मत्स्यपुराणम्/अध्यायः २०५
धेनुदानविधिवर्णनम्।
मनुरुवाच।
प्रसूयमाना दातव्या धेनुर्ब्राह्मणपुङ्गवे।
विधिना केन धर्मज्ञ! दानं दद्याच्च किं फलम् ।। २०५.१ ।।
मत्स्य उवाच।
स्वर्णश्रृङ्गी रौप्यखुरां मुक्तालाड्गूलभूषिताम्।
कांस्योपदोहनां राजन् सवत्सां द्विजपुङ्गवे ।। २०५.२ ।।
प्रसूयमानां गां दत्वा महत्पुण्यफलं लभेत्।
यावद् वत्सो योनिगतो यावद् गर्भं न मुञ्चति ।। २०५.३ ।।
तावद्वै पृथिवी ज्ञेया सशैलवनकानना।
प्रसूयमानां यो दद्याद्धेनुं द्रविणसंयुताम् ।। २०५.४ ।।
ससमुद्रगुहा तेन सशैलवनकानना।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ।। २०५.५ ।।
यावन्ति धेनुरोमाणि वत्स्यस्य च नराधिप।
तावत्सङ्ख्यं युगगणं देवलोके महीयते ।। २०५.६ ।।
पितॄन् पितामहांश्चैव तथैव प्रपितामहान्।
उद्धरिष्यत्यसंदेहान्नरकाद् भूरिदक्षिणः ।। २०५.७ ।।
घृतक्षीरवहाः कुल्या दधिपायसकर्दमाः।
यत्र तत्र गतिस्तस्य द्रुमाश्चेप्सितकामदाः ।
गोलकः सुलभस्तस्य ब्रह्मलोकश्च पार्थिव ।। २०५.८ ।।
स्त्रियश्च तं चन्द्रसमानवक्त्राः प्रतप्तजाम्बूनदतुल्यरूपाः।
महानितम्बास्तनुवृत्तमध्या भजन्त्यजस्रं नलिनाभनेत्राः ।। २०५.८ ।।