मत्स्यपुराणम्/अध्यायः १
श्री गणेशाय नमः।।
ॐ नमो भगवते वासुदेवाय।।
प्रचण्डताण्डवाटोपे प्रक्षिप्ता येन दिग्गजाः।
भवन्तु विघ्नभङ्गाय भवस्य चराणाम्बुजा।। १.१ ।।
पातालादुत्पतिष्णोर्मकरवसतयो यस्य पुच्छाभिघाता-
दूर्ध्वं ब्रह्माण्डमव्यतिकरविहितव्यत्यनेनापतन्ति।।
विष्णोर्म्मत्स्यावतारै सकलवसुमतीमण्डलं व्यंशुमानं,
तस्यास्योदीरितानां ध्वनिरपहरतादश्रियम्बः श्रुतीनाम्।। १.२ ।।
यदा यदाहि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।।"
"धर्म संस्थापनार्थाय सम्भवामि युगे युगे।।"
नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।। १.३ ।।
अजोऽपि यः क्रियायोगान्नारायण इति स्मृतः।
त्रिगुणाय त्रिवेदाय नमस्तस्मै स्वयम्भुवे।। १.४ ।।
सूतमेकान्तमासीनं नैमिषारण्यवासिनः।
मुनयो दीर्घसत्रान्ते पप्रच्छु र्दीर्घसंहिताम्।। १.५ ।।
प्रवृत्तासु पुराणीषु धर्म्यासु ललितासु च।
कथासु शौनकाद्यास्तु अभिनन्द्य मुहुर्मुहुः।। १.६ ।।
कतितानि पुराणानि यान्यस्माकं त्वयानघ
तान्येवामृतकल्पानि श्रोतुमिच्छामहे पुनः।। १.७ ।।
कथं ससर्ज भगवान् लोकनाथश्चराचरम्।
कस्माच्च भगवान् विष्णुर्मत्स्यरूपत्वमाश्रितः।।१.८ ।।
भैरवत्वं भवस्यापि पुरारित्वञ्च गद्यते।
कस्य हेतोः कपालित्वं जगाम वृषभध्वजः।। १.९ ।।
सर्वमेतत्समाचक्ष्व सूत! विस्तरशः क्रमात्।
त्वद्वाक्येनामृतस्येव न तृप्तिरिहजायते।। १.१० ।।
सूत उवाच।
पुण्यं पवित्रमायुष्यमिदानीं श्रुणुत द्विजाः।
मात्स्यं पुराणमखिलं यज्जगाद गदाधरः।। १.११ ।।
पुरा राजा मनुर्नाम चीर्णवान् विपुलन्तपः।
पुत्रे राज्यं समारोप्य क्षमावान् रविनन्दनः।। १.१२ ।।
मलयस्यैकदेशे तु सर्वात्मगुणसंयुतः।
समदुःखसुखोवीरः प्राप्तवान् योगमुत्तमम्।। १.१३ ।।
बभूव वरदश्चास्य वर्षायुतशते गते।
वरम्वृणीष्व प्रोवाच प्रीतः स कमलासनः।। १.१४ ।।
एवमुक्तोऽब्रवीद्राजा प्रणम्य स पितामहम्।
एकमेवाहमिच्छामि त्वत्तो वरमनुत्तमम्।। १.१५ ।।
भूतग्रामस्य सर्वस्य स्थावरस्य चरस्य च।
भवेयं रक्षणायालं प्रलये समुपस्थिते।। १.१६ ।।
एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत।
पुष्पवृष्टिः सुमहती खात्पपात सुरार्पिता।। १.१७ ।।
कदाचिदाश्रमे तस्य कुर्वतः पितृतर्पणम्।
पपात पाण्योरुपरि शफरी जलसंयुता।। १.१८ ।।
दृष्ट्वा तच्छफरीरूपं स दयालुर्महीपतिः।
रक्षणायाकरोद्यत्नं स तस्मिन् करकोदरे।। १.१९ ।।
अहो रात्रेण चैकेन षोडशाङ्गुलविस्तृतः।
सोऽभवन्मत्स्यरूपेण पाहि पाहीति चाब्रवीत्।। १.२० ।।
स तमादाय मणिके प्राक्षिपज्जलचारिणम्।
तत्रापि चैकरात्रेण हस्तत्रयमवर्धत।। १.२१ ।।
पुनः प्राहार्तनादेन सहस्रकिरणात्मजम्।
समत्स्यः पाहि पाहीति त्वामहं शरणङ्गतः।। १.२२ ।।
ततः स कूपे तं मत्स्यं प्राहिणोद्रविनन्दनः।
यदा न माति तत्रापि कूपे मत्स्यः सरोवरे।। १.२३ ।।
क्षिप्तोऽसौ पृथुतामागात् पुनर्योजनसम्मिताम्।
तत्राप्याह पुनर्दीनः पाहि पाहि नृपोत्तम।। १.२४ ।।
ततः स मनुना क्षिप्तो गङ्गायामप्यवर्धत।
यदा तदा समुद्रे तं प्राक्षिपन्मेदिनीपतिः।। १.२५ ।।
यदा समुद्रमखिलं व्याप्यासौ समुपस्थितः।
तदा प्राह मनुर्भीतः कोऽपि त्वमसुरेतरः।। १.२६।।
अथवा वासुदेवस्त्वमन्य ईदृक्कथं भवेत्।
योजनायुतविंशत्या कस्य तुल्यं भवेद्वपुः।। १.२७ ।।
ज्ञातस्त्वं मत्स्यरूपेण मां खेदयसि केशव!
हृषीकेश! जगन्नाथ! जगद्धाम! नमोऽस्तुते।। १.२८ ।।
एवमुक्तः स भगवान् मत्स्यरूपी जनार्दनः।
साधु साध्विति प्रोवाच सम्यग् ज्ञातस्त्वयाऽनघ।। १.२९ ।।
अचिरेणैव कालेन मेदिनी मेदिनीपते ।
भविष्यति जले मग्ना सशैलवनकानना।। १.३० ।।
नौरियं सर्वदेवानां निकायेन विनिर्मिता।
महाजीवनिकायस्य रक्षणार्थं महीपते!।। १.३१ ।।
स्वेदाण्डाजोद्भिजो ये वै ये च जीवाजरायुजाः।
अस्यां निधाय सर्वांस्ताननाथान् पाहि सुव्रत।। १.३२ ।।
युगान्तवाताभिहता यदा भवति नौर्नृप!।
श्रृङ्गेऽस्मिन्मम राजेन्द्र! तदेमां संयमिष्यसि।। १.३३ ।।
ततो लयान्ते सर्वस्य स्थावरस्य चरस्य च।
प्रजापतिस्त्वं भविता जगतः पृथिवीपते!।। १.३४ ।।
एवं कृतयुगस्यादौ सर्वज्ञो धृतिमान्नृपः।
मन्वन्तराधिपश्चापि देवपूज्यो भविष्यसि।। १.३५ ।।
इति श्रीमत्स्यपुराणे मत्स्यावतारवर्णनं नाम प्रथमोऽध्यायः॥