मत्स्यपुराणम्/अध्यायः ९९
विभूतिद्वादशीव्रतकथनम्।
नंदिकेश्वर उवाच।
श्रृणु नारद! वक्ष्यामि विष्णोर्व्रतमनुत्तमम्।
विभूतिद्वादशी नाम सर्वदेवनमस्कृतम्।। ९९.१ ।।
कार्तिके चैत्रवैशाखे मार्गशीर्षे च फाल्गुने।
आषाढे वा दशम्यान्तु शुक्लायां लघुभुङ्नरः।
कृत्वा सायन्तनीं सन्ध्यां गृह्णीयान्नियमं बुधः।। ९९.२ ।।
एकादश्यां निराहारः समभ्यर्च जनार्दनम्।
द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो!।। ९९.३ ।।
तदविघ्नेन मे यातु सफलं स्याच्च केशव!
नमो नारायणायेति वाच्यञ्च स्वपता निशि ।। ९९.४ ।।
ततः प्रभात उत्थाय सावित्र्यष्टशतञ्जपेत्।
पूजयेत् पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः।। ९९.५ ।।
विभूतये नमः पादावशोकाय च जानुनी।
नमः शिवायेत्यूरू च विश्वमूर्ते! नमः कटिम्।। ९९.६ ।।
कन्दर्पाय नमो मेढ्रं फलं नारायणाय च।
दामोदरायेत्युदरं वासुदेवाय च स्तनौ।। ९९.७ ।।
माधवायेत्युरो विष्णोः कण्ठमुत्कण्ठिने नमः।
श्रीधराय मुखं केशान् केशवायेति नारद!।। ९९.८ ।।
पृष्ठं शार्ङ्गधरायेति श्रवणो वरदाय वै।
स्वनाम्ना शङ्खचक्रासिगदाजलजपाणये।
शिरः सर्वात्मने ब्रह्मन्! नम इत्यभिपूजयेत्।। ९९.९ ।।
मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः।
उदकुम्भसमायुक्तमग्रतः स्थापयेद् बुधः।। ९९.१० ।।
गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम्।
रात्रौ जागरणं कुर्य्यादितिहासकथादिना।। ९९.११ ।।
प्रभातायान्तु शर्वर्यां ब्राह्मणाय कुटुम्बिने।
सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत्।। ९९.१२ ।।
यथा न मुच्यसे देव! सदा सर्वविभूतिभिः।
तथा मामुद्धराशेष दुःखसंसारकर्दमात्।। ९९.१३ ।।
दशावताररूपाणि प्रतिमासं क्रमान्मुने!।
दत्तात्रेयं तथा व्यासमुत्पलेन समन्वितम्।।
दद्यादेवं समा यावत् पाषण्डानभिवर्जयेत्।। ९९.१४ ।।
समाप्यैवं यथाशक्त्या द्वादश द्वादशीः पुनः।
सम्वत्सरान्ते लवणपर्वतेन समन्विताम्।
शय्यां दद्यान्मुनिश्रेष्ठ! गुरवे धेनुसंयुताम्।। ९९.१५ ।।
ग्रामञ्च शक्तिमान् दद्यात् क्षेत्रं वा भवनान्वितम्।
गुरुं संपूज्य विधिवद्वस्त्रालङ्गारभूषणैः।। ९९.१६ ।।
अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान्।
तर्पयेद्वस्त्रगोदानै रत्नौघधनसञ्चयैः।।
अल्पवित्तो यथाशक्त्या स्तोकं स्तोकं समाचरेत्।। ९९.१७ ।।
यश्चाप्यतीवनिः स्वः स्याद् भक्तिमान् माधवं प्रति।
पुष्पार्चनविधानेन स कुर्याद्वत्सरद्वयम्।। ९९.१८ ।।
अनेन विधिना यस्तु विभूतिद्वादशव्रतम्।
कुर्यात् पापविनिर्मुक्तः पितॄणां तारयेच्छतम्।। ९९.१९ ।।
जन्मनां शतसाहस्रं न शोकफलभाग्भवेत्।
न च व्याधिर्भवेत्तस्य न दारिद्र्यबन्धनम्।
वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि।। ९९.२० ।।
यावद्युगसहस्राणां शतमष्टोत्तरं भवेत्।
तावत् स्वर्गे वसेद्ब्रह्मन्!भूपतिश्च पुनर्भवेत्।। ९९.२१ ।।