मत्स्यपुराणम्/अध्यायः १७१
ब्रह्मणस्तपश्चर्य- वर्णनम्।
मत्स्य उवाच।
स्थित्वा च तस्मिंस्तुमुले ब्रह्मा ब्रह्मविदाम्वरः।
ऊर्द्वबाहुर्महातेजास्तपो घोरं समाश्रितः ।। १७१.१ ।।
प्रज्वलन्निव तेजोभिर्भाभिः स्वाभिस्तमोनुदः।
बभासे सर्वधर्म्मस्थः सहस्रांशुरिवांशुभिः ।। १७१.२ ।।
अथान्यद्रूपमास्थाय शम्भुर्नारायणोऽव्ययः।
आजगाम महातेजा योगाचार्यो महायशाः ।। १७१.३ ।।
सांख्याचार्यो हि मतिमान् कपिलो ब्राह्मणो वरः।
उभावपि महात्मानौ स्तुवन्तौ क्षेत्रतत्परौ ।। १७१.४ ।।
तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम्।
परावरविशेषज्ञौ पूजितौ च महर्षिभिः ।। १७१.५ ।।
ब्रह्मात्मदृढबन्धश्च विशालो जगदास्थितः।
ग्रामणीः सर्वभूतानां ब्रह्मा त्रैलोक्यपूजितः ।। १७१.६ ।।
तयोस्तद्वचनं श्रुत्वा विप्रोऽभ्याहृतयोगवित्।
त्रीनिमान् कृतवान् लोकान्यथेयं ब्रह्मणः श्रुतिः ।। १७१.७ ।।
पुत्रञ्च सम्भवे चैकं समुत्पादितवानृषिः।
तस्याग्रे वाग्यतस्तस्थौ ब्रह्माणमजमव्ययम् ।। १७१.८ ।।
सोत्पन्नमात्रो ब्रह्माणमुक्तवान् मानसः सुतः।
किं कुर्मस्तवसाहाय्यं ब्रवीतु भगवानृषिः ।। १७१.९ ।।
ब्रह्मोवाच।
य एष कपिलो ब्रह्मा नारायणमयस्तथा।
वदते भवतस्तत्वं तत् कुरुष्व महामते ।। १७१.१० ।।
ब्रह्मणस्तु तदर्थन्तु तदा भूयः समुत्थितः।
शुश्रूषुरस्मि युवयोः किं करोमि कृताञ्जलि ।। १७१.११ ।।
श्रीभगवानुवाच।
यत् सत्यमक्षरं ब्रह्मन्! अष्टादशविधन्तु तत्।
यत् सत्यं यदृतं तत्तु परं पदमनुस्मर ।। १७१.१२ ।।
एतद्वचो निशम्यैव ययौ स विशमुत्तराम्।
गत्वा च तत्र ब्रह्मत्वमगमत् ज्ञानतेजसा ।। १७१.१३ ।।
ततो ब्रह्मा भुवन्नाम द्वितीयमसृजत् प्रभुः।
सङ्कल्पयित्वा मनसा तमेव च महात्मना।। १७१.१४ ।।
ततः सोऽथ ब्रवीद्वाक्यं किं करोमि पितामह!।
पितामहसमाज्ञातो ब्रह्माणं समुपस्थितः ।। १७१.१५ ।।
ब्रह्माभ्यासन्तु कृतवान् भुवश्च पृथिवीं गतः।
प्राप्तश्च परमं स्थानं स तयोः पार्श्वमागतः ।। १७१.१६ ।।
तस्मिन्नपि गते पुत्रे तृतीयमसृजत् प्रभुः।
सांख्यप्रवृत्तिकुशलं भूर्भुवं नामतो विभुम् ।। १७१.१७ ।।
गोपतित्वं समासाद्य तयोरेवागमद् गतिम्।
एवं पुत्रास्त्रयोऽप्येते उक्ताः शम्भोर्महात्मनः ।। १७१.१८ ।।
तान् गृहीत्वा सुतांस्तस्य प्रयातः स्वार्जिताङ्गतिम्।
नारायणश्च भगवान् कपिलश्च यतीश्वरः ।। १७१.१९ ।।
यङ्कालन्तौ गतौ मुक्तौ ब्रह्मा तं कालमेव हि।
ततो घोरतमम्भूयः संश्रितः परमं व्रतम् ।। १७१.२० ।।
न रेमेऽथ ततो ब्रह्मा प्रभुरेकस्तपश्चरन्।
शरीरात्तां ततो भार्यां समुत्पादितवान् शुभाम् ।। १७१.२१ ।।
तपसा तेजसा चैव वर्चसा नियमेन च।
सदृशीमात्मनो देवीं समर्थां लोकसर्जने ।। १७१.२२ ।।
ततो जगाद त्रिपदां गायत्रीं वेदपूजिताम्।
सृजन् प्रजानां पतयः सागरांश्चासृजद्विभिः ।। १७१.२३ ।।
ततो जगाद त्रिपदां गायत्रीं वेदपूजिताम्।
अपरांश्चैव चतुरो वेदान् गायत्रि सम्भवान्।। १७१.२४ ।।
आत्मनः सदृशान् पुत्रानसृजद्वै पितामहः।
विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः ।। १७१.२५ ।।
विश्वेशं प्रथमं तावन्महातापसमात्मजम्।
सर्वमन्त्रहितं पुण्यं नाम्ना धर्मं स सृष्टवान् ।। १७१.२६ ।।
दक्षं मरीचिमत्रिञ्च पुलस्त्यं पुलहं क्रतुम्।
वसिष्ठं गौतमञ्चैव भृगु अङ्गिरसम्मनुम् ।। १७१.२७ ।।
अथैवाद्भुतमित्येते ज्ञेयाः पैतामहर्षयः।
त्रयोदशगुणं धर्ममालभन्त महर्षयः ।। १७१.२८ ।।
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः।
ताम्रा क्रोधाथ सुरसा विनता कद्रुरेवच ।। १७१.२९ ।।
दक्षस्यापत्यमेता वै कन्या द्वादश पार्थिव!।
मरीचेः कश्यपः पुत्रस्तपसा निर्मितः किल ।। १७१.३० ।।
तस्मै कन्या द्वादशान्या दक्षस्ताः प्रददौ तदा।
नक्षत्राणि च सोमाय तदा वै तत्तवानृषिः ।। १७१.३१ ।।
रोहिण्यादीनि सर्वाणि पुण्यानि रविनन्दन!।
लक्ष्मी मरुत्वती साध्या विश्वेशा च मता शुभा ।। १७१.३२ ।।
देवी सरस्वती चैव ब्रह्मणा निर्मिताः पुराः।
एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय पार्थिव!।। १७१.३३ ।।
दत्ता भद्राय धर्माय ब्रह्मणा विश्वकर्मणा।
या रूपार्द्धवती पत्नी ब्रह्मणः कामरूपिणी ।। १७१.३४ ।।
सुरभिः सा हिता भूत्वा ब्रह्माणं समुपस्तिता।
ततस्तामगमद् ब्रह्मा मैथुनं लोकपूजितः ।। १७१.३५ ।।
लोकसर्जनहेतुज्ञो गवामर्थाय सत्तमः।
जज्ञिरे च सुतास्तस्यां विपुला धूमसन्निभाः ।। १७१.३६ ।।
नक्तसन्ध्याभ्रसङ्काशाः प्रादहंस्तिग्मतेजसः।
ते रुदन्तो द्रवन्तश्च गर्हयन्तः पितामहम् ।। १७१.३७ ।।
रोदनाद् द्रवणाच्चैव रुद्रा इति ततः स्मृताः।
निर्ऋतिश्चैव शम्भुर्वै तृतीयश्चापराजितः ।। १७१.३८ ।।
मृगव्याधः कपर्दी च दहनोऽथ खरश्च वै।
अहिर्बुध्न्यश्च भगवान् कपाली चापि पिङ्गलः ।। १७१.३९ ।।
सेनानीश्च महातेजा रुद्रास्त्वेकादश स्मृताः।
तस्यामेव सुरभ्याञ्च गावो यज्ञेश्वराश्च वै ।। १७१.४० ।।
प्रकृष्टाश्च तथा मायाः सुरभ्याः पशवोऽक्षराः।
अजाश्चैव तु हंसाश्च तथैवामृतमुत्तमम् ।। १७१.४१ ।।
ओषध्यः प्रवरायाश्च सुरभ्यास्ताः समुत्थिताः।
धर्माल्लक्ष्मीस्तथा कामं साध्या साध्यान् व्यजायत ।। १७१.४२ ।।
भवञ्च प्रभवञ्चैव हीशञ्चासुरहं तथा।
अरुण्यं चारुणिञ्चैव विश्वावसु बलध्रुवौ ।। १७१.४३ ।।
हविष्यञ्च वितानञ्च विधानशमितावपि।
वत्सरञ्चैव भूतिञ्च सर्वासुर निषूदनम् ।। १७१.४४ ।।
सुपर्वाणं बृहत्कान्तिः साध्या लोकनमस्कृता।
तमेवानुगता देवो जनयामास वै सुरान् ।। १७१.४५ ।।
वरं वै प्रथमन्देवं द्वितीयं ध्रुवमव्ययम्।
विश्वावसुं तृतीयञ्च चतुर्थं सोममीश्वरम् ।। १७१.४६ ।।
ततोऽनुरूपमायञ्च यमस्तस्मादनन्तरम्।
सप्तमञ्च तथा वायुमष्टमन्निर्ऋतिं वसुम् ।। १७१.४७ ।।
धर्मस्यापत्यमेतद्वै सुदेव्यां समजायत।
विश्वेदेवाश्च विश्वायां धर्माज्जाता इति श्रुतिः ।। १७१.४८ ।।
दक्षश्चैव महाबाहुः पुष्करस्वन एव च।
चाक्षुषस्तु मनुश्चैव तथा मधुमहोरगौ ।। १७१.४९ ।।
विश्वन्तश्च वसुर्बाल्ला विस्कम्भश्च महायशाः।
गरुड़श्चातिसत्वौजा भास्कर प्रतिमद्युतिः ।। १७१.५० ।।
विश्वान् देवान् देवमाता विश्वेशाजनयत् सुतान्।
मरुत्वती मरुत्वमो देवानजनयत् सुतान् ।। १७१.५१ ।।
अग्निं चक्षूरविर्ज्योतिः सावित्रं मित्रमेव च।
अमरं शरवृष्टिञ्च सुकर्षञ्च महाभुजम्।। १७१.५२ ।।
विराजञ्चैव वाचञ्च विश्वावसुमतिं तथा।
अश्वमित्रं चित्ररश्मिन्तथा निषधनं नृप! ।। १७१.५३ ।।
हूयन्तं वाडवञ्चैव चारित्रं मन्दपन्नगम्।
बृहन्तं वै बृहद्रूपं तथा वै पूतनानुगम् ।। १७१.५४ ।।
मरुत्वती पुरा जज्ञे एतान्वै मरुताङ्गणान्।
अदितिः कश्यपाज्जज्ञे आदित्यान् द्वादशैव हि ।। १७१.५५ ।।
इन्द्रो विष्णुर्भगस्त्वष्टा वरुणो ह्यर्यमा रविः।
पूषा मित्रश्च धनदो धाता पर्जन्य एव च ।। १७१.५६ ।।
इत्येते द्वादशादित्या वरिष्ठास्त्रि दिवौकसः।
आदित्यस्य सरस्वत्यां जज्ञाते द्वौ सुतौ वरौ ।। १७१.५७ ।।
तपःश्रेष्ठौ गुणिश्रेष्ठौ त्रिदिवस्यापि सम्मतौ।
दनुस्तु दानवान् जज्ञे दितिर्दैत्यान् व्यजायत ।। १७१.५८ ।।
काला तु वै कालकेयानसुरान् राक्षसांस्तु वै।
अनायुषायास्तनया व्याधयः सुमहाबलाः ।। १७१.५९ ।।
सिंहिका ग्रहमाता वै गन्धर्व जननी मुनिः।
ताम्रा त्वप्सरसां माता पुण्यानां भारतोद्भव! ।। १७१.६० ।।
क्रोधायाः सर्वभूतानि पिशाचाश्चैव पार्थिव!।
व्जज्ञे यक्षगणांश्चैव राक्षसांश्च विशाम्पते! ।। १७१.६१ ।।
चतुष्पदानि सत्वानि तथा गावस्तु सौरसाः।
सुपर्णान् पक्षिणश्चैव विनता चाप्यजायत ।। १७१.६२ ।।
महीधरान् सर्वनागान् देवी कद्रूः व्यजायत।
एवं वृद्धिं समगमन् विश्वे लोकाः परन्तप! ।। १७१.६३ ।।
तदा वै पौष्करो राजन्! प्रादुर्भावो महात्मनः।
प्रादुर्भावः पौष्करोस्ते मया द्वैपायनेरितः ।। १७१.६४ ।।
पुराणः पुरुषश्चैव मया विष्णुर्हरिः प्रभुः।
कथितस्तेऽनु पूर्वेण संस्तुतः परमर्षिभिः ।। १७१.६५ ।।
यश्चेदमग्रयं श्रृणुयात् पुराणं सदा नरः पर्वसु गौरवेण।
अवाप्य लोकान् स हि वीतरागः परत्र च स्वर्गफलानि भुङ्क्ते ।। १७१.६६ ।।
चक्षुषा मनसा वाचा कर्म्मणा च चतुर्विधम्।
प्रसादयति यः कृष्णं तं कृष्णोऽनु प्रसीदति ।। १७१.६७ ।।
राजा च लभते राज्यमधनश्चोत्तमन्धनम्।
क्षीणायुर्लभते चायुः पुत्रकामः सुतन्तथा ।। १७१.६८ ।।
यज्ञा वेदास्तथा कामास्तपांसि विविधानि च।
प्राप्नोति विविधं पुण्यं विष्णुभक्तो धनानि च ।। १७१.६९ ।।
यद्यत् कामयते किञ्चित् तत्तल्लोकेश्वराद् भवेत्।
सर्वं विहाय य इमं पठेत् पौष्करकं हरेः ।। १७१.७० ।।
प्रादुर्भावं नृपश्रेष्ठ! न तस्य ह्यशुभं भवेत्।
एष पौष्करको नाम प्रादुर्भावो महात्मनः ।।
कीर्तितस्ते महाभाग! व्यास श्रुति निदर्शनात् ।। १७१.७१ ।।