मत्स्यपुराणम्/अध्यायः २२०
राजधर्मवर्णनम्।
मत्स्य उवाच।
राजन्! पुत्रस्य रक्षा च कर्तव्या पृथिवीक्षिता।
आचार्यश्चात्र कर्तव्यो नित्ययुक्तश्च रक्षिभिः ।। २२०.१ ।।
धर्मकामार्थशास्त्राणि धनुर्वेदञ्च शिक्षयेत्।
रथे च कुञ्चरे चैनं व्यायामङ्कारयेत्सदा ।। २२०.२ ।।
शिल्पानि शिक्षयेच्चैनं नाप्तो मिथ्या प्रियं वदेत्।
शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत् ।। २२०.३ ।।
न चास्य सङ्गो जातव्यः क्रुद्धलुब्धावमानितैः।
तथा च विनयेदेनं यथा यौवनगोचरै ।। २२०.४ ।।
इन्द्रियैर्नापकृष्येत सतां मार्गात्सुदुर्गमात्।
गुणाधानमशक्यन्तु यस्य कर्तुं स्वभावयः ।। २२०.५ ।।
बन्धनं तस्य कर्तव्यं गुप्तदेशे सुखान्वितम्।
अविनीतकुमारं हि कुलमाशु विशीर्यते ।। २२०.६ ।।
अधिकारेषु सर्वेषु विनीतं विनियोजयेत्।
आदौ स्वल्पे ततः पश्चात्क्रमेणाथ महात्स्वपि ।। २२०.७ ।।
मृगया पानमक्षांश्च वर्जयेत् पृथिवीपतिः।
एतान्ये सेवमानास्तु विनष्टाः पृथिवीक्षितः ।। २२०.८ ।।
बहवो नरशार्दूल! तेषां सङ्ख्या न विद्यते।
दिवा स्वापं क्षितीशस्तु विशेषेण विवर्जयेत् ।। २२०.९ ।।
वाक्यारुष्यं न कर्तव्यं दण्डपारुष्यमेव च।
परोक्षनिन्दा च तथा वर्जनीया महीक्षिता।। २२०.१० ।।
अर्थस्य दूषणं राजा द्विप्रकारं विवर्जयेत्।
अर्थानां दूषणञ्चैकं तथार्थेषु च दूषणम् ।। २२०.११ ।।
प्राकाराणां समुच्छेदो दुर्गादीनामसत्क्रिया।
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ।। २२०.१२ ।।
अदेशकाले यद्दानमपात्रे दानमेव च।
अर्थेषु दूषणं प्रोक्तमसत्कर्म प्रवर्तनम् ।। २२०.१३ ।।
कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च।
एते वर्ज्याः प्रयत्नेन सादरं पृथिवीक्षिता ।। २२०.१४ ।।
एतेषां विजयं कृत्वा कार्यो भृत्य-जयस्ततः।
कृत्वा भृत्यजयं राजा पौरान् जानपदान् जयेत् ।। २२०.१५ ।।
कृत्वा च विजयन्तेषां शत्रून् बाह्यांस्ततो जयेत्।
बाह्याश्च विविधा ज्ञेयास्तुल्याभ्यन्तरकृत्रिमाः ।। २२०.१६ ।।
गुरवस्ते यथा पूर्वं तेषु यत्नपरो भवेत्।
पितृपैतामहं मित्रममित्रञ्च तथा रिपोः ।। २२०.१७ ।।
कृत्रिमञ्च महाभाग! मित्रं त्रिविधमुच्यते।
तथापि च गुरुः पूर्वं भवेत्तत्रापि चादृतः ।। २२०.१८ ।।
स्वाम्यमात्यो जनपदो दुर्गं दण्डस्तथैव च।
कोशो मित्रञ्च धर्मज्ञ! सप्ताङ्गं राज्यमुच्यते ।। २२०.१९ ।।
सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्तितः।
तन्मूलत्वात्तथाङ्गानां स तुरक्ष्यः प्रयत्नतः ।। २२०.२० ।।
षडङ्गरक्षा कर्तव्या तथा तेन प्रयत्नतः।
अङ्गेभ्यो यस्तथैकस्तु द्रोहमाचरतेऽल्पधीः ।। २२०.२१ ।।
बन्धस्तस्य तु कर्तव्यः शीघ्रमेव महीक्षिता।
न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ।। २२०.२२ ।।
न भाव्यं दारुणेनापि तीक्ष्णादुद्विजते जनः।
काले भृदुर्यो भवति काले भवति दारुणः ।। २२०.२३ ।।
राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत्।
भृत्यैः सह महीपालः परिहासं विवर्जयेत् ।। २२०.२४ ।।
भृत्याः परिभवन्तीह नृपं हर्षवशङ्गतम्।
व्यसनानि च सर्वाणि भूपतिः परिवर्जयेत् ।। २२०.२५ ।।
लोकसंग्रहणार्थाय कृतकव्यसनी भवेत्।
शौण्डीरस्य नरेन्द्रस्य नित्यमुद्रिक्तचेतसः ।। २२०.२६ ।।
जना विरागमायान्ति सदा दुःसेव्यभावतः।
स्मितपूर्वाभिभाषीस्यात् सर्वस्यैव महीपतिः ।। २२०.२७ ।।
बध्येष्वपि महाभाग! भ्रुकुटिं न समाचरेत्।
भाव्यं धर्मभृतां श्रेष्ठ! स्थूल्लक्ष्येण भूभुजा ।। २२०.२८ ।।
स्थूललक्ष्यस्य वशगा सर्वा भवति मेदिनी।
अदीर्घसूत्रश्च भवेत् सर्वकर्मसु पार्थिवः ।। २२०.२९ ।।
दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवम्भवेत्।
रागे दर्पे च माने च द्रोहे पापे च कर्मणि ।। २२०.३० ।।
अप्रिये चैव कर्तव्ये दीर्घसूत्रः प्रशस्यते।
राज्ञा संवृतमन्त्रेण सदा भाव्यं नृपोत्तम!।। २२०.३१ ।।
तस्यासंवृतमन्त्रस्य राज्ञः सर्वापदो ध्रुवम्।
कृतान्येव तु कार्याणि ज्ञायन्ते यस्य भूपतेः ।। २२०.३२ ।।
नारब्धानि महाभाग! तस्य स्याद्वसुधावशे।
मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः ।। २२०.३३ ।।
कर्तव्यः पृथिवीपालैर्मन्त्रभेद भयात् सदा।
मन्त्रवित्साधितो मन्त्रः सम्पत्तीनां सुखावहः ।। २२०.३४ ।।
मन्त्रच्छलेन बहवो विनष्टाः पृथिवीक्षितः।
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।। २२०.३५ ।।
नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः।
न यस्य कुशलैस्तस्य वशे सर्वा वसुन्धरा।। २२०.३६ ।।
भवतीह महीपाले सदा पार्थिवनन्दन!।
नैकस्तु मन्त्रयेन्मन्त्रं राजा न बहुभिः सह ।। २२०.३७ ।।
नारोहेद्विषमां नावमपरीक्षितनाविकम्।
ये चास्य भूमिजयिनो भवेयुः परिपन्थिनः ।। २२०.३८ ।।
तानानयेद्वशे सर्वान् सामादिभिरुपक्रमैः।
यथा न स्यात् कृशीभावः प्रजानामनवेक्षया ।। २२०.३९ ।।
तथा राज्ञा प्रकर्तव्यं स्वराष्ट्रं परिरक्षता।
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया ।। २२०.४० ।।
सोऽचिराद् भ्रश्यते राज्याज्जीविताच्च सबान्धवः।
भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् ।। २२०.४१ ।।
तथा राष्ट्रं महाभाग! भृतं कर्मसहम्भवेत्।
यो राष्ट्रमनुघृह्णाति राज्यं स परिरक्षति ।। २२०.४२ ।।
सञ्जातमुपजीवेत्तु विन्दते स महत्फलम्।
गृह्याद्धिरण्यं धान्यञ्च महीं राजासु रक्षिताम् ।। २२०.४३ ।।
महता तु प्रयत्नेन स्वाराष्ट्रस्य च रक्षिता।
नित्यं स्वेभ्यः परेभ्यश्च यथा माता यथा पिता ।। २२०.४४ ।।
गोपितानि सदा कुर्यात् संयतानीन्द्रियाणि च।
अजस्रमुपयोक्तव्यं फलन्तेभ्यस्तथैव च ।। २२०.४५ ।।
सर्वं कर्मेदमायत्तं विधाने दैवमानुषे।
तयोर्देवमचिन्त्यञ्च पौरुषे विद्यते क्रिया ।। २२०.४६ ।।
एवं महीं पालयतोऽस्य भर्तुर्लोकानुरागः परमो भवेत्तु।
लोकानुरागप्रभवा च लक्ष्मीर्लक्ष्मीवतश्चापि परा च लक्ष्मीः ।। २२०.४७ ।।