मत्स्यपुराणम्/अध्यायः ६५
अक्षयतृतीयाव्रतकथनं सरस्वतीव्रतकथनञ्च।
ईश्वर उवाच।
अथान्यामपि वक्ष्यामि तृतीयां सर्वकामदाम्।
यस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम्।। ६५.१ ।।
वैशाखशुक्लपक्षे तु तृतीया यै रुपोषिता।
अक्षयं फलमाप्नोति सर्वस्य सुकृतस्य च।। ६५.२ ।।
सा तथा कृत्तिकोपेता विशेषेण सुपूजिता।
तत्र दत्तं हुतं जप्तं सर्वमक्षयमुच्यते।। ६५.३ ।।
अक्षयासन्ततिस्तस्यास्तस्यां सुकृतमक्षयम्।
अक्षतैस्तु नराः स्नाता विष्णोर्दत्त्वा तथाक्षतान्।। ६५.४ ।।
विप्रेषु दत्त्वा तानेव तथा सक्तून् सुसंस्कृतान्।
यथान्नभुक् महाभागः फलमक्षयमश्नुते।। ६५.५ ।।
एकामप्युक्तवत् कृत्त्वा तृतीयां विधिवन्नरः।
एतासामपि सर्वासां तृतीयानां फलं भवेत्।। ६५.६ ।।
तृतीयायां समभ्यर्च्य सोपवासो जनार्दनम्।
राजसूयफलं प्राप्य गतिमग्र्याञ्च विन्दति।। ६५.७ ।।