महाभारतम्-07-द्रोणपर्व-137
महाभारतम्-07-द्रोणपर्व-137 [[लेखकः :|]] |
|
सञ्जय उवाच ।7-137-1x
भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिः स्वनम् ।7-137-1a
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ॥7-137-1b
सोपक्रम्य मुहूर्तै तु भीमसेनस्य गोचरात् ।7-137-2a
पुत्रांस्तव ददर्शाथ भीमसेनेन पातितान् ॥7-137-2b
तानवेक्ष्य नरश्रेष्ठ विमना दुःखितस्तदा ।7-137-3a
निः श्वसन्दीर्घमुष्णं च कर्णः पाण्डवमभ्ययात् ॥7-137-3b
स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः ।7-137-4a
बभौ कर्णः शरानस्यन्रशमीनिव दिवाकरः ॥7-137-4b
किरणैरिव सूर्यस्य महीध्रो भरतर्षभ ।7-137-5a
कर्णचापच्युतैर्वाणैः प्राच्छाद्यत वृकोदरः ॥7-137-5b
ते कर्णचापप्रभवाः शरा बर्हिणवाससः ।7-137-6a
विविशुः सर्वतः पार्थ वासायेवाण्डजाद्रुमम् ॥7-137-6b
कर्णचापच्युता बाणाः संपतन्तस्ततस्ततः ।7-137-7a
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ॥7-137-7b
चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् ।7-137-8a
प्रभवन्तो व्यदृश्यन्त राजन्नाघिरथेः शराः ॥7-137-8b
खं पूरयन्महावेगात्खगमान्गृध्रवाससः ।7-137-9a
सुवर्ण्विकृतांश्चित्रान्मुमोचाधिरथिः शरान् ॥7-137-9b
तमन्तकमिवायस्तमापतन्तं वृकोदरम् ।7-137-10a
त्यक्त्वा प्राणानतिक्रम्य विव्याध निशितैः शरैः ।7-137-10b
तस्य वेगमसह्यं स दृष्ट्वा कर्णस्य पाण्डवः ।7-137-11a
महतश्च शरौघांस्तान्न्यवारयत् वीर्यवान् ॥7-137-11b
ततो विधम्याधिरथेः शरजालानि पाण्डवः ।7-137-12a
विव्याध कर्ण विंशत्या पुनरन्यैः शिलाशितैः ॥ 7-137-12b
यथैव हि स कर्णेन पार्थः प्रच्छादितः शरैः ।7-137-13a
तथैव स रणे कर्ण छादयामास पाण्डवः ॥7-137-13b
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत ।7-137-14a
अभ्यनन्दंस्त्वदीयाश्च संप्रहृष्टाश्च चारणाः ॥7-137-14b
भूरश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः ।7-137-15a
उत्तमौजा युधामन्युः सायकिः केशवार्जुनौ ॥7-137-15b
कुरुपाण्डवपक्षस्था दश राजन्महारथाः ।7-137-16a
साधुसाध्विति वेगेन सिंहनादमथानदन् ॥7-137-16b
तस्मिन्समुत्थिते शब्दे तुमुले रोमहर्षणे ।7-137-17a
अभ्यभाषत पुत्रस्ते र्आजन्दुर्योधनस्त्वरन् ॥7-137-17b
राज्ञः सराजपुत्रांश्च सोदर्याश्च विशेषतः ।7-137-18a
कर्ण गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ॥7-137-18b
पुरा निघ्नन्त्इ राधेयं भीमचापच्युताः शराः ।7-137-19a
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ॥7-137-19b
सञ्जय उवाच ।
दुर्योधनसमादिष्टाः सोदर्याः सप्त भारत ।7-137-20a
भीमसेनमभिद्रुत्य संरब्घाः पर्यवारयन् ॥7-137-20b
ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः ।7-137-21a
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः॥7-137-21b
तेऽपीडयन्भीमसेनं कृध्दाः सप्त महारथाः ।7-137-22a
प्रजासंहरणे राजन्सोमं सप्तग्रहा इव ॥7-137-22b
ततो वेगेन कौन्तेयः पीडयित्वा शरासनम् ।7-137-23a
मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् ॥7-137-23b
अमानुषं कर्म कृत्वा सप्त सन्धाय सायकान् ।7-137-24a
तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः ॥7-137-24b
निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव ।7-137-25a
भीमसेनो महाराज पूर्ववैरमनुस्मरन् ॥7-137-25b
ते क्षिप्ता भीमसेनेन शरा भारत भारतान् ।7-137-26a
विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः ॥7-137-26b
तेषां विदार्य देहांस्ते शरा हेमविभूषिताः ।7-137-27a
‘भित्त्वाभित्त्वा क्षितिं जग्मुस्तेपामेवासुभिः सह ।’7-137-27b
व्यराजन्त महाराज सुपर्णा इव खेचराः ॥7-137-27c
शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः ।7-137-28a
पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः ॥7-137-28b
ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ ।7-137-29a
गिरिसानुरुहा भग्न्रा द्विपेनेव महाद्रुमाः ॥7-137-29b
शत्रुंजयः शत्रुसहश्चित्रश्चित्रायुधो दृढः ।7-137-30a
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः ॥7-137-30b
पुत्राणां तव सर्वेषां निहतानां वृकोदरः ।7-137-31a
शोचत्यतिभृशं दुःखाद्विकर्ण पाण्डवः प्रियम् ॥7-137-31b
प्रतिज्ञेयं मया वृत्ता निहन्तच्यास्तु संयुगे ।7-137-32a
विकर्ण तेनासि हतः प्रतिज्ञा रक्षिता मया ॥7-137-32b
त्वमागाः समरं वीर क्षात्रं धर्ममनुस्मरन् ।7-137-33a
ततो विनिहतः सङ्ख्ये युध्दधर्मो हि निष्ठुरः ॥7-137-33b
विशेषतो हि नृपतेस्तथाऽस्माकं हिते रतः ।7-137-34a
न्यायतोन्यायतो वाऽपि हतः शेते महाद्युतिः ॥7-137-34b
अगाधवुध्दिर्गाङ्गेयः क्षितौ सुरगुरोः समः ।7-137-35a
त्याजितः समरे प्राणांस्तस्माद्युद्धं हि निष्ठुरम् ॥7-137-35b
सञ्जय उवाच ।
तान्निहत्य महावाहू राघेयस्यैव पश्यतः ।7-137-36a
सिंहनादखं घोअमसृजत्पाण्डुनन्दनः ॥7-137-36b
स खस्तस्य शूरस्य धर्मराजस्य भारत ।7-137-37a
आचर्व्याविव तद्युध्दं विजयं चात्मनो महत् ॥7-137-37b
तं श्रुत्वा तु महानादं भीमसेनस्य धन्विनः ।7-137-38a
बभूव परमा प्रीतिर्धर्मराजस्य धीमतः ॥7-137-38b
ततो हृष्टमना राजन्वादित्राणां महाखनैः ।7-137-39a
सिंहनादरव्ं भ्रातुः प्रतिजग्राह पाण्डवः ॥7-137-39b
हर्षेण महता युक्तः कृतसंज्ञे ऋकोदरे ।7-137-40a
अभ्ययात्समरे द्रोणं सर्वशस्त्रभृतां वरः ॥7-137-40b
एकत्रिंशन्महाराज पुत्रांस्तव निपातितान् ।7-137-41a
हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः ॥7-137-41b
तदिदं समनुप्राप्तं क्षत्तुर्नैः श्रेयसं वचः ।7-137-42a
इति स्ंचिन्त्य ते पुत्रो नोत्तरं प्रत्यपद्यत ॥7-137-42b
यद्दयूतकाले दुर्बुध्दिरब्रवीत्तनयस्तव ।7-137-43a
सभामानाय्य पाञ्चालीं कर्णेन सहितोऽल्पधीः ॥7-137-43b
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ।7-137-44a
प्रमुखे पाण्डुपुत्राणां तव चैव विशांपते ।7-137-44b
शृण्वतस्तव राजेन्द्र कौरवाणां च सर्वशः ॥7-137-44c
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः । 7-137-45a
पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् ॥7-137-45b
यच्च पण्डतिलादीनि परुषाणि तवात्मजैः ।7-137-46a
श्रावितास्ते महात्मानः पाण्डवाः कोपयिष्णुभिः ॥7-137-46b
तं भीमसेनः क्रोधाग्रिं त्रयोदश समाः स्थितम् ।7-137-47a
उद्गिरंस्तव पुत्राणामन्तं गच्छति पाण्डवः ॥7-137-47b
विलपंश्च बहु क्षत्ता शमं नालभत त्वयि ।7-137-48a
सपुत्रो भरतश्रेष्ठ तस्य भुङ्ख फलोदयम् ॥7-137-48b
त्वया वृध्देन धीरेण कार्यतत्त्वार्थदर्शिना ।7-137-49a
न कृतं सुहृदां वाक्यं दैवमत्र परायणम् ॥7-137-49b
तन्मा शुचो नरव्याध्र तवैवापनयो महान् ।7-137-50a
विनाशहेतुः पुत्राणां भवानेव मतो मम ।।7-137-50b
हतो विकर्णो राजेन्द्र चित्र्सेनश्च वीर्यवान् ।7-137-51a
प्रवराश्चात्मजानां ते सुताश्चान्ये महारथाः ॥7-137-51b
यानन्यान्दद्दशे भीमश्चक्षुर्विषयमागतान् ।7-137-52a
पुत्रांस्तव महाराज त्वरया ताञ्जधान ह ॥7-137-52b
त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरुथिनीम् ।7-137-53a
सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च ॥7-137-53b