मत्स्यपुराणम्/अध्यायः २२२
राजधर्मवर्णने सामप्रयोगवर्णनम्।
मनुरुवाच।
उपायांस्त्वं समाचक्ष्व सामपूर्वान् महाद्युते!।
लक्षणञ्च तथा तेषां प्रयोगञ्च सुरोत्तम!।। २२२.१ ।।
मत्स्य उवाच।
सामभेदस्तथा दानदण्डञ्च मनुजेश्वर!।
उपेक्षा च तथा माया इन्द्रजालञ्च पार्थिव! ।। २२२.२ ।।
प्रयोगाः कथिताः सप्त तन्मे निगदतः श्रृणु।
द्विविधं कथितं साम तथ्यञ्चातथ्यमेव च ।। २२२.३ ।।
तत्राप्यतथ्यं साधुनामाक्रोशायैव जायते।
तत्र साधुः प्रयत्नेन सामसाध्यो नरोत्तम! ।। २२२.४ ।।
महाकुलीना ऋजवो धर्मनित्या जितेन्द्रियाः।
सामसाध्या न चातथ्यन्तेषु साम प्रयोजयेत् ।। २२२.५ ।।
तथ्यं साम च कर्तव्यं कुलशीलादि वर्णनम्।
तथा तदुपचाराणां कृतानाञ्चैव वर्णनम्।। २२२.६ ।।
अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम्।
एवं साम्ना च कर्तव्या वशगा धर्मतत्पराः ।। २२२.७ ।।
साम्ना यद्यपि रक्षांसि गृह्णन्तीति परा श्रुतिः।
तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ।। २२२.८ ।।
अतिशङ्कितमित्येवं पुरुषं सामवादिनम्।
असाधवो विजानन्ति तस्मात्तत्तेषु वर्जयेत् ।। २२२.९ ।।
ये शुद्धवंशाः ऋजवः प्रणीता धर्मे स्थिताः सत्यपरा विनीताः।
ते सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततञ्च राजन् ।। २२२.१० ।।