच्छाम्यालये पुस्तभारं ते न्यस्येमं वर्तते मेऽत्र जीवः ।। विद्वन्यद्वद्रोगृहादौ परेषां प्रीति: पूर्णा नस्तथा पुस्तभारे ।। ११ ।। उपसंहरति । संदिश्येति । शालिनी वृत्तम् ॥ ७ ॥ एवं श्रुत्वा भाष्यगा टीकेति बुवाणं पद्मपादं तां टीकां देहीति मातुलः प्रोवाच । पद्मपादो दत्तवांश्च । किंचित्खेदं च प्रापत् ॥ ८ ॥ तस्येत्यादि विवृणोति । प्रेति । विवेद प्राप । खेदन्त्यिादि स्फोटयति । मतान्त राणामिति । उपजातिवृत्तम् ॥ ९ ॥ [नैपुण निपुणत्वम् ] || ९ ॥ किंच स्वाभिमतं मभाकरमतं विशेषात्तत्र निबन्धे निराकृतमालोकितवान् । भालुलोचे तत्रेति पदद्वयं मध्यमाणन्यायेनोभयत्रापि संबन्धनीयम् । यत एवमतस्तत्र निबन्धे समत्सरोऽभूत् । साधुनिंबन्धोऽयमिति तं बुवाणः साभ्यसूयोऽपि कृताभिनन्दोऽ [ सर्गः १४] १ ख. घ. स्फोरय'। अथ पद्मपाद उवाचेमं पुस्तकभारं तवाऽऽलये न्यस्य सेतुं गच्छामीत्यत्र मे मनो [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । इत्युक्त्वा तैर्मातुलं मस्करीशः शिष्यैर्हष्यन्सेतुमेष प्रतस्थे । कष्टं चैष्यत्सूचनायै निमित्तम् ।। १२ ।। वामं नेत्रं गन्तुरस्पन्दतैव बाहुः पुस्फोरापि वामस्तथोरुः ॥ चुक्षावोचैर्हन्त कश्चित्पुरस्ता तत्सर्वं द्राग्ज्ञोऽगणित्वा जगाम ॥ १३ ॥ गतेऽत्र मेने किल मातुलोऽस्य ग्रन्थे स्थितेऽस्मिन्गुरुपक्षहानिः ॥ दग्धेऽत्र जायेत महान्प्रचारो नोक्तया निराकर्तुमपि प्रभुत्वम् ॥ १४ ॥ पक्षस्य नाशाद्रहनाश एव नो वरं गृहेणैव दहामि पुस्तकम् ।। एवं निरुप्य न्यदधाद्रुताशनं चुक्रोश चाग्रिर्दहतांति मे गृहम् ॥ ११५ ॥ वर्तते । स्थापनस्य रक्षार्थत्वात्पम्यक्त्वया रक्षा कायत्याशयनाऽऽह । हे विद्व न्निति । तवेदं विदितमिति संबोधनाशयः । शालिनी वृत्तम् ॥ ११ ॥ भविष्यत्सूचनाय कष्टं निमित्तं जातम् ॥ १२ ॥ किं तदित्यपेक्षायामाह । अस्य गन्तुर्वामं नेत्रमस्पन्दत । तथैवै वामो बाहुरपि कृत पुस्फोर । तथा च वाम ऊरुरपि । हन्त खेदे । कश्चित्पुरस्तादुवैश्रुक्षाव क्षुतं वान् । तत्सर्वं सोऽगणयित्वा झटिति जगाम ।। १३ ।। अस्मिन्पद्मपादे गते सति । अत्रास्मिन्ग्रन्थे दग्धे सति गुरुपक्षस्य महान्प्रचारः । ननु वाचैतन्मतं निराकर्तव्यमित्याशङ्कयाऽऽह । उक्त्या निराकर्तु तु प्रभुत्वं नास्ति । इदमसंगतमित्युक्त्याऽपीति वा । उपजातिवृत्तम् ॥१४॥ [ गुरुः प्रभाकरः ] ॥१४॥ तस्मात्स्वगृहेण सहैव पुस्तकं दहामि यतः स्वपक्षनाशाद्वहनाश एव नोऽस्माकं वरमिति स्वमनसि विचार्य गृहे वाहं स्थापितवान्मे गृहमन्निर्दहतीति चुक्रोश ॥१५॥ १ क. ख. ग. 'तैष बा'। २ ख. स्वपक्षना'। ३ क. "थैव वा'। ५१३ ) श्रीमच्छंकरदिग्विजयः । ऐतिह्यमाश्रित्य वदन्ति चैवं तदेव मूलं मम भाषणेऽपि ॥ यावत्कृतं तावदिहास्य कर्तुः पापं ततः स्याद्विगुणं प्रवतुः ॥ १६ ॥ गच्छन्नसौ फुछमुनेर्जगाम तमाश्रम यत्र च रामचन्द्रः ॥ अश्वत्थमले न्याधत स्वचाप स्वयं कुशानामुपरि न्यषीदत् ॥ १७ ।। तात्वा समुद्र जनकात्मजाया संदर्शनोपायमनीक्षमाणः ।। न वारिराशौ पुवनं क्षमन्ते ॥ १८ ॥ संचिन्तयन्निति कुशासनसंनिविष्टो ज्योतिस्तदैक्षत विदूरगमेव किंचित् । संव्यापुवज्जगदिदं मुखशीतलं य त्संप्रार्थनीयमनिशं मुनिदेवताभिः ॥ १९ ॥ आगच्छदात्माभिमुस्वं निरीक्ष्य सर्वं तदुत्तस्थुरुदारवीर्याः । न्महाप्रभामण्डलमध्यवर्ति ॥ १२० ॥ [ सर्गः १४ ] न तु गुप्तमेव मया प्रकाशितं यतो यावत्कृतं तावदेवेह कर्तुः पापं स्यात्प्रवक्फुस्तु ततः कर्तुः सकाशाद्विगुणं स्यात् । अपकाशितपकाशकं कथनं द्विगुणपापावहमिति बोधनाय प्रशब्दः ॥ १६॥ [ननु त्वयेदं कथं ज्ञातं तत्राऽऽह । ऐतिह्यमिति ] ॥ १६ ॥ गच्छन्नसौ पद्मपाद: फुलमुनेस्तं प्रसिद्धमाश्रमं जगाम । यत्र च रामचन्द्रोऽश्वत्थ मूले चापं न्यावित स्वयं कुशानामुपरि न्यषीददुपविष्टवान् । अाख्यानकी वृत्तम्॥१७॥ समुद्रं तीत्व जानकया यद्द३शन तत्रोपायमनीक्षमाणः लवगा वानरा भूमै पवणाः लवनशीला वारिराशौ वनं न क्षमन्त इति संचिन्तयन्कुशासनसंनिविष्ट: श्रीरामच न्द्रस्तदा विदूरगमेव किंचिज्ज्योतिरैक्षत । तद्विशिनष्टि । संव्याप्नुवदिांत । उपजाति वसन्ततिलके वृत्ते ॥ १८ ॥ १९ ॥ एतज्ज्योतिः । उपजातिवृत्तम् ॥ १२० ॥ १ ख. ग. घ. 'तः प्रभावका'। [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मध्येमभामण्डलमैक्षताश्वितं शिवाकृतिं सर्वतपोमयं पुनः । लोपादिमुद्रासहितं महामुनिं प्राबोधि कुम्भोद्रवमाद्राजनैः ॥ २१ ॥ अगस्त्यद्द'वा रघुनन्दनस्ततः स स्वेदमन्तःकरणोत्थमत्यजत् ॥ प्रायो महद्दर्शनमेव देहिनां क्षिणोति स्वेदं रविवन्महातमः ॥ २२ ॥ सभार्थमध्यदिभिरर्चयित्वा रामस्तदङ्धिं शिरसा ननाम । धृतिं समास्थाय पुनबेभाषषं ॥ २३ ॥ दृष्टा भवन्तं पितृवत्प्रमोदे यन्मामगा दुःखमहार्णवस्थम् । मन्ये ममाऽऽत्मानमवाप्तकामं वंशो महान्मे तपनात्प्रवृत्तः ॥ २४ ॥ ५१९ प्रभामण्डलस्य स्फुरच्छिवाकृतिं तपोमयं ज्योतिरैक्षत । पुनलॉपाऽऽदिर्य मध्ये स्यास्तथाभृतया मुद्रया लोपामुद्रयेति यावत्तया सहितं कुम्भोद्भवमगस्त्यं जनैः सह। प्राबोधि । जनैः करणैरिति वा ॥ २१ ॥ अगस्त्यदृश्धाऽऽगस्त्यं दृष्टवान् । ततो दर्शनानन्तरमन्तःकरणोत्थं खेदमत्य जत् ॥ २२ ॥ दुःखसागरस्थो मुहूर्त तूष्णीं भूत्वा धृतिं समास्थाय पुनरुवाच ।॥ २३ ॥[ अङ् घिमित्येकवचनं समः समविभक्ताङ्गः इति महारामायणादिमसर्गे श्रीरामवर्णनरीत्या सक लपुमुत्तमलक्षणसंपत्तिसूचकात्यन्तसाम्याभिप्रायमेव ] ॥ २३ ॥ पितृवद्भवन्तं दृष्टा प्रमोदे यस्मादुःखमहार्णवस्थं मां त्वमगा आगतवानसि । अह मात्मानं प्राप्तकामं मन्ये । एवं मुनिमभिमुखीकृत्य स्वदुःखमावेदयति । मे महान्वंश स्तपनादादित्यात्मवृत्तो न तत्रेति परेणान्वयः । इन्द्रवत्रावृत्तम् ॥ २४ ॥ [ 'तपनः पविता रविः' इत्यमरः ] ॥ २४ ॥ ५१६ श्रीमच्छकरदिग्विजयः । न तत्र मादृग्जनिता न जातः पदच्युतोऽहं प्रथमं सभार्यः ॥ सलक्ष्मणोऽरण्यमुपागतश्च मारीचमायानिहतान्तरङ्गः ॥ १२५ ॥ तत्रापि भार्यामहृत च्छलेन स रावणो राक्षसपुंगवो मे ।। सा चाधुनाऽशोकवने समास्ते कृशा वियोगात्स्वत एव तन्वी ॥ २६ ॥ तीत्व समुद्रं विनिहत्य दुष्टं बलेन सीतां महता हरामि ॥ यथा तथोपायमुदाहर त्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ॥ २७ ॥ इतीरितो वाचमुवाच विद्वा न्मा राम शोकस्य वशं गतो भूः ।। वैशद्वये सन्ति ऋपा महान्तः संप्राप्य दुःखं परिमुक्तदुःखाः ॥ २८ ॥ [ सर्गः १४] तस्मिन्वंशे मम सदृशो नोत्पत्स्यते नाप्यजनिष्ट । कुत इति चेदेवंविधत्वान्ममे त्याह । आदौ सभार्यः पदाद्राज्यात्पच्युतस्तत्राप्ययोध्यायां न स्थितः किंतु सल क्ष्मणो वनमुपागतः । तत्रापि मारीचमायया निहतान्तःकरण: । उपजातिवृत्तम् ॥२५॥ तत्रापि राक्षसपुंगवो रावणो मे भार्या छलेनाहृत । तन्वी कृशाङ्गी ॥ २६ ॥ [ अशोकेति च्छेदः । श्लेषाच्छोकारण्य इत्यर्थः । समा मया स्वधर्मप्रमया सहिता समाऽच्युतपातिव्रत्येत्यर्थः ] ॥ २६ ॥ ॥ २७ ॥ [ तत्वेति । दुष्टं महापराधिनं रावणमित्यार्थिकम् ] ॥ २७ ॥ ॥ २८ ॥ [ ततः स किमकरोत्तदाह । इतीत्यादिपञ्चभिः । ईरितः स्वदुःखनि वेदनपूर्वकं प्रार्थनया प्रेरितः । एतादृशो विद्वानगस्त्यः । वंशद्वये सूर्यचन्द्रोभयवंशयोर सीत्यर्थः । नृपा हरिश्चन्द्रनलादयः एतेन न ह्यत्र मादृगिति समाहितं बोध्यम् ]॥२८॥ [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । त्वमग्रणीदर्दाशरथे धनुर्धतां तवानुजस्यापि समो न लक्ष्यते । पुवंगमानामधिपस्य कोटिशो मा मुश्व मा मुश्च वचो विनार्थम् ॥ २९ ॥ सहायसंपत्तिरियं तवास्ति हितोपदेष्टाऽप्यहमस्मि कश्चित् ॥ वाररां निधिः किं कुरुते तवायं स्मराधुना गोष्पदमात्रमेनम् ॥ १३० ॥ ५१७ शुष्केऽत्र तेन प्रतियाहि लङ्काम् ।। एव मया कातरुपाजता स्या द्रद्धे तु वाधतव साऽर्जिता स्यात् ॥ २१ ॥ सेतुं वाधे बन्धांयत्वा जहि त्वं दुष्टं चौर्यादेन सीता हृताऽऽसीत् । प्राप्रोषि त्वं कीर्तिमाचन्द्रतारं तेनात्राठिंध बन्धय त्वं कपीन्द्रः ॥ ३२ ॥ इत्थं यत्र प्रेरितोऽगस्त्यवाचा सेतुं रामो बन्धयामास वाधे । तुङ्गेः शृङ्गेर्वानरैस्तेन गत्वा तं हत्वाऽऽजौ जानकीमानिनाय ॥ ३२ ॥ यदुक्तं न तत्र मादृगिति तत्राऽऽह । त्वमांत । तस्माद्विनार्थमनाथं दानं वचो मा मुश्च मा मुश्चेति संभ्रमे वीप्सा ॥ २९ ॥ [ त्वमिति । पुवंगमानामित्यादि । सुग्रीवस्यापि समः कोटिशो विचारे कृतेऽपि न लक्ष्यत इति संबन्धः] ॥ २९ ॥ जलानां निधिः समुद्रः ।। १३० । [सहायेति । कश्चिदित्यात्मनामाग्रहणधर्मप रिपालनाथै चिदाभासस्यानिर्वचनीयत्वसूचनेनाऽऽत्मासङ्गत्वज्ञापनार्थं च ।। १३० ।। चारुः सुन्दरश्चासावब्धिश्च तं चारु यथा स्यात्तयेति वा । तेन पानेनास्मिन्समुद्रे शुष्के सति । सा कीर्तिः ।। ३१ । [ उपार्जिता संपादिता ] ।। ३१ ।। यस्मादेवं तस्मात्समुद्रे सेतुं बन्धयित्वा दुष्टं जहि । येन चैौर्यात्सीता हृताऽऽ सीत् । शालिनी वृत्तम् ।। ३२ ॥ तुङ्गेरुच्छूितैस्तेन सेतुना तं रावणमाजौ संग्रामे ॥ ३३ ॥ [ वानरैः सह ]॥३३॥

  • ग. 'धिपाश्च को'। २ क. 'थवत् ॥ २९ ॥ ३ क. *थवदनाथवद्दानं । ०५१८

श्रीमच्छकरदिग्विजयः । तत्तादृक्षे तत्र तीर्थे स भिक्षुः स्त्रात्वा भक्त्या रामनाथं प्रणम्य ।। तत्र श्रद्धोन्पत्तये मानुषाणां शिष्येभ्यस्तद्वैभवं सम्यगृचे ॥ ३४ ॥ तन्माहात्म्यं वर्णयन्तं मुनिं तं पप्रच्छैनं कश्चिदेवं विपश्चित् । पृष्टत्रेधाऽवोचदेवं समासम् ॥ ३५ ॥ रघूद्वहस्तत्पुरुषं परं जगौ शिवो बहुव्रीहिसमासमैरयत् ।। रामेश्वरे नामनि कर्मधारयं परं समाहुः स्म मुरेश्वरादयः ॥ ३६ ॥ एवं निश्चित्योदितं तत्समासं श्रुत्वा तत्रत्यो बुधो योऽभ्यनन्दत् ।। कंचित्कालं तत्र योगीडनैपीत् ॥ ३७ ॥ तस्मादार्य: प्रस्थितोऽभूत्सशिष्य स्तीर्थस्त्रानोपात्तांचत्तामलत्व: ।। पश्यन्देशान्मातुलयं जगाहे गेहं दाहं तस्य पुस्तेन सार्धम् ॥ २८ ॥ [ सर्गः १४ ! ॥ ३४ || [ यत्रेत्याकाङ्क्षतं पृरयति । तदिति । तादृक्षे तादृशे महामहिम नीत्यर्थः । स पद्मपादाचायरूयः ] || ३४ ॥ केन समासेनोपपन्ना ।। ३५ ।। रामस्येश इति तत्पुरुषं केवलं श्रीरामचन्द्रो जगौ । शिवस्तु राम ईशो यस्येि बहुव्रीहिसमासं केवलमुक्तवान् । इन्द्रादयस्तु रामश्चापावीश्वरश्चेति कर्मधारयं प समाहुः स्म । उपजातिवृत्तम् ॥ ३६ ॥ तस्या रामेशाख्यायाः पमासं तत्रत्यं विपश्चित्समुदाय: । योगीड़योगीशः शालिनी वृत्तम ॥ ३७ || [ उदितं कथितम् ] || ३७ ।। स्राननोपात्तं चित्तनिर्मलत्वं येन स तस्य गृहस्य पुस्तकेन सह दाहं श्रुत्वति परं गुणान्वयः ।। ३८ ।। [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । श्रुत्वा किंचित्स्वेदमापेदिवान्स मत्वा मत्वा धैर्यमापेदिवान्सः । श्रावं श्रावं मातुलीयस्य तत्रं दाहं गेहस्यानुकम्पां व्यधत्त ॥ ३९ ॥ विश्वस्य मां निहितवानसि पुस्तभारं तं चादहद्रुतवहः पतितः प्रमादात् ।। यावांस्तु पुस्तकविनाशकृतो मम स्यात् ।। १४० ॥ इत्थं बुवन्तं तमथो न्यगादी त्पुस्तं गतं बुद्धिरवस्थिता मे । उक्त्वा समारब्ध पुनश्च टीकां कर्तु स धीरो यतिवृन्दवन्द्यः ॥ ४१ ॥ दृष्टा बुद्धं मातुलस्तस्य भूयो भीतः प्रास्यद्रोजने तन्मनोन्नम् ।। किंचिद्रव्यं पूर्ववन्नाक्षमिष्ट टीकां कर्त केचिदेवं ब्रवन्ति ॥ ४२ ॥ अत्रान्तरेऽन्यैर्निजवचरद्भि स्वैस्तीर्थयात्रां दयितै: सतीथ्यैः ॥ अर्थादुपेत्याऽऽश्रमतः कनिष्ठ ज्ञतः सखेदैः स मुनिः समैक्षि ॥ ४३ ॥ मत्वा मत्वा पदार्थस्वरूपं ज्ञात्वा ज्ञात्वा गहस्य तात्र वैर्यमामुवन्मातुलमंबान्धनो दाहं श्रुत्वा श्रुत्वा करुणां विहितवान् । तं मातुल आहेति शेषः । एवंभूतः पद्मपादो विश्धस्येत्येवमादिप्रकारेण बुवन्तं मातुलमिति वा संबन्धः । इन्द्रवज्रा वृत्तम् ॥ ३९ ॥ निहितवानसि स्थापितवानसि । वर्तमानसामप्ये रु ट् । तं च प्रमादात्पतित। हुताशोऽदहत् । वसन्ततिलका वृत्तम् ॥ १४० ।। न्यगादीदुक्तवान् कृतवान् । इन्द्रवत्रा वृत्तम् ॥ ४१ ॥ । टीकां कर्तुमारम्भं मास्यत्माक्षिपत् । नाक्षमिष्ट समर्थो नाभूत् । शालिनं वृत्तम् ॥ ४२ ॥ अत्रान्तरे स्ववत्तीर्थयात्रां चरद्भिर्दयितै: स्वीयैः सतीथ्यैराश्रमात्कनिष्ठर्यदृच्छयो पत्य ज्ञातः सखेदैः स मुनिः समैक्षि संदृष्टः । इन्द्रवज्रा वृत्तम् ॥ ४३ ॥ १ ५१९ . 'नू । इ'। ५२० श्रीमच्छंकरदिग्विजयः । दृष्टा पद्माइधिं क्रमात्ते प्रणेमु स्तत्पादाम्भोजयरेणून्दधानाः ।। अन्योन्यं द्रागाददुस्ते ददुश्चा नेकानेहोयोगजैक्यान्नमांसि ।। ४४ ।। वाणीनिर्जितपन्नगेश्वरगुरुप्राचेतसा चेतसा बिभ्राणा चरणं मुनेर्विरचितव्यापछवं पछवम् ।। धुन्वन्तं प्रभया निवारितमाशङ्कापदं कामदं रेरजेऽन्तेवसतां समष्टिरभुत्दृत्तत्पाहतात्याहिता ॥ ४५ ॥ शुश्राव साऽन्तेवसतां समष्टि स्वदेशकीयां मुखदां मुवातम् । अर्थात्समीपागतत: कुतांश्च द्विजेन्द्रतः सेवितसर्वतीर्थात् ॥ ४६ ॥ शालिनी वृत्तम् ।। ४४ । [ दधाना मस्तके वारयन्त : पन्त इत्यर्थः ] ।। ४४ ।। [ सर्गः १४ ] वाण्या निर्जिता: शेषगुरुवाल्मीकयो यया पा चेतसा मुनेः श्रीशंकरस्य चरणं बिभ्राणा रेजे । चरणं विशिनष्टि । विरचितव्यं भवितव्यमापछवं पलववन्दुन्वन्तं प्रभया निवारिततमतिशयेन निवारितमाशङ्कानां पदमाश्रयभूतमज्ञानं येन पुनश्च कामदं पुरुषार्थचतुष्टयप्रदम् । शिष्याणां समटिं विशिनष्टि । अमुहृतां प्राणहृतां क्षुत्पिपासादीनां तत्या पङ्गया निमित्तभूतयाऽऽहितं स्वीकृतमत्याहितं जीवनापेक्षं कर्म यया सा अभमुहृदां कामादीनां बाह्यानां च पङ्कावाहितं स्थापितमत्याहितं महाभयं ययोति वा अत्यहितं महाभीतै जीवनापेक्षकर्मणि' इति मेदिनी । शार्दूलविक्रीडितम् ॥४५॥ [ अमुहृदिति । एतेन शमादिसंपत्ति भेदवादिविदलनशक्तिश्च सूचिता ] [ वरणमित्येकवचनं तु प्रागुक्तया शतोपरि त्रयो विंशतिश्लोके रामस्तदङ्कघिमित्यङ्धिशब्दैकवचनव्याख्यानरीत्या सर्वोत्तमत्वसूचकात्य न्तसाम्याभिपायमेवेति ज्ञेयम्] ।। ४५ ।। साऽन्तेवसतां समष्टिः कुतश्चिद्देशादर्थत्समीपमागतात्सेवितसर्वतीर्थाद्विजात्स्वदेश कीयां सुखदां सुवात शुश्राव । ताख्यानकी वृत्तम् ।। ४६ ।। १ क, ख. ध. सा । अत्याहितं महाभी' । [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अथ गरुवरमनवेक्ष्य नितान्तं व्यथितहृदो मुनिवर्यविनेयाः ।। कथमपि विदिततदीयसुवात: समधिगताः किल केरलदेशान् ॥ ४७ ॥ अत्रान्तरे यांतिपति: प्रमुवोऽन्त्यकृत्यां कृत्वा स्वधर्मपरिपालनसक्तचित्तः ॥ श्रीकेरलेषु मुनिरास्त चरन्विरक्तः ॥ ४८ ॥ विचरन्नथ केरलेषु विष्वडू निजांशिष्यागमनं निरीक्ष्य मौनी ॥ विनयेन महामुरालयेशं विनमन्नस्तुत निस्तुलानुभावः ॥ ४९ ॥ सदसत्त्वविमुक्तया प्रकृत्या चिदचिद्रपमिदं जगद्विचित्रम् । कुरुषे जगदीश लीलया त्वं परिपृर्णस्य न हि प्रयोजनेच्छा ॥ १५० ।। ५२१ अथानन्तरं गुरुवरं श्रीशंकरमनवेक्ष्यात्यन्तं व्यथितं त्दृद्येषां कथमपि विदिता भग वत्पादाः केरलेषु सन्तीति गुरुसंबन्धिनी सुवात यैस्ते मुनिवर्यशिप्याः केरलाख्यदे शान्संप्राप्ताः । 'नवमे भवति गुरावुपचित्रा' ।। । ४७ ।। आकाशलड़विनोऽत्यन्ततुङ्गाः श्रेष्ठाः केराख्यवृक्षा येषु तेषु केरलेषु मुनिश्चरन्नास्त स्थितः । वसन्ततिलका वृत्तम् ॥ ४८ ॥ [ प्रसुवः ‘जनयित्री मसूर्माता' इत्यमरात्पूर्वा श्रमजनन्या इत्यर्थः । अन्त्येति । अन्त्येष्टिमित्यर्थः । श्रीति । श्रीभाष्यकारचरण स्पशौच्छूीमन्तः शोभाशालिनस्ते च ते केरान्केरसंज्ञकान्वृक्षविशेषालॉन्त्याददते ते च ते तथा तेष्वित्यर्थः ] ॥ ४८ ॥ अथानन्तरं विष्वङ्सर्वगो निरुपमः प्रभावो यस्य श्रीशंकरः केरलेषु विचरन्सन्नि जशिष्यागमनं निरीक्ष्य मैनी तैर्भाषणमकुर्वाणो महासुराख्यसङ्गेशं श्रीविष्णु विनयेन नमस्कुर्वन्स्तुतिं कृतवान् । वसन्तमालिका वृत्तम् ॥ ४९ ॥ स्तुतिमुदाहरति । हे जगदीश सत्त्वासत्वाभ्यां विमुक्तयाऽनिर्वाच्या प्रकृत्या मायया जडचेतनात्मकमिदं विचित्रं जगलीलया त्वं कुरुषे । हि यस्मात्परिपूर्णत्वात्तव १ ग. घ. घु वस श्रीमच्छकरदिग्विजयः । रजसा मृजसीश सत्त्ववृत्ति त्रिजगद्रक्षांसि तामसः क्षिणोषि ।। बहधा परिकीत्र्यसे च स त्वं विधिवैकुण्ठशिवाभिधाभिरेकः ॥ ५१ ॥ विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बित स्वभावः ।। बहुरुपमिदं प्रविश्य विश्वं स्वयमेकोऽपि भवान्विभात्यनेकः ॥ ५२ ॥ इति देवमभिष्टुवन्वशिष्ट स्तुतितोऽसौ मुरसद्मसंनिविष्टः । चिरकालवियोगदीनांचत्तै: शिरसा शिष्यगणैरथो ववन्दे ॥ ५३ ।। सदथं शिष्यगणेषु सान्वितेपु ॥ दजहद्भांदकं स पपाद: ॥ ५४ ॥ [ सर्गः १४] प्रयोजनेच्छा नास्ति लोकवतु लीला कैवल्य मित न्यायात् ॥ १५० ।॥ [ सदस त्वेतिं । द्वन्द्वान्ते श्रयमाणं पदं प्रत्येक संबध्यत इति न्यायात्मत्वासत्वाभ्यां शून्य येति यावत् ] ।। १५० ॥ ननु ब्रह्मा सवै जगत्कुरुत इति चेत्तत्राऽऽह । हे ईशा त्वमेव ब्रह्मा पन्रजसा सृजासि सत्त्ववृत्तिर्विष्णुः संस्तमसा शिवः सन् । अतश्च स त्वमेवैको विध्यादिसंज्ञा भिर्बहुधा परिकीर्थसे ॥ ५१ ॥ न केवलमेतावदेवापि तु स्वयमेकोऽपि भवान्बहुरूपामिदं विश्धं प्रविश्यानेको विभा तीति सदृष्टान्तमाह । विविधेषु जलाशयेषु यथा सूर्यः प्रतिबिम्बितस्वभावस्तथाऽऽ शापेषु प्रतिबिम्बितस्वभावः सोऽयं भवानित्यन्वयः । तथाच श्रुतिः । ‘यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुपैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देव क्षेत्रेष्ववमजोऽयमात्मा' इति ॥ ५२ ॥ ववन्द इति कर्मणि लिट् । ते तं शिरसा ववान्दिर इत्यर्थः ।। ५३ । [ असैौ श्रीशंकराचार्यः ] ।। ५३ ।। कुशलिनो भवन्त इति कुशलप्रश्नपूर्वकं सद्यं यथा स्यात्तथा सान्त्वितेषु शिष्यगणेषु [ सर्गः १४] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । भगवन्नभिगम्य रङ्गनार्थ पथि पद्याक्षमहं निवर्तमानः ॥ बहुधाविहितानुनीतिनीतो बत पृर्वाश्रममानुलेन गंहम् ॥ १५ ॥ अहमस्य पुरो भिदावदेन्दो रपि पूर्वाश्रमवासनानुबन्धात् ॥ अपठं भवदीयभाष्यटीका मजयं चात्रकृतानुयोगमेनम् ॥ ५६ ॥ ध्र्वस्नतर्कगुरुकापिलतत्रैः ॥ वर्मितो निगमसारसुधातै मतुलं तमजयं तव सूतैः ॥ ५७ ॥ खङ्कास्वड़िविहारकल्पितरुजं काणादसेनामुखे शस्राशस्रकृतं श्रमं च विषमं पश्यत्पदानां पदे ॥ यष्टीयष्टिभवं च कापिलबले खेदं मुने तावके सूतैयक्तिकवंशमौक्तिकमयेनऽऽपद्यते वर्मितः ॥ ५८ ॥ मध्ये स पद्मपादोऽजहद्रदिकं यथा स्यात्तथोऽवादीतू ॥ ५४ ॥[गद्रदति बाष्पन्निक ण्ठध्वन्यनुकरणमेव ] ।। १९५४ ।। पृर्वाश्रममातुलेन स्वगेहं प्रति बहुधाविहितानुनयेन नीतो बतेत्यत्यन्तखेदे ॥१५॥ [ रङ्गनाथं पद्माक्षं विष्णुम् ] ।। १५५ ॥ भेदवादीन्दोरप्यस्याग्रे मम मातुलोऽयामिति पूर्ववासनानुबन्धादहं भवदीयभप्यटी कामपठमस्यां टीकायां कृतोऽनुयोगश्चोद्य येन तमजयं च ॥ ५६ ॥ अजयमित्यनेन प्राप्त गर्वे वारयति । तव सृतैर्वर्मतुल्यै रक्षितस्तमजयं न तु स्वसा मथ्र्येनेति भावः । तानि विशिनष्टि । दग्वा तप्ता चक्रादिमुद्रा येषां तेषां मुखापेक्षा यकमत्रैः । पुनश्च ध्वस्तानि गौतमादिशास्त्राणि यैर्वेदमाग्लक्षणसुंधयाऽञ्जितैः । स्वागता वृत्तम् ॥५७॥ [दग्धेति । दग्धेव मुद्राऽऽकृतिर्यस्य यथा दग्धा काष्ठव्यक्तिः सद्यः परमारुणकान्तरतिसंतप्ता भवति तादृशं मुख रवमतमदनरापादातसतसत्वाद रुणं वदनं येषां भेदवादिनां तेषां यन्मुद्रणं मृीकरणं तस्य मश्रा इव संपादकानि तैरित्यर्थः । वर्मितो वर्म. कवचं संजातं यस्य ] ॥ १५७ ॥ किंच हे मुने यौक्तिकलक्षणवंशमौक्तिकमयैस्तव सूनैर्वर्मितः कवचैरिवं रक्षितः काणा ५२३ १ क. ख. घ. गरे ।। ५५ । २ ख. 'थाऽब्रनीत् । ३ क. 'मुधाजि'। श्रीमच्छकरदिग्विजय अथ गूढहृदो यथापुरं मा मभिनन्द्याऽऽहितसत्क्रियस्य तस्य ॥ अधिसद्म निधाय भाष्यटीका महमस्याऽऽयमशङ्कितो निशायाम् ॥ ५९ ॥ [ सर्गः १४ ] ज्वलनज्वालकरालकीलजाल: ॥ दहनोऽधिनिशीथमस्य धात्रा बत टीकामपि भस्मसादकार्षीत् ॥ १६० ॥ अदहत्स्वयह स्वय हुताशा विमतग्रन्थमसौ विदग्धुकामः ॥ मतिमान्द्यकरं गरं च भैक्षे व्यधितास्येति वितृम्भते स्म वार्ता ॥ ६१ ॥ दसेनामुखे खड़ाखङ्गिविहारेण कल्पितं रुजं नाऽऽपद्यते । तथाऽक्षपादानां गौतमानां पदे शास्त्राशास्त्रकृतं श्रमं च नाऽऽपपद्यते । तथा कापिलसैन्ये यष्टीयष्टिजन्यं खेदं च नाऽऽपद्यते । शार्दूलविक्रीडितं वृत्तम् ॥५८॥ [ पदे ‘पदं व्यवसितत्राणस्थानलक्ष्मा ड्रमिवस्तुषु' इत्याभिधानाद्युद्धाख्यव्यापारावशेष इत्यर्थः । विषमं दुःसहम् ] ॥१५८॥ अथ पराजयानन्तरं यथापुरं मामभिनन्द्य संपादितसक्रियस्य गृढहृदयस्यास्य सद्मनि भाप्यटीकां निधायाहमशङ्कित आायं गतवान् । निशायामित्यस्य परेणान्वयः । मालभारिणी वृत्तम् ॥ ५९ ॥ [ गृढहृदः कपटिन: । अस्य मातुलस्याशङ्कित एतत्सं बन्धिकृत्रिमकरणशङ्काशून्य एव सन्नित्यर्थः । निशायामेव सेतुदिदृक्षात्वरयाऽरुणोदय एव शैचस्नानादिनित्य कृत्यं संपाद्य सूर्योदथात्पृर्वमेवेत्यर्थः । भाथं गतवानित्य न्वयः ] | १९५९ ।। निशायामधिनिशीथमर्परात्रावग्रिस्य धाम्रा सह टीकामपि भस्मसादकात् । दहनं विशिनष्टि । युगपर्यये प्रलयकाले नृत्यत उग्रस्य महारुद्रस्य फाँले ललाटे यो ज्वलनो वह्निस्तस्य शिखावद्भयंकरं शिाखाजालं यस्य सः ॥ ६० ॥ [ अधिनिशीथ मध्यरात्र एव । द्वितीयदिनस्येत्यार्थिकम् ] ।। १६० ।। हता कुत्सिताऽऽशा यस्य सः । इत्येवमस्य वार्ता विनृम्भते स्म विलासं प्राप ॥ ६१ ॥ [ हताशोऽहमेतत्रखण्डनं विधाय स्वाभिमतप्राभाकरमतसंस्थापनमन्यग्रन्थ रचनेन करिष्यामीति नष्टाऽऽशा यस्य स तथेत्यर्थः । गरं विषसमानं कोद्रवकुल्माष तुण्डीफलादिदुरन्नमित्यर्थः । व्यवित नियोजयामासेत्यर्थः । इत्यस्य मातुलस्य ]॥६१॥ १ ख. 'प्र भाल। २ क. प्रलये । ३ ख भले । ४ क ख. स ॥ ६० ॥ इ'। [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अधुना धिषणा यथापुरं नो विधुनाना विशयं प्रसादमेति ॥ विषमा पुनरीदृशी दशा नः किमु पुक्ता भवदङ्धिकिंकराणाम् ।। ६२ ॥ गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृत्तिः । निरतिशयोज्ज्वलयुक्तियुता सा पथि किल हा विननाश कृशानौ ॥ ६२ ॥ प्रयतेऽहं पुनरेव यदा तां प्रविधातुं बहुधाकृतयत्नः ।। न यथापूर्वमुपक्रमते ताः पटुयुक्तीर्भगवन्मम बुद्धिः ॥ ६४ ।। गता दीना दूना: कति कति न सर्वश्चरपदम् ।। गुरो मन्तुर्नन्तुः क इव मम पापांश इति चे न्मृषा मा भाषिष्ठाः पदकमलांचन्तावधिरसौ ॥ ६५ ॥ गरमभावश्च जात इत्याह । अधुना नो बुद्धिदैवेन यथापुरं संशयरहितं पपादं नाऽऽमोति । विषमा पुनरीदृशी दशा भवदड़धिकिंकराणामस्माकं किमु युनाऽपि तु नैव युक्तत्यर्थः ।। ६२ ।। ५२९ अतिदुःखितः साक्रोशं पुनराह । गुरुवरेति । उपाचित्रा वृत्तम् ॥ ६३ ॥ ननु पुनस्तथेव रचनीयेत्याशङ्कयाह । यदा बहुधाकृतप्रयत्नस्तां विधातुमहं पयते हे भगवंस्तदा यथापूर्वं ताः पटुयुक्तीर्मम बुद्धिनपक्रमते ।। ६४ ।। कृपासमुद्रं तव चरणकोणायशरणं गताः पूर्वं दीना अपि दृनाः खिन्ना अपि सर्वेश्धरपदं के के न प्राप्ता अपि तु सर्वेऽपि प्राप्ताः । गता इत्यस्य देहलोदीपकन्या नोभयत्र संबन्धः । हे गुरो नमनं कर्तुर्मम क इव मन्तुरपराधः । ‘मन्तुः पुंस्यपरा धेऽपि मनुष्येऽपि प्रजापतौ' इति मेदिनी । पापांश इति चेत्तह पैौ पापांशो गुरुपदक मलचिन्तनमेवावधिर्यस्येति मृषा मा भाषिष्टाः शिखरिणी वृत्तम् ॥ ६५ ॥ १ क. 'नं गुरोः क' । २ ख. चन्न ह्यसौ । ५२६ श्रीमच्छंकरदिग्विजयः । इति वादिनमेनमार्यपादः करुणापूरकरम्भितान्तरङ्गः ॥ अमृताब्धिसखैरपास्तमोहै र्वचनैः सान्त्वयति स्म वल्गुबन्धैः ॥ ६६ ॥ विषमो बत कर्मणां विपाको विषमोहोपमदुर्निवार एपः ॥ विदितः प्रथमं मयाऽयमर्थ कथितश्चाङ्ग सुरेशदेशिकाय ॥ ६७ ॥ पूर्व शृङ्गक्ष्माधरे मत्समीपे प्रेम्णा याऽसौ वाचिता पञ्चपादी ।। सा मे चित्तान्नापयात्यद्य शोको याताच्छीघ्र तां टिस्वेत्याख्यदार्यः ॥ ६८ ॥ माचख्यौ तां कृतिमुपहितां पूर्वयैवाऽऽनुपूय ॥ नैतचित्रं परमपुरुषेऽव्याहतज्ञानशक्तौ तस्मिन्मूले त्रिभुवनगुरौ सर्वविद्यापवृत्तेः ॥ ६९ ॥ [ सर्गः १४ करुणापूरकेणाऽऽश्लिष्टमन्तरङ्ग यस्य स भार्यपादः श्रीशांकराचार्य इत्येवं वादिन मेनं पद्मपादं पीयूषसमुद्रतुल्यैरपास्तो निराकृतो मोहो यैर्वन्गुः सुन्दरो बन्धो बन्ध ग्रन्थनं येषां तैर्वचोभिः सान्त्वयति स्म । वसन्तमालिका वृत्तम् ॥ ६६ ॥ बतेोति खेदे । विषजन्ममेोहतुल्यश्चासौ दुर्निवारश्चैप कर्मणां विपाको विषमोऽस्ि प्रथममेव मयाऽयमर्थो ज्ञातः सुरेश्वराचार्याय कथितश्च ।। ६७ ।। अतोऽद्य ते शोको यातादपगच्छतु शत्रं तां लिखत्यार्य: श्रीशंकरोऽवोचत् शालिनी वृत्तम् ॥ ६८ ॥ [ शृङ्गक्ष्माधरे श्रृङ्गगिरावित्यर्थः ] ।। ६८ ।। अमुना प्रकारेण पद्मपादमाश्वास्य भाष्यकारस्तां पञ्चपाद कृतिं पूर्वयैवाऽऽः पृथ्य युक्तामाचख्यौ । चित्रं मन्वानान्मत्याह । अव्याहता ज्ञानशक्तिर्यस्य ति त्रिभुवनगुगै सर्वविद्याप्रवृत्तमूले महापुरुषे तचित्रं न भवति । मन्दाक्रान्ता वृत्त ॥ ६९ ॥ [ सर्वति । मूले निदाने । अत एव त्रिभुवनगुरौ । तथा च तैत्तिरीय समाम्नन्ति । 'ईशानः सर्वविद्यानाम्' इत्यादि ] ॥ ६९ ॥ [ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । प्रसभं स विलिख्य पञ्चपादीं परमानन्दभरेण पद्मपादः । उदतिष्ठदतिष्ठद्भ्यरोदी त्पुनरुद्रायति तु स्म नृत्यति स्म ॥ ७० ॥ कविताकुशलोऽथ केरलक्ष्मा मुनिवर्यममुं मुंदं वितेने प्रथते किमु नाटकत्रयी से त्यमुना संयमिना ततो नियुक्तः ॥ अयमुत्तरमादद प्रमादा दनले साऽऽहुतितामुपागतेति ॥ ७२ ॥ मुखत: पठितां मुनीन्दुना तां विलिखन्नेष विसिष्मियेऽथ भूपः ।। वद किं करवाणि किंकरोऽहं वरदेति प्रणमन्व्यजिज्ञपच ॥ ७३ ॥ ५२७ स पद्मपादः प्रसभं हठेन पञ्चपादीं विलिख्य परमानन्दानिशयेनोदतिष्ठदृध्र्वमति ष्ठत्पुनः समतिष्ठत्पुनरभ्यरोदीदानन्दाश्रूण्यमुञ्चत्पुनरुद्रायति स्मै तु पुनर्तृत्यति स्म । वसन्तमालिका वृत्तम् ॥ ७० ॥ कमनो रञ्जको निजकौटरैिः किरीटसंबन्धिरत्नैर्निघृष्टं पादनखाग्रयं येन सोऽमुं मुनिं मुदं वितेने । मालभारिणी वृत्तम् ॥ ७१ ॥ [मुदा हर्पण । अमुं प्रकृतम् । मुनिवर्थ श्रीशंकराचार्यम् । निजेति । एतादृशं वितेने विस्तारितवांस्तं प्रति प्रणना मेति यावत् ] ।। १७१ ॥ एवं प्रसादितेनामुना संयमिना सा नाटकत्रयी कि पथत इति ततो नियुक्तः मादादौ साऽऽहुतितामुपागतेतीदमुत्तरमुपाददे ॥ ७२ ॥ तां नाटकत्रयीम् । हे वरद किंकरोऽहं किं करवाणीति प्रणमन्विज्ञ॥पि- तवान् ७३ १ क. ख. घ. मुदा । २ क. प्रयम् ॥ ७१ ॥ प्र'। ३ ग. स्म पु' । ४ क. 'प्रयं यत्य तादृशममु । स ५२८ श्रीमच्छंकरदिग्विजयः । [ सर्गः १४ मृप कालटिनामकाग्रहारा द्विजकर्मानधिकारिणोऽद्य शप्ताः ॥ भवताऽपि तथैव ते विधेया बत पापा इति देशिकोऽशिषत्तम् ॥ ७४ ॥ पद्माङ्म्रो प्रतिपद्य नष्टविवृतिं तुष्ट पुनः केरल क्षमापालो यतिसार्वभौमसविधं प्राप्य प्रणम्याञ्जसा । लब्ध्वा तस्य मुखात्स्वनाटकवराण्यानन्दपाथोनिधौ मज्जंस्तत्पदपद्मयुग्ममनिशं ध्यायन्प्रतस्थे पुरीम् ॥ १५६२ ॥ इति श्रीमाधवीये तत्तीर्थयात्राटनार्थकः ॥ संक्षेपशंकरजये सर्गेऽजनि चतुर्दशः ॥ १४ ॥ एवं राजशेखरेण विज्ञापितो देशिकः श्रीशशंकरो हे नृप कालटिनामकोऽग्रहारों येषां ते द्विजकर्मनधिकारिण इत्यद्येदानीं शप्ता भवताऽपि तथैव विधेया यतः पाप इति राजानमाशिषत् ॥ ७४ ॥ उपसंहरति । पद्मपादे नष्टविवृतिं प्रतिपद्य तुटे सति पुनः केरलभूपालो यतिसा वैभौमस्य सविधं समीपं प्राप्याञ्जसा झटिति प्रणम्य तस्य मुखात्स्वनाटकवराणि लब्ध्वाऽऽनन्दजलधौ मज्जंस्तस्य चरणकमलयुग्ममनिशं ध्यायन्पुरीं पतस्थे शार्दूलविक्रीडितं वृत्तम् ॥ १५६२ ॥ [ नष्ठति । नष्टा या विवृतिर्भाष्यटीका तामि त्यथे: । प्रतिपद्य प्राप्य ] | १७५ ॥ [ इति श्रीति । तदिति । तस्य पद्मपादस्य या तीर्थयात्रा तीर्थार्थ गमनं तदर्भ यदटनमितस्तत: परिभ्रमणं तदेवार्थो यस्य स तथेत्यर्थः ] ॥ १४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यदत्तवं शावतंपरामकुमारसूनुवनपतिसृारकृते श्रीशंकराचार्यवि जयडिण्डिमे चतुर्दशः सर्गः ॥ १४ ॥ [ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अथ पञ्चदशः सर्गः ॥ अथ शिष्यवरैर्युतः सहखै रनुयातः स सुधन्वना च राज्ञा ॥ ककुभो विजिगीषुरप सर्वा प्रथमं सेतुमुदारधीः प्रतस्थे ॥ १ ॥ र्गिरिजाचकपटान्मधुप्रसतैः ॥ निकटस्थवितीर्णभरिमोद स्फुटरिङ्कत्पटुयुक्तिमान्विवादः ॥ २ ॥ ५२९ अथ दिग्विजयकौतुकं परिकरं निरूपयितुमुपक्रमते । अथानन्तरं पद्मपादहस्ता मलकसमित्पाणिचिद्विलापज्ञानकन्दविष्णुगुप्तशुद्धकीर्तिभानुमरीचिकृष्णदर्शनबुद्धिवृद्धि विरिञ्चिपादशुद्वानन्तानन्दगिरिप्रमुखैः सहस्रः शिष्यवरैर्युत: सुधन्वना राज्ञा चानुयात सर्वा दिशो विजिगीषुः स एष उदारधीः श्रीशंकराचार्यः प्रथमं सेतुं प्रति प्रतस्थे । वसन्तमालिका वृत्तम् । अत्र प्राचीनानुरोवेन मध्यार्जुनं प्राप्य ततः सर्वाः ककुभो विजिगीषुः प्रथमं सेतुं प्रति पतस्थ इति * श्रीशांकराचायों याख्ययम् । तथाहि । मध्यार्जुनं नाम शिवाविभूतिस्थलविशेषं पाप । ‘ मध्याजनशानमद्दष्टपूर्व विद्यादाभ पूजितपादपद्मम् । बुद्धोपचारैरभजत्परेशं निप्पापतां माप फलैकपात्रम्’ ॥ तत्र किल भगवाञ्श्रीशंकराचार्यः सदाशिवमेवमब्रवीत्स्वामिन्मध्यार्जुन सर्वोपनि सर्वेषां षदर्थोऽसि सर्वज्ञोऽसि तस्मान्निगमादितात्पर्यगोचरो द्वैतमद्वैतं वेति संशयस्य पश्यतां निवृत्तिं कुर्विति पार्थितो मध्यार्जुनेशो लिङ्गग्रात्सावयवरूपेण निष्क्रम्य मेघ वद्रम्भीरया गिरा दक्षिणहस्तमुद्यम्य सत्यमद्वैतं सत्यमद्वैतं सत्यमद्वैतमिति त्रिरुक्त्वा लिङ्गाग्रेऽन्तर्दधे । पश्यतां नराणां महदद्रुतमासीत्तद्भक्ताश्च तद्देशस्थिताः श्रीशंकरमेव सदुरुं कृत्वोमागणपतीशार्कच्युताचपराः प्रातःस्नानादिविशुद्धाः पश्चयज्ञपरायणा श्रुतिसंचोदिताचारगाः शुद्धाद्वैतपरायणा बभूवुः । एवं तद्देशस्थानद्वैतवादिनः कृत्वा प्रमथैः शंकर इव शिष्यसमेतो रामेश्वरं प्रांत जगाम ' इति ॥ १ ॥ [ सहस्रर्विपुलैः ] [ सुधन्वना मागिन्द्रावतारत्वेन वर्णितेन सुधन्वाभिवेनेत्यर्थः ] [ सर्वाः ककुभो दिशो लक्षणया तत्स्थभेदवादिनः प्रतीत्यर्थः ] ॥ १ ॥ तत्र किल तस्य शापैर्विवादोऽभवत् । तान्विशिनष्टि । गिरिजाचकपटान्मधुप सतैः । विवादं विशिनष्टि । निकटस्थेभ्यो वितणों दत्तो बहुमोदो याभिस्ताश्च ता स्फुटं यथा स्यात्तथा रिङ्गन्त्यः स्फुरन्त्यो याः पट्टयश्चतुरा युक्तयस्तद्वान् । पदेति १ घ. 'णिवि '। २ क. घ. 'भूतस्थ'। ३ स्थेषु वि '। ५३० श्रीमच्छकरदिग्विजयः । [ सर्गः १५ ] कचित्पाठः । तथाहि । “तत्रस्था गुरुशेखरं यतिवरं मूर्धाऽभिवाद्योचिरे स्वामिन्नस्म दिदं मतं शृणु सितं चित्रं परं पावनम् ॥ आद्या शक्तिरशेषकार्यजननी शंभोर्गुणेभ्य परा यन्मायावशतो महत्पमुखरं सर्वं जगज्जायते ॥ १ ॥ तस्या वागाद्यगम्यत्वात्से वायोग्यत्वहेतुत : । तदंशाया भवान्यास्तु पादसेवापरा वयम् ॥ २ ॥ स्वर्णनिर्मित त्पादैर्बद्धग्रीवाः सुबाहवः । जीवन्मुक्तिर्यतो विद्योपासकानां फलं श्रुतम् ॥ ३ ॥ विद्यां चाविद्यां च यस्तद्वेदोभयं सह। अविद्यया मृत्युं तत्र्वा विद्ययाऽमृतमश्रुते॥४॥ तस्मात्कटाक्षलेशेन मुक्तिदा या मुमुक्षुभिः ।। सेवनीया प्रयत्नेन प्रकृतिः सेशरू पिणी ॥ ५ । प्रकृतिश्चेश्वरश्चेति श्रुतितस्तदभिन्नता ॥ सदेवेत्यादिवाक्यानि तत्पराणि मतानि तु ।। ६ । अकारादेर्यथोत्पत्तिः प्रणवस्थस्य संमता । तच्छक्तीनां भवानी लक्ष्म्यादिकानां तथाऽस्ति सा ।। ७ || सिद्धान्तः सर्वदेवानां कारणस्य प्रभोः परा । चन्द्रस्य चन्द्रिकावद्या रुद्रोद्वोधकरुपिणी ।। ८ । स्वाधीनवलभेत्युक्ता शक्ती रुद्रस्य भो यते । सैवास्तीयं भवानीति निश्चयेन युता वयम् ।। ९ । नरव्याधैर्भवद्भिश्च कृत्वा तचिह्नवारणम् । सैवोपास्या सेतो माता मुक्तिदा परमेश्वरी ।। १० । इत्युक्त आचार्यवरो महेश: संप्राह तान्सत्यमिदं तथाऽपि ॥ श्रेष्ठस्यै बोधात्पुरुषस्य मुक्त संमोदितत्वात्सकलेऽपि शास्त्रे ॥ ११ ॥ आत्मानमात्मना ध्यात्वा मुक्तो भवति नान्यथा । तमेवेत्यादिवाक्यानि प्रमाणान्यत्र कोटिशः ।। १२ । अजामित्यादिमश्रेऽ जास्वरूपमाभिवाय वै' । ततस्तत्वं परेशस्य मुक्त्यर्थे संप्रकाशितम् ।। १३ । किंचापि सांख्यैः प्रकृतेः परस्य विकारहीनस्य सुबोधतः सा । उक्ताऽत ईशस्य सुखैकधाम्रो ज्ञानाद्विमुक्तिः परमस्य भूम्रः ॥ १४ ॥ ऐक्यं चोक्तं ब्रह्मणा ज्ञानेनो हि ब्रह्मज्ञो ब्रह्रैव नान्योऽस्ति कश्चित् । ब्रहोत्यादौ वेदवाक्येऽत एव ज्ञानं सम्यक्सावनीयं भवाद्भ दाशु चित्तशुद्धिर्विजायते ।। १६ । तस्मात्कुङ्कमपुण्ड्रादि परित्यज्य तथैव च ॥ हैम पादादिचिह्नानेि विद्यायां रतिमागताः ।। १७ । ब्रह्माहमितिरूपायां मुक्ता भवथ नान्यथा । एवमुक्तास्त्यक्तचिह्नाः सवं नत्वा परं गुरुम् ।। १८ । स्नानसंध्यापरः पञ्चपूजादिनिरतास्तथा ।। शुद्धाद्वैतकृतश्रद्धाः सच्छिष्यत्वमुपागताः ।। १९ । महा लक्ष्म्या भक्ताः परमपुरुषं शंकरमथो समेत्योचुर्नत्वा निखिलफलदा सर्वजननी ।। महालक्ष्मीराद्या प्रकृतिरसदित्यादिनिगमैः सदेवेतिश्रुत्योक्तपरपुरुषस्यामलतनोः॥२०॥ ब्रह्मादयोऽपि जायन्ते यस्या यस्यां परेशित: । अप्यन्तर्भाव एवास्ति सैव सेव्या १ क. 'म् ।। ९ ॥ निरवदैर्भ' । २ क. सर्वमा' । ३ घ. 'स्य ज्ञानात्पु' } ४ ग. घ. हि । ५ क. 'क्ये तदेव । ६ क. 'या प्रोक्ता सा द्वै' । ७ ग. घ. 'स्याः सुसे' । ८ ग. घ. 'रा नित्यं पू' । ९ क. 'श्रुत्या परमपु' । १० ग. यस्यां । [ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मुमुक्षुभिः ॥ २१ । लक्ष्म्याः समाराधनतत्पराणां पवाक्षमालाभिरलंकृतानाम् । बाह्वोश्च कञ्जाङ्कविभूषितानां सुकुङ्कमेनाङ्कितमस्तकानाम् ।। २२ । इस्तस्थिता मुक्ति रतो भवद्भिरुपासनीया सकलेश्वरेश्वरी । इत्युक्त आहादुतमेतदुक्तं मतं भवद्भिः शृणु तापि तत्त्वम् ।। २३ ॥ स्रष्टा परात्मा न तु काश्चिदन्य एकोऽद्वितीयः सदसत्स्वरूपः ॥ तत्त्वं स आत्मेति निबोधितः श्रुतावानन्दरूपः स तु वर्तते सदा ।। २४ ॥ प्रकृते स्तद्धीनाया मोचकत्वं न संङ्गतम् । अहं ब्रह्नोति यो ध्याता तस्य मुक्तिः कर स्थता ।। २५ । अनित्योपासकानां तु लोकावाप्तिस्तथाविधा । अतो यूयं परि त्यज्य पद्मकुङ्कमधारणम् ।। २६ । शुद्धामद्वैतविद्यां वै समाश्रित्य सुसाधवः । मुक्ता भावष्यथत्युक्ताः शप्यतां समुपागताः ।। २७ ॥ तत आगत्य चाऽऽचाय शारदा। पासने रताः ॥ पुस्तपुण्डूकचिङ्गेन युक्ता नत्वा बभाषिरे ॥ २८ । स्वामिन्वेदस्य नित्यत्वाच्छारदा नित्यरूपिणी ॥ कारणं सर्वलोकानां परात्परतरा मता ।। २९ ।। जगत्कत्रीति नित्या वागिति च श्रुतिवाक्यत ॥ सैवाऽऽत्मब्रह्मविष्ण्वादिशब्दजालैरुदा हृता ।। ३० । गुणातीतस्वरूपा च सेव्या सर्वेर्मुमुक्षुभिः । वागपासनमेवातः करुध्वं सुप्रयत्नतः ।। ३१ । नावेदेत्यादिवाक्येन वेदार्थज्ञानवार्जित । तत्परं. वाक्स्वरूपं ना न वेदेति प्रकाशनात् ।। ३२। वाक्स्वरूपानुसंधानं सर्वदा निश्चयेन हि । वेदा थज्ञानपूर्वे वै' प्रकर्तव्यं द्विजातिना ॥ ३३ । इत्युक्तो भगवानाह कण्ठताल्वादिसंग मात् ।। समुदूतस्य वेदस्य नित्यता कथमुच्यते ।। ३४ । वर्णमात्रस्य नित्यत्वं वणो नां संततेरुत । नाऽऽद्यः सर्वलये तेषां लयसंभवहेतुत ॥ ३५ ॥ यस्य निःश्धसितं वेदा इति जन्यत्वदर्शनातू । यजन्यं तदनित्यं चेति प्रमाणान्न चान्तिम: ॥ ३६ ॥ महर्षिभ्यो रविः प्राह सृष्टिकालेऽखिलप्रभुः ॥ युगान्ते प्रलयं यातं वेदमङ्गसमन्वि तम् ॥ ३७ ॥ इत्युक्त सूर्यसिद्धान्ते वेदराशेः प्रवर्तनम् ॥ गतस्य प्रलयं सूर्याच्छार दानेत्यता कुतः ॥ ३८ । अनित्यत्वेऽपि देवानां ब्रह्मणो नित्यता मता । नित्या सा शारदाऽतश्चत्रैव रम्यमिदं यतः ।। ३९ । आद्यस्य जीवस्य चतुर्मुखस्य नित्यत्वशून्यस्य मुखे स्थितायाः । अनित्यतायां खलु शारदाया न संशयो बुद्धिम तोऽस्ति कश्चित् ।। ४० । प्रकृति: परमा सरस्वती या महदादेः सकलस्य कारण सा ।। इति चेन्न समक्षसं थेतोऽस्ति परमात्मव्यतिरेकिणो मृषात्वम् ।। ४१ । वागा द्यतीत: पर एव भूमा सदादिबोध्यः प्रकृतिर्न वाच्या । सदादिशब्दैरत एव तस्य ज्ञानं सुसम्यक् परिसाधनीयम् ॥ ४२ ॥ ज्ञात्वा तमेव खलु मुक्तिपदं प्रयाति माग न चान्य इति वेद उदाजहार । शुद्धाद्वये सततमेव रता भवन्तः स्नानादिकर्मपरमा र्पणबुद्धिमन्त: ।। ४३ ॥ कुर्वन्ननेकदुरितान्यपहाय दूरं शुद्धिं गताः सुखघनस्य विबो १ ग घ. तु । २ घ. किचित् । ५३१ ३ क. यतो वै प '। ५३२ श्रीमच्छकरदिग्विजयः । स हि युक्तिभरैर्विधाय शाक्ता न्प्रति वाग्व्याहरणेऽपि तानशक्तान् । द्विजातिबहिष्कृताननायन करोलोकहिताय कर्मसेतुम् ॥ ३ ॥ [ सर्गः १५ ] धतो वै' । मुक्ता भविष्यथ कदाऽपि न चान्यथा हीत्युक्ता बभूवुराखिला यमिनः सुशिष्याः ॥ ४४ ॥ वामाचाराः समेत्याहुस्ततो ज्ञानवतां वरम् ।। संवित्स्वरूपम ज्ञात्वा वृथावेषधरो भवान् ।। ४५ । निरतोऽद्वैतविज्ञाने वन्ध्यापुत्रसमे यतः ।। लयेऽपि भेदसतातोऽद्वैतं नैव कदाचन ॥ ४६ । ईश्वरेऽपि विमशैोंऽयं पृथगेवास्ति सर्वदा ॥ यया विना परेशस्य क्रिया स्वल्पाऽपि दुर्लभा ॥ ४७ ॥ सा शक्तिरस्तीह सदा स्वतत्रा जगद्विधात्री च शिवस्य बीजम् । विद्यात्मिका तत्र रातिं गतानां मुक्तिः करस्था किल नेतरेषाम् ।। ४८ । विमर्शसंज्ञमव्यक्तं ब्रह्म भृग्वादयो जगुः । तत्परास्तत्व तोऽस्त्यन्यत्ततो यद्य तु तद्वशाम् ।। ४९ । तस्याः सेवानिरतमनसां नो निषेधेऽधिकारो नास्त्येवैवं विहितकरणे सिद्धतामागतानाम्। निस्त्रैगुण्ये पथि विचरतां को विविः को निषेधो भृग्वादीनामलमनसां नः प्रवृत्तिर्हि मानम्।॥५०॥ तस्माद्भवन्तोऽपि विहाय सर्वे विद्यां परामाश्रयताऽऽत्ममुक्त्यै । इत्युक्त आचार्य उवाच मैवं यत्रेति' वेदेन हेि बोधकाले ॥ ५१ ॥ आत्मातिरिक्तस्य निषेध एव कृतस्तदानीं न विमर्शदेशः । न ह्यस्ति सत्यत्वमनात्मनो नो मुक्तिस्त्वनित्यप्रकृतेरुपास्त्या ।। ५२ । मायाभिरिन्द्रः पुरुरूप ईयत इत्येवमस्या बहुरूपता श्रुता। तस्माचिदात्मा प्रकृतेः परः प्रभुयोऽस्ति मोक्षाय मुमुक्षुभिर्मुदा ।। ५३ ॥ ईशानो भूतभव्यस्येत्यादिकश्रुतिबोधिते । अकिंचि त्कर इत्युक्तमव्यादेव न चान्यथा ॥ ५४ ॥ कलञ्चादनशीलानां सुरापानादि कुर्व ताम् ॥ ब्राह्मण्यं नास्ति युष्माकं कुरुतातो विनिष्कृतिम् ॥ ५५ ॥ भृगुणा तार्डतो विष्णुः कुम्भजेन सरित्पतिः ॥ पीतः कथं न भवतामस्ति शक्तिस्तथाविधा ॥ ५६ ॥ तस्माद्विमृढतां त्यक्त्वा भ्रष्टैब्रह्मणजातितः ॥ प्रायश्चित्तमनुष्यमित्युक्तास्ते परं गुरुम् ॥ ५७ ॥ नत्वा प्रायश्चित्तमेवाऽऽशु कृत्वा शुद्धाद्वैत संरताः साधुवृत्ताः । सत्क र्भस्था: पञ्चपूजापरास्ते जाताः शिप्याः सर्वपापैर्विहीनाः' ॥ ५८ ॥ २ ॥ एतत्सर्वे संग्रहेण दर्शयति । स हि श्रीशंकरस्ताञ्शाक्तान्प्रति वाग्व्याहरणेऽपि युक्त्यतिशयैरशक्तान्विधाय कर्मसेतुमकरोत् । तान्विशिनष्टि । द्विजेति । आचार्थस्य विजयोऽपि न स्वरूयात्याद्यर्थमित्याह । लोकहितायेति ॥ ३ ॥

  • घ. द्राक् । २ क. 'शों वै पृ। ३ ग. 'ति श्रुत्या हि । ४ क. 'र्वसंदेही । [ सर्गः १५ ]

धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अभिपूज्य स तत्र रामनाथं सह पाण्डेयैः स्ववशे विधाय चोलान् ॥ द्रविडांश्च ततो जगाम काञ्चीं नगरी हस्तिगिरेर्नितम्बकाञ्चीम् ॥ ४ ॥ एवं सेतुं प्रति प्रस्थितेन तत्र प्रस्थाने तुलाभवानीनिकटस्थानां पराजयं संक्षेपेण पदश्यै रामेश्वरप्रान्तदेशस्थानां तं संग्रहेण वर्णयितुमाह । अभिपूज्येति । रामेश्वरं वक्ष्यमाणप्रकारेणाभिपूज्य पाण्डैयैः सह चोलान्देशविशेषान्द्रविडांश्च वशे विधाय । ततो हस्तिसंज्ञकस्य पर्वतस्य कटिमेखलाभूतां काञ्ची नगरीं जगाम । इदमत्रावधेयम् । ‘रामे श्वरं रामकृतप्रतिष्ठं कामेश्धरीभूषितवामभागम् ! महेन्द्रनीलोज्ज्वलदुत्किरीटं भीमेश्वरं त्वामिह पूजयामि ॥१॥ इति गङ्गाजलैः शुद्धेरर्चयामास शंकरः। सुबिल्वैः पङ्कजैः पुष्पै वैन्यैवैन्यफलैस्तथा।॥२॥ तत्र मासद्वयं वासं कृतवत्यार्य आगताः ॥ औद्वैतद्रोहिणः शैवा लिङ्गाङ्कितभुजद्वयाः ॥३॥ फाले शूलाङ्किता रौद्रा भक्ता लिङ्गेन चिह्निताः ।। डमर्वङ्कधरा बाहुद्वये तूग्रास्तथा हृदि ॥४॥ शूलं शिरसि लिङ्ग च धारिणो जङ्गमास्तथा ॥ ललाटे हृदये नाभी बाह्वोः शूलेन चिह्निताः ॥५॥ गुरुं पाशुपता नत्वा प्रोचुः कारणमीश्वरः । शिवोऽतश्चिह्नसंयुः सेवनीयः प्रयत्नतः ॥ ६॥ ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिंग लम् ॥ उध्र्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ||७| द्यमृवनं यस्य वेदा वदन्ति खं वै नाभिं चन्द्रसुयै च नेत्रे । दिशः श्रोत्रे वाग्विवृत्ताश्च वेदास्तं मुमुक्षुर्व शरणमहं ५३३ ङ्कितात्मनाम् ॥९॥ किंच कारणविन्तायां शंभुराकाशमध्यगः । प्रोक्तस्तथा सुगे: पृष्ट कस्त्वमत्याह शकरः ||१०| अहमेकः पुरा दव। अास मत्त। न चापर । इदानीमहमे वास्मि सद्वयो जगदीश्वरः ॥११॥ इति तस्माच्छिवः कर्ता सामान्यैरप्युदीरितः ।। सद्र ह्मात्मादिकैः शब्दैरुपादानतया प्रभुः॥१२॥ वासुदेवः पुरा ह्यासीन्न ब्रह्मा न शच शंकरः॥ इत्यत्र वासुदेवाख्यो महादेव इतीरितः ॥१३॥ वसत्यस्मिञ्जगत्सर्वं वासुस्तेन प्रकीर्तित ॥ स चासौ देव इत्युक्तो जगत्कर्ता महेश्वरः ॥१४॥ शं सुखं जीवनं योऽसँीं करीत्यस्य सशंकरः । पालको विष्णुरारूयातः स नाऽऽसीत्प्राकृते लये ||१५| पाल्यस्याभावतोऽ स्त्यत्र प्रमाणं कृष्णभाषितम् । रुद्राणां शंकरश्चास्मीत्येवं शिवरहस्यके ॥१६॥ महादेवस्य वाक्यानि मुनिं दुर्वाससं मति। सावधानतया तानि श्रोतव्यानि यतश्विर ॥१७॥ अह मेकाक्षरः कर्ता परात्परतरः शिवः । सदात्मा ब्रह्मविष्ण्वोश्च लोकानामादिकारणम् ।।१८।। पुराणः पूर्वेगः पूर्वज्येष्ठः श्रेष्ठोऽहमद्वय । मदिच्छारूपिणी शक्तिर्जगत्संहारकारिणी ॥१९॥ लीना मय्येव सा सृष्टा पुनः सृष्टौ मयाऽनघ ।। सा महत्तत्त्वमुत्पाद्य त्रिगुणाङ्कु १ ग. घ. 'कप' । २ क. ग. लुप्ता । ५३४ १ ग. श्रीमच्छंकरदिग्विजयः । रकारणम् ॥२०॥ अहंकारं समुत्पाद्य त्रैगुण्यं पूर्वतत्त्वतः । गुणत्रयात्मिकान्कृत्वा रुद्राने कादशाव्ययान् ।॥२१॥ राजसान्सृष्टिकर्मार्थं कारयामास सादरम् ॥ सात्त्विकान्पालनपरां स्तामसान्पलयेश्वरान् ॥२२॥ क्रमादवर्णात्संजाता उवणच मवर्णत: । तेषु मुख्यतया ब्रह्मविष्णुरुद्रा इति त्रिधा ॥ २३ ॥ अन्ये तदनुवृत्तिस्था एवमेकादशेश्वराः ॥ तेषां विभूतयः सर्वे देवा लोकाश्चराचराः ॥ २४ ॥ पृथक्पृथङ्नामगतास्तत्तत्कर्मानुसारतः ॥ ते सर्वे प्रलये ब्रह्मतेजस्येव लयं गता ॥ २५ । राजसे रक्तवर्णे च स तु ब्रह्मा सम स्तभृत् ॥ कृष्णे नारायणस्यैव तेजस्यस्तोऽभवत्पुरा ॥ २६ ॥ रुद्रस्य शुकवणें तु ह्यस्तो नारायणः स्वयम् ।। स तु रुद्रः पकृत्यन्तर्गतः शुकेन तेजसा ॥ २७ ॥ मदि अतोऽस्म्यनन्त: सर्वार्थवेदैरपि न गोचरः ॥ ॥ २८ ॥ वेत्ति कश्चिन्न मन्मायां जन्मस्थितिलयावहाम् । अतो रुद्रार्चनपरा रुद्रसू क्तजपाश्रिताः ।। २९ । पञ्चाक्षरीजपपरा रुद्राक्षाभरणैर्युताः । भूतिभूषितसर्वाङ्गा सदा ध्यानपरायणाः ।। ३० । ईश्वरं रुद्रमव्यक्त व्यक्तरूपं जगत्रये । येऽर्चयन्ति नरश्रेष्ठास्तेषां मुक्तिः करे स्थिता ।। ३१ । अतस्त्वं भूतिरुद्राक्षधारणं कुरु सर्वदा ॥ कुरु नित्यं महादेवपूजनं भक्तिसंयुतः ।। दुर्वाससे मुनीन्द्राय ह्येवमुक्त्वा सदाशिवः ॥ ॥ ३२ । अन्तर्दधे तदाचारपक्तोऽभून्मुनिसत्तमः । इत्यतः परमात्माऽसौ सेवनीयो मुमुक्षुभिः ॥ ३३ ॥ नारायणोऽकामयताद्वितीयः प्रजाः सृजामीति ततो महान्ति ॥ भूतान्यजायन्त तथा विधाता प्रजापतिश्चापि जनिं प्रैया ॥ ३४ । अत्राप नारा यणशब्दवाच्यो मद्देश एवास्त यतस्तु नारम् । ब्रहेन्द्रविष्ण्वादिऋणां समूहः स्थानं तदस्याखिलबुद्धिगस्य ।। ३५ । अस्यवांशा विश्वदेवाः प्रमाणं त्वस्मिन्नर्थे वेद एवा स्ति योऽसौ । ये भूम्यादा सन्ति रुद्रा नतिस्तेभ्यः सर्वेभ्योऽस्त्वेवमाहातियत्नात् ।। ॥ ३६ । कारणत्वेन ज्येष्ठत्वं तथा पाह कनिष्ठताम् । कार्यात्मना यतो जातात्रिदेवा इति च श्रुतिः ।।३७l। सत्यं ज्ञानमनन्तं यो गुहायां निहितं प्रभुम् । वेदेत्यादिश्रुति पोक्तस्ततो देवो महेश्वरः ।। ३८ ॥ निर्गुणोऽप्येष एवेशाश्चिन्तयित्वाऽचिरं पुरा। सृजामी त्यात्मनस्तेजः सूर्याकारेण सृष्टवान् ।। ३९ । मनश्चन्द्रं तथा सत्त्वं भौमं सौम्यं तु वाङ्म यम् । सुखज्ञानमयं देवगुरुं शुक्कमयं सितम् ॥ ४० ॥ झेशात्मकं शनिं चैवं चकार परमे श्वरः ।। सूर्यादिमण्डलानीशातेजसा भान्ति न स्वतः ॥ ४१ ॥ न तत्र सूर्यो । भाति न चन्द्र तारकं नेमा विद्युतो भान्ति कुतोऽयमन्निः ॥ तमेव भान्तमनुभान्ति सर्वे तस्य भासा सर्व मिदं विभाति ॥ ४२॥ इति श्रुतेस्ततो देवान्नारायणपदास्पदात् । ब्रह्मा प्रजायते विष्णु प्रजापालनकृत्तथा ।। ४३ || आसीन्नारायणः पृर्वे नेशानो न विवस्तथा ।। इति श्रुतौ । विष्णुरुक्त ईशानो न महेश्वरः ॥ ४४ ॥ सवभावेऽ िनाभावः परेशस्य कदाचन । रूपज । २ ग. गालयम् । यऽ । ३ घ. प्रयातः । ४ [ सर्गः १५] शुक्रम पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३३ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३४ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३५ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३६ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३७ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३८ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३९ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४० पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४१ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४२ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४३ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४४ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४५ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४६ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४७ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४८ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४९ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५० पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५१ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५२ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५३ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५४ पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६२४