मत्स्यपुराणम्/अध्यायः ३८
ययात्यष्टकसम्वादवर्णनम्।
ययातिरुवाच।
अहं ययातिर्नहुषस्य पुत्रः पूरो पिता सर्वभूतावमानात्।
प्रभ्रंशितोऽहं सुरसिद्धलोकात् परिच्युतः प्रपताम्यल्पपुण्यः।। ३८.१ ।।
अहं हि पूर्वो वयसा भवद्भ्य स्तेनाभिवादं भवतां प्रयुञ्जे।
यो विद्यया तपसा जन्मना वा वृद्धः स वै सम्भवति द्विजानाम्।। ३८.२ ।।
अष्टक उवाच।
अवदीस्त्वं वयसास्मि वृद्ध इति वै राजन्नधिकः कथञ्चित्।
यो वै विद्वांस्तपसा च वृद्धः स एव पूज्यो भवति द्विजानाम्।। ३८.३ ।।
ययातिरुवाच।
प्रतिकूलं कर्म्मणां पापमाहुस्तद्वर्तिनां प्रवणं पापलोकम्।
सन्तो सतो नानुवर्तन्त ते वै यदात्मनैषां प्रतिकूलवादी।। ३८.४ ।।
अभूद्धनं मे विपुलं महद्वै विचेष्टमानोऽधिगन्ता तदस्मि।
एवं प्रधार्य्यात्महिते निविष्टो यो वर्तते सविजानाति धीरः।। ३८.५ ।।
नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः।
तत्तत् प्राप्य न विहन्येन धीरो दिष्टं बलीय इति मत्वात्मबुध्या।। ३८.६ ।।
सुखं हि जन्तुर्यदिवापि दुःखं दैवाधीनं विन्दन्ति नात्मशक्त्या।
तस्मादिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत् कदाचित्।। ३८.७ ।।
भवेन मुह्याम्यष्टकाहं कदाचित् सन्तापो मे मानसो नास्ति कश्चित्
धाता यथा मां विदधाति लोके ध्रुवं तथाहं भवितेति मत्वा।। ३८.८ ।।
संस्वेदजा ह्यण्डजा ह्युद्भिदश्च सरीसृपाः कृमयोऽप्यप्सु मत्स्याः।
तथाश्मानस्तृणकाष्ठञ्च सर्वं दिष्टक्षये स्वां प्रकृतिं भजन्ते।। ३८.९ ।।
अनित्यतां सुखदुःखस्य बुध्वा कस्मात्सन्तापमष्टकाहं भजेयम्।
किं कुर्य्यां वै किञ्च कृत्वा न तप्ये तस्मात्सन्तापं वर्जयाम्यप्रमत्तः।। ३८.१०।।
शौनक उवाच।
एवं ब्रुवाणं नृपतिं ययातिमथाष्टकः पुनरेवान्वपृच्छत्।
मातामहं सर्वगुणोपपन्नं यत्र स्थितं स्वर्गलोके यथावत्।। ३८.११ ।।
अष्टक उवाच।
ये ये लोकाः पार्थिवेन्द्रप्रधाना स्त्वया भुक्ता यञ्च कालं यथा च।
तन्मे राजन् ब्रूहि सर्वं यथावत् क्षेत्रज्ञवद् भाषसे त्वं हि धर्मम्।। ३८.१२ ।।
ययातिरुवाच।
राजाहमासन्त्विह सार्वभौमस्ततो लोकान् महतश्चार्जयं वै।
तत्राव संवर्षसहस्रमात्रं ततो लोकान् परमानभ्युपेतः।। ३८.१३ ।।
ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनान्ताम्।
अध्यावसं वर्षसहस्रमात्रं ततो लोकान् परमानभ्युपेतः।। ३८.१४ ।।
ततो दिव्यमजरं प्राप्यलोकं प्रजापतेर्लोकपतेर्दुरापम्।
तत्रावसं वर्षसहस्रमात्रं ततो लोकान् परमानभ्युपेतः।। ३८.१५ ।।
देवस्य देवस्य निवेशने च विजित्य लोकान् न्यवसं यथेष्टम्।
संपूज्यमानस्त्रिदशैः समस्तै स्तुल्य प्रभावद्युतिरीश्वराणाम्।। ३८.१६ ।।
तथा वसन्नन्दनकामरूपी संवत्सराणामयुतं शतानाम्।
सहाप्सरोभिर्विचरन् पुण्यगन्धान् पश्यन्नगान् पुष्पितांश्चारुरूपान्।। ३८.१७ ।।
तत्र स्थितं मां देवसुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम्।
दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण।। ३८.१८ ।।
एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात् क्षीणपुण्यः।
वाचोऽश्रौषञ्चान्तरिक्षे सुराणामनुक्रोशाच्छोचतां मां नरेन्द्र।। ३८.१९ ।।
अकस्माद्वै क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत् पुण्यकीर्त्तिः।
तानब्रुवं पतमानस्तदाहं सतां मध्ये निपतेयं कथन्नु।। ३८.२० ।।
तैराख्यातां भवतां यज्ञभूमिं समीक्ष्य चैनामहमागतोऽस्मि।
हविर्गन्धैर्दर्शितां यज्ञभूमिं धूमापाङ्गं परिगृह्य प्रतीताम्।। ३८.२१ ।।