मत्स्यपुराणम्/अध्यायः ९४
नवग्रहस्वरूपवर्णनम्।
शिव उवाच।
पद्मासनः पद्मकरः पद्मगर्भसमद्युति।
सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात् सदा रविः।। ९४.१ ।।
श्वेतः श्वेताम्वरधरः श्वेताश्वः श्वेतवाहनः।
गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी।। ९४.२ ।।
रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः।
चतुर्भुजः श्वेतरोमा वरदः स्याद्वरासुतः।। ९४.३।।
पीतमाल्याम्बधरः कर्णिकारसमद्युतिः।
खङ्गचर्म्मगदापाणिः सिंहस्थो वरदो बुधः।। ९४.३ ।।
देवदैत्यगुरू तद्वत्पीतश्वेतो चतुर्भुजौ।
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू।। ९४.५ ।।
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः।
बाणबाणासनधरः कर्तव्योऽर्कसुतस्तथा।।९४.६ ।।
नीलसिंहासनस्थश्च राहुरत्र प्रशस्यते।
धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः।।
गृध्रासनगता नित्यं केतवः स्युर्वरप्रदाः।। ९४.७ ।।
सर्वे किरीटिनः कार्य्या ग्रहलोकहितावहाः।
ह्यङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदा।। ९४.८ ।।