महाभारतम्-14-आश्वमेधिकपर्व-056
← आश्वमेधिकपर्व-055 | महाभारतम् चतुर्दशपर्व महाभारतम्-14-आश्वमेधिकपर्व-056 वेदव्यासः |
आश्वमेधिकपर्व-057 → |
वैशंपायनेन जनमेजयंप्रत्युदङ्कोपाख्यानकथनारम्भः।। 1 ।।
उदङ्ककृतपरिचर्याविशेषतुष्टेन गौतमेन तस्मै प्रीत्यतिशयेन चिरादपि गृहगमनायाभ्यननुज्ञानम्।। 2 ।।
कदाचन गुरुशासनेन काष्ठभारमाहृतवतोदङ्केन काष्ठलग्नजरापलितनिजकेशावलोकनेन परिदेवनम्।। 3 ।।
ततस्तदबोधितनिजरोदनहेतुना गुरुणा तस्मै निजतनयाप्रतिपादनम्।। 4 ।।
ततस्तेन गुरुपत्नीनिदेशेन कुण्डलयाचनाय सौदासंप्रति गमनम्।। 5 ।।
|
जनमेजय उवाच।
उदङ्कः केन तपसा संयुक्तो वै महामनाः।
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्ववे।। 14-56-1
वैशम्पायन उवाच।
उदङ्को महता युक्तस्तपसा जनमेजय।
गुरभक्तः स तेजस्वी नान्यत्किञ्चिदपूजयत्।। 14-56-2
सर्वेषामृषिपुत्राणामेष आसीन्मनोरथः।
औदङ्कीं गुरुवृत्तिं वै प्राप्नुयामेति भारत।। 14-56-3
गौतमस्य तु शिष्याणां बहूनां जनमेजय।
उदङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा।। 14-56-4
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा।
सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत्।। 14-56-5
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः।
उदङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत।। 14-56-6
तं क्रमेण जरा तात प्रतिपेदे महामुनिम्।
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः।। 14-56-7
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ।
उदङ्कः काष्ठभारं च महान्तं समुपानयत्।। 14-56-8
स तद्भाराभिभूतात्मा काष्ठभारमरिंदम।
निचिक्षेप क्षितौ राजन्परिश्रान्तो बुभुक्षितः।। 14-56-9
तस्य काष्ठे विलग्नाऽभूज्जटा रूप्यसमप्रभा।
ततः काष्ठैः सह तदा पपात धरणीतलम्।। 14-56-10
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भारत।
दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा।। 14-56-11
ततो गुरुसुता तस्य पद्मपत्रनिभानना।
जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना।
पितुर्नियोगाद्भावज्ञा शिरसाऽवनता तदा।। 14-56-12
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः।
न हि तानश्रुपातांस्तु शक्ता धारयितुं मही।
गौतमस्त्वब्रवीद्विप्रमुदङ्कं प्रीतमानसः।। 14-56-13
कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः।
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि तत्त्वतः।। 14-56-14
उदङ्क उवाच।
भवद्गतेन मनसा भवत्प्रियचिकीर्षया।
भवद्भक्तिगतेनेह भवद्भावानुगेन च।। 14-56-15
जरेयं नाघबुद्धा मे नाभिज्ञातं सुखं च मे।
शतवर्षोषितं मां हि न त्वमन्यनुजानिथाः।। 14-56-16
भवता त्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम।
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः।। 14-56-17
गौतम उवाच।
त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव।
व्यतिक्रामन्महाकालो नावबुद्धो द्विजर्षभ।। 14-56-18
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव।
अनुज्ञां प्रतिगृह्य त्वं स्वगृहान्गच्छ माचिरम्।। 14-56-19
उदङ्क उवाच।
गुर्वर्तं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम।
तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो।। 14-56-20
गौतम उवाच।
दक्षिणापरितोषो वै गुरूणां सद्भिरुच्यते।
तवि ह्याचरतो धर्मं तुष्टोऽहं वै न संशयः।
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह।। 14-56-21
युवा षोडशवर्षो हि यद्यद्य भविता भवान्।
ददानि पत्नीं कन्यां च स्वां ते दुहितरं द्विज।
एतामृतेऽङ्गना नान्या त्वत्तेजोऽर्हति सेवितुम्।। 14-56-22
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम्।
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत्।। 14-56-23
किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष माम्।
प्रियं हितं च काङ्क्षामि प्राणैरपि धनैरपि।। 14-56-24
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं महत्।
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः।। 14-56-25
अहल्योवाच।
परितुष्टाऽस्मि ते विप्र नित्यं भक्त्या तवानघ।
पर्याप्तमेतद्भद्रं ते गच्छ तात यथेप्सितम्।। 14-56-26
वैशम्पायन उवाच।
उदङ्कस्तु महाराज पुनरेवाब्रवीद्वचः।
आज्ञापयस्व मां मातः कर्तव्यं च तव प्रियम्।। 14-56-27
अहल्योवाच।
सौदासपत्न्या विधृते दिव्ये ये मणिकुण्डले।
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत्।। 14-56-28
वैशम्पायन उवाच।
स तथेति प्रतिश्रुत्य जगाम जनमेजय।
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा।। 14-56-29
स जगाम ततः शीघ्रमुदङ्को ब्राह्मणर्षभः।
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले।। 14-56-30
गौतमस्त्वब्रवीत्पत्नीमुदङ्को नात्र दृश्यते।
इति पृष्टा तमाचष्ट कुण्डलार्थे गतं च सा।। 14-56-31
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम्।
शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति।। 14-56-32
अहल्योवाच।
अजानन्त्या नियुक्तः स भगवन्ब्राह्मणो मया।
भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति।। 14-56-33
इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः।
उदङ्कोऽपि वने शून्ये राजानं तं ददर्श ह।। 14-56-34
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि षट्पञ्चाशोऽध्यायः।। 56 ।।
14-56-11 निष्पिष्टः चूर्णीभूत इव। कवेरार्तस्य धीमत इति क.ट.थ.पाठः।।
14-56-16 अभ्यनुजानिथाः अभ्यन्वजानीथा अभ्यनुज्ञातवानसि।।
14-56-26 नित्यं भगवता सहेति क.थ.पाठः।।
आश्वमेधिकपर्व-055 | पुटाग्रे अल्लिखितम्। | आश्वमेधिकपर्व-057 |