मत्स्यपुराणम्/अध्यायः २७२
कलौ भाविनृपान्वयवर्णनम्।
सूत उवाच।
बृहद्रथेष्वतीतेषु वीतिहोत्रेष्ववन्तिषु।
पुलकः स्वामिनं हत्वा स्वपुत्रमभिषेक्ष्यति ।। २७२.१
मिषतां क्षत्रियाणाञ्च बालकः पुलकोद्भवः।
स वै प्रणतसामन्तो भविष्यो न च धर्मतः ।। २७२.२
त्रयोविंशत् समाराजा भविता स नरोत्तमः।
अष्टाविंशतिवर्षाणि पालको भविता नृपः ।। २७२.३
विशाखयूपो भविता त्रिपञ्चाशत्तता समाः।
एकविंशत्समा राजा सूर्यकस्तु भविष्यति ।। २७२.४
वाराणस्यां सुतं स्थाप्य श्रयिष्यति गिरिव्रजम्।
शिशुनाकस्तु वर्षाणि चत्वारिंशद्भविष्यति ।। २७२.५
काकवर्णः सुतस्तस्य षड्विंशत् प्राप्स्यते महीम् ।
षट्त्रिंशच्चैव वर्षाणि क्षेमधोमा भविष्यति ।। २७२.६
चतुर्विंशत्समाः सोऽपि क्षेमजित्प्राप्स्यते महीम् ।
अष्टाविंशति वर्षाणि विन्ध्यसेनो भविष्यति ।। २७२.७
भविष्यति समाराजा नवकाण्वायनो नृपः।
भूमिमित्रः सुतस्तस्य चतुर्दश भविष्यति ।। २७२.८
अजातशत्रुर्भविता सप्तविंशत् समानृपः।
चतुर्विंशत्समा राजा वंशकस्तु भविष्यति ।। २७२.९
उदासी भविता तस्मात्त्रयस्त्रिंशत्समानृपः।
चत्वारिंशत्समाभाव्यो राजा वै नन्दिवर्द्धनः ।। २७२.१०
चत्वारिंशत्त्रयश्चैव महानन्दी भविष्यति।
इत्येते भवितारो वै दश द्वौ शिशुनाकजाः ।। २७२.११
शतानि त्रीणिपूर्णानि षष्टिवर्षाधिकानि तु।
शिशुनाका भविष्यन्ति राजानः क्षत्रबन्धवः ।। २७२.१२
एतैः सार्द्धं भविष्यन्ति यावत्कलिनृपाः परे।
तुल्यकालं भविष्यन्ति सर्वे ह्येते महीक्षितः ।। २७२.१३
चतुर्विंशत्तथैक्ष्वाकाः पाञ्चालाः सप्तविशतिः।
काशेयास्तु चतुर्विंशदष्टाविंशत्तु हैहयाः ।। २७२.१४
कलिङ्गाश्चैव द्वात्रिंशदश्मकाः पञ्चविंशतिः।
कुरुवश्चापि षट्विंशदष्टाविंशस्तु मैथिलाः ।। २७२.१५
शूरसेनास्त्रयोविंशद्वीतिहोत्राश्च विशतिः।
एते सर्वे भविष्यन्ति एककालं महीक्षितः ।। २७२.१६
महानन्दिसुतश्चापि शूद्रायां कलिकांशजः।
उत्पत्स्यते महापद्मः सर्वक्षत्रान्तको नृपः ।। २७२.१७
ततः प्रभृति राजानो भविष्याः शूद्रयोनयः।
एकराट् स महापद्मो एकच्छत्रो भविष्यति ।। २७२.१८
अष्टाशीति तु वर्षाणि पृथिव्याञ्च भविष्यति।
सर्वक्षत्रमथोत्साद्य भाविनार्थेन चोदितः ।। २७२.१९
सुकल्पादि सुताह्यष्टौ समाद्वादशते नृपाः।
महापद्मस्य पर्य्याये भविष्यन्ति नृपाः क्रमात् ।। २७२.२०
उद्धरिष्यति कौटिल्यः समैर्द्वादशभिः सुतान्।
भुक्त्वा महीं वर्षशतं ततो मौर्य्यान् गमिष्यति ।। २७२.२१
भविता शतधन्वा च तस्य पुत्रस्तु षट्समाः।
बृहद्रथस्तु वर्षाणि तस्य पुत्रश्च सप्ततिः ।। २७२.२२
षट्त्रिंशत्तु समाराजा भविता शक एव च।
सप्तानां दशवर्षाणि तस्य नप्ता भविष्यति ।। २७२.२३
राजा दशरथोऽष्टौ तु तस्य पुत्रो भविष्यति।
भविता नववर्षाणि तस्य पुत्रश्च सप्ततिः ।। २७२.२४
इत्येते दशमौर्य्यास्तु ये भोक्ष्यन्ति वसुन्धराम्।
सप्तत्रिंशच्छतं पूर्णं तेभ्यः शुङ्गन् गमिष्यति ।। २७२.२५
पुष्यमित्रस्तु सेनानीरुद्धृत्य स बृहद्रथान्।
कारयिष्यति वै राज्यं षट्त्रिंशति समानृपः ।। २७२.२६
भवितापि वसुज्येष्ठः सप्तवर्षाणि वै नृपः।
वसुमित्रस्तथा भाव्यो दशवर्षाणि वै ततः ।। २७२.२७
ततोऽन्तकः समिद्धेतु तस्य पुत्रो भविष्यति।
भविष्यति समस्तस्मात्त्रीण्येवं स पुलिन्दकः ।। २७२.२८
भविता वज्रमित्रस्तु समाराजा पुनर्भवः।
द्वात्रिंशत्तु समाभागः समाभागात्ततो नृपः ।। २७२.२९
भविष्यति सुतस्तस्य देवभूमिः समादश।
दशैते क्षुद्रराजानो भोक्ष्यन्तीमां वसुन्धराम् ।। २७२.३०
शतं पूर्णं शते द्वेच ततः शुङ्गान् गमिष्यति।
अमात्यो वसुदेवस्तु प्रसह्य ह्यवनीं नृपः ।। २७२.३१
देवभूमिमथोत्साद्य शौङ्गस्तु भविता नृपः।
भविष्यति समाराजा नवकाण्वायनो नृपः । २७२.३२
भूमिमित्रः सुतस्तस्य चतुर्दश भविष्यति।
नारायणः सुतस्तस्य भविता द्वादशैव तु ।। २७२.३३
सुशर्मा तत्सुतश्चापि भविष्यति दशैव तु।
इत्येते शुङ्गभृत्यास्तु स्मृता काण्वायनानृपाः ।। २७२.३४
चत्वारिंशद्द्विजा ह्येते काण्वा बोक्ष्यन्ति वै महीम्।
चत्वारिंशत्पञ्च चैव भोक्ष्यन्तीमां वसुन्धराम् ।। २७२.३५
एते प्रणतसामन्ता भविष्या धार्मिकाश्च ये।
येषां पर्य्यायकाले तु भूमिरान्ध्रान् गमिष्यति ।। २७२.३६