मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







नरसिंहमाहात्म्यवर्णनम्।

ऋषय ऊचुः।
इदानीं श्रोतुमिच्छामो हिरण्यकशिपोर्वधम्।
नरसिंहस्य माहात्म्यं तथा पापविनाशनम् ।। १६१.१

सूत उवाच।
पुरा कृतयुगे विप्रा हिरण्यकशिपुः प्रभुः।
दैत्यानामादिपुरुषश्चकार स महत्तपः ।। १६१.२

दशवर्षसहस्राणि दशवर्ष शतानि च।
जलवासी समभवत् स्नानमौन घृतव्रतः ।। १६१.३

ततः शमदमाभ्याञ्च ब्रह्मचर्येण चैव हि।
ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च ।। १६१.४

ततः स्वयम्भूर्भगवान् स्वयमागम्य तत्र ह।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ।। १६१.५

आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्तथा।
रुद्रैर्विश्वसहायैश्च यक्षराक्षस पन्नगैः ।। १६१.६

दिग्भिश्चैव विदिग्भिश्च नदीभिः सागरैस्तथा।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ।। १६१.७

देवैर्ब्रह्मर्षिभिः सार्द्धं सिद्धैः सप्तर्षिभिस्तथा।
राजर्षिभिः पुण्यकृद्भिर्गन्धर्वाप्सरसाङ्गणैः ।। १६१.८

चराचरगुरुः श्रीमान् वृतः सर्वैर्दिवौकसैः।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ।। १६१.९

प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत!।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ।। १६१.१०

हिरण्यकशिपुरुवाच।
न देवासुरगन्धर्वा न यक्षोरगरक्षसाः।
न मानुषाः पिशाचा वा हन्युर्मां देव सत्तम!।। १६१.११

ऋषयो वा न मा शापैः शपेयुः प्रपितामह।
यदि मे भगवान्प्रीतो वर एष वृतो मया ।। १६१.१२

न चास्त्रेण न शस्त्रेण गिरिणा पादपेन च।
न शुष्केण न चार्द्रेण न दिवा न निशाऽथवा ।। १६१.१३

भवेयमहमेवार्कः सोमो वायुर्हुताशनः।
सलिलञ्चान्तरिक्षञ्च नक्षत्राणि दिशो दश ।। १६१.१४

अहं क्रोधश्च कामश्च वरुणो वासवो यमः।
धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ।। १६१.१५

ब्रह्मोवाच।
एते दिव्या वरास्तात! मया दत्तास्तवाद्भुताः।
सर्वान् कामान् सदा वत्स! प्राप्स्यसे त्वं न संशयः ।। १६१.१६

एवमुक्त्वा स भगवान् जगामाकाश एव हि।
वैराजं ब्रह्मसदनं ब्रह्मर्षि गणसेवितम् ।। १६१.१७

ततो देवाश्च नागाश्च गन्धर्वा ऋषिभिः सह।
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ।। १६१.१८

देवा ऊचुः।
वरप्रदानाद् भगवन्! वधिष्यति स नोऽसुरः।
तत्प्रसीदाशु भगवन्! वदोऽप्यस्य विचिन्त्यताम् ।। १६१.१९

भगवन्। सर्वभूतानां आदिकर्ता स्वयं प्रभुः।
स्रष्टा त्वं हव्यकव्यानामव्यक्त प्रकृतिर्बुधः ।। १६१.२०

सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः।
आश्वासयामास सुरान् सुशीतैर्वचनाम्बुभिः ।। १६१.२१

अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम्।
तपसोऽन्तेऽस्य भगवान् वधं विष्णुः करिष्यति ।। १६१.२२

तच्छ्रुत्वा विबुधा वाक्यं सर्वे पङ्कज जन्मनः।
स्वानि स्तानानि दिव्यानि विप्रा जग्मुर्मुदान्विताः ।। १६१.२३

लब्धमात्रे वरे चाथ सर्वाः सोऽबाधत प्रजाः।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ।। १६१.२४

आश्रमेषु महाभागान् स मुनीन्शंसितव्रतान्।
सत्यधर्मपरान् दान्तान् धर्षयामासदानवः ।। १६१.२५

देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ।। १६१.२६

यदा वरमदोत्सिक्तश्चोदितः कालधर्मतः।
यज्ञियानकरोद्दैत्यानयज्ञियांश्च देवताः ।। १६१.२७

तदादित्याश्च साध्याश्च विश्वे च वसवस्तथा।
सेन्द्रा देवगणा यक्षाः सिद्ध द्विजमहर्षयः ।। १६१.२८

शरणं शरणं विष्णुमुपतस्थुर्महाबलम्।
देवदेवं यज्ञमयं वासुदेवं सनातनम् ।। १६१.२९

देवा ऊचुः।
नारायण! महाभाग! देवास्त्वां शरणं गताः।
त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो! ।। १६१.३०

त्वं हि नः परमो धाता त्वं हि न परमो गुरुः।
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ।। १६१.३१

विष्णुरुवाच।
भयन्त्यजध्वममरा अभयं वो ददाम्यहम्।
तथैव त्रिदिवं देवाः प्रतिपद्यत मा चिरम् ।। १६१.३२

एषोऽहं सगणं दैत्यं वरदानेन दर्पितम्।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ।। १६१.३३

एवमुक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान्।
वधं सङ्कल्पयामास हिरण्यकशिपोः प्रभुः ।। १६१.३४

सहायश्च महाबाहुरोङ्कारं गृह्य सत्वरम्।
अथोङ्कारसहायस्तु भगवान् विष्णुरव्ययः ।। १६१.३५

हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः।
तेजसा भास्कराकारः शशी कान्त्येव चापरः ।। १६१.३६

नरस्य कृत्वार्द्धतनुं सिंहस्यार्द्धतनुं तथा।
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ।। १६१.३७

ततोऽपश्यत विस्तीर्णां दिव्यां रम्यां मनोरमाम्।
सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम् ।। १६१.३८

विस्तीर्णां योजनशतं शतमध्यर्द्धमायताम्।
वैहायसीङ्कामगमां पञ्चयोजनविस्तृताम् ।। १६१.३९

जराशोकक्लमोपेतां निष्प्रकम्पां शिवां सुखाम्।
वेश्महर्म्यवतीं रम्यां ज्वलन्तीमिव तेजसा ।। १६१.४०

अन्तः सलिल संयुक्तां विहितां विश्वकर्म्मणा।
दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युताम् ।। १६१.४१

नीलपीतसितश्यामैः कृष्णैर्लोहितकैरपि।
अवतानैस्तथा गुल्मैर्मञ्जरी शतधारिभिः ।। १६१.४२

सिताभ्रघनसङ्काशा प्लवन्तीव व्यदृश्यत।
रश्मिवती भास्वरा च दिव्यगन्ध मनोरमा ।। १६१.४३

सुसुखा न च दुखा स न शीता न च घर्मदा।
न क्षुत्पिपासे ग्लानिं वा प्राप्यतां प्राप्नुवन्ति ते ।। १६१.४४

नानारूपैरुपकृतां विचित्रैरति भास्वरैः।
स्तम्भैर्न विभृता सा वै शाश्वती चाक्षपा सदा ।। १६१.४५

सर्वे च कामाः प्रचुरा ये दिव्या ये च मानुषाः।
रसयुक्तं प्रभूतञ्च भक्ष्य भोज्यमनन्तकम् ।। १६१.४६

पुण्यगन्ध स्रजश्चात्र नित्यपुष्पफलद्रुमाः।
उष्णे शीतानि तोयानि शीते चोष्णानि संति च ।। १६१.४७

पुष्पिताग्रा महाशाखाः प्रवालाङ्कुरदारिणः।
लतावितानसंच्छन्ना नदीषु च सरःसु च ।। १६१.४८

वृक्षान् बहुविधांस्तत्र मृगेन्द्रो ददृशे प्रभुः।
गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च ।। १६१.४९

नातिशीतानि नोष्णानि तत्र तत्र सरांसि च।
अपश्यत् सर्वतीर्थानि सभायां तस्य सो विभुः ।। १६१.५०

नलिनैः पुण्डरीकैश्च शतपत्रैः सुगन्धिभिः।
रक्तैः कुवलयैर्नींलैः कुमुदैः संवृतानि च ।। १६१.५१

सुकान्तैर्धार्तराष्ट्रैश्च राजहंसैश्च सुप्रियः।
कारण्डवैश्चक्रवाकैः सारसैः कुररैरपि ।। १६१.५२

विमलैः स्फाटिकाभैश्च पाण्डुरैश्च दनैर्द्विजैः।
बहु हंसोपगीतानि सारसाभिरुतानि च ।। १६१.५३

गन्धवत्यः शुभास्तत्र पुष्टमञ्जरि धारिणीः।
दृष्टवान् पर्वताग्नेषु नागपुष्पधरा लताः ।। १६१.५४

केतक्यशोकसरलाः पुन्नाग तिलकार्जुनाः।
चूता नीपाः प्रस्थपुष्पाः कदम्वा बकुलाधवाः ।। १६१.५५

प्रियङ्गु पाटलावृक्षाः शाल्मल्यः सहरिद्रकाः।
सालास्तालास्तमालाश्च पञ्चकाश्च मनोरमाः ।। १६१.५६

तथैवान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः।
विद्रुमाश्च द्रुमाश्चैव ज्वलिताग्निसमप्रभाः ।। १६१.५७

स्कन्धवन्तः सुशाखाश्च बहुतालसमुच्छ्रयाः।
अर्जुनाशोकवर्णाश्च बहवश्चित्रका द्रुमाः ।। १६१.५८

वरुणो वत्सनाभश्च पनसाः सह चन्दनैः।
नीलाः सुमनसश्चैव निम्बा अश्वत्थतिन्दुकाः ।। १६१.५९

पारिजाताश्च लोघ्राश्च मल्लिका भद्रदारवः।
आमलक्यस्तथाजम्बु लकुचाः शैलवालुकाः।। १६१.६०

कालीयकाद्रुकालाश्च हिङ्गवः पारियात्रकाः।
मन्दारकुन्दलक्ताश्च पतङ्गाः कुटजास्तथा ।। १६१.६१

रक्ताः कुरण्टकाश्चैव नीलाश्चागरुभिः सह।
कदम्बाश्चैव भव्याश्च दाडिमा वीजपूरकाः ।। १६१.६२

सप्तपर्णाश्च बिल्वाश्च मधुपैरावतास्तथा।
अशोकाश्च तमालाश्च नाना गुल्मलतावृताः ।। १६१.६३

मधूकाः सप्तपर्णाश्च बहवस्तीरगा द्रुमाः।
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः ।। १६१.६४

एते चान्ये च बहवस्तत्र काननजा द्रुमाः।
नानापुष्पफलोपेता व्यराजन्त समन्ततः ।। १६१.६५

चकोराः शतपत्राश्च मत्तकोकिल सारिकाः।
पुष्पिताः पुष्पिताग्रैश्च सम्पतन्ति महाद्रुमाः ।। १६१.६६

रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः।
परस्परमवेक्षन्ते प्रहृष्टा जीवजीवकाः ।। १६१.६७

तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुस्तदा।
स्त्रीसहस्रैः परिवृतो विचित्राभरणाम्वरः ।। १६१.६८

अनर्घ्यमणिवज्रार्चि शिखा ज्वलितकुण्डलः।
आसीनश्चासने चित्रे दश नल्वप्रमाणतः ।। १६१.६९

दिवाकरनिभे दिव्ये दिव्यास्तरण संस्तृते।
दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ ।। १६१.७०

हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुण्डलः।
उपचेरुर्महार्दैत्यं हिरण्यकशिपुं तदा ।। १६१.७१

दिव्यतानेन गीतानि जगुर्गन्धर्वसत्तमाः।
विश्वाची सहजन्याच प्रम्लोचेत्यभिविश्रुता ।। १६१.७२

दिव्याथ सौरभेयीच समीची पुञ्चिकस्थली।
मिश्रकेशीचरम्भा च चित्रलेखा शुचिस्मिता ।। १६१.७३

चारुकेशी घृताची च मेनका चोर्वशी तथा।
एताः सहस्रशश्चान्या नृत्यगीत विशारदाः ।। १६१.७४

उपतिष्ठन्त राजानं हिरण्यकशिपुं प्रभुम्।
तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम् ।। १६१.७५

उपासन्त दितेः पुत्राः सर्वे लब्धवरास्तथा।
तमप्रतिमकर्माणं शतशोऽथ सहस्रशः ।। १६१.७६

बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः।
प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः ।। १६१.७७

सुरहन्ता दुःखहन्ता सुनामा सुमतिर्वरः।
घटोदरो महापार्श्वः क्रथनः कठिनस्तथा ।। १६१.७८

विश्वरूपः सुरूपश्च स्वबलश्च महाबलः।
दशग्रीवश्च वालीच मेघवासा महासुरः ।। १६१.७९

घटास्यो कम्पनश्चैव प्रजनश्चेन्द्र तापनः।
दैत्यदानवसंघास्ते सर्वे ज्वलितकुण्डलाः ।। १६१.८०

स्रग्विणो वाग्मिनः सर्वे सदैव चरितव्रताः।
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ।। १६१.८१

एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम्।
उपासन्ति महात्मानं सर्वे दिव्यपरिच्छदाः ।। १६१.८२

विमानैर्विविधाकारैर्भ्राजमानैरिवाग्निभिः।
महेन्द्रवपुषः सर्वे विचित्राङ्गदवाहवः ।। १६१.८३

भूषिताङ्गा दितेः पुत्रास्तमुपासन्त सर्वशः।
तस्यां सभायान्दिव्यायामसुराः पर्वतोपमाः ।। १६१.८४

हिरण्यवपुषः सर्वे दिवाकरसमप्रभाः।
न श्रुतन्नैव दृष्टं हि हिरण्यकशिपोर्यथा ।। १६१.८५

ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः।
कनकरजतचित्रवेदिकायां परिहृतरत्न विचित्रवीथिकायाम्। १६१.८६

स ददर्श मृगाधिपः सभायां सुरचितरत्न गवाक्षशोभितायाम् ।। १६१.८७

कनकविमलहारविभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श।
दिवसकर महाप्रभालसं तन्दितिजसहस्रशतैः निषेव्यमाणम् ।। १६१.८८