मत्स्यपुराणम्/अध्यायः १९२
नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यकथनम्।
मार्कण्डेय उवाच।
भार्गवेशं ततो गच्छेत् भग्नो यत्र जनार्दनः।
असुरैस्तु महायुद्धे महाबलपराक्रमैः ।। १९२.१
हुङ्कारितास्तु देवेन दानवाः प्रलयङ्गताः।
तत्र स्नात्वा तु राजेन्द्र! सर्वपापैः प्रमुच्यते ।। १९२.२
शुक्लतीर्थस्य चोत्पत्तिं श्रृणु त्वं पाण्डुनन्दन!
हिमवच्छिखरे रम्ये नानाधातु-विचित्रिते ।। १९२.३
तरुणादित्यसङ्कारो तप्तकाञ्चनसप्रभे।
वज्रस्फटिकसोपाने चित्रवेदी शिलातले ।। १९२.४
जाम्बूनदमये दिव्ये नानापुष्पोपशोभिते।
तत्रासीनं महादेवं सर्वज्ञं प्रभुमव्ययम् ।। १९२.५
लोकानुग्रहदं शान्तं गणवृन्दैः समावृतम्।
स्कन्दनन्दिमहाकालैर्वीरभद्रगणादिभिः ।। १९२.६
उमया सहितं देवं मार्कण्डिः पर्यपृच्छत।
देवदेव महादेव ब्रह्मविष्ण्विन्द्रसंस्तुत! ।। १९२.७
संसारभयभीतोऽहं सुखोपायं ब्रवीहि मे।
भगवन्! भूतभव्येश! सर्वपापप्रणाशनम् ।। १९२.८
तीर्थानां परमं तीर्थं तद्वदस्व महेश्वर!।
ईश्वर उवाच।
श्रृणु विप्र! महाप्राज्ञ! सर्वशास्त्रविशारद!।
स्नानाय गच्छसुभग! ऋषिसङ्घैः समावृतः।। १९२.९
मन्वत्रिकश्यपाश्चैव याज्ञवल्क्योशनोऽङ्गिराः।
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ।। १९२.१०
नारदो गौतमश्चैव सेवन्ते धर्म्मकाङ्क्षिणः।
गङ्गां कनखलं पुण्यं प्रयागं पुष्करं गयाम् ।। १९२.११
कुरुक्षेत्रं महापुण्यं राहुग्रस्ते दिवाकरे।
दिवा वा यदि वा रात्रौ शुक्लतीर्थं महाफलम् ।। १९२.१२
दर्शनात् स्पर्शनाच्चैव स्नानाद्दानात्तपोजपात्।
होमाच्चैवोपवासाच्च शुक्लतीर्थं महाफलम् ।। १९२.१३
शुक्लतीर्थं महापुण्यं नर्म्मदायां व्यवस्थितम्।
चाणक्यो नाम राजर्षिः सिद्धिं तत्र समागतः ।। १९२.१४
एतत् क्षेत्रं सुविपुलं योजनं वृत्तसंस्थितम्।
शुक्लतीर्थं महापुण्यं सर्वपापप्रणाशनम् ।। १९२.१५
पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति।
जगती दर्शनाच्चैव भ्रूणहत्यां व्यपोहति ।। १९२.१६
अहं तत्र ऋषिश्रेष्ठ! तिष्ठामि ह्युमया सह।
वैशाखे चैत्रमासे तु कृष्णपक्षे चतुर्दशी।। १९२.१७
कैलासाच्चापि निष्क्रम्य तत्र सन्निहितो ह्यहम्।
दैत्यदानवगन्धर्वाः सिद्धविद्याधरास्तथा ।। १९२.१८
गणाश्चाप्सरसो नागाः सर्वे देवाः समागताः।
गगनस्था तु तिष्ठन्ति विमानैः सार्वकामिकैः ।। १९२.१९
शुक्लतीर्थं तु राजेन्द्र! ह्यागता धर्मकाङ्क्षिणः।
रजकेन यथा वस्त्रं शुक्लम्भवति वारिणा ।। १९२.२०
आजन्मजनितं पापं शुक्लतीर्थं व्यपोहति।
स्नानं दानं महापुण्यं मार्कण्डे ऋषिसत्तम।। १९२.२१
शुक्लतीर्थात् परं तीर्थं न भूतं न भविष्यति।
पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।। १९२.२२
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति।
तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः ।। १९२.२३
देवार्चनेन या पुष्टिर्न सा क्रतुशतैरपि।
कार्तिकस्यतु मासस्य कृष्णपक्षे चतुर्दशी ।। १९२.२४
घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम्।
एकविंशकुलोपेतो न च्यवेदैश्वरात् पदात् ।। १९२.२५
शुक्लतीर्थं महापुण्यमृषिसिद्धनिषेवितम्।
तत्र स्नात्वा नरो राजन्! न पुनर्जन्मभाक् भवेत् ।। १९२.२६
स्नात्वा वै शुक्लतीर्थे तु ह्यर्चयेत् वृषभध्वजम्।
कपालपूरणं कृत्वा तुष्यत्यत्र महेश्वरः ।। १९२.२७
अर्द्धनारीश्वरं देवं पटे भक्त्या लिखापयेत्।
शङ्खतूर्यनिनादैश्च ब्रह्मघोषैश्च सद्विजैः ।। १९२.२८
जागरं कारयेत्तत्र नृत्यगीतादिमङ्गलैः।
प्रभाते शुक्लतीर्थे तु स्नानं वै देवतार्चनम् ।। १९२.२९
आचार्यान् भोजयेत् पश्चाच्छिवव्रतपरान् शुचीन्।
दक्षिणाञ्च यथाशक्ति वित्तशाठ्यं विवर्जयेत् ।। १९२.३०
प्रदक्षिणं ततः कृत्वा शनैर्देवान्तिकं व्रजेत्।
एवं वै कुरुते यस्तु तस्य पुण्यफलं श्रृणु। १९२.३१
दिव्ययानं समारुढ़ो गीयमानोऽप्सरोगणैः।
शिवतुल्य बलोपेतस्तिष्ठत्याभूतसंप्लवम् ।। १९२.३२
शुक्लतीर्थे तु या नारी ददाति कनकं शुभम्।
घृतेन स्नापयेद्देवं कुमारं चापि पूजयेत्।। १९२.३३
एवं या कुरुते भक्त्या तस्याः पुण्यफलं श्रृणु।
मोदते शर्वलोकस्था यावदिन्द्राश्चतुर्दश ।। १९२.३४
पौर्णमास्यां चतुर्दश्यां संक्रान्तौ विषुवे तथा।
स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ।। १९२.३५
दानं दद्याद्यथाशक्त्या प्रीयेता हरिशङ्करौ।
एवं तीर्थप्रभावेण सर्वं भवति चाक्षयम् ।। १९२.३६
अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा।
उद्वाहयति यस्तीर्थे तस्य पुण्यफलं श्रृणु।। १९२.३७
यावत्तद्रोमसंख्या च तत्प्रसूतिकुलेषु च।
तावद्वर्षसहस्राणि शिवलोके महीयते ।। १९२.३८