मत्स्यपुराणम्/अध्यायः २५२
प्रासादभवनादीनां निर्माणवर्णनम्।
ऋषय ऊचुः।
प्रासादभवनादीनां निवेशं विस्तराद्वद।
कुर्य्यात् केन विधानेन कश्च वास्तुरुदाहृतः ।। २५२.१
सूत उवाच।
भृगुरत्रिर्वशिष्ठश्च विश्वकर्मा मयस्तथा।
नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः ।। २५२.२
ब्रह्माकुमारो नन्दीशः शौनको गर्ग एव च।
वासुदेवोऽनिरुद्धश्च तथा शुक्रबृहस्पती ।। २५२.३
अष्टादशैते विख्याता वास्तुशास्त्रोपदेशकाः।
सङ्क्षेपेणोपदिष्टन्तु मनवे मत्स्यरूपिणा ।। २५२.४
तदिदानीं प्रवक्ष्यामि वास्तुशास्त्रमनुत्तमम्।
पुरान्धकवधे घोरे घोररूपस्य शूलिनः ।। २५२.५
ललाटस्वेदसलिलमपतद् भुवि भीषणम्।
करालवदनं तस्मात् भूतमुद्भूतमुल्बणम् ।। २५२.६
ग्रसमानमिवाकाशं सप्तद्वीपां वसुन्धराम् ।
ततोऽन्धकानां रुधिरमपिबत्पतितं क्षितौ ।। २५२.७
तेन तत्समरे सर्वं पतितं यन्महीतले।
तथापि तृप्तिमगमन्न तद्भूतं यदा तदा ।। २५२.८
सदा शिवस्य पुरतस्तपश्चक्रे सुदारुणम्।
क्षुधाविष्टन्तु तद्भूतमाहर्तुं जगतीत्रयम् ।। २५२.९
ततः कालेन सन्तुष्टो भैरवस्तस्य चाहवे।
वरं वृणीष्व भद्रन्ते! यदभीष्टन्तवानघ! ।। २५२.१0
तमुवाच ततो भूतं त्रैलोक्य ग्रसनक्षमम्।
भवामि देवदेवेश तथेत्युक्तञ्च शूलिना ।। २५२.११
ततस्तत् त्रिदिवं सर्वं भूमण्डलमशेषतः।
स्वदेहेनान्तरिक्षञ्च रुन्धानं प्रपतद् भुवि ।। २५२.१२
भीतभीतैस्ततो देवैर्ब्रह्मणा चाथ शूलिना।
दानवासुररक्षोभिरवष्टब्धं समन्ततः ।। २५२.१३
येन यत्रैव चाक्रान्तं स तत्रैवावसत्पुनः।
निवासात् सर्वदेवानां वास्तुरित्यभिधीयते ।। २५२.१४
अवष्टब्धाश्च तेनापि विज्ञप्ताः सर्वदेवताः।
प्रसीदध्वं सुराः सर्वे युष्माभिर्निश्चलीकृतः।। २५२.१५
स्थास्यामहं किमाकारो ह्यवष्टब्धो ह्यधोमुखः।
ततो ब्रह्मादिभिः प्रोक्तं वास्तुमध्ये तु यो बलिः ।। २५२.१६
आहारो वैश्वदेवान्ते नूनमस्मिन् भविष्यति।
वास्तुपूजामकुर्वाणस्तवाहारो भविष्यति ।। २५२.१७
अज्ञानात्तु कृतो यज्ञस्तवाहारो भविष्यति।
यज्ञोत्सवादौ च बलिस्तवाहारो भविष्यति ।। २५२.१८
एवमुक्तस्ततो हृष्टः स वास्तुरभवत्तदा।
वास्तुयज्ञः स्मृतस्तस्मात्ततः प्रभृतिशान्तये ।। २५२.१९