मत्स्यपुराणम्/अध्यायः ७९
मन्दारसप्तमीव्रतकथनम्।
ईश्वर उवाच।
अथातः सम्प्रवक्ष्यामि सर्वपापप्रणाशिनीम्।
सर्वकामप्रदां रम्यां नाम्ना मन्दारसप्तमीम्।। ७९.१ ।।
माघस्यामलपक्षे तु पञ्चम्यां लघुभुङ् नरः।
दन्तकाष्ठं ततः कृत्वा षष्ठीमुपवसेद् बुधः।। ७९.२ ।।
विप्रान् संपूजयित्वा तु मन्दारं प्राशयेन्निशि।
ततः प्रभाते उत्थाय कृत्वा स्नानं पुनर्द्विजान्।। ७९.३ ।।
भोजयेच्छक्तितः कृत्वा मन्दारकुसुमाष्टकम्।
सौवर्णं पुरुषं तद्वत्पद्महस्तं सुशोभनम्।। ७९.४ ।।
पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रेषु पात्रकम्।
हैममन्दारकुसुमैर्भास्करायेति पूर्वतः।। ७९.५ ।।
नमस्कारेण तद्वच्च सूर्य्यायेत्यानले दले।
दक्षिणे तद्वदर्काय तथार्यम्णेति नैर्ऋते।। ७९.६ ।।
पश्चिमे वेदधाम्ने च वायव्ये चण्डभानवे।
पूष्णेत्युत्तरतः पूज्यमानन्दायेत्यतः परम्।। ७९.७ ।।
कर्णिकायाञ्च पुरुषं स्थाप्य सर्वात्मनेति च।
शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः।। ७९.८ ।।
एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः।
भुञ्जीतातैललवणं वाग्यतः प्राङ्मुखो गृही।। ७९.९ ।।
अनेन विधिना सर्वं सप्तम्यां मासि मासि च।
कुर्यात् सम्वत्सरं यावद्वित्तशाठ्यविवर्जितः।। ७९.१० ।।
एतदेव व्रतान्ते तु निधाय कलशोपरि।
गोभिर्विभवतः सार्द्धं दातव्यं भूतिमिच्छता।। ७९.११ ।।
नमो मन्दारनाथाय मन्दारभवनाय च।
त्वं रवे! तारयस्वास्मान् संसारभयसागरात्।। ७९.१२ ।।
अनेन विधिना यस्तु कुर्य्यान्मन्दारसप्तमीम्।
विपाप्मा स सुखीमर्त्यः कल्पञ्च दिविमोदते।। ७९.१३ ।।
इमामघौघपटल भीषणध्वान्तदीपिकाम्।
गच्छन् प्रगृह्य संसारे सर्वार्थांश्च लभेन्नरः।। ७९.१४ ।।
मन्दारसप्तमीमेतामीप्सितार्थफलप्रदाम्।
यः पठेच्छृगुयाद्वापि सर्वपापैः प्रमुच्यते।। ७९.१५ ।।