मत्स्यपुराणम्/अध्यायः ९६
फलत्यागमाहात्म्यकथनम्।
नन्दिकेश्वर उवाच।
फलत्यागस्य माहात्म्यं यद्भवेच्छृणु नारद!।
यदक्षयं परं लोके सर्वकामफलप्रदम्।। ९६.१ ।।
मार्गशीर्षे शुभे मासि तृतीयायां मुने! व्रतम् ।
द्वादश्यामथवाष्टम्यां चतुर्दश्यामथापि वा
आरभेच्छुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम्।। ९६.२ ।।
अन्येष्वपि हि मासेषु पुण्येषु मुनिसत्तम!।
सदक्षिणम्पायसेन भोजयेच्छक्तितो द्विजान्।। ९६.३ ।।
अष्टादशानां धान्यानामवद्यं फलमूलकैः।
वर्जयेदब्दमेकन्तु ऋते औषधकारणम्।
सवृषं काञ्चनं रुद्रं धर्म्मराजञ्च कारयेत्।। ९६.४ ।।
कूष्माण्डं मातुलिङ्गञ्च वार्ताकम्पनसं तथा।
आम्राम्रातकपित्थानि कलिङ्गमथवालुकम्।। ९६.५ ।।
श्रीफलाश्वत्थबदरञ्जम्वीरं कदलीफलम्।
काश्मरन्दाड़िमं शक्त्या कालधौतानि षोडश!।। ९६.६ ।।
मूलकामलकं जम्बू तिन्तिड़ीकरमर्दकम्।
कङ्कोलैलाकतुण्डीरकरीर कुटजं शमी।। ९६.७ ।।
औदुम्बरं नालिकेरं द्राक्षाथ बृहतीद्वयम्।
रौप्यानिकारयेच्छक्त्या फलानीमानि षोड़श।। ९६.८ ।।
ताम्रं तालफलं कुर्य्यादगस्तिफलमेव च।
पिण्डारकाश्मर्य्यफलं तथा सूरणकन्दकम्।। ९६.९ ।।
रक्तालुकाकन्दकञ्च कनकाह्वञ्च चिर्भिटम्।
चित्रवल्लीफलं तद्वत्कूटशाल्मलिजम्फलम्।। ९६.१० ।।
आम्रनिष्पावमधुकबटमुद्गपटोलकम्।
ताम्राणि षोड़शैतानि कारयेच्छक्तितो नरः।। ९६.११ ।।
उदकुम्भद्वयं कुर्य्याद्धान्योपरि सवस्त्रकम्।
ततश्च कारयेच्छय्या यथोपरि सुवाससी।। ९६.१२ ।।
भक्ष्यपात्रत्रयोपेतं यमरुद्रवृषान्वितम्।
धेन्वा सहैव शान्ताय विप्रायाथ कुटुम्बिने।।
सपत्नीकाय संपूज्य पुण्येऽह्नि विनिवेदयेत्।। ९६.१३ ।।
यथा फलेषु सर्वेषु वसन्त्यमरकोटयः।
तथा सर्वफलत्याग व्रताद्भक्तिः शिवेऽस्तु मे।। ९६.१४ ।।
यथा शिवञ्च धर्म्मश्च सदानन्तफलप्रदौ।
तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ।। ९६.१५ ।।
यथा भेदं न पश्यामि शिवविष्ण्वर्कपद्मजान्।
तथा ममास्तु विश्वात्मशङ्करः शङ्करः सदा।। ९६.१६ ।।
इति दत्त्वा च तत्सर्वमलंकृत्य च भूषणैः।
शक्तिश्चेच्छयनं दद्यात्सर्वोपस्करसंयुतम्।। ९६.१७ ।।
अशक्तस्तु फलान्येव यथोक्तानि विधानतः।
तथोदकुम्भसंयुक्तौ शिवधर्मौ च काञ्चनौ।। ९६.१८ ।।
विप्राय दत्त्वा भुञ्चीत वाग्यतस्तैलवर्जितम्।
अन्यान्यपि यथा शक्त्या भोजयेच्छक्तितो द्विजान्।। ९६.१९ ।।
एतद्भागवतानान्तु सौरवैष्णवयोगिनाम्।
शुभं सर्वफलत्यागव्रतं वेदविदो विदुः।। ९६.२० ।।
नारीभिश्च यथाशक्त्या कर्त्तव्यं द्विजपुङ्गव!।
एतस्मान्नापरं किञ्चिदिहलोके परत्र च।।
व्रतमस्ति मुनिश्रेष्ठ! यदनन्तफलप्रदम्।। ९६.२१ ।।
सौवर्णरौप्यताम्रेषु यावन्तः परमाणवः।
भवन्ति चूर्ण्यमानेषु फलेषु मुनिसत्तम!।।
तावद्युगसहस्राणि रुद्रलोके महीयते।। ९६.२२ ।।
एतत्समस्त कलुषापहरं जनानामाजीवनाय मनुजेषु च सर्वदा स्यात्।
जन्मान्तरेष्वपि न पुत्रवियोगदुःखमाप्नोति धाम च पुरन्दरलोकजुष्टम्।। ९६.२४ ।।
यो वा श्रृणोति पुरुषोऽल्पधनः पठेद्वा देवालयेषु भुवनेषु च धार्मिकाणाम्।
पापैर्वियुक्तवपुरत्र पुरं पुरारेरानन्दकृत्पदमुपैति मुनीन्द्र!सोऽपि।। ९६.२५ ।।