मत्स्यपुराणम्/अध्यायः २४२
मनुमत्स्यसंवादे स्वप्नदर्शनवर्णनम्।
मनुरुवाच।
स्वप्नाख्यानं कथं देव! गमने प्रत्युपस्थिते।
दृश्यन्ते विविधाकाराः कथन् तेषां फलं भवेत् ।। २४२.१ ।।
मत्स्य उवाच।
इदीनीं कथयिष्यामि निमित्तं स्वप्नदर्शने।
नाभिं विनान्यगात्रेषु तृणवृक्षसमुद्भवः ।। २४२.२ ।।
चूर्णनं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा।
मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ।। २४२.३ ।।
उच्चात् प्रपतनञ्चैव दोलारोहणमेव च ।
अर्जनं पक्कलोहानां हयानामपि मारणम् ।। २४२.४ ।।
रक्तपुष्पद्रुमाणाञ्च मण्डलस्य तथैव च।
वराहर्क्षखरोष्ट्राणां तथा चारोहणक्रिया ।। २४२.५ ।।
भक्षणं पक्वमांसानां तैरस्य कृसरस्य च।
नर्तनं हसनञ्चैव विवाहो गीतमेव च।। २४२.६ ।।
तन्त्रीवाद्य विहीनानां वाद्यानामभिवादनम्।
स्रोतोऽवगाहगमनं स्नानं गोमयवारिणा ।। २४२.७ ।।
पङ्कोदकेन च तथा मही तोयेन चाप्यथ।
मातुः प्रवेशो जठरे चितारोहणमेव च ।। २४२.८ ।।
शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः।
दिव्यान्तरिक्षभौमानामुत्पातानाञ्च दर्शनम् ।। २४२.९ ।।
देवद्विजातिभूपाल गुरूणां क्रोध एव च।
आलिङ्गनं कुमारीणां पुरुषाणाञ्च मैथुनम् ।। २४२.१० ।।
हानिश्चैव स्वगात्राणां विरेकवमनक्रिया।
दक्षिणाशाभिगमनं व्याधिनाभिभवस्तथा ।। २४२.११ ।।
फलापहानिश्च तथा पुष्पहानिस्तथैव च।
गृहाणाञ्चैव पातश्च गृहसम्मार्जनन्तथा ।। २४२.१२ ।।
क्रीड़ा पिशाचक्रव्याद वानरर्क्षनरैरपि।
परादभिभवश्चैव तस्माच्च व्यसनोद्भवः ।। २४२.१३ ।।
काषायवस्त्रधारित्वं तद्वत् स्त्री क्रीड़नन्तथा।
स्नेहपानावगाहौ च रक्तमाल्यानुलेपनम् ।। २४२.१४ ।।
एवमादीनि चान्यानि दुःस्वप्नानि विनिर्दिशेत्।
एतां सङ्कथनं धन्यं भूयः प्रस्वापनन्तथा ।। २४२.१५ ।।
कल्कस्नानन्तिलैः होमो ब्राह्मणानाञ्च पूजनम्।
स्तुतिश्च वासुदेवस्य तथा तस्यैव पूजनम् ।। २४२.१६ ।।
नागेन्द्रमोक्षश्रवणं ज्ञेयं दुःस्वप्नाशनम्।
स्वप्नस्तु प्रथमे यामे सम्वत्सरविपाकिनः ।। २४२.१७ ।।
षड्भिर्मासैः द्वितीये तु त्रिभिर्मासैस्तृतीयके।
चतुर्थं मासमात्रेण पश्यतो नात्र संशयः ।। २४२.१८ ।।
अरुणोदयवेलायां दशाहेन फलम्भवेत्।
एकस्यां यदि वा रात्रौ शुभं वा यदि वाशुभम् ।। २४२.१९ ।।
पश्चाद् वटस्तु यस्तत्र तस्य पाकं विनिर्दिशेत्।
तस्माच्छोभनके स्वप्ने पश्चात् स्वप्नो न पश्यति ।। २४२.२० ।।
शैलप्रासादनागाश्व वृषभारोहणं हितम्।
द्रुमाणां श्वेतपुष्पाणां गमने च तथा द्विज! ।। २४२.२१ ।।
द्रुमतृणोद्भवो नाभौ तथैव बहुबाहुता।
तथैव बहुशीर्षत्वं फलितोद्भव एव च ।। २४२.२२ ।।
सुशुक्लमाल्यधारित्वं सुशुक्लाम्बरधारिता।
चन्द्रार्कताराग्रहणं परिमार्जनमेव च ।। २४२.२३ ।।
शक्रध्वजालिङ्गनञ्च तदुच्छ्रायक्रिया तथा।
भूम्यम्बुधानां ग्रसनं शत्रूणाञ्च वधक्रिया ।। २४२.२४ ।।
जयो विवादे द्यूते च संग्रामे च तथा द्विज!।
भक्षणञ्चार्द्रमांसानां मत्स्यानां पायसस्य च ।। २४२.२५ ।।
दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च।
सुरारुधिरमद्यानां पानं क्षीरस्य चाथवा ।। २४२.२६ ।।
अन्त्रेर्वा वेष्टनं भूमौ निर्मलं गगनं तथा।
मुखेन दोहनं शस्तं महिषीणां तथा गवाम् ।। २४२.२७ ।।
सिंहीनां हस्तिनीनाञ्च वडवानां तथैव च।
प्रसादो देवविप्रेभ्यो गुरुभ्यश्च तथा शुभः ।। २४२.२८ ।।
अम्भसा त्वभिषेकस्तु गवां श्रृङ्गश्रितेन वा।
चन्द्राद् भ्रष्टेन वा राजन्! ज्ञेयो राज्यप्रदो हि सः ।। २४२.२९ ।।
राज्याभिषेकश्च तथा छेदनं शिरसस्तथा।
मरणं वह्निदाहश्च वह्निदाहो गृहादिषु ।। २४२.३० ।।
लब्धिश्च राज्यलिङ्गानां तन्त्रीवाद्याभिवादनम्।
तथोदकानां तरणं तथा विषमलङ्घनम् ।। २४२.३१ ।।
हस्तिनीवडवानाञ्च गवाञ्च प्रसवो गृहे।
आरोहणमथाश्वानां रोदनञ्च तथा शुभम्।। २४२.३२ ।।
वरस्त्रीणां तथालाभः तथालिङ्गनमेव च।
निगडैर्बन्धनं धन्यं तथा विष्ठानुलेपनम् ।। २४२.३३ ।।
जीवितां भूमिपालानां सुहृदामपि दर्शनम्।
दर्शं देवतानाञ्च विमलानां तथाम्भसाम् ।। २४२.३४ ।।
शुभान्यथैतानि नरस्तु दृष्ट्वा प्राप्नोत्ययत्नाद् ध्रुवमर्थलाभम्।
स्वप्नानि वै धर्मभृतां वरिष्ठ! व्याधेर्विमोक्षञ्च तथाऽऽतुरोऽपि ।। २४२.३५ ।।