मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







पुण्यस्त्रीणां सदाचारव्रतकथनम्।

ब्रह्मोवाच।
वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः।
सदाचारस्य भगवन्! धर्मशास्त्रविनिश्चयः।
पुण्यस्त्रीणां सदाचारं श्रोतुमिच्छामि तत्त्वतः।। ७०.१ ।।

ईश्वर उवाच।
तस्मिन्नेव युगे ब्रह्मन्! सहस्राणि तु षोडश ।
वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्भव।। ७०.२ ।।

ताभिर्वसन्तसमये कोकिलालिकुलाकुले।
पुष्पिते पवनोत्फुल्लकल्हारसरसस्तटे।। ७०.३ ।।

निर्भरापानगोष्ठीषु प्रसक्ताभिरलङ्कृतः।
कुरङ्गनयनः श्रीमान् मालतीकृतशेखरः।। ७०.४ ।।

गच्छन् समीपमार्गेण साम्बः परपुरञ्जयः।
साक्षात्कन्दर्परूपेण सर्वाभरणभूषितः।। ७०.५ ।।

अनङ्गशरतप्ताभिः साभिलाषमवेक्षितः।
प्रवृद्धो मन्मथस्तासां भविष्यति यदात्मनि।। ७०.६ ।।

तदावेक्ष्य जगन्नाथः सर्वतो ध्यानचक्षुषा।
शापं वक्ष्यति ताः सर्वा वो हरिष्यन्ति दस्यवः।
मत्परोक्षं यतः कामलौल्यादीद्रृग्विधं कृतम्।। ७०.७ ।।

ततः प्रसादितो देव इदं वक्ष्यति शार्ङ्गभृत्।
ताभिः शापाभितप्ताभिर्भगवान्‌ भूतभावनः।। ७०.८ ।।

उत्तारभूतन्दासत्वं समुद्राद्‌ ब्राह्मणः प्रियः।
उपदेक्ष्यत्यनन्तात्मा भाविकल्याणकारकम्।। ७०.९ ।।

भवतीनामृषिर्दाल्भ्यो यद्‌व्रतं कथयिष्यति।
तदेवोत्तारणायालं दासत्वेऽपि भविष्यति।
इत्युक्त्वा ताः परिष्वज्य गतो द्वारवतीश्वरः।। ७०.१० ।।

ततः कालेन महता भारावतरणे कृते।
निवृते मौसले तद्वत् केशवे दिवमागते।। ७०.११ ।।

शून्ये यदुकुले सर्वैश्चौरैरपि जितेऽर्जुने।
हृतासु कृष्णपत्नीषु दासभोग्यासु चाम्बुधौ।। ७०.१२ ।।

तिष्ठन्तीषु च दौर्गत्य सन्तप्तासु चतुर्मुख!।
आगमिष्यति योगात्मा दाल्भ्यो नाम महातपाः।। ७०.१३ ।।

तास्तमर्घ्येण संपूज्य प्रणिपत्य पुनः पुनः।
लालप्यमाना बहुशो बाष्पपर्याकुलेक्षणाः।। ७०.१४ ।।

स्मरन्त्यो विपुलान् भोगान् दिव्यमाल्यानुलेपनम्।
भर्तारञ्जगतामीशमनन्तमपराजितम्।। ७०.१५ ।।

दिव्यभावान्ताञ्च पुरीं नानारत्नगृहाणि च।
द्वारकावासिनः सर्वान्‌ देवरूपान् कुमारकान्।।
प्रश्नमेवं करिष्यन्ति मुनेरभिमुखं स्थिताः।। ७०.१६ ।।

स्त्रिय ऊचुः।
दस्युभिर्भगवन्! सर्वाः परिभुक्ता वयं बलात्।
स्वधर्माच्च्यवतेऽस्माकमस्मिन्वः शरणं भव।। ७०.१७ ।।

आदिष्टोऽसि पुरा ब्रह्मन्! केशवेन च धीमता।
कस्मादीशेन संयोगं प्राप्य वेश्यत्वमागताः।। ७०.१८ ।।

वेश्यानामपि यो धर्म्मस्तन्नो ब्रूहि तपोधन!।
कथयिष्यत्यतस्तासां स दाल्भ्यश्चैकितायनः।। ७०.१९ ।।

दाल्भ्य उवाच।
जलक्रीड़ाविहारेषु पुरा सरसि मानसे।
भवतीनाञ्च सर्वासां नारदोऽभ्यासमागतः।। ७०.२० ।।

हुताशनसुताः सर्वा भवन्त्योऽप्सरसः पुरा।
अप्रणम्यावलेपेन परिपृष्टः स योगवित्।
कथं नारायणोऽस्माकं भर्ता स्यादित्युपादिश।। ७०.२१ ।।

तस्माद्वरप्रदानं वः शापश्चायमभूत् पुरा।
शय्याद्वयप्रदानेन मधुमाधवमासयोः।। ७०.२२ ।।

सुवर्णोपस्करोत्‌ सर्गा द्वादश्यां शुक्लपक्षतः।
भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि।। ७०.२३ ।।

यदकृत्वा प्रणामं मे रूपसौभाग्यमत्सरात्।
परिपृष्टोऽस्मि तेनाशु वियोगो वा भविष्यति।।
चोरैरपहृताः सर्वा वेश्या त्वं समवाप्स्यथ।। ७०.२४ ।।

एवं नारदशापेन केशवस्य च धीमतः।
वेश्यात्वमागताः सर्वा भवन्त्यः काममोहिताः।
इदानीमपि यद्वक्ष्ये तच्छृणुध्वं वराङ्गनाः!।। ७०.२५ ।।

पुरा देवासुरे युद्धे हतेषु शतशः सुरैः।
दानवासुरदैत्येषु राक्षसेषु ततस्ततः।। ७०.२६ ।।
तेषां व्रातसहस्राणि शतान्यपि च योषिताम्।

परिणीतानि यानि स्युर्बलाद् भुक्तानि यानि वै।।
तानि सर्वाणि देवेशः प्रोवाच वदताम्वरः।। ७०.२७ ।।

वेश्याधर्मेण वर्तध्वमधुना नृपमन्दिरे।
भक्तिमत्यो वरारोहास्तथा देवकलेषु च।। ७०.२८ ।।

राजानः स्वामिनस्तुल्या सुतावापि च तत् समाः।
भविष्यति च सौभाग्यं सर्वासामपि शक्तितः।। ७०.२९ ।।

यः कश्चिच्छुल्कमादाय गृहमेष्यति वः सदा।
निधनेनोपचार्यो वः स तदान्यत्र दाम्भिकात्।। ७०.३० ।।

देवतानां पितॄणांच पुण्याहे समुपस्थिते।
गोभूहिरण्यधान्यानि प्रदेयानि स्वशक्तितः।
ब्राह्मणानां वरारोहाः कार्याणि वचनानि च।। ७०.३१ ।।

यच्चाप्यन्यद् व्रतं सम्यगुपदेक्ष्याम्यहं ततः।
अविचारेण सर्वाभिरनुष्ठेयं च तत् पुनः।। ७०.३२ ।।

संसारोत्तारणायालमेतद्वेदविदो विदुः।
यदा सूर्यदिने हस्तः पुष्यो वाथ पुनर्वसुः।। ७०.३३ ।।

भवेत्‌ सर्वौषधी स्नानं सम्यङ्‌नारी समाचरेत्।
तदा पञ्चशरस्यापि सन्निधातृत्वमेष्यति
अर्चयेत् पुण्डरीकाक्षमनङ्गस्यानुकीर्तनैः।। ७०.३४ ।।

कामाय पादौ संपूज्य जङ्घे वै मोहकारिणे।
मेढ्रं कन्दर्पनिधये कटिं प्रीतिमते नमः।। ७०.३५ ।।

नाभिं सौख्यसमुद्राय रामाय च तथोदरम्।
हृदयं हृदयेशाय स्तनावाह्लादकारिणे।। ७०.३६ ।।

उत्कण्ठायेति वैकण्ठमास्यमानन्दकारिणे।
वामाङ्गं पुष्पचापाय पुष्पबाणाय दक्षिणम्।। ७०.३७ ।।

मानसायेति वै मौलिं विलोलायेति मूर्द्धजम्।
सर्वात्मने च सर्वाङ्गं देवदेवस्य पूजयेत्।। ७०.३८ ।।

नमः शिवाय शान्ताय पाशाङ्कुशधराय च।
गदिने पीतवस्त्राय शङ्खचक्रधराय च।। ७०.३९ ।।

नमो नारायणायेति कामदेवात्मने नमः।
सर्वशान्त्यै नमः प्रीत्यै नमो रत्यै नमः श्रियै।। ७०.४० ।।

नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थसम्पदे।
एवं सम्पूज्य देवेशमनङ्गात्मकमीश्वरम्।।
गंधैर्माल्यैस्तथा धूपैर्नैवेद्येन च कामिनी।। ७०.४१ ।।

तत आहूय धर्म्मज्ञं ब्राह्मणं वेदपारगम्।
अव्यङ्गावयवं पूज्य गन्दपुष्पार्चनादिभिः।। ७०.४२ ।।

शालेयतण्डुलप्रस्तं घृतपात्रेण संयुतम्।
तस्मै विप्राय सा दद्यात् माधवः प्रीयतामिति।। ७०.४३ ।।

यथेष्टाहारयुक्तं वै तमेव द्विजसत्तमम्।
रत्यर्थं कामदेवोऽयमिति चित्तेऽवधार्य तम्।। ७०.४४ ।।

यद्यदिच्छति विप्रेन्द्रस्तत्तत् कुर्याद्विलासिनी।
सर्वभावेन चात्मानमर्पयेत् स्मितभाषिणी।। ७०.४५ ।।

एवमादित्यवारेण सर्वमेतत् समाचरेत्।
तण्डुलप्रस्थदानञ्च यावन्मासास्त्रयोदश।। ७०.४६ ।।

ततस्त्रयोदशे मासि संप्राप्ते तस्य भामिनी।
विप्रस्योपस्करैर्युक्तां शय्यां दद्याद्विलक्षणाम्।। ७०.४७ ।।

सोपधानकविश्रामां सास्तरावरणां शुभाम्।
प्रदीपोपानहच्छत्र पादुकासनसंयुताम्।। ७०.४८ ।।

सपत्नीकमलङ्कृत्य हेमसूत्राङ्गलीयकैः।
सूक्ष्मवस्त्रैः सकटकैर्धूपमाल्यानुलैपनैः।। ७०.४९ ।।

कामदेवं सपत्नीकं गुड़कुम्भोपरि स्थितम्।
ताम्रपात्रासनगतं हैमनेत्रपटावृतम्।। ७०.५० ।।

स कांस्यभाजनोपेतमिक्षुदण्डसमन्वितम्।
दद्यादेतेन मन्त्रेण तथैकां गां पयस्विनीम्।। ७०.५१ ।।

यथान्तरं न पश्यामि कामकेशवयोः सदा।
तथैव सर्वकामाप्तिरस्तु विष्णो! सदा मम।। ७०.५२ ।।

यथा न कमला देहात् प्रयाति तव केशव!
तथा ममापि देवेश! शरीरे स्वे कुरु प्रभो!।। ७०.५३ ।।

तथा च काञ्चनं देवं प्रतिगृह्णन् द्विजोत्तमः।
क इदं कस्मादादिति वैदिकं मन्त्रमीरयेत्।। ७०.५४ ।।

ततः प्रदक्षिणीकृत्य विसर्ज्य द्विजपुङ्गवम्।
शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेत्।। ७०.५५ ।।

ततः प्रभृति यो विप्रो रत्यर्थं गृहमागतः।
स मान्यः सूर्यवारे च स मन्तव्यो भवेत् तदा।। ७०.५६ ।।

एवं त्रयोदशं यावन्मासमेवं द्विजोत्तमान्।
तर्पयेत यथाकामं प्रोषितेऽन्यं समाचरेत्।। ७०.५७ ।।

तदनुज्ञया रूपवान्यो यावदभ्यागतो भवेत्।
आत्मनोऽपि यथाविघ्नं गर्भभूतिकरम्प्रियम्।। ७०.५८ ।।

दैवं वा मानुषं वा स्यादनुरागेण वा ततः।
साचारानष्टपञ्चाशद्यथाशक्त्या समाचरेत्।। ७०.५९ ।।

एतद्धि कथितं सम्यक् भवतीनां विशेषतः।
अधर्मोऽयं ततो न स्याद्वेश्यानामिह सर्वदा।। ७०.६० ।।

पुरुहूतेन यत् प्रोक्तं दानवीषु पुरा मया।
तदिदं साम्प्रतं सर्वं भवतीष्वपि युज्यते।। ७०.६१ ।।

सर्वपापप्रशमनमनन्तफलदायकम्।
कल्याणीनां प्रकथितं तत् कुरुध्वं वराननाः।। ७०.६२ ।।

करोति या शेषमखण्डमेतत् कल्याणिनीमाधवलोकसंस्था।
सा पूजिता देवगणैरशेषैरानन्दकृत्स्थानमुपैति विष्णोः।। ७०.६३ ।।

श्रीभगवानुवाच।
तपोधनः सोऽप्यभिधाय चैवं तदा च तासां व्रतमङ्गनानाम्।
स्वस्थानमेष्यन्ति समस्तमित्थं व्रतं करिष्यन्ति च देवयोने!।। ७०.६४ ।।