मत्स्यपुराणम्/अध्यायः ७५
विशोकसप्तमीव्रतकथनम्।
ईश्वर उवाच।
विशोकसप्तमीं तद्वद्वक्ष्यामि मुनिपुङ्गव!।
यामुपोष्य नरः शोकं न कदाचिदिहाश्नुते।। ७५.१ ।।
माघे कृष्णतिलैः स्नात्वा षष्ठ्यां वै शुक्लपक्षतः।
कृताहारः कृसरया दन्तधावनपूर्वकम्।।
उपवासव्रतं कृत्वा ब्रह्मचारी भवेन्निशि।। ७५.२ ।।
ततः प्रभाते उत्थाय कृतस्नानजपः शुचिः।
कृत्वा तु काञ्चनं पद्ममर्कायेति च पूजयेत्।। ७५.३ ।।
करवीरेण रक्तेन रक्तवस्त्रयुगेन च।
यथा विशोकं भुवनं त्वयैवादित्य! सर्वदा।।
तथा विशोकता मेऽस्तु त्वद्भक्तिः प्रतिजन्म च।। ७५.४ ।।
एवं संपूज्य षष्ठ्यान्तु भक्त्या संपूजयेद् द्विजान्।
सुप्त्वा संप्राश्य गोमूत्रमुत्थाय कृतनैत्यकः।। ७५.५ ।।
संपूज्य विप्रानन्नेन गुडपात्रसमन्वितम्।
तद्वस्त्रयुग्मं पद्मञ्च ब्राह्मणाय निवेदयेत्।। ७५.६ ।।
अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः।
ततः पुराणश्रवणं कर्तव्यं भूतिमिच्छता।। ७५.७ ।।
अनेन विधिना सर्वमुभयोरपि पक्षयोः।
कृत्वा यावत् पुनर्माघशुक्लपक्षस्य सप्तमी।। ७५.८ ।।
व्रतान्ते कलशन्दद्यात् सुवर्णकमलान्वितम्।
शय्यां सोपस्करान्दद्यात् कपिलाञ्च पयस्विनीम्।। ७५.९ ।।
अनेन विधिना यस्तु वित्तशाठ्यविवर्जितः।
विशोकसप्तमीं कुर्यात् स याति परमाङ्गतिम्।। ७५.१० ।।
यावज्जन्मसहस्राणां साग्रं कोटिशतं भवेत्।
तावन्नशोकमभ्येति रोगदौर्गत्यवर्जितः।। ७५.११ ।।
यं यं प्रार्थयते कामं तन्तमाप्नोति पुष्कलम्।
निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति।। ७५.१२ ।।
यः पठेच्छृणुयाद्वापि विशोकाख्याञ्च सप्तमीम्।
सोऽपीन्द्रलोकमाप्नोति न दुःखी जायते क्वचित्।। ७५.१३ ।।