मत्स्यपुराणम्/अध्यायः १०५
मार्कण्डेय उवाच।
श्रृणु राजन्! प्रयागस्य माहात्म्यं पुनरेव तु।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्रसंशयः।। १०५.१ ।।
आर्तानां हि दरिद्राणां निश्चितव्यवसायिनाम्।
स्थानमुक्तं प्रयागन्तु नाख्येयन्तु कदाचन।। १०५.२ ।।
व्याधितो यदि वा दीनो वृद्धो वापि भवेन्नरः।
गङ्गायमुनयोर्मध्ये यस्तु प्राणान्परित्यजेत्।। १०५.३ ।।
दीप्तकाञ्चनवर्णाभैर्विमानैः सूर्य्यसन्निभैः।
गन्धर्वाप्सरसां मध्ये स्वर्गे क्रीडति मानवः
ईप्सितान् लभते कामान् वदन्ति ऋषिपुङ्गवाः।। १०५.४ ।।
सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः।
वराङ्गनासमाकीर्णै र्मोदते शुभलक्षणैः।। १०५.५ ।।
गीतवाद्यविनिर्घोषैः प्रसुप्तः प्रतिबुध्यते।
यावन्न स्मरते जन्म तावत् स्वर्गे महीयते।। १०५.६ ।।
ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः।
हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले।
तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति।। १०५.७ ।।
देशस्थो यदि वाऽरण्ये विदेशस्थोऽथ वा गृहे।
प्रयागं स्मरमाणोऽपि यस्तु प्राणान् परित्यजेत्।
ब्रह्मलोकमवाप्नोति वदन्ति ऋषिपुङ्गवाः।। १०५.८ ।।
सर्वकामफला वृक्षा मही यत्र हिरण्मयी।
ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति।। १०५.९ ।।
स्त्रीसहस्रावृते रम्ये मन्दाकिन्यास्तटे शुभे।
मोदते ऋषिभिः सार्द्धं सुकृतेनेह कर्म्मणा।। १०५.१० ।।
सिद्धचारणगन्धर्वैः पूज्यते सिद्धि दैवतैः।
ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर्भवेत्।। १०५.११ ।।
ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः।
गुणवान् वित्तसम्पन्नो भवतीह न संशयः।। १०५.१२ ।।
कर्म्मणा मनसा वाचा धर्मसत्यप्रतिष्ठितः।
गङ्गायमुनयोर्मध्ये यस्तु गां सम्प्रयच्छति।। १०५.१३ ।।
सुवर्णमणिमुक्ताश्च यदि वान्यत् परिग्रहम्।
स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा।
सफलं तस्य तत्तीर्थं यथावत् पुण्यमाप्नुयात्।। १०५.१४ ।।
एवं तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च।
निमित्तेषु च सर्वेषु ह्यप्रमत्तो भवेद्द्विजः।। १०५.१५ ।।
कपिलां पाटलावर्णां यस्तु धेनुं प्रयच्छति।
स्वर्णश्रृङ्गीं रौप्यखुरां कांस्यदोहां पयस्विनीम्।। १०५.१६ ।।
प्रयागे श्रोत्रियं सन्तं ग्राहयित्वा यथाविधि।
शुक्लाम्बरधरं शान्तं धर्मज्ञं वेदपारगम्।। १०५.१७ ।।
सा गौस्तस्मै प्रदातव्या गङ्गायमुनसङ्गमे।
वासांसि च महार्हाणि रत्नानि विविधानि च।। १०५.१८ ।।
यावद्रोमाणि तस्यागोः सन्तिगात्रेषु सत्तम!।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते।। १०५.१९ ।।
यत्राऽसौ लभते जन्म सा गौस्तस्याभिजायते।
नच पश्यति तं घोरं नरकं ते न कर्मणा
उत्तरान् स कुरून् प्राप्य मोदते कालमक्षयम्।। १०५.२० ।।
गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम्।
पुत्रान् दारांस्तथा भृत्यान् गौरेका प्रतितारयेत्।। १०५.२१ ।।
तस्मात् सर्वेषु दानेषु गोदानन्तु विशिष्यते।
दुर्गमे विषमे घोरे महापातकसम्भवे।।
गौरेव रक्षां कुरुते तस्माद्देया द्विजोत्तमे।। १०५.२२ ।।