महाभारतम्-14-आश्वमेधिकपर्व-022
← आश्वमेधिकपर्व-021 | महाभारतम् चतुर्दशपर्व<r>महाभारतम्-14-आश्वमेधिकपर्व-022 वेदव्यासः |
आश्वमेधिकपर्व-023 → |
कृष्णेनार्जुनंप्रति दशेन्द्रियगुणादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः।।
|
।।ब्राह्मण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
निबोध दशहोतृणां विधानमिह यादृशम्।। 1
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चरणौ करौ।
उपस्थं पायुरिति वाग्घोतृणि दश भामिनि।। 2
शब्दस्पर्शौ रूपरसौ गन्धो वाक्यं क्रिया गतिः।
रेतोमूत्रपुरीषाणां त्यागो दश हवींषि च।। 3
दिशो वायू रविश्चन्द्रः पृथ्व्यग्नी विष्णुरेव च।
इन्द्रः प्रजापतिर्मित्रमग्नयो दश भामिनि।। 4
दशेन्द्रियाणि होतृणि हवींषि दश भामिनि।
विषया नाम समिधो हूयन्ते तु दशाग्निषु।। 5
चित्तं स्रुवश्च वित्तं च पवित्रं ज्ञानमुत्तमम्।
सुविभक्तमिदं पूर्वं जगदासीदिति श्रुतम्।। 6
`ततो विविक्ता वित्तासीत्सा वित्तं पर्यवेक्षते।'
सर्वमेवात्र विज्ञेयं चित्ते ज्ञानमवेक्षता।
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत्।। 7
शरीरभृद्गार्हपत्यस्तस्मादग्निः प्रणीयते।
मनश्चाहवनीयस्तु तस्मिन्प्रक्षिप्यते हविः।। 8
ततो वाचस्पतिर्जज्ञे तं मनः पर्यवेक्षते।
रूपं भवति वै वक्त्रं तदनुद्रवते मनः।। 9
ब्राह्मण्युवाच।
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत्।
मनसा चिन्तितं पूर्वं वाक्यं समभिपद्यते।। 10
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता।
समुन्नीता नाध्यगच्छत्को वै तां प्रतिबाधते।। 11
ब्राह्मण उवाच।
तन्मनस्थः पतिर्भूत्वा तस्मात्प्रेहन्निवायति।
तां मतिं मनसः प्राहुर्मनस्तस्मादपेक्षते।। 12
प्रश्नं तु वाङ्मनसयोर्यस्मात्त्वमनुपृच्छसि।
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम्।। 13
उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम्।
आवयोः श्रेष्ठमाचक्ष्व च्छिन्धि नौ संशयं विभो।। 14
मन इत्येवि भगवांस्तदा प्राह सरस्वतीम्।
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ।। 15
ब्राह्मण उवाच।
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम।
स्थावरं मत्सकाशे वै जङ्गमं विषये तव।। 16
यस्तु ते विषये गच्छन्मन्त्रो वर्णः स्वरोपि वा।
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी।। 17
तस्माद्भवितुमर्हामि स्वयमभ्येत्य शोभने।
तस्मादुच्छ्वासमासाद्य प्रवक्ष्यामि सरस्वति।। 18
प्राणापानावन्तरे यद्वाग्वै नित्यं स्म तिष्ठति।
प्रीयमाणा महाभागे विना प्राणांश्च मामपि।
प्रजापतिमुपाधावत्प्रसीद भगवन्निति।। 19
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः।
तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित्।। 20
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते।
तयोरपि च घोषिण्या निर्घोर्षैव गरीयसी।। 21
गौरिव प्रस्रवत्यर्थान्रसमुत्तमशालिनी।
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी।। 22
दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते।
एतयोरन्तरं पश्य सूक्ष्मयोर्यतमानयोः।। 23
ब्राह्मण्युवाच।
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया।
किंन्नु पूर्वं तदा देवी व्याजहार सरस्वती।। 24
ब्राह्मण उवाच।
प्राणेन य सम्भवते शरीरे
प्राणादपानं प्रतिपद्यते च।
उदानभूता च विसृज्य देहं
व्यानेन सर्वं दिवमावृणोति।। 25
ततः समाने प्रतितिष्ठतीह
इत्येव पूर्वं प्रजजल्प वागपि।
तस्मान्मनः स्थावरत्वाद्विशिष्टं
तथा देवी जङ्गमत्वाद्विशिष्टाः।। 26
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्वाविंशोऽध्यायः।। 22 ।।
१२ तामपानः पतिर्भूत्वा तस्मात् प्रेषत्यपानताम्।
तां गतिं मनसः प्राहुर्मनस्तस्मादपेक्षते। (पाठान्तरः)
22 मासमुत्तमशालिनीति क.ट.थ.पाठः।।
आश्वमेधिकपर्व-021 | पुटाग्रे अल्लिखितम्। |