मत्स्यपुराणम्/अध्यायः २७
देवयानी कथानकम् ।
शौनक उवाच।
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः।
कचादवेत्य तां विद्यां कृतार्था भरतर्षभ!।। २७.१ ।।
सर्व एव समागम्य शतक्रतुमथाब्रुवन्।
कालः स्त्वद्विक्रमस्याद्य जहि शत्रून् पुरन्दर!।। २७.२ ।।
एवमुक्तस्तु सह तै स्त्रिदशैर्मघवांस्तदा।
तथेत्युक्त्वोप चक्राम सोऽपश्यद्विपिने स्त्रियः।। २७.३ ।।
क्रीड़न्तीनान्तु कन्यानां वने चैत्ररथोपमे।
वायुर्भूतः सवस्त्राणि सर्वाण्येव व्यमिश्रयत्।। २७.४ ।।
ततो जलात् समुत्तीर्य ताः कन्याः सहितास्तदा।
वस्त्राणिजगृहुस्तानि यथा संस्थान्यनेकशः।। २७.५ ।।
तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा।
व्यतिक्रममजानन्ती दुहिता वृषपर्वणः।। २७.६ ।।
ततस्तयोर्मिथस्तत्र विरोधः समजायत।
देवयान्याश्च राजेन्द्र! शर्मिष्ठायाश्च तत्कृते।। २७.७ ।।
देवयान्युवाच।
कस्माद् गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि!
समुदाचारहीनाया न ते श्रेयो भविष्यति।। २७.८ ।।
शर्मिष्ठोवाच।
आसीनञ्च शयानञ्च पिता ते पितरं मम।
स्तौति पृच्छति चाभीक्ष्णं नीचस्तः सुविनीतवत्।। २७.९ ।।
याचतस्त्वञ्च दुहिता स्तुवतः प्रतिगृह्णतः।
सुताहं स्तूयमानस्य ददतो न तु गृह्णतः।। २७.१० ।।
अनायुधासायुधायाः किं त्वं कुप्यसि भिक्षुकि!।
लप्स्यसे प्रतियोद्धारं न च त्वां गणयाम्यहम्।। २७.११ ।।
शौनक उवाच।
सा विस्मयं देवयानीं गतां सक्ताञ्च वाससि।
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाविशत्।। २७.१२ ।।
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्रया।
अनवेक्ष्य ययौ तस्मात् क्रोधवेगपरायणा।। २७.१३ ।।
अथ तं देशमभ्यगाद्ययातिर्नहुषात्मजः।
श्रान्तयुग्मः श्रान्तरूपो मृगलिप्सुः पिणसितः।। २७.१४ ।।
नाहुषिः प्रेक्ष्यमाणो हि सनिपाते गतोदके।
ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव।। २७.१५ ।।
तामपृच्छत् स दृष्ट्वैव कन्याममरवर्णिनीम्।
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना।। २७.१६ ।।
का त्वं चारुमुखीश्यामा सुमृष्टमणिकुण्ड्ला।
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा।। २७.१७ ।।
कथञ्च पतिता ह्यस्मिन्। कृते वीरुत्तृणावृते।
दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे।। २७.१८ ।।
देवयान्युवाच।
योऽसौ देवै र्हतान् दैत्यानुत्थापयति विद्यया।
तस्य शुक्रस्य कन्याह त्वं मां नूनं न बुध्यसे।। २७.१९ ।।
एष मे दक्षिणो राजन्! पाणिस्ताम्रनखाङ्गुलिः।
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः।। २७.२० ।।
जानामि त्वाञ्चसंशान्तं वीर्य्यवन्तं यशस्विनम्।
तस्मान्मां पतितं कूपादस्मादुद्धर्तुमर्हसि।। २७.२१ ।।
शौनक उवाच।
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः।
गृहीत्वा दक्षिणे पाणावुज्जहार ततो बलात्।। २७.२२ ।।
उद्धृत्य चैनान्तरसा तस्मात् कूपान्नराधिपः।
आमन्त्रयित्वा सुश्रोणीं ययाति स्वपुरं ययौ।। २७.२३ ।।
देवयान्युवाच।
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः।
नेदानीं तु प्रवेक्ष्यामि नगरं वृषपर्वणः।। २७.२४ ।।
शौनक उवाच।
सा तु वै त्वरितं गत्वा घूणिका सुरमन्दिरम्।
द्रृष्ट्वा काव्यमुवाचेदं कम्पमाना विचेतना।। २७.२५ ।।
आचख्यौ च महाभागा देवयानी वने हता।
शर्मिष्ठया महाप्राज्ञ!दुहित्रा वृषपर्वणः।। २७.२६ ।।
श्रुत्वा दुहितरं काव्यस्तदा शर्मिष्ठया हताम्।
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने।।। २७.२७ ।।
द्रृष्ट्वा दुहितरं काव्यो देवयानीं तपोवने।
बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत्।। २७.२८ ।।
आत्मदोषैर्निंयच्छन्तिः सर्वे दुःखमुखे जना।
मन्येदुश्चरितं तस्मिन् तस्येयं निष्कृतिः कृता।। २७.२९ ।।
निष्कृतिर्वास्तु वा मास्तु श्रृणुष्वावहितो मम।
शर्मिष्ठयाय दुक्तास्मि दुहित्रा वृषपर्वणः।। २७.३० ।।
सत्यं किलैतत् सा प्राह दैत्यानामस्मि गायना।
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी।। २७.३१ ।।
वचनं तीक्ष्ण परुषं क्रोधरक्तेक्षणा भृशम्।
स्तुवतो दुहितासि त्वं याचतः प्रतिगृह्णतः।। २७.३२ ।।
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः।
इति मामाह शर्मिष्ठ दुहिता वृषपर्वणः।।
क्रोधसंरक्तनयना दर्पपूर्णानना ततः।। २७.३३ ।।
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः।
प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया।। २७.३४ ।।
शुक्र उवाच।
स्तुवतो दुहिता नस्त्वं भद्रे! न प्रतिगृह्णतः।
अतस्त्वं स्तूयमानस्य दुहिता देवयान्यसि।। २७.३५ ।।
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः।
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम।। २७.३६ ।।