मत्स्यपुराणम्/अध्यायः १५०
सूत उवाच
अथ ग्रसनमालोक्य यमः क्रोधविमूर्छितः
ववर्ष शरवर्षेण विशेषेणाग्निवर्चसा 150.1
स विद्धो बहुभिर्बाणैर्ग्रसनोऽतिपराक्रमः
कृतप्रतिकृताकाङ्क्षी धनुरानम्य भैरवम् 2
शतैः पञ्चभिरत्युग्रैः शराणां यममर्दयत्
स विचिन्त्य यमो बाणान्ग्रसनस्यातिपौरुषम् 3
बाणवृष्टिभिरुग्राभिर्यमो ग्रसनमर्दयत्
कृतान्तशरवृष्टिं तां वियति प्रतिसर्पिणीम् 4
चिछेद शरवर्षेण ग्रसनो दानवेश्वरः
विफलां तां समालोक्य यमस्तां शरसंततिम् 5
स विचिन्त्य शरव्रातं ग्रसनस्य रथं प्रति
चिक्षेप मुद्गरं घोरं तरसा तस्य चान्तकः 6
स तं मुद्गरमायान्तमुत्प्लुत्य गगनस्थितम्
जग्राह वामहस्तेन याम्यं दानवनन्दनः 7
तमेव मुद्गरं गृह्य यमस्य महिषं रुषा
पातयामास वेगेन स पपात महीतले 8
उत्प्लुत्याथ यमस्तस्मान्महिषान्निष्पतिष्यतः
प्रासेन ताडयामास ग्रसनं वदने दृढम् 9
स तु प्रासप्रहारेण मूर्छितो न्यपतद्भुवि
ग्रसनं पतितं दृष्ट्वा जम्भो भीमपराक्रमः 10
यमस्य भिन्दिपालेन प्रहारमकरोद्धृदि
यमस्तेन प्रहारेण सुस्राव रुधिरं मुखात् 11
कृतान्तं मर्दितं दृष्ट्वा गदापाणिर्धनाधिपः
वृतो यक्षायुतशतैर्जम्भं प्रत्युद्ययौ रुषा 12
जम्भो रुषा तमायान्तं दानवानीकसंवृतः
उवाच प्राज्ञो वाक्यं तु यथा स्निग्धेन भाषितम् 13
ग्रसनो लब्धसंज्ञोऽथ यमस्य प्राहिणोद्गदाम्
मणिहेमपरिष्कारां गुर्वीमरिविमर्दिनीम् 14
तामप्रतर्क्यां सम्प्रेक्ष्य गदां महिषवाहनः
गदायाः प्रतिघातार्थं जगद्दलनभैरवम् 15
दण्डं मुमोच कोपेन ज्वालामालासमाकुलम्
स गदां वियति प्राप्य ररासाम्बुधरो यथा 16
संघट्टमभवत्ताभ्यां शैलाभ्यामिव दुःसहम्
ताभ्यां निष्पेषनिर्ह्रादजडीकृतदिगन्तरम् 17
जगद् व्याकुलतां यातं प्रलयागमशङ्कया
क्षणात्प्रशान्तनिर्ह्रादं ज्वलदुल्कासमाचितम् 18
निष्पेषणे तयोर्भीममभूद्गगनगोचरम्
निहत्याथ गदां दण्डस्ततो ग्रसनमूर्धनि 19
हृत्वा श्रियमिवानर्थो दुर्वृत्तस्यापतद्दृढः
स तु तेन प्रहारेण दृष्ट्वा सतिमिरा दिशः 20
पपात भूमौ निःसंज्ञो भूमिरेणुविभूषितः
ततो हाहारवो घोरः सेनयोरुभयोरभूत् 21
ततो मुहूर्तमात्रेण ग्रसनः प्राप्य चेतनाम्
अपश्यत्स्वां तनुं ध्वस्तां विलोलाभरणाम्बराम् 22
स चापि चिन्तयामास कृते प्रतिकृतिक्रियाम्
मद्विधे वस्तुनि पुंसि प्रभोः परिभवोदयात् 23
मय्याश्रितानि सैन्यानि जिते मयि विनाशिता
असंभावित एवास्तु जनः स्वच्छन्दचेष्टितः 24
न तु व्यर्थशतोद्घुष्टसंभावितधनो नरः
एवं संचिन्त्य वेगेन समुत्तस्थौ महाबलः 150.25
मुद्गरं कालदण्डाभं गृहीत्वा गिरिसंनिभः
ग्रसनो घोरसंकल्पः संदष्टौष्ठपुटच्छदः 26
रथेन त्वरितो गच्छन्नाससादान्तकं रणे
समासाद्य यमं युद्धे ग्रसनो भ्राम्य मुद्गरम् 27
वेगेन महता रौद्रं चिक्षेप यममूर्धनि
विलोक्य मुद्गरं दीप्तं यमः संभ्रान्तलोचनः 28
वञ्चयामास दुर्धर्षं मुद्गरं स महाबलः
तस्मिन्नपसृते दूरं चण्डानां भीमकर्मणाम् 29
याम्यानां किंकराणां तु सहस्रं निष्पिपेष ह
ततस्तां निहतां दृष्ट्वा घोरां किंकरवाहिनीम् 30
अगमत्परमं क्षोभं नानाप्रहरणोद्यतः
ग्रसनस्तु समालोक्य तां किंकरमयीं चमूम् 31
मेने यमसहस्राणि सृष्टानि यममायया
निग्राह्य ग्रसनः सेनां विसृजन्नस्त्रवृष्टयः 32
कल्पान्तघोरसंकाशो बभूव क्रोधमूर्छितः
कांश्चिद्बिभेद शूलेन कांश्चिद्बाणैरजिह्मगैः 33
कांश्चित्पिपेष गदया कांश्च मुद्गरवृष्टिभिः
केचित्प्रासप्रहारैश्च दारुणैस्ताडितास्तदा 34
अपरे बहुशस्तस्य ललम्बुर्बाहुमण्डले
शिलाभिरपरे जघ्नुर्द्रुमैरन्यैर्महोच्छ्रयैः 35
तस्यापरे तु गात्रेषु दशनैरप्यदंशयन्
अपरे मुष्टिभिः पृष्ठं किंकराः प्रहरन्ति च 36
अभिद्रुतस्तथा घोरैर्ग्रसनः क्रोधमूर्छितः
उत्सृज्य गात्रं भूपृष्ठे निष्पिपेष सहस्रशः 37
कांश्चिदुत्थाय मुष्टिभिर्जघ्ने किंकरसंश्रयान्
स तु किंकरयुद्धेन ग्रसनः श्रममाप्तवान् 38
तमालोक्य यमः श्रान्तं निहतां च स्ववाहिनीम्
आजगाम समुद्यम्य दण्डं महिषवाहनः 39
ग्रसनस्तु समायान्तमाजघ्ने गदयोरसि
अचिन्तयित्वा तत्कर्म ग्रसनस्यान्तकोऽरिहा 40
जघ्ने रथस्य मूर्धन्यान्व्याघ्रान्दण्डेन कोपनः
स रथो दण्डमथितैर्व्याघ्रैरर्धैर्विकृष्यते 41
संशयः पुरुषस्येव चित्तं दैत्यस्य तद्र थम्
समुत्सृज्य रथं दैत्यः पदातिर्धरणीं गतः 42
यमं भुजाभ्यामादाय योधयामास दानवः
यमोऽपि शस्त्राण्युत्सृज्य बाहुयुद्धेष्ववर्तत 43
ग्रसनः कटिवस्त्रैस्तु यमं गुह्य बलोद्धतः
भ्रामयामास वेगेन प्रचित्तमिव सम्भ्रमः 44
यमोऽपि कण्ठेऽवष्टभ्य दैत्यं बाहुयुगेन तु
वेगेन भ्रामयामास समुत्कृष्य महीतलात् 45
ततो मुष्टिभिरन्योन्यं निर्दयौ तौ निजघ्नतुः
दैत्येन्द्रस्यातिकायत्वात्ततः श्रान्तभुजो यमः 46
स्कन्धे निधाय दैत्यस्य मुखं विश्रान्तिमैच्छत
तमालक्ष्य ततो दैत्यः श्रान्तमन्तकमोजसा 47
निष्पिपेष महीपृष्ठे बहुशः पार्ष्णिपाणिभिः
यावद्यमस्य वदनात्सुस्राव रुधिरं बहु 48
निर्जीवितं यमं दृष्ट्वा ततः संत्यज्य दानवः
जयं प्राप्योद्धतं दैत्यो नादं मुक्त्वा महास्वनः 49
स्वयं सैन्यं समासाद्य तस्थौ गिरिरिवाचलः
धनाधिपस्य जम्भेन सायकैर्मर्मभेदिभिः 150.50
दिशोऽवरुद्धाः क्रुद्धेन सैन्यं चास्य निकृन्तितम्
ततः क्रोधपरीतस्तु धनेशो जम्भदानवम् 51
हृदि विव्याध बाणानां सहस्रेणाग्निवर्चसाम्
सारथिं च शतेनाजौ ध्वजं दशभिरेव च 52
हस्तौ च पञ्चसप्तत्या मार्गणैर्दशभिर्धनुः
मार्गणैर्बर्हिपत्त्राङ्गैस्तैलधौतैरजिह्मगैः 53
सिंहमेकेन तं तीक्ष्णैर्विव्याध दशभिः शरैः
जम्भस्तु कर्म तद्दृष्ट्वा धनेशस्यातिदुष्करम् 54
हृदि धैर्यं समालम्ब्य किंचित्संत्रस्तमानसः
जग्राह निशितान्बाणाञ् छत्रुमर्मविभेदिनः 55
आकर्णाकृष्टचापस्तु जम्भः क्रोधपरिप्लुतः
विव्याध धनदं तीक्ष्णैः शरैर्वक्षसि दानवः 56
सारथिं चास्य बाणेन दृढेनाभ्यहनद्धृदि
चिछेद ज्यामथैकेन तैलधौतेन दानवः 57
ततस्तु निशितैर्बाणैर्दारुणैर्मर्मभेदिभिः
विव्याधोरसि वित्तेशं दशभिः क्रूरकर्मकृत् 58
मोहं परमतो गच्छन्दृढविद्धो हि वित्तपः
स क्षणाद्धैर्यमालम्ब्य धनुराकृष्य भैरवम् 59
किरन्बाणसहस्राणि निशितानि धनाधिपः
दिशः खं विदिशो भूमीरनीकान्यसुरस्य च 60
पूरयामास वेगेन संछाद्य रविमण्डलम्
जम्भोऽपि परमेकैकं शरैर्बहुभिराहवे 61
चिछेद लघुसंधानो धनेशस्यातिपौरुषात्
ततो धनेशः संक्रुद्धो दानवेन्द्र स्य कर्मणा 62
व्यधमत्तस्य सैन्यानि नानासायकवृष्टिभिः
तद्दृष्ट्वा दुष्कृतं कर्म धनाध्यक्षस्य दानवः 63
गृहीत्वा मुद्गरं भीममायसं हेमभूषितम्
धनदानुचरान्यक्षान्निष्पिपेष सहस्रशः 64
ते वध्यमाना दैत्येन मुञ्चन्तो भैरवान्रवान्
रथं धनपतेः सर्वे परिवार्य व्यवस्थिताः 65
दृष्ट्वा तानर्दितान्देवः शूलं जग्राह दारुणम्
तेन दैत्यसहस्राणि सूदयामास सत्वरः 66
क्षीयमाणेषु दैत्येषु दानवः क्रोधमूर्छितः
जग्राह परशुं दैत्यो मर्दनं दैत्यविद्विषाम् 67
स तेन शितधारेण धनभर्तुर्महारथम्
चिछेद शतशो दैत्यो ह्याखुः स्निग्धमिवाम्बरम् 68
पदातिरथ वित्तेशो गदामादाय भैरवीम्
महाहवविमर्देषु दृप्तशत्रुविनाशिनीम् 69
अधृष्यां सर्वभूतानां बहुवर्षगणार्चिताम्
नानाचन्दनदिग्धाङ्गां दिव्यपुष्पविवासिताम् 70
निर्मलायोमयीं गुर्वीममोघां हेमभूषणाम्
चिक्षेप मूर्ध्नि संक्रुद्धो जम्भस्य तु धनाधिपः 71
आयान्तीं तां समालोक्य तडित्संघातमण्डिताम्
दैत्यो गदाभिघातार्थं शस्त्रवृष्टिं मुमोच ह 72
चक्राणि कुणपान्प्रासान्भुशुण्डीः पट्टिशानपि
हेमकेयूरनद्धाभ्यां बाहुभ्यां चण्डविक्रमः 73
व्यर्थीकृत्य तु तान्सर्वानायुधान्दैत्यवक्षसि
प्रस्फुरन्ती पपातोग्रा महोल्केवाद्रि कन्दरे 74
स तयाभिहतो गाढं पपात रथकूबरे
स्रोतोभिश्चास्य रुधिरं सुस्राव गतचेतसः 150.75
जम्भं तु निहतं मत्वा कुजम्भो भैरवस्वनः
धनाधिपस्य संक्रुद्धो वाक्येनातीव कोपितः 76
चक्रे बाणमयं जालं दिक्षु यक्षाधिपस्य तु
चिच्छेद बाणजालं तदर्धचन्द्रैः शितैस्ततः 77
मुमोच शरवृष्टिं तु तस्मै यक्षाधिपो बली
स तं दैत्यः शरव्रातं चिछेद निशितैः शरैः 78
व्यर्थीकृतां तु तां दृष्ट्वा शरवृष्टिं धनाधिपः
शक्तिं जग्राह दुर्धर्षां हेमघण्टाट्टहासिनीम् 79
बाहुना रत्नकेयूरकान्तिसंतानहासिना
स तां निरूप्य वेगेन कुजम्भाय मुमोच ह 80
सा कुजम्भस्य हृदयं दारयामास दारुणम्
वित्तेहा स्वल्पसत्त्वस्य पुरुषस्येव भाविता 81
अथास्य हृदयं भित्त्वा जगाम धरणीतलम्
ततो मुहूर्तादस्वस्थो दानवो दारुणाकृतिः 82
जग्राह पट्टिशं दैत्यः प्रांशुं शितशिलामुखम्
स तेन पट्टिशेनाजौ धनदस्य स्तनान्तरम् 83
वाक्येन तीक्ष्णरूपेण मर्मान्तरविसर्पिणा
निर्बिभेदाभिजातस्य हृदयं दुर्जनो यथा 84
तेन पट्टिशघातेन धनेशः परिमूर्छितः
निपपात रथोपस्थे जर्जरो धूर्वहो यथा 85
तथागतं तु तं दृष्ट्वा धनेशं नरवाहनम्
खड्गास्त्रो निरृतिर्देवो निशाचरबलानुगः 86
अभिदुद्रा व वेगेन कुजम्भं भीमविक्रमम्
अथ दृष्ट्वा तु दुर्धर्षं कुजम्भो राक्षसेश्वरम् 87
चोदयामास सैन्यानि राक्षसेन्द्र वधं प्रति
स दृष्ट्वा चोदितां सेनां भल्लनानास्त्रभीषणाम् 88
रथादाप्लुत्य वेगेन भूषणद्युतिभास्वरः
खड्गेन कमलानीव विकोशेनाम्बरत्विषा 89
चिछेद रिपुवक्त्राणि विचित्राणि समन्ततः
तिर्यक्पृष्ठमधश्चोर्ध्वं दीर्घबाहुर्महासिना 90
संदष्टौष्ठपुटाटोपभ्रुकुटीविकटाननः
प्रचण्डकोपरक्ताक्षो न्यकृन्तद्दानवान्रणे 91
ततो निःशेषितप्रायां विलोक्य स्वामनीकिनीम्
मुक्त्वा कुजम्भो धनदं राक्षसेन्द्र मभिद्र वन् 92
लब्धसंज्ञोऽथ जम्भस्तु धनाध्यक्षपदानुगान्
जीवग्राहान्स जग्राह बद्ध्वा पाशैः सहस्रशः 93
मूर्तिमन्ति तु रत्नानि विविधानि च दानवाः
वाहनानि च दिव्यानि विमानानि सहस्रशः 94
धनेशो लब्धसंज्ञोऽथ तामवस्थां विलोक्य तु
निःश्वसन्दीर्घमुष्णं च रोषात्ताम्रविलोचनः 95
ध्यात्वास्त्रं गारुडं दिव्यं बाणं संधाय कार्मुके
मुमोच दानवानीके तं बाणं शत्रुदारणम् 96
प्रथमं कार्मुकात्तस्य निश्चेरुर्धूमराजयः
अनन्तरं स्फुलिङ्गानां कोटयो दीप्तवर्चसाम् 97
ततो ज्वालाकुलं व्योम चकारास्त्रं समन्ततः
ततः क्रमेण दुर्वारं नानारूपं तदाभवत् 98
अमूर्तश्चाभवल्लोको ह्यन्धकारसमावृतः
ततोऽन्तरिक्षे शंसन्ति तेजस्ते तु परिष्कृतम् 99
कुजम्भस्तत्समालोच्य दानवोऽतिपराक्रमः
अभिदुद्रा व वेगेन पदातिर्धनदं नदन् 150.100
अथाभिमुखमायान्तं दैत्यं दृष्ट्वा धनाधिपः
बभूव सम्भ्रमाविष्टः पलायनपरायणः 101
ततः पलायतस्तस्य मुकुटं रत्नमण्डितम्
पपात भूतले दीप्तं रविबिम्बमिवाम्बरात् 102
शूराणामभिजातानां भर्तर्यपसृते रणात्
मर्तुं संग्रामशिरसि युक्तं तद्भूषणाग्रतः 103
इति व्यवस्य दुर्धर्षा नानाशस्त्रास्त्रपाणयः
युयुत्सवः स्थिता यक्षा मुकुटं परिवार्य तम् 104
अभिमानधना वीरा धनदस्य पदानुगाः
तानमर्षाच्च सम्प्रेक्ष्य दानवश्चण्डपौरुषः 105
भुशुण्डीं भैरवाकारां गृहीत्वा शैलगौरवाम्
रक्षिणो मुकुटस्याथ निष्पिपेष निशाचरान् 106
तान्प्रमथ्याथ दनुजो मुकुटं तत्स्वके रथे
समारोप्यामररिपुर्जित्वा धनदमाहवे 107
धनानि रत्नानि च मूर्तिमन्ति तथा निधानानि शरीरिणश्च
आदाय सर्वाणि जगाम दैत्यो जम्भः स्वसैन्यं दनुजेन्द्र सिंहः
धनाधिपो वै विनिकीर्णमूर्धजो जगाम दीनः सुरभर्तुरन्तिकम् 108
कुजम्भेनाथ संसक्तो रजनीचरनन्दनः
मायाममोघामाश्रित्य तामसीं राक्षसेश्वरः 109
मोहयामास दैत्येन्द्रं जगत्कृत्वा तमोमयम्
ततो विफलनेत्राणि दानवानां बलानि तु 110
न शेकुश्चलितं तत्र पदादपि पदं तदा
ततो नानास्त्रवर्षेण दानवानां महाचमूम् 111
जघान घननीहारतिमिरातुरवाहनाम्
वध्यमानेषु दैत्येषु कुजम्भे मूढचेतसि 112
महिषो दानवेन्द्र स्तु कल्पान्ताम्भोदसंनिभः
अस्त्रं चकार सावित्रमुल्कासंघातमण्डितम् 113
विजृम्भत्यथ सावित्रे परमास्त्रे प्रतापिनि
प्रणाशमगमत्तीव्रं तमो घोरमनन्तरम् 114
ततोऽस्त्रं विस्फुलिङ्गाङ्कं तमः कृत्स्नं व्यनाशयत्
प्रफुल्लारुणपद्मौघं शरदीवामलं सरः 115
ततस्तमसि संशान्ते दैत्येन्द्रा ः! प्राप्तचक्षुषः
चक्रुः क्रूरेण मनसा देवानीकैः सहाद्भुतम् 116
शस्त्रैरमर्षान्निर्मुक्तैर्भुजंगास्त्रं विनोदितम्
अथादाय धनुर्घोरमिषूंश्चाशीविषोपमान् 117
कुजम्भोऽधावत क्षिप्तं रक्षोराजबलं प्रति
राक्षसेन्द्र स्तमायान्तं विलोक्य सपदानुगः 118
विव्याध निशितैर्बाणैः क्रूराशीविषभीषणैः
तदादानं च संधानं न मोक्षश्चापि लक्ष्यते 119
चिछेदास्य शरव्रातान्स्वशरैरतिलाघवात्
ध्वजं परमतीक्ष्णेन चित्रकर्मामरद्विषः 120
सारथिं चास्य भल्लेन रथनीडादपातयत्
कुजम्भः कर्म तद्दृष्ट्वा राक्षसेन्द्र स्य संयुगे 121
रोषरक्तेक्षणयुतो रथादाप्लुत्य दानवः
खड्गं जग्राह वेगेन शरदम्बरनिर्मलम् 122
चर्म चोदयखण्डेन्दुदशकेन विभूषितम्
अभ्यद्र वद्र णे दैत्यो रक्षोऽधिपतिमोजसा 123
तं रक्षोऽधिपतिः प्राप्तं मुद्गरेणाहनद्धृदि
स तु तेन प्रहारेण क्षीणः संभ्रान्तमानसः 124
तस्थावचेष्टो दनुजो यथा धीरो धराधरः
स मुहूर्तं समाश्वस्तो दानवेन्द्रो ऽतिदुर्जयः 150.125
रथमारुह्य जग्राह रक्षो वामकरेण तु
केशेषु निरृतिं दैत्यो जानुनाक्रम्य धिष्ठितम् 126
ततः खड्गेन च शिरश्छेत्तुमैच्छदमर्षणः
तस्मिंस्तदन्तरे देवो वरुणोऽपांपतिर्द्रुतम् 127
पाशेन दानवेन्द्र स्य बबन्ध च भुजद्वयम्
ततो बद्धभुजं दैत्यं विफलीकृतपौरुषम् 128
ताडयामास गदया दयामुत्सृज्य पाशभृत्
स तु तेन प्रहारेण स्रोतोभिः क्षतजं वमन् 129
दधार रूपं मेघस्य विद्युन्मालालतावृतम्
तदवस्थागतं दृष्ट्वा कुजम्भं महिषासुरः 130
व्यावृत्तवदनेऽगाधे ग्रस्तुमैच्छत्सुरावुभौ
निरृतिं वरुणं चैव तीक्ष्णदंष्ट्रोत्कटाननः 131
तावभिप्रायमालक्ष्य तस्य दैत्यस्य दूषितम्
त्यक्त्वा रथपथं भीतौ महिषस्यातिरंहसा 132
भृशं द्रुतौ जवाद्दिग्भ्यामुभाभ्यां भयविह्वलौ
जगाम निरृतिः क्षिप्रं शरणं पाकशासनम् 133
क्रुद्धस्तु महिषो दैत्यो वरुणं समभिद्रुतः
तमन्तकमुखासक्तमालोक्य हिमवद्द्युतिः 134
चक्रे सोमास्त्रनिःसृष्टं हिमसंघातकण्टकम्
वायव्यं चास्त्रमतुलं चन्द्र श्चक्रे द्वितीयकम् 135
वायुना तेन चन्द्रे ण संशुष्केण हिमेन च
व्यथिता दानवाः सर्वे शीतोच्छिन्ना विपौरुषाः 136
न शेकुश्चलितुं पद्भ्यां नास्त्राण्यादातुमेव च
महाहिमनिपातेन शस्त्रैश्चन्द्र प्रचोदितैः 137
गात्राण्यसुरसैन्यानामदह्यन्त समन्ततः
महिषो निष्प्रयत्नस्तु शीतेनाकम्पिताननः 138
कक्षावालम्ब्य पाणिभ्यामुपविष्टो ह्यधोमुखः
सर्वे ते निष्प्रतीकारा दैत्याश्चन्द्र मसा जिताः 139
रणेच्छां दूरतस्त्यक्त्वा तस्थुस्ते जीवितार्थिनः
तत्राब्रवीत्कालनेमिर्दैत्यान्कोपेन दीपितः 140
भो भोः शृङ्गारिणः शराः सर्वे शस्त्रास्त्रपारगाः
एकैकोऽपि जगत्सर्वं शक्तस्तुलयितुं भुजैः 141
एकैकोऽपि क्षमो ग्रस्तुं जगत्सर्वं चराचरम्
एकैकस्यापि पर्याप्ता न सर्वेऽपि दिवौकसः 142
कलां पूरयितुं यत्नात् षोडशीमतिविक्रमाः
किं प्रयाताश्च तिष्ठध्वं समरेऽमरनिर्जिताः 143
न युक्तमेतच्छूराणां विशेषाद्दैत्यजन्मनाम्
राजा चान्तरितोऽस्माकं तारको लोकमारकः 144
विरतानां रणादस्मात्क्रुद्धः प्राणान्हरिष्यति
शीतेन नष्टश्रुतयो भ्रष्टवाक्पाटवास्तथा 145
मूकास्तदाभवन्दैत्या रणद्दशनपङ्क्तयः
तान्दृष्ट्वा नष्टचेतस्कान्दैत्याञ्छीतेन सादितान् 146
मत्वा कालक्षमं कार्यं कालनेमिर्महासुरः
आश्रित्य दानवीं मायां वितत्य स्वं महावपुः 147
पूरयामास गगनं दिशो विदिश एव च
निर्ममे दानवेन्द्रे शः शरीरे भास्करायुतम् 148
दिशश्च मायया चण्डैः पूरयामास पावकैः
ततो ज्वालाकुलं सर्वं त्रैलोक्यमभवत्क्षणात् 149
तेन ज्वालासमूहेन हिमांशुरगमच्छमम्
ततः क्रमेण विभ्रष्टं शीतदुर्दिनमाबभौ 150.150
तद्बलं दानवेन्द्रा णां मायया कालनेमिनः
तद्दृष्ट्वा दानवानीकं लब्धसंज्ञं दिवाकरः
उवाचारुणमुद्भ्रान्तः कोपाल्लोकैकलोचनः 151
दिवाकर उवाच
नयारुण रथं शीघ्रं कालनेमिरथो यतः
विमर्दस्तत्र विषमो भविता शूरसंक्षयः 152
जित एष शशाङ्कोऽत्र यद्बलं वयमाश्रिताः
इत्युक्तश्चोदयामास रथं गरुडपूर्वजः 153
प्रयत्नविधृतैरश्वैः सितचामरमालिभिः
जगद्दीपोऽथ भगवाञ् जग्राह विततं धनुः 154
शरौ च द्वौ महाभागो दिव्यावाशीविषद्युती
संचारास्त्रेण संधाय बाणमेकं ससर्ज सः 155
द्वितीयमिन्द्र जालेन योजितं प्रमुमोच ह
संचारास्त्रेण रूपाणां क्षणाच्चक्रे विपर्ययम् 156
देवानां दानवं रूपं दानवानां च दैविकम्
मत्वा सुरान्स्वकानेव जघ्ने घोरास्त्रलाघवात् 157
कालनेमी रुषाविष्टः कृतान्त इव संक्षये
कांश्चित्खड्गेन तीक्ष्णेन कांश्चिन्नाराचवृष्टिभिः
कांश्चिद्गदाभिर्घोराभिः कांश्चिद्घोरैः परश्वधैः 158
शिरांसि केषांचिदपातयच्च भुजान्रथान्सारथींश्चोग्रवेगः
कांश्चित्पिपेषाथ रथस्य वेगात्कांश्चित्क्रुधा चोद्धतमुष्टिपातैः 159
रणे विनिहतान्दृष्ट्वा नेमिः स्वान्दानवाधिपः
रूपं स्वं तु प्रपद्यन्त ह्यसुराः सुरधर्षिताः 160
कालनेमी रुषाविष्टस्तेषां रूपं न बुद्धवान्
नेमिदैत्यस्तु तान्दृष्ट्वा कालनेमिमुवाच ह 161
अहं नेमिः सुरो नैव कालनेमे विदस्व माम्
भवता मोहितेनाजौ निहता भूरिविक्रमाः 162
दैत्यानां दशलक्षाणि दुर्जयानां सुरैरिह
सर्वास्त्रवारणं मुञ्च ब्राह्ममस्त्रं त्वरान्वितः 163
स तेन बोधितो दैत्यः सम्भ्रमाकुलचेतनः
योजयामास बाणं हि ब्रह्मास्त्रविहितेन तु 164
मुमोच चापि दैत्येन्द्र ः! स स्वयं सुरकण्टकः
ततोऽस्त्रतेजसा व्याप्तं त्रैलोक्यं सचराचरम् 165
देवानां चाभवत्सैन्यं सर्वमेव भयान्वितम्
संचरास्त्रं च संशान्तं स्वयमायोधने बभौ 166
तस्मिन्प्रतिहते ह्यस्त्रे भ्रष्टतेजा दिवाकरः
महेन्द्र जालमाश्रित्य चक्रे स्वां कोटिशस्तनुम् 167
विस्फूर्जत्करसम्पातसमाक्रान्तजगत्त्रयम्
तताप दानवानीकं गतमज्जौघशोणितम् 168
ततश्चावर्षदनलं समन्तादतिसंहतम्
चक्षूंषि दानवेन्द्रा णां चकारान्धानि च प्रभुः 169
गजानामगलन्मेदः पेतुश्चाप्यरवा भुवि
तुरगा निःश्वसन्तश्च घर्मार्ता रथिनोऽपि च 170
इतश्चेतश्च सलिलं प्रार्थयन्तस्तृषातुराः
प्रच्छायविटपांश्चैव गिरीणां गह्वराणि च 171
तेषां प्रार्थयतां शीतं द्रुमान्तरविसर्पिणाम्
दावाग्निः प्रज्वलंश्चैव घोरार्चिर्दग्धपादपः
तोयार्थिनः पुरो दृष्ट्वा तोयं कल्लोलमालिनम् 172
पुरःस्थितमपि प्राप्तुं न शेकुरवमर्दिताः
अप्राप्य सलिलं भूमौ व्यात्तास्या गतचेतसः 173
तत्र तत्र व्यदृश्यन्त मृता दैत्येश्वरा भुवि
रथा गजाश्च पतितास्तुरगाश्च समापिताः 174
स्थिता वमन्तो धावन्तो गलद्र क्तवसासृजः
दानवानां सहस्राणि व्यदृश्यन्त मृतानि तु 150.175
संक्षये दानवेन्द्रा णां तस्मिन्महति वर्तिते
प्रकोपोद्भूतताम्राक्षः कालनेमी रुषातुरः 176
अभवत्कल्पमेघाभः स्फुरद्भूरिशतह्रदः
गम्भीरास्फोटनिर्ह्रादजगद्धृदयघट्टकः 177
प्रच्छाद्य गगनाभोगं रविमायां व्यनाशयत्
शीतं ववर्ष सलिलं दानवेन्द्र बलं प्रति 178
दैत्यास्तां वृष्टिमासाद्य समाश्वस्तास्ततः क्रमात्
बीजाङ्कुरा इवाम्लानाः प्राप्य वृष्टिं धरातले 179
ततः स मेघरूपी तु कालनेमिर्महासुरः
शस्त्रवृष्टिं ववर्षोग्रां देवानीकेषु दुर्जयाम् 180
तया वृष्ट्या बाध्यमाना दैत्येन्द्रा णां महौजसाम्
गतिं कां च न पश्यन्तो गावः शीतार्दिता इव 181
परस्परं व्यलीयन्त पृष्ठेषु व्यस्त्रपाणयः
स्वेषु बाधे व्यलीयन्त गजेषु तुरगेषु च 182
रथेषु त्वमरास्त्रस्तास्तत्र तत्र निलिल्यिरे
अपरे कुञ्चितैर्गात्रैः स्वहस्तपिहिताननाः 183
इतश्चेतश्च संभ्रान्ता बभ्रमुर्वै दिशो दश
एवंविधे तु संग्रामे तुमुले देवसंक्षये 184
दृश्यन्ते पतिता भूमौ शस्त्रभिन्नाङ्गसंधयः
विभुजा भिन्नमूर्धानस्तथा छिन्नोरुजानवः 185
विपर्यस्तरथासङ्गा निष्पिष्टध्वजपङ्क्तयः
निर्भिन्नाङ्गैस्तुरंगैस्तु गजैश्चाचलसंनिभैः 186
स्रुतरक्तह्रदैर्भूमिर्विकृताविकृता बभौ
एवमाजौ बली दैत्यः कालनेमिर्महासुरः 187
जघ्ने मुहूर्तमात्रेण गन्धर्वाणां दशायुतम्
यक्षाणां पञ्च लक्षाणि रक्षसामयुतानि षट् 188
त्रीणि लक्षाणि जघ्ने स किंनराणां तरस्विनाम्
जघ्ने पिशाचमुख्यानां सप्त लक्षाणि निर्भयः 189
इतरेषामसंख्याताः सुरजातिनिकायिनाम्
जघ्ने स कोटीः संक्रुद्धश्चित्रास्त्रैरस्त्रकोविदः 190
एवं परिभवे भीमे तदा त्वमरसंक्षये
संक्रुद्धावश्विनौ देवौ चित्रास्त्रकवचोज्ज्वलौ 191
जघ्नतुः समरे दैत्यं कृतान्तानलसंनिभम्
तमासाद्य रणे घोरमेकैकः षष्टिभिः शरैः 192
जघ्ने मर्मसु तीक्ष्णाग्रैरसुरं भीमदर्शनम्
ताभ्यां बाणप्रहारैः स किंचिदायस्तचेतनः 193
जग्राह चक्रमष्टारं तैलधौतं रणान्तकम्
तेन चक्रेण सोऽश्विभ्यां चिछेद रथकूबरम् 194
जग्राहाथ धनुर्दैत्यः शरांश्चाशीविषोपमान्
ववर्ष भिषजो मूर्ध्नि संछाद्याकाशगोचरम् 195
तावप्यस्त्रैश्चिछिदतुः शितैस्तैर्दैत्यसायकान्
तच्च कर्म तयोर्दृष्ट्वा विस्मितः कोपमाविशत् 196
महता स तु कोपेन सर्वायोमयसादनम्
जग्राह मुद्गरं भीमं कालदण्डविभीषणम् 197
स ततो भ्राम्य वेगेन चिक्षेपाश्विरथं प्रति
तं तु मुद्गरमायान्तमालोक्याम्बरगोचरम् 198
त्यक्त्वा रथौ तु तौ वेगादाप्लुतौ तरसाश्विनौ
तौ रथौ स तु निष्पिष्य मुद्गरोऽचलसंनिभः 199
दारयामास धरणीं हेमजालपरिष्कृतः
तस्य कर्माश्विनौ दृष्ट्वा भिषजौ चित्रयोधिनौ 150.200
वज्रास्त्रं तु प्रकुर्वाते दानवेन्द्र निवारणम्
ततो वज्रमयं वर्षं प्रावर्तदतिदारुणम् 201
घोरवज्रप्रहारैस्तु दैत्येन्द्र ः! स परिष्कृतः
रथो ध्वजो धनुश्चक्रं कवचं चापि काञ्चनम् 202
क्षणेन तिलशो जातं सर्वसैन्यस्य पश्यतः
तद्दृष्ट्वा दुष्करं कर्म सोऽश्विभ्यां भीमविक्रमः 203
नारायणास्त्रं बलवान्मुमोच रणमूर्धनि
वज्रास्त्रं शमयामास दानवेन्द्रो ऽस्त्रतेजसा 204
तस्मिन्प्रशान्ते वज्रास्त्रे कालनेमिरनन्तरम्
जीवग्राहं ग्राहयितुमश्विनौ तु प्रचक्रमे 205
तावश्विनौ रणाद्भीतौ सहस्राक्षरथं प्रति
प्रयातौ वेपमानौ तु पदा शस्त्रविवर्जितौ 206
तयोरनुगतो दैत्यः कालनेमिर्महाबलः
प्राप्येन्द्र स्य रथं क्रूरो दैत्यानीकपदानुगः 207
तं दृष्ट्वा सर्वभूतानि वित्रेसुर्विह्वलानि तु
दृष्ट्वा दैत्यस्य तत्क्रौर्यं सर्वभूतानि मेनिरे 208
पराजयं महेन्द्र स्य सर्वलोकक्षयावहम्
चेलुः शिखरिणो मुख्याः पेतुरुल्का नभस्तलात् 209
जगर्जुर्जलदा दिक्षु ह्युद्भूताश्च महार्णवाः
तां भूतविकृतिं दृष्ट्वा भगवान्गरुडध्वजः 210
व्यबुध्यताहिपर्यङ्के योगनिद्रां विहाय तु
लक्ष्मीकरयुगाजस्रलालिताङ्घ्रिसरोरुहः 211
शरदम्बरनीलाब्जकान्तदेहछविर्विभुः
कौस्तुभोद्भासितोरस्कः कान्तकेयूरभास्वरः 212
विमृश्य सुरसंक्षोभं वैनतेयं समाह्वयत्
आहूतेऽवस्थिते तस्मिन्नागावस्थितवर्ष्मणि 213
दिव्यनानास्त्रतीक्ष्णार्चिरारुह्यागात्सुरान्स्वयम्
तत्रापश्यत देवेन्द्र मभिद्रुतमभिप्लुतैः 214
दानवेन्द्रै र्नवाम्भोदसच्छायैः पौरुषोत्कटैः
यथा हि पुरुषं घोरैरभाग्यैर्वंशशालिभिः 215
परित्राणायाशु कृतं सुक्षेत्रे कर्म निर्मलम्
अथापश्यन्त दैतेया वियति ज्योतिर्मण्डलम् 216
स्फुरन्तमुदयाद्रि स्थं सूर्यमुष्णत्विषा इव
प्रभावं ज्ञातुमिच्छन्तो दानवास्तस्य तेजसः 217
गरुत्मन्तमपश्यन्तः कल्पान्तानलसंनिभम्
तमास्थितं च मेघौघद्युतिमक्षयमच्युतम् 218
तमालोक्यासुरेन्द्रा स्तु हर्षसम्पूर्णमानसाः
अयं वै देवसर्वस्वं जितेऽस्मिन्निर्जिताः सुराः 219
अयं स दैत्यचक्राणां कृतान्तः केशवोऽरिहा
एनमाश्रित्य लोकेषु यज्ञभागभुजोऽमराः 220
इत्युक्त्वा दानवाः सर्वे परिवार्य समन्ततः
निजघ्नुर्विविधैरस्त्रैस्ते तमायान्तमाहवे 221
कालनेमिप्रभृतयो दश दैत्या महारथाः
षष्ट्या विव्याध बाणानां कालनेमिर्जनार्दनम् 222
निमिः शतेन बाणानां मथनोऽशीतिभिः शरैः
जम्भकश्चैव सप्तत्या शुम्भो दशभिरेव च 223
शेषा दैत्येश्वराः सर्वे विष्णुमेकैकशः शरैः
दशभिश्चैव यत्तास्ते जघ्नुः सगरुडं रणे 224
तेषाममृष्य तत्कर्म विष्णुर्दानवसूदनः
एकैकं दानवं जघ्ने षड्भिः षड्भिरजिह्मगैः 150.225
आकर्णकृष्टैर्भूयश्च कालनेमिस्!त्रिभिः शरैः
विष्णुं विव्याध हृदये क्रोधाद्र क्तविलोचनः 226
तस्याशोभन्त ते बाणा हृदये तप्तकाञ्चनाः
मयूखानीव दीप्तानि कौस्तुभस्य स्फुटत्विषः 227
तैर्बाणैः किंचिदायस्तो हरिर्जग्राह मुद्गरम्
सततं भ्राम्य वेगेन दानवाय व्यसर्जयत् 228
दानवेन्द्र स्तमप्राप्तं वियत्येव शतैः शरैः
चिछेद तिलशः क्रुद्धो दर्शयन्पाणिलाघवम् 229
ततो विष्णुः प्रकुपितः प्रासं जग्राह भैरवम्
तेन दैत्यस्य हृदयं ताडयामास गाढतः 230
क्षणेन लब्धसंज्ञस्तु कालनेमिर्महासुरः
शक्तिं जग्राह तीक्ष्णाग्रां हेमघण्टाट्टहासिनीम् 231
तया वामभुजं विष्णोर्बिभेद दितिनन्दनः
भिन्नः शक्त्या भुजस्तस्य स्रुतशोणित आबभौ 232
पद्मरागमयेनेव केयूरेण विभूषितः
ततो विष्णुः प्रकुपितो जग्राह विपुलं धनुः 233
सप्तदश च नाराचांस्तीक्ष्णान्मर्मविभेदिनः
दैत्यस्य हृदयं षड्भिर्विव्याध च त्रिभिः शरैः 234
चतुर्भिः सारथिं चास्य ध्वजं चैकेन पत्त्रिणा
द्वाभ्यां ज्याधनुषी चापि भुजं सव्यं च पत्त्रिणा 235
स विद्धो हृदये गाढं दैत्यो हरिशिलीमुखैः
स्रुतरक्तारुणप्रांशुः पीडाकुलितमानसः 236
चकम्पे मारुतेनेव नोदितः किंशुकद्रुमः
तमाकम्पितमालक्ष्य गदां जग्राह केशवः 237
तां च वेगेन चिक्षेप कालनेमिरथं प्रति
सा पपात शिरस्युग्रा विपुला कालनेमिनः 238
संचूर्णितोत्तमाङ्गस्तु निष्पिष्टमुकुटोऽसुरः
स्रुतरक्तौघरन्ध्रस्तु स्रुतधातुरिवाचलः 239
प्रापतत्स्वे रथे भग्ने विसंज्ञः शिष्टजीवितः
पतितस्य रथोपस्थे दानवस्याच्युतोऽरिहा 240
स्मितपूर्वमुवाचेदं वाक्यं चक्रायुधः प्रभुः
गच्छासुर विमुक्तोऽसि साम्प्रतं जीव निर्भयः 241
ततः स्वल्पेन कालेन अहमेव तवान्तकः
एतच्छ्रुत्वा वचस्तस्य सारथिः कालनेमिनः
अपवाह्य रथं दूरमनयत्कालनेमिनः 242
इति श्रीमात्स्ये महापुराणे देवासुरसङ्ग्रामे कालनेमिपराजयो नाम पञ्चाशदधिकशततमोऽध्यायः