मत्स्यपुराणम्/अध्यायः १०३
नन्दिकेश्वर उवाच।
अतः परं प्रवक्ष्यामि प्रयागस्योपवर्णनम्।
मार्कण्डेयेन कथितं यत् पुरा पाण्डुसूनवे॥ १०३.१ ॥
भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते।
एतस्मिन्नन्तरे राजा कुन्तिपुत्रो युधिष्ठिरः॥ १०३.२ ॥
भातृशोकेन सन्तप्तश्चिन्तयन् स पुनः पुनः।
आसीत् सुयोधनो राजा एकादशचमूपतिः॥ १०३.३ ॥
अस्मान् सन्ताप्य बहुशः सर्वे ते निधनं गताः।
वासुदेवं समाश्रित्य प़ञ्चशेषास्तु पाण्डवाः॥ १०३.४ ॥
हत्वा भीष्मं च द्रोणञ्च कर्णं चैव महाबलम्।
दुर्योधनं च राजानं पुत्रभ्रातृसमन्वितम्॥ १०३.५ ॥
राजानो निहताः सर्वे ये चान्ये शूरमानिनः।
किन्नो राज्येन गोविन्द! किम्भोगैर्जीविते न वा॥ १०३.६ ॥
धिक्कष्टमिति सञ्चिन्त्य राजा वैक्लव्यमागतः।
निर्विचेष्टो निरुत्साहः किञ्चित्तिष्ठत्यधोमुखः॥ १०३.७ ॥
लब्धसंज्ञो यदा राजा चिन्तयन् स पुनः पुनः।
कतरो विनियोगो वानियमं तीर्थमेव च॥ १०३.८ ॥
येनाहं शीघ्रमामुञ्चे महापातककिल्बिषात्।
यत्र स्थित्वा नरो याति विष्णुलोकमनुत्तमम्॥ १०३.९ ॥
कथं पृच्छामि वै कृष्णं येनेदङ्कारितोऽस्म्यहम्।
धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम्॥ १०३.१० ॥
एवं वैक्लव्यमापन्नो धर्म्मराजो युधिष्ठिरः।
रुदन्ति पाण्डवाः सर्वे भ्रातृशोकपरिप्लुताः॥ १०३.११ ॥
ये च तत्र महात्मानः समेताः पाण्डवाः स्मृताः।
कुन्ती च द्रौपदीचैव ये च तत्र समागताः।
भूमौ निपतिताः सर्वे रुदन्तस्तु समन्ततः॥ १०३.१२ ॥
वाराणस्यां मार्कण्डेयस्तेन ज्ञातो युधिष्ठिरः।
यथा वैक्लव्यमापन्नो रुदमानस्तुदुःखितः॥ १०३.१३ ॥
अचिरेणैव कालेन मार्कण्डेयो महातपाः।
संप्राप्तो हस्तिनपुरं राजद्वारे ह्यतिष्ठत॥ १०३.१४ ॥
द्वारपालोऽपि तं द्रृष्ट्वा राज्ञः कथितवान् द्रुतम्।
त्वां द्रष्टुकामो मार्कण्डो द्वारि तिष्ठत्यसौ मुनिः।
त्वरितो धर्म्मपुत्रस्तु द्वारमागादतः परम्॥ १०३.१५ ॥
स्वागतं ते महाभाग! स्वागतं ते महामुने।
अद्य मे सफलं जन्म अद्य मे तारितं कुलम्॥ १०३.१६ ॥
अद्य मे पितरस्तुष्टास्त्वयि द्रृष्टे महामुने।
अद्याहं पूतदेहोऽस्मि यत्त्वया सहदर्शनम्॥ १०३.१७ ॥
नन्दिकेश्वर उवाच।
सिंहासने समास्थाप्य पादशौचार्चनादिभिः।
युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम्॥ १०३.१८ ॥
ततः सुतुष्टो मार्कण्डः पूजितश्चाह तं नृपम्।
आख्याहि त्वरितं राजन्! किमर्थं रुदितं त्वया।
केन वा विक्लवीभूतः का बाधा ते किमप्रियम्॥ १०३.१९ ॥
युधिष्ठिर उवाच।
अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने।
एतत् सर्वं विदित्वा तु चिन्तावशमुपागतः॥ १०३.२० ॥
मार्कण्डेय उवाच।
श्रृणु राजन्! महाबाहो! क्षत्रधर्मव्यवस्थितम्।
नैव द्रृष्टं रणे पापं युद्धमानस्य धीमतः॥ १०३.२१ ॥
किम्पुना राजधर्मेण क्षत्रियस्य विशेषतः।
तदेवं हृदयं कृत्वा तस्मात् पापं न चिन्तयेत्॥ १०३.२२ ॥
ततो युधिष्ठिरो राजा प्रणम्य शिरसामुनिम्।
पप्रच्छविनयोपेतः सर्वपातकनाशनम्॥ १०३.२३ ॥
पृच्छामि त्वां महाप्राज्ञ! नित्यं त्रैलोक्यदर्शिनम्।
कथय त्वं समासेन येन मुच्येत किल्बिषात्॥ १०३.२४ ॥
मार्कण्डेय उवाच।
श्रृणु राजन्। महाबाहो सर्वपातकनाशम्।
प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्म्मणाम्॥ १०३.२५ ॥