मत्स्यपुराणम्/अध्यायः ११८
हिमवत्प्रदेशवर्णनम्।
सूत उवाच।
तस्यैव पर्वतेन्द्रस्य प्रदेशं सुमनोरमम्।
अगम्यं मानुषैरन्यैर्दैवयोगादुपागतः।। ११८.१ ।।
ऐरावती सरिच्छ्रेष्ठा यस्माद्देशाद्विनिर्गता।
मेघश्यामञ्च तं देशन्द्रुमखण्डैरनेकशः।। ११८.२ ।।
शालैस्तालैस्तमालैश्च कर्णिकारैः सशामलैः।
न्यग्रोधैश्च तथाश्वत्थैः शिरीषैः शिंशपाद्रुमैः।। ११८.३ ।।
महानिम्बैस्तथा निम्बैर्निर्गुण्डीभिर्हरिद्रुमैः।
देवदारुमहावृक्षैस्तथा कालेयकद्रुमैः।। ११८.४ ।।
पद्मकैश्चन्दनैर्बिल्वैः कपित्थैः रक्तचन्दनैः।
वाताम्रारिष्टकाक्षोटैरब्दकैश्च तथार्जुनैः।। ११८.५ ।।
हस्तिकर्णैः सुमनसै) कोविदारैः सुपुष्पितैः।
प्राचीनामलकैश्चापि धनकैः समराटकैः।। ११८.६ ।।
खर्जूरैर्नारिकेलैश्च प्रियाल्वाम्रातकेङ्गुदैः।
तन्तुमालैर्धवैर्भव्यैः काश्मीरीपणिभिस्तथा।। ११८.७ ।।
जातीफलैः पूगफलैः कट्फलैलावलीफलैः।।
मन्दारैः कोविदारैश्च किंशुकैः कुसुमांशुकैः।। ११८.८ ।।
यवासैः शमिपर्णासैर्वेतसैरम्बुवेतसैः।
रक्तातिरङ्गनारङ्गै र्हिङ्गुभिः सप्रियङ्गुभिः।। ११८.९ ।।
रक्ताशोकैस्तथाशोकैराकल्लैरविचारकैः।
मुचकुन्दैस्तथा कुन्दैराटरूषपरूषकैः।। ११८.१० ।।
किरातैः किङ्किरातैश्च केतकैः श्वेतकेतकैः।
सौभाञ्जनैरञ्जनैश्च सुकलिङ्गनिकोटकैः।। ११८.११ ।।
सुवर्णचारुवसनैर्द्रुमश्रेष्ठैस्तथासनैः।
मन्मथस्य शराकारैः सहकारैर्मनोरमैः।। ११८.१२ ।।
पीतयूथिकया चैव श्वेतयूथिकया तथा।
जात्या चम्पकजात्या च तुम्बरैश्चाप्यतुम्बरैः।। ११८.१३ ।।
मोचैर्लोचैस्तु लिकुचैस्तिलपुष्पकुशेशयैः।
तथा सुपुष्पावरणैः चव्यकैः कामिवल्लभैः।। ११८.१४ ।।
पुष्पाङ्कुरैश्च वकुलैः पारिभद्रहरिद्रकैः।
धाराकदम्बैः कुटजैः कदम्बैर्गिरिकूटजैः।। ११८.१५ ।।
आदित्यमुस्तकैः कुम्भैः कुङ्कुमैः कामवल्लभैः।
कट्फलैर्वदरैर्नीपैदीपैरिव महोज्ज्वलैः।। ११८.१६ ।।
रक्तैः पालीवनैः श्वेतैर्दाड़िमैश्चम्पकद्रुमैः।
बन्धूकैश्च सुबन्धूकैः कुञ्जकानान्तु जातिभिः।। ११८.१७ ।।
कुसुमैः पाटलाभिश्च मल्लिकाकारवीरकैः।
कुरवकैर्हिमवरैर्जम्बुभिर्नृपजम्बुभिः।। ११८.१८ ।।
बीजपूरैः सकर्पूरैर्गुरूभिश्चागुरुद्रुमैः।
बिम्बैश्च प्रतिबिम्बैश्च सन्तानकवितानकैः।। ११८.१९ ।।
तथा गुग्गुलवृक्षैश्च हिन्तालधवलेक्षुभिः।
तृणशून्यैः करवीरैरशोकैश्चक्रमर्दनैः।। ११८.२० ।।
पीलुभिर्धातकीभिश्च चिरिबिल्वैः समाकुलैः।
तिन्तिड़ीकैस्तथालोध्रैर्विडङ्गैः क्षीरिकाद्रुमैः।। ११८.२१ ।।
अश्मन्तकैस्तथा कालैर्जम्बीरैः श्वेतकद्रुमैः।
भल्लातकैरिन्द्रयवैर्वल्गुजैः सिद्धिसाधकैः।। ११८.२२ ।।
करमर्दैः कासमर्दैरविष्टकवरिष्टकैः।
रुद्राक्षैर्द्राक्षसम्भूतैः सप्ताह्वैः पुत्रजीवकैः।। ११८.२३ ।।
कङ्कोलैर्लवङ्गैश्च त्वग्द्रुमैः पारिजातकैः।
प्रतानैः पिप्पलीनाञ्च नागवल्यश्चभागशः।। ११८.२४ ।।
मरीचस्य तथा गुल्मैर्नवमल्लिकया तथा।
मृद्वीकामण्डपैर्मुख्यैरतिमुक्तकमण्डपैः।। ११८.२५ ।।
त्रपुसैर्नर्तिकानाञ्च प्रतानेः सफलैः शुभैः।
कूष्माण्डानां प्रतानैश्च अलाबूनां तथा क्वचित्।। ११८.२६ ।।
चिर्भिटस्य प्रतानैश्च पटोलीकारवल्लिकैः।
कर्कोटकीवितानैश्च वार्ताकैर्बृहतीफलैः।। ११८.२७ ।।
कण्टकैर्मूलकैर्मूलशाकैस्तु विविधैस्तथा।
कह्वारैश्च विदार्या च रुरूटैः स्वादुकण्टकैः।। ११८.२८ ।।
सभण्डीरविदूसारराजजम्बुकवालुकैः।
सुवर्चलाभिः सर्वाभिः सर्षपाभिस्तथैव च।। ११८.२९ ।।
काकोलीक्षीरकाकोलीच्छत्रया चातिच्छत्रया।
कासमर्दीसहासद्भिः शकन्दलसकाण्डकैः।। ११८.३० ।।
तथा क्षीरकशाकेन कालशाकेन चाप्यथ।
शिम्बिधान्यैस्तथाधान्यै सर्वैर्निरवशेषितः।। ११८.३१ ।।
औषधीभिर्विचित्राभिर्दीप्यमानाभिरेव च।
आयुष्याभिर्यशस्याभिर्बल्याभिश्च नराधिप।। ११८.३२ ।।
जरामृत्युभयघ्नीभिः क्षद्भयघ्नीभिरेव च।
सौभाग्यजननीभिश्च कृत्स्नाभिश्चाप्यनेकशः।। ११८.३३ ।।
तत्र वेणुलताभिश्च तथा कीचकवेणुभिः।
काशैः शशाङ्ककाशैश्च शरगुल्मैस्तथैव च।। ११८.३४ ।।
कुशगुल्मैस्तथा रम्यैर्गुल्मैश्चेक्षोर्मनोरमैः।
कार्पासजातिवर्गेण दुर्लभेन शुभेन च।। ११८.३५ ।।
तथा च कदलीखण्डैर्मनोहारिभिरुत्तमैः।
तथा मरकतप्रख्यैः प्रदेशैः शाद्वलान्वितैः।। ११८.३६ ।।
इरापुष्पसमायुक्तैः कुङ्कुमस्य च भागशः।
तगरातिविषामांसीग्रन्थकैस्तु सुरागदैः।। ११८.३७ ।।
सुवर्णपुष्पैश्च तथा भूमिपुष्पैस्तथापरैः।
जम्बीरकैर्भूस्तृणकैः सरसैः सशुकैस्तथा।। ११८.३८ ।।
शृङ्गवेराजमोदाभिः कुबेरकप्रियालकैः।
जलजैश्च तथा वर्णैर्नानावर्णैः सुगन्धिभिः।। ११८.३९ ।।
उदयादित्यसङ्काशैः सूर्य्यचन्द्रनिभैस्तथा।
तपनीयसवर्णैश्च अतसीपुष्पसन्निभैः।। ११८.४० ।।
शुकपत्रनिभैश्चान्यैः स्थलपत्रैश्च भागशः।
पञ्चवर्णैः समाकीर्णैर्बहुवर्णैस्तथैव च।। ११८.४१ ।।
द्रष्टुर्द्रृष्ट्या हितमुदैः कुमुदैश्चन्द्रसन्निभैः।
तथा वह्निशिखाकारैर्गजवक्त्रोत्पलैः शुभैः।। ११८.४२ ।।
नीलोत्पलैः सकर्पूरैर्गुञ्जातककसेरुकैः।
श्रृङ्गाटकमृणालैश्च करटै राजतोत्पलैः।। ११८.४३ ।।
जलजैः स्थलजैर्मूलैः फलैः पुष्पैर्विशेषतः।
विविधैश्चैव नीवारैर्मुनिर्भोज्यैर्नराधिप ।। ११८.४४ ।।
न तद् धान्यं न तच्छस्यां न तच्छाकं न तत् फलम्।
न तन्मूलं न तत् कन्दं न तत् पुष्पं नराधिप।। ११८.४५ ।।
नागलोकोद्भवं दिव्यं नरलोकभवञ्च यत्।
अनूपोत्थं वनोत्थञ्च तत्र यन्नास्ति पार्थिव।। ११८.४६ ।।
सदा पुष्पफलं सर्वमजर्यमृतुयोगतः।
मद्रेश्वरः स दद्रृशे तपसा ह्यतियोगतः।। ११८.४७ ।।
दद्रृशे च तथा तत्र नानारूपान् पतत्त्रिणः।
मयूरान् शतपत्रांश्च कलविङ्कांश्च कोकिलान्।। ११८.४८ ।।
तदा कादम्बकान् हंसान् कोयष्टीन् खञ्जरीटकान्।
कुररान् कालकूटांश्च खट्वाङ्गान् लुब्धकांस्तथा।। ११८.४९ ।।
गोक्ष्वेडकान् तथा कुम्भान् धार्तराष्ट्रान् शुकान् बकान्।
धातुकांश्चक्रवाकांश्च कटुकान् टिट्टिभान् भटान्।। ११८.५० ।।
पुत्रप्रियान् लोहपृष्ठान् गोचर्मगिरिवर्तकान्।
पारावतांश्चकमलान्सारिकाजीवजीवकान्।। ११८.५१ ।।
लाववर्तकवार्ताकान् रक्तवर्त्म प्रभद्रकान्।
ताम्रचूडान् स्वर्णचूडान् कुक्कुटान् काष्ठकुक्कुटान्।। ११८.५२ ।।
कपिञ्जलान् कलविङ्कान् तथा कुङ्कुमचूड़कान्।
भृङ्गराजान् सीरपादान् भुलिङ्गान् डिण्डिमान् नवान्।। ११८.५३ ।।
मञ्जुलीतकदात्यूहान् भारद्वाजांस्तथाचषान्।
एतांश्चान्यांश्च सुबहून् पक्षिसङ्घान् मनोहरान्।। ११८.५४ ।।
श्वापदान् विविधाकारान् मृगांश्चैव महामृगान्।
व्याघ्रान् केसरिणः सिंहान् द्वीपिनः शरभान् वृकान्।। ११८.५५ ।।
ऋक्षांस्तरक्षूंश्च बहून् गोलाङ्गूलान् सवानरान्।
शशलोमान् सकादम्बान् मार्जारान् वायुवेगिनः।। ११८.५६ ।।
तथा मत्तांश्च मातङ्गान् महिषान् गवयान् वृषान्।
चमरान् सृमरांश्चैव तथा गौरखरानपि।। ११८.५७ ।।
उरभ्रांश्च तथा मेषान् सारङ्गानथ कुकूरान्।
नीलांश्चैव महानीलान् करालान् मृगमातृकान्।। ११८.५८ ।।
सदंष्ट्रा रामसरभान् कौञ्चाकारकशम्वरान्।
करलान् कृतमालांश्च कालपुच्छांश्च तोरणान्।। ११८.५९ ।।
दंष्ट्रान् खङ्गान् वराहांश्च तुरङ्गान् खरगर्दभान्।
एतानद्विष्टान् मद्रेशो विरुद्धांश्च परस्परम्।। ११८.६० ।।
अविरुद्धान् वने द्रृष्ट्वा विस्मयं परमं ययौ।
तच्चाश्रमपदं पुण्यं बभूवात्रेः पुरा नृप।। ११८.६१ ।।
तत्प्रसादात् प्रभायुक्तं स्तावरैर्जङ्गमैस्तथा।
हिंसन्ति हि नचान्योन्यं हिंसकास्तु परस्परम्।। ११८.६२ ।।
क्रव्यादाः प्राणिनस्तत्र सर्वे क्षीरफलाशनाः।
निर्मितास्तत्र चात्यर्थमत्रिणा सुमहात्मना।। ११८.६३ ।।
शैलान् नितम्बदेशेषु न्यवसच्च स्वयं नृपः।
पयः रक्षन्ति ते दिव्यममृतस्वादुकण्टकम्।। ११८.६४ ।।
क्वचिद्राजन्! महिष्यश्च क्वचिदाजाश्च सर्वशः।
शिलाः क्षीरेण संपूर्णाः दध्नाचान्यत्रवां बहिः।। ११८.६५ ।।
सम्पश्यन् परमां प्रीतिमवाप वसुधाधिपः।
सरांसि तत्र दिव्यानि नद्यश्च विमलोदकाः।। ११८.६६ ।।
प्रणालिकानि चोष्णानि शीतलानि च भागशः।
कन्दराणि च शैलस्य सुसेव्यानि पदे पदे।। ११८.६७ ।।
हिमपातो न तत्रास्ति समन्तात् पञ्च योजनम्।
उपत्यका सुशैलस्य शिखरस्य न विद्यते।। ११८.६८ ।।
तत्रास्ति राजन्! शिखरं पर्वतेन्द्रस्य पाण्डुरम्।
हिमपातङ्गनायत्र कुर्वन्तिसहिताः सदा।। ११८.६९ ।।
तत्रास्ति चापरं श्रृङ्गं यत्र तोयघनाघनाः।
नित्यमेवाभिवर्षन्ति शिलाभिः शिखरं वरम्।। ११८.७० ।।
तदाश्रमं मनोहारि यत्र कामधरा धरा।
सुरमख्योपयोगित्वात् शाखिनां सफलाः फलाः।। ११८.७१ ।।
सदोपगीतभ्रमरं सुरस्त्रीसेवितं परम्।
सर्वपापक्षयकरं शैलस्येव प्रहारकम्।। ११८.७२ ।।
वानरैः क्रीडमानैश्च दैशाद्देशान्नराधिप।
हिमपुञ्जाः कृतास्तत्र चन्द्रबिम्बसमप्रभाः।। ११८.७३ ।।
तदाश्रमं समन्ताच्च हिमसंरुद्धकन्दरैः।
शैलवाटैः परिवृतमगम्यमनुजैः सदा।। ११८.७४ ।।
पूर्वाराधितभावोऽसो महाराजः पुरूरवाः।
तदाश्रमपदं प्राप्तो देवदेवप्रसादतः।। ११८.७५ ।।
तदाश्रमं श्रमशमनं मनोहरं मनोहरैः कुसुमशतैरलङ्कृतम्।
कृतं स्वयं रुचिरमथात्रिणा शुभं शुभावहं हि दद्रृशे स मद्रराट्।। ११८.७६ ।।