मत्स्यपुराणम्/अध्यायः १४९
तारकोपाख्याने देवदानवयुद्धवर्णनम्।
सूत उवाच।
सुरासुराणां सम्मर्दस्तस्मिन्नत्यन्तदारुणे।
तुमुलोऽतिमहानासीत् सेनयोरुभयोरपि ।। १४९.१
गर्जतां देवदैत्यानां शङ्खभेरीरवेण च।
तुर्याणाञ्चैव निर्घोषैर्मातङ्गानाञ्च बृंहितैः ।। १४९.२
ह्रेषतां हयवृन्दानां रथनेमिस्वनेन च।
ज्याघोषेण च शूराणान् तुमुलोऽतिमहानभूत् ।। १४९.३
समासाद्योभये सेने परस्पर जयैषिणाम्।
रोषेणातिपरीतानान् त्यक्त जीवित चेतसाम् ।। १४९.४
समासाद्य तु तेऽन्योन्यं प्रक्रमेण विलोमतः।
रथेनासक्त पादातो रथेन चतुरङ्गमः ।। १४९.५
हस्ती पादाति संयुक्तो रथिना च क्वचिद्रथी।
मातङ्गेनापरो हस्ती तुरङ्गैर्बहुभिर्गजः ।। १४९.६
पदातिरेको बहुभिर्गजैर्मत्तैश्च युज्यते।
ततः प्रासाशनि गदा भिन्दि पालपरश्वधैः ।। १४९.७
शक्तिभिः पट्टिशैः शूलैर्मुद्गरैः कड़पैर्गडैः।
चक्रैश्च शङ्कुभिश्चैव तोमरैरङ्कुशैः स्थितैः ।। १४९.८
कर्णिकालीकनारा च वत्सदन्तार्द्धचन्द्रकैः।
भल्लैश्च शतपत्रैश्च शुकतुण्डैश्च निर्म्मलैः ।। १४९.९
वृष्टिरत्यद्भुताकारा गगने समदृश्यत।
सम्प्रच्छाद्य दिशः सर्वास्तमोमयमिवाकरोत्।। १४९.१०
न प्राज्ञायत तेऽन्योऽन्यं तस्मिंस्तमसि सङ्कुले।
अलक्ष्यं विसृजन्तस्ते हेतिसङ्घातमुद्धतम्।। १४९.११
पतितं सेनयोर्मध्ये निरीक्षन्ते परस्परम्।
ततो ध्वजैर्भुजैश्छत्रैः शिरोभिश्च सकुण्डलैः। १४९.१२
गजैस्तुरङ्गैः पादातैः पतद्भिः पतितैरपि।
आकाशसरसोभ्रष्टैः पङ्कजैरिव भूस्तृता ।। १४९.१३
भग्नदन्ता भिन्नकुम्भा श्छिन्नदीर्घमहाकराः।
गजाः शैलनिभाः पेतुर्धरण्यां रुधिरस्रवाः १४९.१४
भग्नेषा दण्डचक्राक्षा रथाश्च शकलीकृता।
पेतुः शकलतां यातास्तुरङ्गाश्च सहस्रशः।। १४९.१५
ततोऽसृक् ह्रददुस्तारा पृथिवी समजायत।
नद्यश्च रुधिरावर्ता हर्षदाः पिशिताशिनाम् १४९.१६
वेताला क्रीड़मभवत् तत् सङ्कुलरणाजिरम् ।। १४९.१७