मत्स्यपुराणम्/अध्यायः २१४
सावित्री तु ततः साध्वी जगाम वरवर्णिनी।
यथा यथा गतेनैव यत्रासीत्सत्यवान्मृतः ।। २१४.१ ।।
स समासाद्य भर्तारं तस्योत्सङ्ग गतं शिरः।
कृत्वा विवेश तन्वङ्गी लम्बमाने दिवाकरे ।। २१४.२ ।।
सत्यवानपि निर्मुक्तो धर्मराजाच्छनैः शनैः।
उन्मीलयत नेत्राभ्यां प्रास्फुरच्च नराधिप! ।। २१४.३ ।।
ततः प्रत्यागतप्राणः प्रियां वचनमब्रवीत्।
क्वासौ प्रयातः पुरुषो यो मामप्यपकर्षति ।। २१४.४ ।।
न जानामि वरारोहे! कश्चासौ पुरुषः शुभे।
वनेऽस्मिन्चारुसर्वाङ्गि! सुप्तस्य च दिनं गतम् ।। २१४.५ ।।
उपवासपरिश्रान्ता दुःखिता भवती मया।
अस्मद्दुर्हृदयेनाद्य पितरौ दुःखितौ तथा ।।
द्रष्टुमिच्छाम्यहं सुभ्रु! गगने त्वरिता भव ।। २१४.६ ।।
सावित्र्युवाच।
आदित्येऽस्तमनुप्राप्ते यदि ते रुचितं प्रभो!।
आश्रमन्तु प्रयास्यावः श्वशुरौ हीन चक्षुषौ ।। २१४.७ ।।
यथा वृत्तञ्च तत्रैव श्रृणु वक्ष्ये यथाश्रमे।
एतावदुक्त्वा भर्तारं सह भर्त्रा तदा ययौ ।। २१४.८ ।।
आससादाश्रमं चैव सह भर्त्रा नृपात्मजा।
एतस्मिन्नेव काले तु लब्धचक्षुर्महीपतिः ।। २१४.९ ।।
द्युमत्सेनः सभार्यस्तु पर्यतप्यत भार्गव!।
प्रियपुत्रमपश्यन्वै स्नुषाञ्चैवाथ कर्शिताम् ।। २१४.१० ।।
आश्वास्यमानस्तु तथा स तु राजा तपोधनैः।
ददर्श पुत्रमायान्तं स्नुषया सह कानने ।। २१४.११ ।।
सावित्री तु वरारोहा सह सत्यवता तदा।
ववन्दे तत्र राजानं सभार्यं क्षत्रपुङ्गवम् ।। २१४.१२ ।।
परिष्वक्तस्तदा पित्रा सत्यवान् राजनन्दनः।
अभिवाद्य ततः सर्वान् वने तस्मिस्तपोधनान् ।। २१४.१३ ।।
उवास तत्र मां रात्रिमृषिभिः सर्वधर्मवित्।
सावित्र्यपि जगादाथ यथावृत्तमनिन्दिता ।। २१४.१४ ।।
व्रतं समापयामास तस्यामेव यथा निशि।
ततस्तु यस्त्रियामान्ते ससैन्यस्तस्य भूपतेः ।। २१४.१५ ।।
आजगाम जनः सर्वो राज्यार्थाय निमन्त्रिणे।
विज्ञापयामास तदा तत्र प्रकृतिशासनम् ।। २१४.१६ ।।
विचक्षुषस्ते नृपते येन राज्यं पुरा हृतम्।
अमात्यैः स हतो राजा भवांस्तस्मिन् पुरे नृपः ।। २१४.१७ ।।
एतच्छ्रत्वा ययौ राजा बलेन चतुरङ्गिणा।
लेभे च सकलं राज्यं धर्मराजान् महात्मनः ।। २१४.१८ ।।
भ्रातॄणां तु शतं लेभे सावित्र्यपि वराङ्गना।
एवम्पतिव्रता साध्वी पितृपक्षं नृपात्मजा ।। २१४.१९ ।।
उज्जहार वरारोहा भर्तृपक्षं तथैव च।
मोक्षयामास भर्तारं मृत्युपाशगतं तदा ।। २१४.२० ।।
तस्मात्साधव्यः स्त्रियः पूज्याः सततं देववन्नरैः।
तासां राजन्! प्रसादेन धार्यते वै जगत्त्रयम् ।। २१४.२१ ।।
तासान्तु वाक्यं भवतीह मिथ्या न जातु लोकेषु चराचरेषु।
तस्मात्सदा ताः परिपूजनीयाः सामान् समग्रानभिकामयानैः ।। २१४.२२ ।।