मत्स्यपुराणम्/अध्यायः ६४
शुक्लतृतीयाव्रतकथनम्।
ईश्वर उवाच।
तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम्।
नाम्ना च लोके विख्यातां आर्द्रानन्दकरीमिमाम्।। ६४.१ ।।
यदा शुक्लतृतीयायामाषाढर्क्षं भवेत् क्वचित्।
ब्रह्मर्क्षं वा मृगर्क्षं वा हस्तो मूलमथापि वा।।
दर्भगन्धोदकैः स्नानं तदा सम्यक् समाचरेत्।। ६४.२ ।।
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः।
भवानीमर्चयेद् भक्त्या शुक्लपुष्पैः सुगन्धिभिः।।
महादेवेन सहितामुपविष्टां महासने।। ६४.३ ।।
वासुदेव्यै नमः पादौ शङ्कराय नमो हरम्।
जङ्घे शोकविनाशिन्यै नमः आनन्दाय नमः प्रभोः।। ६४.४ ।।
रम्भायै पूजयेद् रुद्रं शिवाय च पिनाकिनः।
अदित्यै च कटिं देव्याः शूलिनः शूलपाणये।। ६४.५ ।।
माधव्यै च तथा नाभिमथ शम्भोर्भवाय च।
स्तनावानन्दकारिण्यै शङ्करस्येन्दुधारिणे।। ६४.६ ।।
उत्कण्ठिन्यै नमः कण्ठं नीलकण्ठाय वै हरम्।
करावुत्पलधारिण्यै रुद्राय च जगत्पते।
बाहू च परिरम्भिण्यै त्रिशूलाय हराय च।। ६३.७ ।।
देव्या मुखं विलासिन्यै वृषेशाय पुनर्विभोः।
स्मितं सस्मेरलीलायै विश्ववक्त्राय वै विभोः।। ६४.८ ।।
नेत्रे मदनवासिन्यै विश्वधाम्ने त्रिशूलिनः।
भ्रुवौ नित्यप्रियायै तु ताण्डवेशाय शूलिनः।। ६४.९ ।।
देव्या ललाटमिन्द्राण्यै हव्यवाहाय वै विभोः।
स्वाहायै मुकुटं देव्या विभोर्गङ्गाधराय वै।। ६४.१० ।।
विश्वकायौ विश्वमुखौ विश्वपादकरौ शिवौ।
प्रसन्नवदनौ वन्दे पार्वतीपरमेश्वरौ।। ६४.११ ।।
एवं संपूज्य विधिवदग्रतः शिवयोः पुनः।
पद्मोत्पलानि रजसा नानावर्णेन कारयेत्।। ६४.१२ ।।
शङ्खचक्रे सकटके स्वस्तिकाङ्कुशचामरान्।
यावन्तः पांसवस्तत्र रजसः पतिता भुवि।
तावद्वर्षसहस्राणि शिवलोके महीयते।। ६४.१३ ।।
चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः।
दत्त्वा द्विजाय करकमुदकान्नसमन्वितम्।।
प्रतिपक्षं चतुर्मासं यावदेतन्निवेदयत्।। ६४.१४ ।।
ततस्तु चतुरो मासान् पूर्ववत् करकोपरि।
चत्वारि सक्तुपात्राणि तिलपात्राण्यतः परम्।। ६४.१५ ।।
गन्धोदकं पुष्पवारि चन्दनं कुङ्कुमोदकम्।
अपक्वं दधिदुग्धञ्च गोश्रृङ्गोदकमेव च।। ६४.१६ ।।
पिष्टोदकं तथा वारि कुष्ठचूर्णान्वितं पुनः।
उशीरसलिलं तद्वद्यवचूर्णोदकं पुनः।। ६४.१७ ।।
तिलोदकञ्च संप्राश्य स्वपेन्मार्गशिरादिषु।
मासेषु पक्षद्वितयं प्राशनं समुदाहृतम्।। ६४.१८ ।।
सर्वत्र शुक्लपुष्पाणि प्रशस्तानि सदार्चने।
दानकाले च सर्वत्र मन्त्रमेतमुदीरयेत्।। ६४.१९ ।।
गौरी मे प्रियतां नित्यमघनाशाय मङ्गला।
सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये।। ६४.२० ।।
संवत्सरान्ते लवणं गुडकुम्भञ्च सर्जिकाम्।
चन्दनं नेत्रपट्टञ्च सहिरण्याम्बुजेन तु।। ६४.२१ ।।
उमामहेश्वरं हैमं तद्वदिक्षुफलैर्युतम्।
सतूलावरणां शय्यां सविश्रामां निवेदयेत्।
सपत्नीकाय विप्राय गौरी मे प्रीयतामिति।। ६४.२२ ।।
आर्द्रानन्दकरी नाम्ना तृतीयैषां सनातनी।
यामुपोष्य नरो याति शम्भोर्यत्परमम्पदम्।। ६४.२३ ।।
इहलोके सदानन्दमाप्नोति धनसम्पदः।
आयुरारोग्यसन्तप्तो न कश्चिच्छोकमाप्नुयात्।। ६४.२४ ।।
नारी वा कुरुते या तु कुमारी विधवा च या।
सापि तत् फलमाप्नोति देव्यनुग्रहलालिता।। ६४.२५ ।।
प्रतिपक्षमुपोष्यैवं मन्त्रार्चनविधानवित्।
रुद्राणी लोकमभ्येति पुनरावृत्तिदुर्लभम्।। ६४.२६ ।।
य इदं श्रृणुयान्नित्यं श्रावयेद्वाऽपि मानवः।
शक्रलोके सगन्धर्वैः पूज्यतेऽपि युगत्रयम्।। ६४.२७ ।।
आनन्ददां सकलदुःखहरां तृतीयां या स्त्री करोत्यविधवाऽविधवाथ वापि।
सा स्वे गृहे मुखशतान्यनुभूय भूयो गौरीपदं सदयिता दयिता प्रयाति।। ६४.२८ ।।