मत्स्यपुराणम्/अध्यायः ९८
संक्रान्त्युद्यापनफलवर्णनम्।
नन्दिकेश्वर उवाच।
अथान्यदपि वक्ष्यामि सङ्क्रान्त्युद्यापने फलम् ।
यदक्षयं परे लोके सर्वकामफलप्रदम् ॥९८.१ ।।
अयने विषुवे वापि सङ्क्रान्तिव्रतमाचरेत्।
पूर्वेद्युरेकभुक्तेन दन्तधावनपूर्वकम्।।
संक्रान्तिवासरे प्रातस्तिलैः स्नानं विधीयते।। ९८.२ ।।
रविसंक्रमणे भूमौ चन्दनेनाष्टपत्रकम्।
पद्मं सकर्णिकं कुर्यात् तस्मिन्नावाहयेद्रविम्।। ९८.३ ।।
कर्णिकायां न्यसेत्सूर्य्यमादित्यं पूर्वतस्ततः।
नमः उष्णार्चिषे याम्ये नमो ऋङ्मण्डलाय च।। ९८.४ ।।
नमः सवित्रे नैऋत्ये वारुणे तपनं पुनः।
वायव्ये तु भगं न्यस्य पुनः पुनरथार्चयेत्।। ९८.५ ।।
मार्त्तण्डमुत्तरे विष्णुमीशाने विन्यसेत्सदा।
गन्धमाल्यफलैर्भक्ष्यैः स्थण्डिले पूजयेत् ततः।। ९८.६ ।।
द्विजाय सोदकुम्भञ्च घृतपात्रं हिरण्मयम्।
कमलञ्च यथाशक्त्या कारयित्वा निवेदयेत्।। ९८.७ ।।
चन्दनोदकपुष्पैश्च देवायार्घ्यं न्यसेद् भुवि।
विश्वाय विश्वरूपाय विश्वधाम्ने स्वयम्भुवे।
नमोऽनन्त! नमो धात्रे ऋख्सामयजुषाम्पते!।। ९८.८ ।।
अनेन विधिना सर्वं मासि मासि समाचरेत्।
वत्सरान्तेऽथवा कुर्यात् सर्वं द्वादशधा नरः।। ९८.९ ।।
सम्वत्सरान्ते घृतपायसेन सन्तर्प्य वह्निं द्विजपुङ्गवांश्च।
कुम्भान् पुनर्द्वादशधेनुयुक्तान् सरत्नहैरण्मयपद्मयुक्तान्।। ९८.१० ।।
पयस्विनीः शीलवतीश्च दद्याद् हैमैः श्रृङ्गैरौप्यखुरैश्च युक्ताः।
गावोऽष्ट वा सप्त सकांस्यदोहा माल्याम्बरा वा चतुरोऽप्यशक्तः।।
दौर्गत्ययुक्तः कपिलाभथैकां निवेदयेद्ब्राह्मणपुङ्गवाय।। ९८.११ ।।
हैमीञ्च दद्यात्पृथिवीं सशेषामाकार्यरूप्यामथ वा च ताम्रीम्।
पैष्टीमशक्तः प्रतिमां विधाय सौवर्णसूर्येण समम्प्रदद्यात्।।
न वित्तशाठ्यं पुरुषोऽत्र कुर्यात् कुर्वन्नधो याति न संशयोऽत्र।। ९८.१२ ।।
यावन्महेन्द्रप्रमुखैर्नगेन्द्रैः पृथ्वी च सप्ताब्धियुतेह तिष्ठेत्।
तावत्सगन्धर्वगणैरशेषैः संपूज्यते नारद! नाकपृष्ठे।। ९८.१३ ।।
ततस्तु कर्मक्षयमाप्य सप्तद्वीपाधिपः स्यात् कुलशीलयुक्तः।
सृष्टेर्मुखेऽव्यङ्गवपुः सभार्यः प्रभूतपुत्रान्वयवन्दिताङ्घ्रिः।। ९८.१४ ।।
इति पठति श्रृणोति वाथ भक्त्या विधिमखिलं रविसंक्रमस्य पुण्यम्।
मतिमपि च ददाति सोऽपि देवैरमरपतेर्भवने प्रपूज्यते च।। ९८.१५ ।।